०१

विश्वास-प्रस्तुतिः

यो᳘ ह वा᳘ ऽअग्निः᳘ सामिधेनी᳘भिः स᳘मिद्धः॥
(द्धोऽति) अतितरा᳘ᳫं᳘ ह वै स इ᳘तरस्मादग्ने᳘स्तपत्यनवधृष्यो हि भ᳘वत्यनवमृश्यः॥

मूलम् - श्रीधरादि

यो᳘ ह वा᳘ ऽअग्निः᳘ सामिधेनी᳘भिः स᳘मिद्धः॥
(द्धोऽति) अतितरा᳘ᳫं᳘ ह वै स इ᳘तरस्मादग्ने᳘स्तपत्यनवधृष्यो हि भ᳘वत्यनवमृश्यः॥

मूलम् - Weber

यो᳘ ह वा᳘ अग्निः᳘ सामिधेनी᳘भिः स᳘मिद्धः॥
अतितरा᳘ᳫं᳘ ह वै स इ᳘तरस्मादग्ने᳘स्तपत्यनवधृष्यो हि भ᳘वत्यनवमृश्यः॥

मूलम् - विस्वरम्

शान्तिकर्म ।

यो ह वा अग्निः सामिधेनीभिः समिद्धः, अतितरां ह वै स इतरस्मादग्नेस्तपति, अनवधृष्यो हि भवति, अनवमृश्यः ॥ १ ॥

सायणः

सामिवेनीभिर्ऋग्भिः समिद्धस्याग्नेः लौकिकाग्निसकाशादतिशयमाह- यो ह वा इति । यस्मादतिशयेन ‘तपति’ अतः राक्षसादिभिः ‘धर्षितुं’ हिंसितुं मर्शितुं स्प्रष्टुं न शक्य इत्यर्थः ॥ १ ॥

Eggeling
  1. The fire that has been kindled by means of the kindling verses, assuredly, blazes more brightly than any other fire; for, indeed, it is unassailable, unapproachable.

०२

विश्वास-प्रस्तुतिः

स य᳘था है᳘वाग्निः॥
सामिधेनी᳘भिः स᳘मिद्धस्त᳘पत्येव᳘ᳫँ᳘ हैव᳘ ब्राह्मणः᳘ सामिधेनी᳘र्विद्वा᳘ननुब्रुवं᳘स्तपत्यनवधृष्यो हि भ᳘वत्यनवमृश्यः॥

मूलम् - श्रीधरादि

स य᳘था है᳘वाग्निः॥
सामिधेनी᳘भिः स᳘मिद्धस्त᳘पत्येव᳘ᳫँ᳘ हैव᳘ ब्राह्मणः᳘ सामिधेनी᳘र्विद्वा᳘ननुब्रुवं᳘स्तपत्यनवधृष्यो हि भ᳘वत्यनवमृश्यः॥

मूलम् - Weber

स य᳘था हैॗवाग्निः᳟॥
सामिधेनी᳘भिः स᳘मिद्धस्त᳘पत्येव᳘ᳫं᳘ हैव᳘ ब्राह्मणः᳘ सामिधेनी᳘र्विद्वा᳘ननुब्रुवंस्तपत्यनवधृष्यो हि भ᳘वत्यनवमृश्यः॥

मूलम् - विस्वरम्

स यथा हैवाग्निः सामिधेनीभिः समिद्धस्तपति, एवं हैव ब्राह्मणः सामिधेनीर्विद्वाननुब्रुवंस्तपति । अनवधृष्यो हि भवति, अनवमृश्यः ॥ २ ॥

सायणः

समिद्धाग्निदृष्टान्तेन एवं वेदितुर्होतुरपि तद्वदनुवचनं कुर्वतो यथोक्तविशेषापत्तिर्भवतीत्याह- स यथेति । ‘अनवधृष्यः’ ‘अनवमृश्यः’ इत्युभयत्र धृषेर्मृशेश्च- (धा. पा. प. १४२ । आमर्शनं स्पर्शः- इति सि. कौ.) “ऋदुपधाच्चाक्लृपिचृतेः”- (पा. सू. ३. १. ११०) इति कर्मणि क्यप् ॥ २ ॥

Eggeling
  1. And in like manner as the fire blazes when kindled by means of the kindling verses, so also blazes the priest (brāhmaṇa) that knows and recites the kindling verses; for, indeed, he is unassailable, unapproachable.

०३

विश्वास-प्रस्तुतिः

सो᳘ऽन्वाह॥
प्र᳘व ऽइ᳘ति प्राणो वै प्र᳘वान्प्राण᳘मे᳘वैत᳘या स᳘मिन्धे᳘ऽग्न ऽआ᳘याहि व्वीत᳘य ऽइ᳘त्यपानो वा ऽए᳘तवानपान᳘मे᳘वैत᳘या स᳘मिन्धे बृह᳘च्छोचा यविष्ठ्ये᳘त्युदानो वै᳘ बृह᳘च्छोचा ऽउदान᳘मे᳘वैत᳘या स᳘मिन्धे॥

मूलम् - श्रीधरादि

सो᳘ऽन्वाह॥
प्र᳘व ऽइ᳘ति प्राणो वै प्र᳘वान्प्राण᳘मे᳘वैत᳘या स᳘मिन्धे᳘ऽग्न ऽआ᳘याहि व्वीत᳘य ऽइ᳘त्यपानो वा ऽए᳘तवानपान᳘मे᳘वैत᳘या स᳘मिन्धे बृह᳘च्छोचा यविष्ठ्ये᳘त्युदानो वै᳘ बृह᳘च्छोचा ऽउदान᳘मे᳘वैत᳘या स᳘मिन्धे॥

मूलम् - Weber

सो᳘ ऽन्वाह॥
प्र᳘ व इ᳘ति प्राणो वै प्र᳘वान्प्राण᳘मेॗवैत᳘या स᳘मिन्द्धे᳘ ऽग्न आ᳘याहि वीत᳘य इ᳘त्यपानो वा ए᳘तवानपान᳘मेॗवैत᳘ स᳘मिन्द्धे बृह᳘छोचा यविष्ठ्ये᳘त्युदानो वै᳘ बृह᳘छोचा उदान᳘मेॗवैत᳘या स᳘मिन्द्धे॥

मूलम् - विस्वरम्

सो ऽन्वाह- “प्रवः” इति । प्राणो वै प्रवान्, प्राणमेवैतया समिन्धे । “अग्न आयाहि वीतये” इति । अपानो वा एतवान्, अपानमेवैतया समिन्धे । “बृहच्छोचा यविष्ठ्य"- इति । उदानो वै बृहच्छोचाः, उदानमेवैतया समिन्धे ॥ ३ ॥

