०१
विश्वास-प्रस्तुतिः
तं व्वा᳘ ऽएत᳘मग्निᳫँ᳭ स᳘मैन्धिषत॥
स᳘मिद्धे देवे᳘भ्यो जुहवामे᳘ति त᳘स्मिन्नेते᳘ ऽएव᳘ प्रथमे ऽआ᳘हुती जुहोती म᳘नसे चैव᳘ व्वाचे᳘ च म᳘नश्च ह वै व्वा᳘क्च यु᳘जौ देवे᳘भ्यो यज्ञं᳘ व्वहतः॥
मूलम् - श्रीधरादि
तं व्वा᳘ ऽएत᳘मग्निᳫँ᳭ स᳘मैन्धिषत॥
स᳘मिद्धे देवे᳘भ्यो जुहवामे᳘ति त᳘स्मिन्नेते᳘ ऽएव᳘ प्रथमे ऽआ᳘हुती जुहोती म᳘नसे चैव᳘ व्वाचे᳘ च म᳘नश्च ह वै व्वा᳘क्च यु᳘जौ देवे᳘भ्यो यज्ञं᳘ व्वहतः॥
मूलम् - Weber
तं वा᳘ एत᳘मग्निᳫं स᳘मैन्धिषत॥
स᳘मिद्धे देवे᳘भ्यो जुहवामे᳘ति त᳘स्मिन्नेते᳘ एव᳘ प्रथमे आ᳘हुती जुहोती म᳘नसे चैव᳘ वाचे᳘ च म᳘नश्च हैव वा᳘क्च यु᳘जौ देवे᳘भ्यो यज्ञं᳘ वहतः॥
मूलम् - विस्वरम्
आघारयोर्निदानम् ।
तं वा एतमग्निं समैन्धिषत- “समिद्धे देवेभ्यो जुहवाम” -इति । तस्मिन्नेते एव प्रथमे आहुती जुहोति- मनसे चैव वाचे च । मनश्च ह वै वाक् च युजौ देवेभ्यो यज्ञं वहतः ॥ १ ॥
सायणः
अथाघाराख्यौ होमौ विधातुं सिद्धमर्थमनुवदति- तं वा एतमिति । ‘तमेतम्’ प्रकृतमाहवनीयम् ‘अग्निम्’ ‘समैन्धिषत’ सम्यग् दीप्तमकुर्वन् । केनाभिप्रायेणेति तमाह- समिद्ध इति । ‘तस्मिन्’ संदीप्ते ऽग्नौ ‘एते एव’ मुख्ये आघाररूपे ‘आहुती’ वाङमनसयोरर्थे ‘जुहोति’ । कुतः ? ‘मनश्च वाक् च’ इत्युभौ ‘युजौ’ मिथुनीभूतौ सन्तौ ‘देवेभ्यः’ यज्ञसंबन्धि हविः प्रापयत इति ॥ १ ॥
Eggeling
- That same fire, then, they have kindled, (thinking), ‘In it, when kindled, we will sacrifice to the gods.’ In it, indeed, he makes these two first oblations 1 to Mind and Speech (or, Voice); for mind and speech, when yoked together, convey the sacrifice to the gods.
०२
विश्वास-प्रस्तुतिः
स य᳘दुपांᳫँ᳭शु᳘ क्रिय᳘ते॥
तन्म᳘नो देवे᳘भ्यो यज्ञं᳘ व्वहत्यथ य᳘द्वाचा नि᳘रुक्तं क्रिय᳘ते। तद्वा᳘ग्देवे᳘भ्यो यज्ञं᳘ वहत्येतद्वा᳘ ऽइदं᳘ द्वयं᳘ क्रियते त᳘देते᳘ ऽए᳘वैतत्स᳘न्तर्प्पयति तृप्ते᳘ प्रीते᳘ देवे᳘भ्यो यज्ञं᳘ व्वहात ऽइ᳘ति॥
मूलम् - श्रीधरादि
स य᳘दुपांᳫँ᳭शु᳘ क्रिय᳘ते॥
तन्म᳘नो देवे᳘भ्यो यज्ञं᳘ व्वहत्यथ य᳘द्वाचा नि᳘रुक्तं क्रिय᳘ते। तद्वा᳘ग्देवे᳘भ्यो यज्ञं᳘ वहत्येतद्वा᳘ ऽइदं᳘ द्वयं᳘ क्रियते त᳘देते᳘ ऽए᳘वैतत्स᳘न्तर्प्पयति तृप्ते᳘ प्रीते᳘ देवे᳘भ्यो यज्ञं᳘ व्वहात ऽइ᳘ति॥
मूलम् - Weber
स य᳘दुपांशु᳘ क्रिय᳘ते॥
तन्म᳘नो देवे᳘भ्यो यज्ञं᳘ वहत्यथ य᳘द्वाचा नि᳘रुक्तं क्रिय᳘ते तद्वा᳘ग्देवे᳘भ्यो यज्ञं᳘ वहत्येतद्वा᳘ इदं᳘ द्वयं᳘ क्रियते त᳘देते᳘ एॗवैतत्सं᳘तर्पयति तृप्ते᳘ प्रीते᳘ देवे᳘भ्यो यज्ञं᳘ वहात इ᳘ति॥
मूलम् - विस्वरम्
स यदुपांशु क्रियते- तन्मनो देवेभ्यो यज्ञं वहति । अथ यद्वाचा निरुक्तं क्रियते- तद् वाग् देवेभ्यो यज्ञं वहति । एतद्वा इदं द्वयं क्रियते; तदेते एवैतत् सन्तर्पयति । तृप्ते प्रीते देवेभ्यो यज्ञं वहात इति ॥ २ ॥
सायणः
तयोः क्रमेण हविःप्रापणमुच्यते- स यदिति । ‘यत्’ एतद् इदम् ‘उपांशु’ निरुक्तरूपमाहुतिद्वयं ‘क्रियते’ एतदेव ‘तत्’ आहुतियुग्मम् ‘एते’ मनोवाचौ सन्तर्पयति । शेषं सुगमम् ॥ २॥
Eggeling
- Now, what is performed (with formulas, pronounced) in a low voice, by that the mind conveys the sacrifice to the gods; and what is performed (with formulas) distinctly uttered by speech, by that the speech conveys the sacrifice to the gods. And thus takes place here a twofold performance, whereby
he gratifies these two, thinking, ‘gratified and pleased, these two shall convey the sacrifice to the gods.’