सायणः

अथैताः सामिधेनीः प्रत्येकं तत्तलिंगोपन्यासेन 1 प्राणापानश्रौत्रादिकरणग्रामविशिष्टात्मसंस्कारहेतुतया प्रशंसति- सो ऽन्वाहेत्यादिना । प्राणो वै प्रवानिति । प्रगमनयुक्तत्वात् ‘प्राणः’ प्रशब्दवान् । प्राणवृत्तिर्हि इडापिङ्गलाभ्यां प्राचीनं निर्गच्छति, अतः ‘एतया’ प्रशब्दोपेतया प्रथमया सामिधेन्या 2 प्रगमनवन्तं ‘प्राणमेव’ समिन्धे दीपयति । एवमुत्तरत्रापि योज्यम् । अपानां वा एतवानिति । बहिर्निर्गतस्य वायोरात्माभिमुखी वृत्तिर्ह्यपानः । अतः आगमनविशिष्टत्वाद् ‘अपानः’ आकारोपसर्गवानित्यर्थः 3उदानो वै बृहच्छोचा 4 इति । ‘बृहत्’ अधिकं ‘शोचते’ दीयत इति ‘बृहच्छोचाः’ अग्निः । उदानवायुरपि देहस्योत्क्षेपणात् अधिकतेजोयुक्तः । अतो ‘बृहच्छोचा’- इति शब्देन ‘उदानः’ उपस्थाप्यते ॥ ३ ॥

Eggeling
  1. He recites, ‘Pra vaḥ 5;’ for the (word) prāṇa contains the syllable pra (‘forwards;’ or, is directed forwards):. hence it is the prāṇa (out-breathing) which he kindles by this (the first sāmidhenī). [He further recites the second verse], ‘Come hither, Agni, to expand!’ the backward breathing (apāna) 6, doubtless, is of this nature: the backward breathing he accordingly kindles with this (verse). Further (in the third verse), ‘Shine forth, O youngest, brilliantly!’ the high-flaming one 7, indeed, is the upward breathing (udāna): the upward

breathing he accordingly kindles with this (the third verse).

०४

विश्वास-प्रस्तुतिः

स᳘ नः पृथु᳘ श्रवा᳘य्यमि᳘ति॥
श्रो᳘त्रं वै᳘ पृथु᳘ श्रवा᳘य्ᳫँ श्रो᳘त्रेण᳘ हीद᳘मुरु᳘ पृथु᳘ शृणो᳘ति श्रो᳘त्रमे᳘वैत᳘या स᳘मिन्धे॥

मूलम् - श्रीधरादि

स᳘ नः पृथु᳘ श्रवा᳘य्यमि᳘ति॥
श्रो᳘त्रं वै᳘ पृथु᳘ श्रवा᳘य्ᳫँ श्रो᳘त्रेण᳘ हीद᳘मुरु᳘ पृथु᳘ शृणो᳘ति श्रो᳘त्रमे᳘वैत᳘या स᳘मिन्धे॥

मूलम् - Weber

स᳘ नः पृथु᳘ श्रवा᳘य्यमि᳘ति॥
श्रो᳘त्रं वै᳘ पृथु᳘ श्रवा᳘य्यं श्रो᳘त्रेणॗ हीद᳘मुरु᳘ पृथु᳘ शृणो᳘ति श्रो᳘त्रमेॗवैत᳘या स᳘मिन्द्धे॥

मूलम् - विस्वरम्

“स नः पृथु श्रवाय्यम्”- इति । श्रोत्रं वै पृथु श्रवाय्यम्, श्रोत्रेण हीदमुरु पृथु शृणोति श्रोत्रमेवैतया समिन्धे ॥ ४ ॥

सायणः

स न इति । श्रोत्रं वै पृथु श्रवाय्यमिति 1 । ‘पृथु’ विस्तीर्णं श्रवणासधनं पृथु श्रवाय्यम् । अनेन शब्देन श्रोत्रेन्द्रियं विवक्षितमित्याह- श्रोत्रेण हीति । ‘उरु’- इति पृथुशब्दव्याख्यानम् ॥ ४ ॥

Eggeling
  1. Further, ‘Sa naḥ pr̥thu śravāyyam 8,’ the ‘far-hearing one,’ indeed, is the ear, for it is with the ear that one hears here far or widely: the ear he accordingly kindles with this (the fourth verse).

०५

विश्वास-प्रस्तुतिः

(न्धऽ) ईडे᳘न्यो नम᳘स्य ऽइ᳘ति॥
व्वाग्वा᳘ ईडे᳘न्या व्वा᳘ग्घीदᳫँ᳭ स᳘र्व्वमीट्टे व्वा᳘चेदᳫँ स᳘र्व्वमीडितं व्वा᳘चमे᳘वैत᳘या स᳘मिन्धे᳘॥

मूलम् - श्रीधरादि

(न्धऽ) ईडे᳘न्यो नम᳘स्य ऽइ᳘ति॥
व्वाग्वा᳘ ईडे᳘न्या व्वा᳘ग्घीदᳫँ᳭ स᳘र्व्वमीट्टे व्वा᳘चेदᳫँ स᳘र्व्वमीडितं व्वा᳘चमे᳘वैत᳘या स᳘मिन्धे᳘॥

मूलम् - Weber

ईडे᳘न्यो नमस्य᳘ इ᳘ति॥
वाग्वा᳘ ईडे᳘न्या वाॗग्घीदᳫं स᳘र्वमी᳘ट्टे वाॗचेदᳫं स᳘र्वमीडितं वा᳘चमेॗवैत᳘या स᳘मिन्द्धे॥

मूलम् - विस्वरम्

“ईडेन्यो नमस्यः”- इति । वाग् वा ईडेन्या, वाग्घीदं सर्वमीट्टे । वाचेदं सर्वमीडितम् । वाचमेवैतया समिन्धे ॥ ५ ॥

सायणः

ईडेन्य इति । वाग्वा ईडेन्येति । “ईडेन्यो नमस्य” इत्यृचि 1 ‘ईडेन्य’- शब्देन वाग् विवक्षिता । कथमेतदित्याशङ्क्योपपादयति- वागिति । ‘वाग्’ एव खल्विदं ‘सर्वं’ जगत् ‘ईट्टे’ स्तौति । “ईड स्तुतौ”- (अदा० आ० ९) इति धातुः । यत्राप्यन्यः स्तोता, तत्रापि वाचैव करणभूतया सर्वमीडितं भवति । ईट्टे, ईड्यते अनयेति वा कर्तृकरणव्युत्पच्या ‘ईडेन्य’- शब्दस्य वाग्वाचकत्वमवगन्तव्यमित्यर्थः ॥ ५ ॥

Eggeling
  1. Further, ‘Praiseworthy he, adorable;’ the praiseworthy 9 one, doubtless, is the voice; for it is the voice which praises everything here; by the voice everything is praised here: he accordingly kindles the voice with this (the fifth verse).