०३
विश्वास-प्रस्तुतिः
स्रुवे᳘ण तमा᳘घारयति॥
यं म᳘नस ऽआघार᳘यति व्वृ᳘षा हि म᳘नो व्वृ᳘षा हि᳘ स्रुवः᳘॥
मूलम् - श्रीधरादि
स्रुवे᳘ण तमा᳘घारयति॥
यं म᳘नस ऽआघार᳘यति व्वृ᳘षा हि म᳘नो व्वृ᳘षा हि᳘ स्रुवः᳘॥
मूलम् - Weber
स्रुवे᳘ण तमा᳘घारयति॥
यं म᳘नस आघार᳘यति वृ᳘षा हि म᳘नो वृ᳘षा हि स्रुवः᳟॥
मूलम् - विस्वरम्
स्रुवेण तमाघारयति- यं मनस आघारयति । वृषा हि मनः, वृषा हि स्रुवः ॥ ३ ॥
सायणः
स्रुवसुग्भ्यां क्रमेणाघारौ कर्त्तव्याविति विधत्ते- स्रुवेणेति । मनसो हि कामोत्पत्तिद्वारा वृषत्वम्, इति तयोः साम्यम् । अतो मनःसंबन्धिन आघारस्य स्रुवसाध्यत्वम्; वाक्स्रुचोः स्त्रीत्वं समानम् । अतो वाक्संबन्धिन आघारस्य स्रुक्साध्यत्वं युक्तमित्यर्थः ॥ ३ ॥ ४ ॥
Eggeling
- With the dipping-spoon (sruva, m.) he makes that libation (of clarified butter) which he makes for the mind; for the mind (manas, n.!) is male, and male is the sruva.
०४
विश्वास-प्रस्तुतिः
स्रुचा तमा᳘घारयति॥
यं᳘ व्वाच᳘ ऽआघार᳘यति यो᳘षा हि व्वाग्यो᳘षा हि स्रु᳘क्॥
मूलम् - श्रीधरादि
स्रुचा तमा᳘घारयति॥
यं᳘ व्वाच᳘ ऽआघार᳘यति यो᳘षा हि व्वाग्यो᳘षा हि स्रु᳘क्॥
मूलम् - Weber
स्रुचा तमा᳘घारयति॥
यं᳘ वाच आघार᳘यति यो᳘षा हि वाग्यो᳘षा हि स्रु᳘क्॥
मूलम् - विस्वरम्
स्रुचा तमाघारयति- यं वाच आघारयति । योषा हि वाक्, योषा हि स्रुक् ॥ ४ ॥
सायणः
[व्याख्यानम् तृतीये]
Eggeling
- With the offering-spoon (sruc, f.) he makes that libation which he makes for speech (vāc, f.); for speech is female, and female is the sruc.
०५
विश्वास-प्रस्तुतिः
(क्तू) तूष्णीं तमा᳘घारयति॥
यं म᳘नस ऽआघार᳘यति न स्वाहे᳘ति चना᳘निरुक्तᳫँ᳭ हि मनो᳘ ऽनिरु᳘क्तᳫँ᳭ ह्येतद्य᳘त्तूष्णीम्॥
मूलम् - श्रीधरादि
(क्तू) तूष्णीं तमा᳘घारयति॥
यं म᳘नस ऽआघार᳘यति न स्वाहे᳘ति चना᳘निरुक्तᳫँ᳭ हि मनो᳘ ऽनिरु᳘क्तᳫँ᳭ ह्येतद्य᳘त्तूष्णीम्॥
मूलम् - Weber
तूष्णीं तमा᳘घारयति॥
यं म᳘नस आघार᳘यति न स्वाहे᳘ति चना᳘निरुक्तᳫं हि मनो᳘ ऽनिरुॗक्तᳫं ह्येतद्य᳘त्तूष्णीम्॥
मूलम् - विस्वरम्
तूष्णीं तमाघारयति- यं मनस आघारयति, न स्वाहेति चन । अनिरुक्तं हि मनः, अनिरुक्तं ह्येतद्- यत्तूष्णीम् ॥ ५॥
सायणः
अथैतयोराघारयोः क्रमेणामन्त्रकत्व-समन्त्रकत्व-लक्षणौ गुणौ विधत्ते- तूष्णीमित्यादिना । स्वाहेति चनेति । ‘चन’-शब्दो ऽप्यर्थे; स्वाहेत्यपि शब्द न ब्रूयादित्यर्थः । मनोदेवतस्याघारस्य तूष्णीकत्वं युक्तमिति प्रतिपादयति- अनिरुक्तं हीति । निगदसिद्धमन्यत् ॥ ५ ॥ ६ ॥
Eggeling
- Silently (without a formula) and even without ‘svāhā (hail)!’ he makes that libation which he makes for the mind; for undefined (or indistinct) is the mind, and undefined is what takes place silently.
०६
विश्वास-प्रस्तुतिः
म᳘न्त्रेण तमा᳘घारयति॥
यं᳘ व्वाच᳘ ऽआघार᳘यति नि᳘रुक्ता हि व्वाङ्निरुक्तो हि म᳘न्त्रः॥
मूलम् - श्रीधरादि
म᳘न्त्रेण तमा᳘घारयति॥
यं᳘ व्वाच᳘ ऽआघार᳘यति नि᳘रुक्ता हि व्वाङ्निरुक्तो हि म᳘न्त्रः॥
मूलम् - Weber
म᳘न्त्रेण तमा᳘घारयति॥
यं᳘ वाच᳘ आघार᳘यति नि᳘रुक्ता हि वाङ्नि᳘रुक्तो हि म᳘न्त्रः॥
मूलम् - विस्वरम्
मन्त्रेण तमाघारयति- यं वाच आघारयति । निरुक्ता हि वाक्, निरुक्तो हि मन्त्रः ॥ ६ ॥
सायणः
[व्याख्यानम् पञ्चमे]
Eggeling
- With a mantra he makes that libation which he makes for speech; for distinct is speech, and distinct is the formula.
०७
विश्वास-प्रस्तुतिः
(ऽ) आ᳘सीनस्तमा᳘घारयति॥
यं म᳘नस ऽआघार᳘यति ति᳘ष्ठस्तं यं᳘ व्वाचे म᳘नश्च ह वै व्वा᳘क्च यु᳘जौ देवे᳘भ्यो यज्ञं᳘ व्वहतो यतरो वै᳘ युजोर्ह्र᳘सीयान्भ᳘वत्युपवहं वै त᳘स्मै कुर्व्वन्ति व्वाग्वै म᳘नसो ह्र᳘सीयस्य᳘परिमिततरमिव हि म᳘नः प᳘रिमित᳘तरेव हि व्वाक्त᳘द्वाच᳘ ऽए᳘वैत᳘दुपवहं᳘ करोति ते᳘ सयु᳘जौ देवे᳘भ्यो यज्ञं᳘ व्वहतस्त᳘स्मात्तिष्ठन्वाच ऽआ᳘घारयति॥
मूलम् - श्रीधरादि
(ऽ) आ᳘सीनस्तमा᳘घारयति॥
यं म᳘नस ऽआघार᳘यति ति᳘ष्ठस्तं यं᳘ व्वाचे म᳘नश्च ह वै व्वा᳘क्च यु᳘जौ देवे᳘भ्यो यज्ञं᳘ व्वहतो यतरो वै᳘ युजोर्ह्र᳘सीयान्भ᳘वत्युपवहं वै त᳘स्मै कुर्व्वन्ति व्वाग्वै म᳘नसो ह्र᳘सीयस्य᳘परिमिततरमिव हि म᳘नः प᳘रिमित᳘तरेव हि व्वाक्त᳘द्वाच᳘ ऽए᳘वैत᳘दुपवहं᳘ करोति ते᳘ सयु᳘जौ देवे᳘भ्यो यज्ञं᳘ व्वहतस्त᳘स्मात्तिष्ठन्वाच ऽआ᳘घारयति॥
मूलम् - Weber
आ᳘सीनस्तमा᳘घारयति॥
यम् म᳘नस आघार᳘यति ति᳘ष्ठ्ंस्तं यं᳘ वाचे म᳘नश्च ह वै वा᳘क्च यु᳘जौ देवे᳘भ्यो यज्ञं᳘ वहतो यतरो वै᳘ युजोर्ह्र᳘सीयान्भ᳘वत्युपवहं वै त᳘स्मै कुर्वन्ति वाग्वै म᳘नसो ह्र᳘सीयस्य᳘परिमिततरमिव हि म᳘नः प᳘रिमिततरेव हि वाक्त᳘द्वाच᳘ एॗवैत᳘दुपवहं᳘ करोति ते᳘ सयु᳘जौ देवे᳘भ्यो यज्ञं᳘ वहतस्त᳘स्मात्ति᳘ष्ठन्वाच आ᳘घारयति॥
मूलम् - विस्वरम्
आसीनस्तमाघारयति- यं मनस आघारयति, तिष्ठंस्तम्- यं वाचे । मनश्च ह वै वाक् च, युजौ देवेभ्यो यज्ञं वहतः । यतरो वै युजोर्हसीयान् भवति- उपवहं वै तस्मै कुर्वन्ति । वाग् वै मनसो हसीयसी । अपरिमिततरमिव हि मनः, परिमिततरेव हि वाक् । तद्वाच एवैतदुपवहं करोति । ते सयुजौ देवेभ्यो यज्ञं वहतः । तस्मात् तिष्ठन् वाच आघारयति ॥ ७ ॥
सायणः
उपवेशनावस्थानलक्षणौ गुणौ क्रमेणाघारयोर्विधत्ते- आसीनस्तमिति । तिष्ठँस्तं यं वाच इति । ‘आघारयति’- इत्युभयत्रानुषङ्गः । स्रुचाघारस्य 2 तिष्ठता होतव्यत्वमुपपादयति- मनश्च ह वै वाक् चेत्यादिना । ‘युजौ’ रथावयवे युगे ऽश्वादिवद् युक्तौ भूत्वेत्यर्थः । यतरो वा इत्यादि । लोके हि रथादिषु युक्तयोरश्वयोर्मध्ये ‘यतरः’ खलु ‘हसीयान्’ अतिशयेन ह्रस्वो ऽल्पकायो ‘भवति’ तस्य साम्येन वहनाय ‘उपवहं’ वहः स्कन्धप्रदेशस्तस्योपरि श्लिष्टमौन्नत्यकरं दारुमयं स्थूलपीठकादिकं लौकिकाः कुर्वन्ति । यस्मादेवं लोके, तस्मादल्पविषयत्वेनापरिमितविषयान्मनसो हसीयस्या वाचः स्थितिक्रियाविशिष्टाचारेणौन्नत्यकरम् ‘उपवहमिव’ एतद् भवति । अतः ‘ते’ वाङ्मनसे उभे अपि ‘सयुजौ’ समानवहनप्रदेशे भवत इत्यर्थः ॥ ७ ॥
Eggeling
- Sitting he makes that libation which he makes for the mind, and standing that which he makes for speech. Mind and speech, when yoked together, assuredly convey the sacrifice to the gods. But when one of two yoke-fellows is smaller (than the other) they give him a shoulder-piece 3. Now speech is indeed smaller than mind; for mind is by far the more unlimited, and speech is by far the more limited (of the two); hence he thereby (by standing) gives a shoulder-piece to speech, and as well-matched yoke-fellows these two now convey the sacrifice to the gods: for speech, therefore, he sprinkles while standing.