०६

विश्वास-प्रस्तुतिः

(न्धे᳘ऽश्वो) अ᳘श्वो न᳘ देववा᳘हन ऽइ᳘ति॥
म᳘नो वै᳘ देववा᳘हनं म᳘नो᳘ हीदं᳘ मनस्वि᳘नं भू᳘यिष्ठं व्वनीवाह्य᳘ते म᳘न ऽए᳘वैत᳘या स᳘मिन्धे᳘॥

मूलम् - श्रीधरादि

(न्धे᳘ऽश्वो) अ᳘श्वो न᳘ देववा᳘हन ऽइ᳘ति॥
म᳘नो वै᳘ देववा᳘हनं म᳘नो᳘ हीदं᳘ मनस्वि᳘नं भू᳘यिष्ठं व्वनीवाह्य᳘ते म᳘न ऽए᳘वैत᳘या स᳘मिन्धे᳘॥

मूलम् - Weber

अ᳘श्वो न᳘ देववा᳘हन इ᳘ति॥
म᳘नो वै᳘ देववा᳘हनम् म᳘नोॗ हीद᳘म् मनस्वि᳘नं भू᳘यिष्ठं वनीवाह्य᳘ते म᳘न एॗवैत᳘या स᳘मिन्द्धे॥

मूलम् - विस्वरम्

“अश्वो न देववाहनः”- इति । मनो वै देववाहनम् । मनो हीदं मनस्विनं भूयिष्ठं वनीवाह्यते मन एवैतया समिन्धे ॥ ६॥

सायणः

अश्वो न इति । मनो वै देववाहनमिति । “अश्वो न देववाहनः” इति 10 देववाहन-शब्दो मनस उपलक्षकः । ‘हि’ यस्मात् ‘मनः’ ‘मनस्विनं’ पुरुषं ‘भूयिष्ठम्’ अत्यधिकं ‘वनीवाह्यते’ भृशं वहति देवान् शीघ्रं प्रापयति । अतो देववाहनं मन इत्यर्थः ॥ ६ ॥

Eggeling
  1. Further, ‘Yea, as a horse that bears (to) the gods;’ that which conveys to the gods is indeed the mind, for it is the mind which chiefly conveys the wise man (to the gods): the mind he accordingly kindles with this (the sixth verse).

०७

विश्वास-प्रस्तुतिः

अ᳘ग्ने दी᳘द्यतं बृहदि᳘ति॥
च᳘क्षुर्वै᳘ दीद᳘येव च᳘क्षुरे᳘वैत᳘या स᳘मिन्धे॥

मूलम् - श्रीधरादि

अ᳘ग्ने दी᳘द्यतं बृहदि᳘ति॥
च᳘क्षुर्वै᳘ दीद᳘येव च᳘क्षुरे᳘वैत᳘या स᳘मिन्धे॥

मूलम् - Weber

अ᳘ग्ने दी᳘द्यतम् बृहदि᳘ति॥
च᳘क्षुर्वै᳘ दीद᳘येव च᳘क्षुरेॗवैत᳘या स᳘मिन्द्धे॥

मूलम् - विस्वरम्

“अग्ने दीद्यतं बृहत्”- इति । चक्षुर्वै दीदयेव । चक्षुरेवैतया समिन्धे ॥ ७ ॥

सायणः

अग्ने दीद्यतमिति । चक्षुर्वै दीदयेवेति । ‘चक्षुः’ इन्द्रियं हि रूपादिप्रकाशकत्वाद् “अग्ने दीद्यतम्”- इति 10 दीद्यच्छब्देन दीप्तिवाचिनोपस्थाप्यते । अतो ऽनया चक्षुःसमिन्धनम् ॥ ७ ॥

Eggeling
  1. Further, ‘O Agni, thee, that brightly shines!’ the eye, assuredly, shines: the eye he accordingly kindles by this (the seventh verse).

०८

विश्वास-प्रस्तुतिः

(न्धेऽग्निं᳘) अ᳘ग्नि᳘न्दूतं वृणीमह ऽइ᳘ति॥
य᳘ ए᳘वायं᳘ मध्यमः᳘ प्राण᳘ ऽएत᳘मे᳘वैत᳘या स᳘मिन्धे सा᳘ है᳘षान्तस्था᳘ प्राणा᳘नाम᳘तो᳘ ह्यन्य᳘ ऽऊर्द्धाः᳘ प्राणा ऽअ᳘तोऽन्ये᳘ऽवाञ्चो ऽन्तस्था᳘ ह भवत्यन्तस्था᳘मेनं मन्यन्ते य᳘ एव᳘मेता᳘मन्तस्थां᳘ प्राणा᳘नां व्वे᳘द॥

मूलम् - श्रीधरादि

(न्धेऽग्निं᳘) अ᳘ग्नि᳘न्दूतं वृणीमह ऽइ᳘ति॥
य᳘ ए᳘वायं᳘ मध्यमः᳘ प्राण᳘ ऽएत᳘मे᳘वैत᳘या स᳘मिन्धे सा᳘ है᳘षान्तस्था᳘ प्राणा᳘नाम᳘तो᳘ ह्यन्य᳘ ऽऊर्द्धाः᳘ प्राणा ऽअ᳘तोऽन्ये᳘ऽवाञ्चो ऽन्तस्था᳘ ह भवत्यन्तस्था᳘मेनं मन्यन्ते य᳘ एव᳘मेता᳘मन्तस्थां᳘ प्राणा᳘नां व्वे᳘द॥

मूलम् - Weber

अ᳘ग्निं᳘ दूतं᳘ वृणीमह इ᳘ति॥
य᳘ एॗवाय᳘म् मध्यमः᳘ प्राण᳘एत᳘मेॗवैत᳘या स᳘मिन्धे सा᳘ हैॗषान्तस्था᳘ प्राणा᳘नाम᳘तो ह्य᳘न्य᳘ ऊर्ध्वाः᳘प्राणा अ᳘तो ऽन्ये᳘ ऽवाञ्चो ऽन्तस्था᳘ ह भवत्यन्तस्ता᳘मेनम् मन्यन्ते य᳘ एव᳘मेता᳘मन्तस्था᳘म् प्राणा᳘नां वे᳘द॥

मूलम् - विस्वरम्

“अग्निं दूतं वृणीमहे”- इति । य एवायं मध्यमः प्राणः एतमेवैतया समिन्धे । सा हैषान्तस्था प्राणानाम्, अतो ह्यन्य ऊर्द्ध्वाः प्राणाः, अतो ऽन्ये ऽवाञ्चः । अन्तस्था ह भवति । अन्तस्थामेनं मन्यन्ते, य एवमेतामन्तस्थां प्राणानां वेद ॥ ८ ॥

सायणः

अग्निं दूतमिति 10य एवायं मध्यमः प्राण इति । प्राणापानादिपञ्चवृत्त्याश्रयभूतो ‘यः’ क्रियाशक्त्यात्मको देहमध्ये ऽवस्थितः ‘प्राणः’ तस्य समिन्धनम् “अग्निं दूतम्"- इत्यनया । दूतो ह्यग्निः सर्वेषां देवानां मुखम् । तथा प्राणो ऽपीति । तेन समिन्धनस्योपपत्तिः । सा हैषान्तस्थेत्यादि । ‘सैषा’ ‘अग्निं दूतं वृणीमहे’ इति सामिधेनी, मध्यमप्राणरूपेण प्राणापानादिसंस्तुतानामन्यासामृचाम् ‘अन्तस्था’ अन्तरवस्थिता भवति । ‘अन्ये’ हि ‘प्राणाः’ चक्षुःश्रोत्रादयः ‘अतः’ अस्मात्प्राणादारभ्य ‘ऊर्द्ध्वाः’ चरन्ति । पायूपस्थादयः ‘अन्ये’ प्राणाः ‘अतः’ अस्मान्मध्यमात्प्राणादेवारभ्य ‘अवाञ्चः’ अवाङ्मुखा अन्तरवस्थिता भवन्ति । एवं वेदितुः फलमाह- अन्तस्थामिति । ‘अन्तस्थाम्’ अन्तरवस्थितां प्राणदेवतामित्यर्थः ॥ ८ ॥

Eggeling
  1. Further, ‘Agni we choose for messenger,’–what central breath there is (in the body), that he kindles with this (the eighth verse): that one indeed is the internal motive force of the breathings; from it (two) others tend upwards, and from it (two) others tend downwards, for it is indeed the internal motive force. And whosoever knows that internal motive force of the breathings, him they regard as the internal motive force.