०८
विश्वास-प्रस्तुतिः
देवा᳘ ह वै᳘ यज्ञं᳘ तन्वानाः᳘॥
(स्ते) ते ऽसुरराक्षसे᳘भ्य ऽआसङ्गा᳘द्बिभयां᳘चक्रुस्त᳘ ऽएतद्दक्षिणतः᳘ प्रत्यु᳘दश्रयन्नु᳘च्छ्रितमिव हि᳘ व्वी᳘र्यं त᳘स्माद्दक्षिणतस्ति᳘ष्ठन्ना᳘घारयति स य᳘दुभय᳘त ऽआघार᳘यति त᳘स्मादिदं म᳘नश्च व्वा᳘क्च समान᳘मेव सन्ना᳘नेव शि᳘रो ह वै᳘ यज्ञ᳘स्यैत᳘योरन्यतर᳘ आघार᳘योर्मू᳘लमन्यतरः᳘॥
मूलम् - श्रीधरादि
देवा᳘ ह वै᳘ यज्ञं᳘ तन्वानाः᳘॥
(स्ते) ते ऽसुरराक्षसे᳘भ्य ऽआसङ्गा᳘द्बिभयां᳘चक्रुस्त᳘ ऽएतद्दक्षिणतः᳘ प्रत्यु᳘दश्रयन्नु᳘च्छ्रितमिव हि᳘ व्वी᳘र्यं त᳘स्माद्दक्षिणतस्ति᳘ष्ठन्ना᳘घारयति स य᳘दुभय᳘त ऽआघार᳘यति त᳘स्मादिदं म᳘नश्च व्वा᳘क्च समान᳘मेव सन्ना᳘नेव शि᳘रो ह वै᳘ यज्ञ᳘स्यैत᳘योरन्यतर᳘ आघार᳘योर्मू᳘लमन्यतरः᳘॥
मूलम् - Weber
देवा᳘ ह वै᳘ यज्ञं᳘ तन्वानाः᳟᳟॥
ते ऽसुररक्षसे᳘भ्य आसङ्गा᳘द्बिभयां᳘ चक्रुस्त᳘ एतद्दक्षिणतः᳘ प्रत्यु᳘दश्रयन्नु᳘छ्रितमिव हि᳘ वीर्यं᳘ त᳘स्माद्दक्षिणतस्ति᳘ष्ठन्ना᳘घारयति स य᳘दुभय᳘त आघार᳘यति त᳘स्मादिदम् म᳘नश्च वा᳘क्च समान᳘मेव सन्ना᳘नेव शि᳘रो ह वै᳘ यज्ञ᳘स्यैत᳘योरन्यतर᳘ आघार᳘योर्मू᳘लमन्यतरः᳟॥
मूलम् - विस्वरम्
देवा ह वै यज्ञं तन्वानाः । ते ऽसुरराक्षसेभ्य आसङ्गाद् बिभयाञ्चक्रुः । त एतद्दक्षिणतः प्रत्युदश्रयन् । उच्छ्रितमिव हि वीर्यम् । तस्माद्दक्षिणतस्तिष्ठन्नाघारयति । स यदुभयत आघारयति- तस्मादिदं मनश्च वाक् च समानमेव सन्नानेव । शिरो ह वै यज्ञस्यैतयोरन्यतर आघारयोः, मूलमन्यतरः ॥ ८ ॥
सायणः
स्रुग्व्याघारस्या ऽऽहवनीय-दक्षिणभाग-स्थितिलक्षण-धर्मविशेषं विदधाति-देवा ह वा इत्यादिना । दक्षिणतः प्रतीति । आहवनीयस्य दक्षिणभागे ऽसुरान् प्रत्युच्छ्रितवन्तः 4 । कथमुच्छ्रायस्तेषामित्यत आह- उच्छ्रितमिव हीति । ‘उच्छ्रितं’ पर्वतादिकैम् 5, तमिव वीर्यमपि दुरासदम् । तादृशवीर्ययोगात्तेषामुच्छ्रितत्वमित्यर्थः । अथाघारयोर्दक्षिणोत्तरपरिधिसन्धिमारभ्यैवोभयतः करणं विधत्ते- स यदिति । ‘उभयतः’ दक्षिणत उत्तरतश्चेत्यर्थः । समानमेव सन्नानेवेति । मनश्च वाक् चेत्येतदुभयं समानविषयं समानाश्रयमेव ‘सद्’ भवदपि ‘नानेव’ भिन्नमिव भवतीत्यर्थः ।
स्रुवेण तमाघारयतीत्यादिकं प्राग्विहितं प्रकारान्तरेण स्तौति- शिरो ह वै यज्ञस्येत्यादिना । अर्थो निगदसिद्धः ॥ ८ ॥ ९॥
Eggeling
- Now the gods, when they were performing sacrifice, were afraid of a disturbance on the part
of the Asuras and Rakshas. They, therefore, stood up erect against them on the south side (of the sacrificial ground); for strength is, as it were, erect; hence he makes the (second) libation while standing to the south (of the fire). When he makes a libation on each side (of the fire, north and south), this (pair), mind and speech, though indeed joined together, become separate: for one of the two libations is the head of the sacrifice and the other is its root.
०९
विश्वास-प्रस्तुतिः
स्रुवे᳘ण तमा᳘घारयति॥
यो मू᳘लं यज्ञ᳘स्य स्रुचा तमा᳘घारयति यः शि᳘रो यज्ञ᳘स्य॥
मूलम् - श्रीधरादि
स्रुवे᳘ण तमा᳘घारयति॥
यो मू᳘लं यज्ञ᳘स्य स्रुचा तमा᳘घारयति यः शि᳘रो यज्ञ᳘स्य॥
मूलम् - Weber
स्रुवे᳘ण तमा᳘घारयति॥
यो मू᳘लं यज्ञ᳘स्य स्रुचा तमा᳘घारयति यः शि᳘रो यज्ञ᳘स्य॥
मूलम् - विस्वरम्
स्रुवेण तमाघारयति- यो मूलं यज्ञस्य । स्रुचा तमाघारयति- यः शिरो यज्ञस्य ॥ ९ ॥
सायणः
[व्याख्यानम् अष्टमे]
Eggeling
- With the dipping-spoon (sruva) he makes that libation which is the root of the sacrifice, and with the offering-spoon (sruc) that which is the head of the sacrifice.
१०
विश्वास-प्रस्तुतिः
तूष्णीं तमा᳘घारयति॥
यो मू᳘लं यज्ञ᳘स्य तूष्णी᳘मिव᳘ हीदं मू᳘लं᳘ नो ह्यत्र व्वाग्व᳘दति॥
मूलम् - श्रीधरादि
तूष्णीं तमा᳘घारयति॥
यो मू᳘लं यज्ञ᳘स्य तूष्णी᳘मिव᳘ हीदं मू᳘लं᳘ नो ह्यत्र व्वाग्व᳘दति॥
मूलम् - Weber
तूष्णीं᳘ तमा᳘घारयति॥
यो मू᳘लम् यज्ञ᳘स्य तूष्णी᳘मिवॗ हीदंमूॗलं नो ह्य᳘त्र वाग्व᳘दति॥
मूलम् - विस्वरम्
तृष्णीं तमाघारयति- यो मूलं यज्ञस्य । तृष्णीमिव हीदं मूलम्, नो ह्यत्र वाग् वदति ॥ १० ॥
सायणः
मूलत्वेन शिरस्त्वेन स्रुक्स्रुवयोस्तदुपजीवनेन तूष्णीकत्वं निरुक्तत्वं च प्राग्विहितमनूद्य प्रशंसति- तूष्णीं तमित्यादिना । तूष्णीमिव हीति । लोके हि यद् वृक्षादीनां मूलं तत् ‘तूष्णीमिव हि’ अदृश्यमानत्वात् । एतदेवोपपादयति- नो ह्यत्रेति । ‘न’ ‘उ’ खलु ‘अत्र’ मूलविषये शब्दव्यापारो ऽप्यस्ति, दूरे दृष्टिविषयत्वम् । अतो मूलभूताघारस्य लौकिकमूलवत् तूष्णीकत्वं युक्तमित्यर्थः ॥ १० ॥
Eggeling
- Silently he makes that libation which is the root of the sacrifice; for silent, as it were, is this root (of trees &c.), and in it the voice does not sound.
११
विश्वास-प्रस्तुतिः
म᳘न्त्रेण तमा᳘घारयति॥
यः शि᳘रो यज्ञ᳘स्य व्वाग्घि म᳘न्त्रः शीर्ष्णो᳘ हीयम᳘धि व्वाग्व᳘दति॥
मूलम् - श्रीधरादि
म᳘न्त्रेण तमा᳘घारयति॥
यः शि᳘रो यज्ञ᳘स्य व्वाग्घि म᳘न्त्रः शीर्ष्णो᳘ हीयम᳘धि व्वाग्व᳘दति॥
मूलम् - Weber
म᳘न्त्रेण तमा᳘घारयति॥
यः शि᳘रो यज्ञ᳘स्य वाग्घि म᳘न्त्रः शीर्ष्णोॗ हीयम᳘धि वाग्व᳘दति॥
मूलम् - विस्वरम्
मन्त्रेण तमाघारयति- यः शिरो यज्ञस्य । वाग्घि मन्त्रः । शीर्ष्णो हीयमधि वाग् वदति ॥११॥
सायणः
मन्त्रेणेति । वाग्घि मन्त्र इत्यादि । वागिन्द्रियसाध्यत्वात् तदात्मको मन्त्रः । सा च वाक् ‘शीर्ष्णः’ उपरि ताल्वोष्ठपुटादिव्यापारेण शब्दमुच्चारयति, अतो वागात्मकस्य ‘यज्ञस्य’ शिरःश्रुतावाघारसम्बन्धो 4 युक्त इत्यर्थः ॥ ११ ॥
Eggeling
- With a formula he makes that libation which is the head of the sacrifice; for the formula is speech, and from the head this speech sounds.
१२
विश्वास-प्रस्तुतिः
(त्या᳘) आ᳘सीनस्तमा᳘घारयति॥
यो मू᳘लं यज्ञ᳘स्य नि᳘षणमिव᳘ हीदं मू᳘लं ति᳘ष्ठंस्तमा᳘घारयति यः शि᳘रो यज्ञ᳘स्य ति᳘ष्ठतीव᳘ हीदᳫँ᳭शि᳘रः॥
मूलम् - श्रीधरादि
(त्या᳘) आ᳘सीनस्तमा᳘घारयति॥
यो मू᳘लं यज्ञ᳘स्य नि᳘षणमिव᳘ हीदं मू᳘लं ति᳘ष्ठंस्तमा᳘घारयति यः शि᳘रो यज्ञ᳘स्य ति᳘ष्ठतीव᳘ हीदᳫँ᳭शि᳘रः॥
मूलम् - Weber
आ᳘सीनस्तमा᳘घारयति॥
यो मू᳘लं यज्ञ᳘स्य नि᳘षणमिवॗ हीदम् मू᳘लं ति᳘ष्ठंस्तमा᳘घारयति यः शि᳘रो यज्ञ᳘स्य ति᳘ष्ठतीवॗ हीदं शि᳘रः॥
मूलम् - विस्वरम्
आसीनस्तमाघारयति- यो मूलं यज्ञस्य । निषण्णमिव हीदं मूलम् । तिष्ठंस्तमाघारयति- यः शिरो यज्ञस्य । तिष्ठतीव हीदं शिरः ॥ १२ ॥
सायणः
प्राग्विहितयोरासीनस्थितयोरपि मूलशिरस्त्वोपजीवनेन प्रशंसा क्रियते- आसीनस्तमित्यादिना । निषण्णमिव हीदमिति । ‘इदं’ वृक्षादिमूलं ‘निषण्णमिष हि’ एकत्रोपविष्टमिव हि भवति खातत्वेन चाञ्चल्यविरहात् । अतो मूलभूतस्याधारस्यासनसंबन्धो युक्त इत्यर्थः । तिष्ठतीव हीदमिति । ‘हि’ यतः ‘इदं’ मनुष्यादीनां ‘शिरः’ ‘तिष्ठतीव’ अस्तीति, स्थितिक्रियाविशिष्टमिवोर्ध्वमिव दृश्यते । अतः शिरःसंस्तुतस्याघारस्य तिष्ठता कर्त्रा निष्पादनं युक्तमित्यर्थः ॥ १२ ॥
Eggeling
- Sitting he makes that libation which is the root of the sacrifice; for seated, as it were, is this root. Standing he makes that libation which is the head of the sacrifice; for this head stands, as it were.