०९

विश्वास-प्रस्तुतिः

शोचि᳘ष्केशस्त᳘मीमह ऽइ᳘ति॥
शिश्नं वै᳘ शोचि᳘ष्केशᳫँ᳭ शि᳘श्नᳫँ᳭हीद᳘ᳫँ᳘ शिश्नि᳘नं भूयिष्ठᳫँ᳭शोच᳘यति शिश्न᳘मे᳘वैत᳘या स᳘मिन्धे॥

मूलम् - श्रीधरादि

शोचि᳘ष्केशस्त᳘मीमह ऽइ᳘ति॥
शिश्नं वै᳘ शोचि᳘ष्केशᳫँ᳭ शि᳘श्नᳫँ᳭हीद᳘ᳫँ᳘ शिश्नि᳘नं भूयिष्ठᳫँ᳭शोच᳘यति शिश्न᳘मे᳘वैत᳘या स᳘मिन्धे॥

मूलम् - Weber

शोचि᳘ष्केशस्त᳘मीमह इ᳘ति॥
शिश्नं वै᳘ शोचि᳘ष्केशं शिॗश्नᳫं हीदं᳘ शिश्न᳘म् भू᳘यिष्ठं शोच᳘यति शिश्न᳘मेॗवैत᳘यास᳘मिन्द्धे॥

मूलम् - विस्वरम्

“शोचिष्केशस्तमीमहे”- इति । शिश्नं वै शोचिष्केशम्, शिश्नं हीदं शिश्निनं भूयिष्ठं शोचयति । शिश्नमेवैतया समिन्धे ॥ ९ ॥

सायणः

के पुनरेतेषां मध्ये ऽवाञ्चो ऽन्तस्थाः प्राणा इति, तान् दर्शयति- शोचिष्केशस्तमीमह इत्यादिना 10शिश्नं वै शोचिष्केशमिति । तदुपपादनम्- शिश्नं हीति । अभिलषितस्त्रीविरहे अतिशयेन शोकहेतुत्वात् शोचिष्केश-शब्देन ‘शिश्नं’ पुंव्यञ्जनं लक्ष्यते । तथा चैतच्छब्दोपेतयर्चा आनन्दनव्यापारस्य उपस्थाख्यस्येन्द्रियस्य समिन्धनं कृतं भवतीत्यर्थः ॥ ९ ॥

Eggeling
  1. Further, ‘The flaming-locked, him we adore!’ the flaming-locked, doubtless, is the śiśna, for it is that organ which chiefly burns (torments) him who is endowed with it: the śiśna he accordingly kindles by this (the ninth verse).

१०

विश्वास-प्रस्तुतिः

स᳘मिद्धो ऽअग्न ऽआहुते᳘ति॥
य᳘ऽए᳘वायम᳘वाङ्प्राण᳘ एत᳘मे᳘वैत᳘या स᳘मिन्ध आ᳘जुहोता दुवस्यते᳘ति स᳘र्व्वमात्मानᳫँ᳭स᳘मिन्ध ऽआ᳘नखेभ्यो᳘ऽथोलो᳘मभ्यः॥

मूलम् - श्रीधरादि

स᳘मिद्धो ऽअग्न ऽआहुते᳘ति॥
य᳘ऽए᳘वायम᳘वाङ्प्राण᳘ एत᳘मे᳘वैत᳘या स᳘मिन्ध आ᳘जुहोता दुवस्यते᳘ति स᳘र्व्वमात्मानᳫँ᳭स᳘मिन्ध ऽआ᳘नखेभ्यो᳘ऽथोलो᳘मभ्यः 11

मूलम् - Weber

स᳘मिद्धो अग्न आहुते᳘ति॥
य᳘ एॗवायम᳘वाङ्प्राण᳘ एत᳘मेॗवैत᳘या स᳘मिन्द्ध आ᳘ जुहोता दुवस्यते᳘ति स᳘र्वमात्मा᳘नᳫं स᳘मिन्द्ध आ᳘ नखेभ्यो᳘ ऽथो लो᳘मभ्यः॥

मूलम् - विस्वरम्

“समिद्धो अग्न आहुत”- इति । य एवायमवाङ् प्राणः, एतमेवैतया समिन्धे । “आजुहोता दुवस्यत"- इति । सर्वमात्मानं समिन्धे- आ नखेभ्यो ऽथो लोमभ्यः ॥ १० ॥

सायणः

समिद्धो अग्न 11 इति । य एवायमवाङ् प्राण इति । प्राण-शब्द इन्द्रियवचनो ऽवाङ्मुखः; अपानाख्यमिन्द्रियमित्यर्थः । सर्वमात्मानमिति । उक्तेन्द्रियसंघातमापादमस्तकव्याप्तं जीवात्मानमेवोत्तमया सामिधेन्या 12 ‘समिन्धे’। तस्या आत्मनश्चोक्तरीत्या सर्वोपरि वर्त्तनं साम्यम् ॥ १० ॥

Eggeling
  1. Further, ‘O Agni, worshipped, thou art lit! what downward breathing there is that he kindles with this (the tenth verse); ‘make offerings, do reverence!’ with this (the eleventh verse) he kindles the entire body from the nails to the hair.

११

विश्वास-प्रस्तुतिः

स य᳘द्येनं प्रथमा᳘याᳫँसामिधेन्या᳘मनुव्याह᳘रेत्॥
(त्तं) तं प्र᳘ति ब्रूयात्प्राणं व्वा᳘ऽ एत᳘दात्म᳘नोऽग्नावा᳘धाः प्राणे᳘नात्म᳘नऽआ᳘र्त्तिमा᳘रिष्यसी᳘ति त᳘था हैव᳘ स्यात्॥

मूलम् - श्रीधरादि

स य᳘द्येनं प्रथमा᳘याᳫँसामिधेन्या᳘मनुव्याह᳘रेत्॥
(त्तं) तं प्र᳘ति ब्रूयात्प्राणं व्वा᳘ऽ एत᳘दात्म᳘नोऽग्नावा᳘धाः प्राणे᳘नात्म᳘नऽआ᳘र्त्तिमा᳘रिष्यसी᳘ति त᳘था हैव᳘ स्यात्॥

मूलम् - Weber

स य᳘द्येनम् प्रथमा᳘याᳫं सामिधेन्या᳘मनुव्याह᳘रेत्॥
तम् प्र᳘ति ब्रूयात्प्राणं वा᳘ एत᳘दात्म᳘नो ऽग्नावा᳘धाः प्राणे᳘नात्म᳘न आर्त्तिमा᳘रिष्यसी᳘ति त᳘था हैव᳘ स्यात्॥

मूलम् - विस्वरम्

स यद्येनं प्रथमायां सामिधेन्यामनुव्याहरेत्, तं प्रति ब्रूयात्- “प्राणं वा एतदात्मनो ऽग्नावाधाः, प्राणेनात्मन आर्त्तिमारिष्यसि” इति । तथा हैव स्यात् ॥ ११॥