१३
विश्वास-प्रस्तुतिः
स᳘ स्रुवे᳘ण पू᳘र्व्वमाघार᳘माघा᳘र्याह॥
(हा) अग्नि᳘मग्नीत्स᳘म्मृड्ढी᳘ति य᳘था धु᳘रमध्यू᳘हेदेवं तद्यत्पू᳘र्व्वमाघार᳘माघार᳘यत्यध्यु᳘ह्य हि धु᳘रं युञ्जन्ति॥
मूलम् - श्रीधरादि
स᳘ स्रुवे᳘ण पू᳘र्व्वमाघार᳘माघा᳘र्याह॥
(हा) अग्नि᳘मग्नीत्स᳘म्मृड्ढी᳘ति य᳘था धु᳘रमध्यू᳘हेदेवं तद्यत्पू᳘र्व्वमाघार᳘माघार᳘यत्यध्यु᳘ह्य हि धु᳘रं युञ्जन्ति॥
मूलम् - Weber
स᳘ स्रुवे᳘ण पू᳘र्वमाघार᳘माघा᳘र्याह॥
अग्नि᳘मग्नीत्स᳘म्मृड्ढी᳘ति य᳘था धु᳘रमध्यू᳘हेदेवं तद्यत्पू᳘र्वमाघार᳘माघार᳘य्३अत्यध्यु᳘ह्य हि धु᳘रं युञ्ज᳟न्ति॥
मूलम् - विस्वरम्
अग्निसंमार्जनम् ।
स स्रुवेण पूर्वमाघारमाघार्याह- “अग्निमग्नीत्सम्मृड्ढि”- इति । यथा धुरमध्यूहेदेवं तत्- यत्पूर्वमाघारमाघारयति । अध्युह्य हि धुरं युञ्जन्ति ॥ १३ ॥
सायणः
एवमाघारयोः प्रतिनियतधर्मान् विधाया ऽनुष्ठानक्रममाह- स स्रुवेणेति । पूर्वाघारानन्तरं, नोत्तराघारः, अपि तु “अग्निमग्नीत्”- इति 6, आग्नीध्रं प्रति सम्प्रैषं ब्रूयात् । तस्य चायमर्थः- हे ‘अग्नीत्’ आग्नीध्र ! आहवनीयाख्यम् ‘अग्निं’ ‘सम्मृड्ढि’ सम्मार्जनं कुर्विति । विधित्सितस्य सम्मार्जनस्याघारानन्तर्य्यमुपपादयति- यथेति । अनडुहः स्कन्धदेशे ‘यथा’ ‘धुरम्’ युगधुरम् ‘अध्यूहेत्’ योजयेत्, एवमग्नौ धुरो ऽव्यूहनमेव पूर्वाघारहोमेन क्रियते । अस्मिन्नर्थे लोकप्रसिद्धिमाह- अध्युह्येति । ‘हि’ यतो रथादिवहने ऽनडुदश्वादिकं योज्यमानास्तदीयस्कन्धस्योपरि युगधुरम् ‘अध्युह्य’ पश्चात् पाशैः ‘युञ्जन्ति’ बध्नन्ति; अतो धुरो ऽध्यूहनस्थानीयः पूर्वाघारहोम इत्यर्थः । (का० श्रौ० सू० ३ । १२) ॥ १३॥
Eggeling
- When he has made the first libation with the dipping-spoon, he says, ‘Agnīdh, sweep (touch over) the fire 7!’ In like manner as one would lay the yoke on (the shoulders of the team), so also he makes that first libation; for after laying on the yoke they fasten (the team to it).