सायणः

एवमेकादश सामिधेनीः 11 प्रत्यृचं लिङ्गविशेषोपन्यासेन प्राणापानादीनां समिन्धनहेतुतया प्रशस्य तत्र तदनुवचनसमये शपतो द्वेष्यस्य प्राणापानादिवियोजनहेतुत्वेन प्रशंसति- स यद्येनमिति । ‘प्रथमायां सामिधेन्याम्’ अनूच्यमानायाम् ‘एनं’ होतारं ‘यदि’ द्वेष्यः ‘अनुव्याहरेत्’ शपेत् । “अनुव्याहारः शापः”- इति हि धूर्त्तस्वामी भाष्यकारः 12 । ‘तम्’ अनुव्याहरन्तं ‘प्रति’ होता ‘ब्रूयात्’- ‘एतत्’ एतर्हि ‘आत्मनः’ स्वसंबन्धिनं ‘प्राणं’ हे शत्रो ! ‘अग्नौ’ ‘आधाः’ निहितवानसि । ‘ते’ तव ‘प्राणेन’ निमित्तेन ‘आत्मनः’ स्वात्मनः ‘आर्त्ति’ पीडां प्राप्स्यसीति [^३_१५५] । एवं होत्रा प्रतिवचने कृते तस्य द्वेष्यस्य यथोक्तं ‘तथैव’ सत्यं भवेत् । ऋचां च प्राणापानादिप्रतिपादकत्वं प्रागेव प्रतिपादितम् । एवमुत्तरत्रापि योजना । अर्थो निगदसिद्धः ॥ ११ ॥ १२ ॥ १३ ॥ १४ ॥ १५ ॥

Eggeling
  1. And if any one were to curse this one (the Hotr̥) at the (recitation of the) first kindling verse, then he (the Hotr̥) should say to him, ‘Thereby thou hast put thine own out-breathing into the fire: by that out-breathing of thine shalt thou undergo suffering!’ for this is what would take place.

१२

विश्वास-प्रस्तुतिः

(द्य᳘) य᳘दि द्विती᳘यस्यामनुव्याह᳘रेत्॥
(त्तं) तं प्र᳘ति ब्रूयादपानं व्वा᳘ ऽएत᳘दात्म᳘नोऽग्नावा᳘धा अपाने᳘नात्म᳘न ऽआ᳘र्त्तिमा᳘रिष्यसी᳘ति त᳘था हैव᳘ स्यात्॥

मूलम् - श्रीधरादि

(द्य᳘) य᳘दि द्विती᳘यस्यामनुव्याह᳘रेत्॥
(त्तं) तं प्र᳘ति ब्रूयादपानं व्वा᳘ ऽएत᳘दात्म᳘नोऽग्नावा᳘धा अपाने᳘नात्म᳘न ऽआ᳘र्त्तिमा᳘रिष्यसी᳘ति त᳘था हैव᳘ स्यात्॥

मूलम् - Weber

य᳘दि द्वितीयस्यामनुव्याह᳘रेत्॥
तम् प्र᳘ति ब्रूयादपानं वा᳘ एत᳘दात्म᳘नो ऽग्नावा᳘धा अपाने᳘नात्म᳘न आ᳘र्त्तिमा᳘रिष्यसी᳘ति त᳘था हैव᳘ स्यात्॥

मूलम् - विस्वरम्

यदि द्वितीयस्यामनुव्याहरेत्, तं प्रति ब्रूयात्- “अपानं वा एतदात्मनो ऽग्नावाधाः, अपानेनात्मन आर्त्तिमारिष्यसि” इति । तथा हैव स्यात् ॥ १२ ॥

सायणः

[व्याख्यानम् एकादशे]

Eggeling
  1. If any one were to curse him at the second (verse), he should say to him, ‘Thereby thou hast put thine own in-breathing into the fire: by that in-breathing of thine shalt thou undergo suffering!’ for this is what would take place.

१३

विश्वास-प्रस्तुतिः

(द्य᳘) य᳘दि तृती᳘यस्यामनुव्याहरेत्॥
(त्तं) तं प्र᳘तिब्रूयादुदानं व्वा᳘ऽएत᳘दात्म᳘नोऽग्नावा᳘धा उदाने᳘नात्म᳘न आ᳘र्त्तिमा᳘रिष्यसी᳘ति त᳘था हैव᳘ स्यात्॥

मूलम् - श्रीधरादि

(द्य᳘) य᳘दि तृती᳘यस्यामनुव्याहरेत्॥
(त्तं) तं प्र᳘तिब्रूयादुदानं व्वा᳘ऽएत᳘दात्म᳘नोऽग्नावा᳘धा उदाने᳘नात्म᳘न आ᳘र्त्तिमा᳘रिष्यसी᳘ति त᳘था हैव᳘ स्यात्॥

मूलम् - Weber

य᳘दि तृती᳘यस्यामनुव्याह᳘रेत्॥
तम् प्र᳘ति ब्रूयादुदानं वा᳘ … उदाने᳘ना … स्यात्॥

मूलम् - विस्वरम्

यदि तृतीयस्यामनुव्याहरेत्, तं प्रति ब्रूयात्- “उदानं वा एतदात्मनो ऽग्नावाधाः, उदानेनात्मन आर्तिमारिष्यसि” इति । तथा हैव स्यात् ॥ १३ ॥

सायणः

[व्याख्यानम् एकादशे]

Eggeling
  1. If any one were to curse him at the third (verse), he should say to him, ‘Thereby thou hast put thine own up-breathing into the fire: by that up-breathing of thine shalt thou undergo suffering!’ for this is what would take place.

१४

विश्वास-प्रस्तुतिः

(द्य᳘) य᳘दि चतुर्थ्या᳘मनुव्याह᳘रेत्॥
(त्तं) तं प्र᳘ति ब्रूयाच्छ्रो᳘त्रं वा᳘ ऽएत᳘दात्म᳘नोऽग्नावा᳘धाः श्रो᳘त्रेणात्म᳘न ऽआ᳘र्त्तिमा᳘रिष्यसि बधिरो᳘ भविष्यसी᳘ति त᳘था हैव᳘ स्यात्॥

मूलम् - श्रीधरादि

(द्य᳘) य᳘दि चतुर्थ्या᳘मनुव्याह᳘रेत्॥
(त्तं) तं प्र᳘ति ब्रूयाच्छ्रो᳘त्रं वा᳘ ऽएत᳘दात्म᳘नोऽग्नावा᳘धाः श्रो᳘त्रेणात्म᳘न ऽआ᳘र्त्तिमा᳘रिष्यसि बधिरो᳘ भविष्यसी᳘ति त᳘था हैव᳘ स्यात्॥

मूलम् - Weber

य᳘दि चतुर्थ्या᳘मनुव्याह᳘रेत्॥
तम् प्र᳘तिब्रूयाछ्रो᳘त्रं वा᳘ एत᳘दात्म᳘नो ऽग्नावा᳘धाः श्रो᳘त्रेणात्म᳘न आ᳘र्त्तिमा᳘रिष्यसि बधिरो᳘ भविष्यसी᳘ति त᳘था हैव᳘ स्यात्॥

मूलम् - विस्वरम्

यदि चतुर्थ्यामनुव्याहरेत्, तं प्रति ब्रूयात्- “श्रोत्रं वा एतदात्मनो ऽग्नावाधाः, श्रोत्रेणात्मन आर्त्तिमारिष्यसि बधिरो भविष्यसि” इति । तथा हैव स्यात् ॥ १४ ॥

सायणः

[व्याख्यानम् एकादशे]

Eggeling
  1. If any one were to curse him at the fourth (verse), he should say to him, ‘Thereby thou hast put thine own ear into the fire: by that ear of thine shalt thou undergo suffering, thou shalt become deaf!’ for this is what would take place.