१४
विश्वास-प्रस्तुतिः
(न्त्य᳘) अ᳘थ स᳘म्मार्ष्टि॥
युन᳘क्त्ये᳘वैनमेत᳘द्युक्तो᳘ देवे᳘भ्यो यज्ञं᳘ व्वहादि᳘ति त᳘स्मात्स᳘म्मार्ष्टि परिक्रा᳘मᳫँ᳭ स᳘म्मार्ष्टि परिक्रा᳘मᳫँ᳭ हि यो᳘ग्यं युञ्ज᳘न्ति त्रि᳘स्त्रिः स᳘म्मार्ष्टि त्रिवृद्धि᳘ यज्ञः॥
मूलम् - श्रीधरादि
(न्त्य᳘) अ᳘थ स᳘म्मार्ष्टि॥
युन᳘क्त्ये᳘वैनमेत᳘द्युक्तो᳘ देवे᳘भ्यो यज्ञं᳘ व्वहादि᳘ति त᳘स्मात्स᳘म्मार्ष्टि परिक्रा᳘मᳫँ᳭ स᳘म्मार्ष्टि परिक्रा᳘मᳫँ᳭ हि यो᳘ग्यं युञ्ज᳘न्ति त्रि᳘स्त्रिः स᳘म्मार्ष्टि त्रिवृद्धि᳘ यज्ञः॥
मूलम् - Weber
अ᳘थ स᳘म्मार्ष्टि॥
युन᳘क्त्येॗवैनमेत᳘द्युक्तो᳘ देवे᳘भ्यो यज्ञं᳘ वहादि᳘ति त᳘स्मात्स᳘म्मार्ष्टि परिक्रा᳘मᳫं स᳘म्मार्ष्टि परिक्रा᳘मᳫं हि यो᳘ग्यं युञ्ज᳘न्ति त्रि᳘स्त्रिः स᳘म्मार्ष्टि त्रिवृद्धि᳘ यज्ञः᳟॥
मूलम् - विस्वरम्
अथ सम्मार्ष्टि- युनक्त्येवैनमेतद्, युक्तो देवेभ्यो यज्ञं वहादिति । तस्मात् सम्मार्ष्टि । परिक्रामं सम्मार्ष्टि । परिक्रामं हि योग्यं युञ्जन्ति । त्रिस्त्रिः सम्मार्ष्टि । त्रिवृद्धि यज्ञः ॥ १४ ॥
सायणः
अग्निसम्मार्जनं विधाय प्रशंसति- अथेति । ‘एनम्’ अग्निं हविर्वहनाय सम्मार्जनेन युनक्तीत्यर्थः । सम्मार्जने धर्मविशेषं विधत्ते- परिक्राममिति । परिक्रम्य परिक्रम्य- तत्तत्परिधिदेशं गत्वा तदनुसारेणाग्निं ‘सम्मार्ष्टि’ 6 । अत एवोक्तं कात्यायनेन- “इध्मसन्नहनैरनुपरिधि सम्मार्ष्ट्यग्ने वाजजिदिति त्रिस्त्रिः परिक्रामम्”- (श्रौ० सू० ३. १३) इति । तत्रापि लोकप्रसिद्धिमुदाहरति- परिक्रामं हीति । एकैकस्मिन् परिधौ सम्मार्जनस्य त्रिरावृत्तिं विधाय प्रशंसति- त्रिस्त्रिरिति । “नित्यवीप्सयोः” (पा० सू० ८. १. ४) इति द्विर्वचनम् ॥ १४ ॥
Eggeling
- He (the Āgnīdhra) then sweeps (the fire with
the band of the fire-wood): he thereby harnesses it, thinking, ‘Now that it has been harnessed, may it convey the sacrifice to the gods!’ for this reason he sweeps it. While sweeping it he moves around, since in harnessing they move around the team. He sweeps thrice each time (i.e. thrice along each of the three enclosing-sticks): threefold is the sacrifice.
१५
विश्वास-प्रस्तुतिः
स स᳘म्मार्ष्टि॥
(र्ष्ट्य᳘) अ᳘ग्ने व्वाजजिद्वा᳘जं त्वा सरिष्य᳘न्तं व्वाजजि᳘तᳫँ᳭ स᳘म्मार्ज्मी᳘ति यज्ञं᳘ त्वा व्वक्ष्य᳘न्तं यज्ञि᳘यᳫँ᳭ स᳘म्मार्ज्मी᳘त्ये᳘वैत᳘दाहा᳘थोप᳘रिष्टात्तूष्णीं त्रिस्तद्य᳘था युक्त्वा प्रा᳘जेत्प्रे᳘हि व्वहे᳘त्येव᳘मेवैतत्क᳘शयो᳘पक्षिपति प्रे᳘हि देवे᳘भ्यो यज्ञं व्वहे᳘ति त᳘स्मादुप᳘रिष्टात्तूष्णीं त्रिस्तद्य᳘देतद᳘न्तरेण क᳘र्म क्रिय᳘ते त᳘स्मादिदं म᳘नश्च व्वा᳘क्च समान᳘मेव सन्ना᳘नेव॥
मूलम् - श्रीधरादि
स स᳘म्मार्ष्टि॥
(र्ष्ट्य᳘) अ᳘ग्ने व्वाजजिद्वा᳘जं त्वा सरिष्य᳘न्तं व्वाजजि᳘तᳫँ᳭ स᳘म्मार्ज्मी᳘ति यज्ञं᳘ त्वा व्वक्ष्य᳘न्तं यज्ञि᳘यᳫँ᳭ स᳘म्मार्ज्मी᳘त्ये᳘वैत᳘दाहा᳘थोप᳘रिष्टात्तूष्णीं त्रिस्तद्य᳘था युक्त्वा प्रा᳘जेत्प्रे᳘हि व्वहे᳘त्येव᳘मेवैतत्क᳘शयो᳘पक्षिपति प्रे᳘हि देवे᳘भ्यो यज्ञं व्वहे᳘ति त᳘स्मादुप᳘रिष्टात्तूष्णीं त्रिस्तद्य᳘देतद᳘न्तरेण क᳘र्म क्रिय᳘ते त᳘स्मादिदं म᳘नश्च व्वा᳘क्च समान᳘मेव सन्ना᳘नेव॥
मूलम् - Weber
स᳘ स᳘म्मार्ष्टि॥
अ᳘ग्ने वाजजिद्वा᳘जं त्वा सरिष्य᳘न्तं त्वा वाजजि᳘तᳫं स᳘म्मार्ज्मी᳘ति यज्ञं᳘ त्वा वक्ष्य᳘न्तं यज्ञि᳘यᳫं स᳘म्मार्ज्मी᳘त्येॗवैत᳘दाहा᳘थोप᳘रिष्टात्तूष्णीं त्रिस्तद्य᳘था युक्त्वा प्रा᳘जेत्प्रेहि वहे᳘त्येव᳘मेॗवैतत्क᳘शयो᳘पक्षिपति प्रे᳘हि देवे᳘भ्यो यज्ञं᳘ वहे᳘ति त᳘स्मादुप᳘रिष्टात्तूष्णीं त्रिस्तद्य᳘देतद᳘न्तरेण क᳘र्म क्रिय᳘ते त᳘स्मादिदम् म᳘नश्च वा᳘क्च समान᳘मेव सन्ना᳘नेव॥
मूलम् - विस्वरम्
स सम्मार्ष्टि- “अग्ने वाजजिद्वाजं त्वा सरिष्यन्तं वाजजित ५ सम्मार्ज्मि” (२ अ. ७ मं. ) इति । यज्ञं त्वा वक्ष्यन्तं यज्ञियं सम्मार्ज्मि, इत्येवैतदाह । अथोपरिष्टात् तूष्णीं त्रिः । तद्यथा युक्त्वा प्राजेत्- प्रेहि वहेति, एवमेवैतत्कशयोपक्षिपति- प्रेहि देवेभ्यो यज्ञं वहेति । तस्मादुपरिष्टात्तूष्णीं त्रिः । तद्यदेतदन्तरेण कर्म क्रियते तस्मादिदं मनश्च वाक् च समानमेव सन्नानेव ॥ १५ ॥