१५

विश्वास-प्रस्तुतिः

(द्य᳘) य᳘दि पञ्चम्या᳘मनुव्याह᳘रेत्॥
(त्तं) तं प्र᳘ति ब्रूयाद्वा᳘चं वा᳘ ऽएत᳘दात्म᳘नोऽग्नावा᳘धा व्वा᳘चात्म᳘न ऽ आ᳘र्त्तिमा᳘रिष्यसि मूको᳘ भविष्यसी᳘ति त᳘था हैव᳘ स्यात्॥

मूलम् - श्रीधरादि

(द्य᳘) य᳘दि पञ्चम्या᳘मनुव्याह᳘रेत्॥
(त्तं) तं प्र᳘ति ब्रूयाद्वा᳘चं वा᳘ ऽएत᳘दात्म᳘नोऽग्नावा᳘धा व्वा᳘चात्म᳘न ऽ आ᳘र्त्तिमा᳘रिष्यसि मूको᳘ भविष्यसी᳘ति त᳘था हैव᳘ स्यात्॥

मूलम् - Weber

य᳘दि पञ्चम्या᳘मनुव्याह᳘रेत्॥
तम् प्र᳘ति ब्रूयाद्वा᳘चं वा᳘ एत᳘दात्म᳘नो ऽग्नावा᳘धा वाॗचात्म᳘न आ᳘र्त्तिमा᳘रिष्यसि मूको᳘ भवि … स्यात्॥

मूलम् - विस्वरम्

यदि पञ्चम्यामनुव्याहरेत्, तं प्रति ब्रूयात्- “वाचं वा एतदात्मनो ऽग्नावाधाः, वाचात्मन आर्तिमारिष्यसि मूको भविष्यसि” इति । तथा हैव स्यात् ॥ १५ ॥

सायणः

[व्याख्यानम् एकादशे]

Eggeling
  1. If any one were to curse him at the fifth (verse), he should say to him, ‘Thereby thou hast put thine own voice into the fire: by that voice of

thine shalt thou undergo suffering, thou shalt become dumb!’ for this is what would take place.

१६

विश्वास-प्रस्तुतिः

(द्य᳘) यदि षष्ठ्या᳘मनुव्याह᳘रेत्॥
(त्तं) तं प्र᳘ति ब्रूयान्म᳘नो वा᳘ ऽएत᳘दात्मनोऽग्नावा᳘धा म᳘नसात्म᳘न ऽआ᳘र्त्तिमा᳘रिष्यसि मनोमु᳘षिगृहीतो मोमुघ᳘श्चरिष्यसी᳘ति त᳘था हैव᳘ स्यात्॥

मूलम् - श्रीधरादि

(द्य᳘) यदि षष्ठ्या᳘मनुव्याह᳘रेत्॥
(त्तं) तं प्र᳘ति ब्रूयान्म᳘नो वा᳘ ऽएत᳘दात्मनोऽग्नावा᳘धा म᳘नसात्म᳘न ऽआ᳘र्त्तिमा᳘रिष्यसि मनोमु᳘षिगृहीतो मोमुघ᳘श्चरिष्यसी᳘ति त᳘था हैव᳘ स्यात्॥

मूलम् - Weber

य᳘दि षष्ठ्या᳘मनुव्याह᳘रेत्॥
तम् प्र᳘ति ब्रूयान्म᳘नो वा᳘ एत᳘दात्म᳘नो ऽग्नावा᳘धा म᳘नसात्म᳘न आ᳘र्त्तिमा᳘रिष्यसि मनोमु᳘षिगृहीतो मोमुघ᳘श्चरिष्यसी᳘ति त᳘था हैव᳘ स्यात्॥

मूलम् - विस्वरम्

यदि षष्ठ्यामनुव्याहरेत्, तं प्रति ब्रूयात्- “मनो वा एतदात्मनो ऽग्नावाधाः मनसात्मन आर्त्तिमारिष्यसि मनोमुषिगृहीतो मोमुघश्चरिष्यसि”- इति । तथा हैव स्यात् ॥ १६ ॥

सायणः

यदि षष्ठ्यामिति । मनोमुषिगृहीत इति । मनसो मोषणं विपरिलोपः तेन गृहीतः, अत एवातिशयेन मूढश्चरिष्यसीत्यर्थः ॥ १६ ॥ १७ ॥

Eggeling
  1. If any one were to curse him at the sixth (verse), he should say to him, ‘Thereby thou hast put thine own mind into the fire: by that mind of thine shalt thou undergo suffering, thou shalt move about as one possessed with the (demon) “mind-stealer,” as one deranged in mind!’ for this is what would take place.

१७

विश्वास-प्रस्तुतिः

(द्य᳘) य᳘दि सप्तम्या᳘मनुव्याह᳘रेत्॥
(त्तं) तं प्र᳘ति ब्रूयाच्च᳘क्षुर्व्वा᳘ ऽएत᳘दात्म᳘नोऽग्नावा᳘धाश्च᳘क्षुषात्म᳘न ऽआ᳘र्त्तिमा᳘रिष्यस्यन्धो᳘ भविष्यसी᳘ति त᳘था हैव᳘ स्यात्॥

मूलम् - श्रीधरादि

(द्य᳘) य᳘दि सप्तम्या᳘मनुव्याह᳘रेत्॥
(त्तं) तं प्र᳘ति ब्रूयाच्च᳘क्षुर्व्वा᳘ ऽएत᳘दात्म᳘नोऽग्नावा᳘धाश्च᳘क्षुषात्म᳘न ऽआ᳘र्त्तिमा᳘रिष्यस्यन्धो᳘ भविष्यसी᳘ति त᳘था हैव᳘ स्यात्॥

मूलम् - Weber

य᳘दि सप्तम्यां᳘ … याच्च᳘क्षुर्वा᳘ एत᳘दात्म᳘नो ऽग्नावा᳘धाश्च᳘क्षुषात्म᳘न आ᳘र्त्तिमा᳘रिष्यस्यन्धो᳘ भवि … स्यात्॥

मूलम् - विस्वरम्

यदि सप्तम्यामनुव्याहरेत्, तं प्रति ब्रूयात्- “चक्षुर्वा एतदात्मनो ऽग्नावाधाश्चक्षुषात्मन आर्तिमारिष्यस्यन्धो भविष्यसि” -इति । तथा हैव स्यात् ॥ १७ ॥

सायणः

“[व्याख्यानम् षोडशे]”

Eggeling
  1. If any one were to curse him at the seventh (verse), he should say to him, ‘Thereby thou hast put thine own eye into the fire: by that eye of thine shalt thou undergo suffering, thou shalt become blind!’ for this is what would take place.

१८

विश्वास-प्रस्तुतिः

(द्य᳘) य᳘द्यष्टम्या᳘मनुव्याह᳘रेत्॥
(त्तं) तं प्र᳘ति ब्रूयान्म᳘ध्यं वा᳘ ऽएत᳘त्प्राण᳘मात्म᳘नोऽग्नावा᳘धा म᳘ध्येन प्राणे᳘नात्म᳘न ऽआ᳘र्त्तिमा᳘रिष्यस्युद्ध्मा᳘य मरिष्यसी᳘ति त᳘था हैव᳘ स्यात्॥

मूलम् - श्रीधरादि

(द्य᳘) य᳘द्यष्टम्या᳘मनुव्याह᳘रेत्॥
(त्तं) तं प्र᳘ति ब्रूयान्म᳘ध्यं वा᳘ ऽएत᳘त्प्राण᳘मात्म᳘नोऽग्नावा᳘धा म᳘ध्येन प्राणे᳘नात्म᳘न ऽआ᳘र्त्तिमा᳘रिष्यस्युद्ध्मा᳘य मरिष्यसी᳘ति त᳘था हैव᳘ स्यात्॥

मूलम् - Weber

य᳘द्यष्टम्या᳘म् … यान्म᳘ध्यं वा᳘ एत᳘त्प्राण᳘मात्म᳘नो ऽग्नावा᳘धा म᳘ध्येन प्राणे᳘नात्म᳘न आ᳘र्त्तिमा᳘रिष्यस्युद्ध्मा᳘य मरिष्यसी᳘ति त᳘था हैव᳘ स्यात्॥

मूलम् - विस्वरम्

यद्यष्टम्यामनुव्याहरेत्, तं प्रति ब्रूयात्- “मध्यं वा एतत्प्राणमात्मनो ऽग्नावाधाः, मध्येन प्राणेनात्मन आर्तिमारिष्यस्युद्ध्माय मरिष्यसि” -इति । तथा हैव स्यात् ॥ १८ ॥

सायणः

यद्यष्टम्यामिति । उद्ध्मायेति । ‘उद्ध्मानम्’ ऊर्द्ध्वं श्वसनम् । तत्प्राप्येत्यर्थः ॥ १८ ॥ १९ ॥

Eggeling
  1. If any one were to curse him at the eighth (verse), he should say to him, ‘Thereby thou hast put thine own central breath into the fire: by that central breath of thine shalt thou undergo suffering, thou shalt expire and die!’ for this is what would take place.

१९

विश्वास-प्रस्तुतिः

(द्य᳘) य᳘दि नवम्या᳘मनुव्याह᳘रेत्॥ (त्तं) ऽतं प्र᳘तिब्रूयाच्छिश्नं वा᳘ ऽएत᳘दात्म᳘नो ऽग्नावा᳘धाः शिश्ने᳘नात्म᳘न ऽआ᳘र्त्तिमा᳘रिष्यसि क्लीबो᳘ भविष्यसी᳘ति त᳘था हैव᳘ स्यात्॥

मूलम् - श्रीधरादि

(द्य᳘) य᳘दि नवम्या᳘मनुव्याह᳘रेत्॥ (त्तं) ऽतं प्र᳘तिब्रूयाच्छिश्नं वा᳘ ऽएत᳘दात्म᳘नो ऽग्नावा᳘धाः शिश्ने᳘नात्म᳘न ऽआ᳘र्त्तिमा᳘रिष्यसि क्लीबो᳘ भविष्यसी᳘ति त᳘था हैव᳘ स्यात्॥

मूलम् - Weber

य᳘दि नवम्यां᳘ … याछिश्नं वा᳘ एत᳘दात्म᳘नो ऽग्नावा᳘धाः शिश्ने᳘नात्म᳘न आ᳘र्त्तिमा᳘रिष्यसि क्लीबो᳘ भवि … स्यात्॥

मूलम् - विस्वरम्

यदि नवम्यामनुव्याहरेत् तं प्रति ब्रूयात्- “शिश्नं वा एतदात्मनो ऽग्नावाधाः, शिश्नेनात्मन आर्त्तिमारिष्यसि क्लीबो भविष्यसि” इति । तथा हैव स्यात् ॥ १९ ॥

सायणः

“[व्याख्यानम् अष्टादशे]”

Eggeling
  1. If any one were to curse him at the ninth (verse), he should say to him, ‘Thereby thou hast put thine own organ into the fire: by that organ of thine shalt thou undergo suffering, thou shalt become emasculate!’ for this is what would take place.

२०

विश्वास-प्रस्तुतिः

(द्य᳘) य᳘दि दशम्या᳘मनुव्याह᳘रेत्॥ (त्तं) तं प्र᳘ति ब्रूयाद᳘वाञ्चं वा᳘ ऽएत᳘त्प्राण᳘मात्म᳘नोऽग्नावा᳘धा ऽअ᳘वाचा प्राणे᳘नात्म᳘न आ᳘र्त्तिमा᳘रिष्यस्य᳘पिनद्धो मरिष्यसी᳘ति त᳘था हैव᳘ स्यात्॥

मूलम् - श्रीधरादि

(द्य᳘) य᳘दि दशम्या᳘मनुव्याह᳘रेत्॥ (त्तं) तं प्र᳘ति ब्रूयाद᳘वाञ्चं वा᳘ ऽएत᳘त्प्राण᳘मात्म᳘नोऽग्नावा᳘धा ऽअ᳘वाचा प्राणे᳘नात्म᳘न आ᳘र्त्तिमा᳘रिष्यस्य᳘पिनद्धो मरिष्यसी᳘ति त᳘था हैव᳘ स्यात्॥

मूलम् - Weber

य᳘दि दशम्यामनु … याद᳘वाञ्चं वा᳘ एत᳘त्प्राण᳘मात्म᳘नो ऽग्नावा᳘धा᳘ अ᳘वाचा प्राणे᳘नात्म᳘न आ᳘र्त्तिमा᳘रिष्यस्य᳘पिनद्धो मरिष्यसी᳘ति त᳘था हैव᳘ स्यात्॥

मूलम् - विस्वरम्

यदि दशम्यामनुव्याहरेत्, तं प्रति ब्रूयात्- “अवाञ्चं वा एतत्प्राणमात्मनो ऽग्नावाधाः, अवाचा प्राणेनात्मन आर्त्तिमारिष्यस्यपिनद्धो मरिष्यसि” इति । तथा हैव स्यात् ॥ २० ॥

सायणः

यदि दशम्यामिति । अपिनद्धो मरिष्यसीतीति । ‘अपिनद्धः’ बन्धनयुक्त इत्यर्थः ॥ २० ॥

Eggeling
  1. If any one were to curse him at the tenth (verse), he should say to him, ‘Thereby thou hast put thine own down-breathing into the fire: by that down-breathing of thine shalt thou undergo suffering, thou shalt die from constipation!’ for this is what would take place.