सायणः
विहितं सम्मार्जनमनूद्य मन्त्रं विधत्ते 8- स सम्मार्ष्टीति । मन्त्रस्याभिप्रायमाह- यज्ञं त्वेति । यज्ञसाधनत्वाद्धविरत्र यज्ञशब्दाभिधेयम् । यज्ञसाधनं हविर्लक्षणमन्नं देवेभ्यो ‘वक्ष्यन्तं’ वहनं करिष्यन्तमिति “वाजं सरिष्यन्तम्”- इति पदद्वयस्यार्थः । ‘वाजजितम्’- इत्यस्य व्याख्या ‘यज्ञियम्’- इति । वाजं यज्ञसाधनं हविर्लक्षणमन्नं जयतीति ‘वाजजित्’ तथा च ‘यज्ञं’ यज्ञसाधनं हविरहतीति ‘यज्ञियम्’ इति शब्दार्थः सम्पद्यते ।
उपरिष्टात् सम्मार्जनं विधत्ते- अथेति । परिधित्रयानुसारेण परितो ऽग्निं सम्मृज्य, तदनन्तरमग्नेः ‘उपरिष्टात्’ ‘तूष्णीं’ “त्रिः“ सम्मृज्यात् । तदेतत् स्तौति- तद्यथेति । ‘तत्’ तथा सति ‘यथा’ खलुं लोके युगधुरे ऽनड्वाहं संयोज्य ‘प्रेहि’ प्रगच्छ, वोढव्यं भारं ‘वह’ इत्येवं वदन् ‘कशया’ ताडनेन ‘प्राजेत्’ प्रेरयेत् एवं कशयोपक्षेपणमेव तदुपरि सम्मार्जनमित्यर्थः । स्पष्टमन्यत् । स्रौवस्रुग्व्याघारयोर्मध्ये ऽनुष्ठानं सम्मार्जनस्य प्रशंसति- तद्यदिति । मनोवाक्संस्रुतयोरनयोराघारयोर्मध्ये सम्मार्जनस्य करणात् तद्व्यधाने सति ‘मनश्च वाक् च’ एतदुभयं (समानमेव 9) समानविषयं समानाश्रयमपि ‘नानेव’ भिन्नमिव भवति ॥ १५ ॥ ६ ॥ (४।४)
इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनशतपथब्राह्मणभाष्ये प्रथमकाण्डे चतुर्थाध्याये चतुर्थं ब्राह्मणम् ॥ ४ ॥ ४ ॥
इति प्रथमकाण्डे तृतीयप्रपाठकः समाप्तम् ॥
Eggeling
- He sweeps (once), with the text (Vāj. S. II, 7 a), ‘O Agni, food-gainer! I cleanse thee, the food-gainer, who art about to hasten to the food!’ Whereby he says, ‘I cleanse thee who art going to convey the sacrifice (to the gods), thee fit for the sacrifice!’ He then sweeps thrice over (the fire) silently: for just as, after harnessing (the animal), one urges it on, saying, ‘Go on! pull!’ so does he thereby strike it with the lash 10, thinking, ‘Go on and convey the sacrifice to the gods!’ That is why he (sweeps) thrice over it silently; and in like manner as this act is performed between (the two sprinklings of butter), so this mind and speech, though forming one, thereby become, as it were, separate.
-
124:1 Viz. the two āghāras, or pourings (libations) of butter. The first libation, which belongs to Prajāpati, is made by the Adhvaryu, while seated north of the fire, immediately after the commencement of the pravara, in a continuous line from west to east, on the north part of the fire. The second libation (cf. note on I, 4, 5, 3) is made by the Adhvaryu while standing on the south side, in the same way on the southern part of the fire. According to some authorities of the Black Yajus ritual (quoted by Hillebrandt, Neu and Vollm. pp. 80, 86) the sacrificer pronounces the anumantraṇas, ‘For Prajāpati is this, not for me: thou art the mind of Prajāpati!’ and ‘India’s voice (speech) art thou: enter into me with the voice, with Indra’s power!’ over the two libations respectively. ↩︎
-
‘स्रुगव्याघारस्य’ इति पा० । ↩︎
-
125:1 Upavaha (m.; upavahas, n., Kāṇva rec.), explained by Sāyaṇa as a piece of wood inserted under the yoke (and on the neck of an ox) in order to make it level with the height of the yoke-fellow. ↩︎
-
‘पर्वतादिकमिव वीर्यमपि’ पा.। ↩︎
-
“स्रुवेण पूर्वाघारमाघार्याहा ऽग्निमग्नीत्सम्मृड्ढि" इति का. श्रौ. सू. ३ । १ । १२ । प्रजापतिर्देवता तेनात्र न स्वाहाकार इति कर्कः। ↩︎ ↩︎
-
126:1 See I, 4, 2, 12, with note. ↩︎
-
“तूष्णीमुपरि” इति का. श्रौ. सू. ३ । १ । १४ । ↩︎
-
नास्तीदं क्वचित् । ↩︎
-
127:1 The sweeping of the fire is performed with the straw-band with which the fire-wood was tied together (Katy. III, 1, 13), and which is here compared with the lash of a whip. ↩︎