२१

विश्वास-प्रस्तुतिः

(द्य᳘) य᳘द्येकादश्या᳘मनुव्याह᳘रेत्॥ (त्तं) तं प्र᳘ति ब्रूयात्स᳘र्व्वं व्वा᳘ ऽएत᳘दात्मानमग्नावा᳘धाः स᳘र्व्वेणात्मना᳘र्त्तिर्मा᳘रिष्यसि क्षि᳘प्रेऽमुं᳘ लोक᳘मेष्यसी᳘ति तथा हैव᳘ स्यात्॥

मूलम् - श्रीधरादि

(द्य᳘) य᳘द्येकादश्या᳘मनुव्याह᳘रेत्॥ (त्तं) तं प्र᳘ति ब्रूयात्स᳘र्व्वं व्वा᳘ ऽएत᳘दात्मानमग्नावा᳘धाः स᳘र्व्वेणात्मना᳘र्त्तिर्मा᳘रिष्यसि क्षि᳘प्रेऽमुं᳘ लोक᳘मेष्यसी᳘ति तथा हैव᳘ स्यात्॥

मूलम् - Weber

य᳘द्येकादश्या᳘म …॥
यात्स᳘र्वं वा᳘ एत᳘दात्मा᳘नमग्नावा᳘धाः स᳘र्वेणात्मना᳘र्त्तिर्मा᳘रिष्यसि क्षिॗप्रे ऽमुं᳘ लोक᳘मेष्यसी᳘ति त᳘था हैव᳘ स्यात्॥

मूलम् - विस्वरम्

यद्येकादश्यामनुव्याहरेत्, तं प्रति ब्रूयात्- “सर्वं वा एतदात्मानमग्नावाधाः; सर्वेणात्मनार्त्तिमरिष्यसि क्षिप्रे ऽमुं लोकमेष्यसि” इति । तथा हैव स्यात् ॥ २१॥

सायणः

यद्येकादश्यामिति । क्षिप्रे ऽमुं लोकमिति । ‘क्षिप्रे’ अल्प एव काले, कालविलम्बमन्तरेण ‘अमुं’ द्युलोकं गमिष्यसीत्यर्थः ॥ २१ ॥

Eggeling
  1. If any one were to curse him at the eleventh (verse), he should say to him, ‘Thereby thou hast

put thine entire body into the fire: with that entire body of thine shalt thou undergo suffering, thou shalt swiftly pass to yonder world!’ for this is what would take place.

२२

विश्वास-प्रस्तुतिः

(त्स) स य᳘था है᳘वाग्नि᳘ᳫँ᳭॥
सामिधेनी᳘भिः स᳘मिद्धमापद्या᳘र्त्तिं न्ये᳘त्येव्᳘ᳫँ᳘ हैव᳘ ब्राह्मण᳘ᳫँ᳘ सामिधेनी᳘र्व्विद्वा᳘ᳫँ᳘समनुब्रुव᳘न्तमनुव्याहृत्या᳘र्त्तिं᳘ न्येति॥

मूलम् - श्रीधरादि

(त्स) स य᳘था है᳘वाग्नि᳘ᳫँ᳭॥
सामिधेनी᳘भिः स᳘मिद्धमापद्या᳘र्त्तिं न्ये᳘त्येव्᳘ᳫँ᳘ हैव᳘ ब्राह्मण᳘ᳫँ᳘ सामिधेनी᳘र्व्विद्वा᳘ᳫँ᳘समनुब्रुव᳘न्तमनुव्याहृत्या᳘र्त्तिं᳘ न्येति॥

मूलम् - Weber

स य᳘था हैॗवाग्नि᳘म्॥
सामिधेनी᳘बिः स᳘मिद्धमापद्या᳘र्त्तिं न्ये᳘त्येव᳘ᳫं᳘ हैव᳘ ब्राह्मण᳘ᳫं᳘ सामिधेनी᳘र्विद्वा᳘ᳫं᳘सᳫं समनुब्रुव᳘न्तमनुव्याहृत्या᳘र्त्तिंॗ न्येति॥

मूलम् - विस्वरम्

स यथा हैवाग्निं सामिधेनीभिः समिद्धमापद्यार्त्तिं न्येति, एवं हैव ब्राह्मणं सामिधेनीर्विद्वांसमनुब्रुवन्तमनुव्याहत्यार्त्तिं न्येति ॥ २२ ॥

सायणः

एवं सामिधेनीरनुब्रुवतो होतुरग्निसमानत्वात्तद्दृष्टान्तत्वेन होतृशापकारिणः प्रतिपादितामार्तिं निगमयति- स यथेति । ‘सामिधेनीभिः’ करणैः ‘समिद्धमग्निं’ प्राप्य ‘यथा आर्त्तिं’ ‘न्येति’ नितरां प्राप्नोति, तथैव ‘सामिधेनीः’ विदुषो होतुर्द्वेष्यश्च तदनुव्याहारनिमित्तामुक्तविधां पीडां प्राप्नोतीत्यर्थः ॥ २२ ॥ ५ (४.३.) ॥

इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनशतपथब्राह्मणभाष्ये प्रथमकाण्डे चतुर्थाध्याये तृतीयं ब्राह्मणम् ॥

Eggeling
  1. For in like manner as one undergoes suffering on approaching the fire that has been kindled by means of the kindling verses, so also does one undergo suffering for cursing a priest (brāhmaṇa) who knows and recites the kindling verses.

  1. द्रढयतीत्यधिकं क्वचित् । ↩︎ ↩︎ ↩︎

  2. ‘प्रवोवाजा’ इति प्रथमा सामिधेनी ‘प्रवती’ ‘प्रतिलिङ्गा’ वा । तै. ब्रा. ३ । ५ । २ । १ । ↩︎

  3. ‘अग्न आयाहि’ इति द्वितीया सामिधेनी ‘आवती’ ‘एतिलिङ्गा’ वा. तै. ब्रा. ३ । ५ । २ । २ । ↩︎

  4. ‘तं त्वा’ इति तृतीया सामिधेनी ‘गीर्वती’ तै. ब्रा. ३ । ५ । २ । ३ । ↩︎

  5. 120:1 The first two words of the first sāmidhenī, cf. p. 101 note. A mystic meaning is obtained for them by our author combining them and identifying the form obtained with the adjective pravant, meaning both ‘containing the syllable pra’ and ‘directed forwards,’ both of which meanings apply to the breathing-forth or expiration (prāṇa, cf. I, 1, 3, 2). ↩︎

  6. 120:2 Bahir nirgatasya vāyor ātmābhimukhī vr̥ttir by apānaḥ, udānavāyur dehasyotkshepaṇād adhikatejoyuktaḥ. Sāyaṇa. ↩︎

  7. 120:3 The author apparently takes br̥hacchocā(ḥ) as a compound. ↩︎

  8. 121:1 ‘That (region) wide and glorious’ (do thou obtain for us); but the author takes pr̥thu śravāyyam as ’that widely hearing one’ or ’the wide hearing.’ Sāyaṇa, on Taitt. S. II, 5, 8, interprets it by ’that (holy work) which is extended and worthy of being heard by the gods.’ ↩︎

  9. 121:2 He apparently takes īdenya in an active sense. ↩︎

  10. ‘वृषो अग्निः’ इति षष्ठी सामिधेनी ‘हविष्मती’ तै. ब्रा. ३ । ५ । २ । ६ । ↩︎ ↩︎ ↩︎ ↩︎

  11. ‘न्द्ध’ इति पा. एवमन्यत्रापि । ↩︎ ↩︎ ↩︎

  12. ‘आजुहोता’ इति एकादशी सामिधेनी ‘उत्तमा’ तै. ब्रा. ३ । ५ । २ । ११ । ↩︎ ↩︎