०१

विश्वास-प्रस्तुतिः

एत᳘द्ध वै᳘ देवा᳘ ऽअग्निं ग᳘रिष्ठे युञ्जन्॥
(न्य᳘) य᳘द्धोतृत्व᳘ ऽइद᳘न्नो हव्यं᳘ व्वहे᳘ति त᳘मेतद्ग᳘रिष्ठे युक्त्वो᳘पामदन्वी᳘र्यवान्वै त्व᳘मस्य᳘लं वै त्व᳘मेत᳘स्मा ऽअसी᳘ति व्वी᳘र्ये समाद᳘धतो य᳘थेदम᳘प्येत᳘र्हि ज्ञातीनां यं ग᳘रिष्ठे युञ्ज᳘न्ति त᳘मुपम᳘दन्ति व्वी᳘र्यवान्वै त्व᳘मस्य᳘लं वै त्व᳘मेत᳘स्मा ऽअसी᳘ति व्वी᳘र्ये समाद᳘धतः स यद᳘त ऊर्ध्व᳘मन्वाहो᳘पस्तौत्ये᳘मेत᳘द्वी᳘र्यमे᳘वास्मिन्दधाति॥

मूलम् - श्रीधरादि

एत᳘द्ध वै᳘ देवा᳘ ऽअग्निं ग᳘रिष्ठे युञ्जन्॥
(न्य᳘) य᳘द्धोतृत्व᳘ ऽइद᳘न्नो हव्यं᳘ व्वहे᳘ति त᳘मेतद्ग᳘रिष्ठे युक्त्वो᳘पामदन्वी᳘र्यवान्वै त्व᳘मस्य᳘लं वै त्व᳘मेत᳘स्मा ऽअसी᳘ति व्वी᳘र्ये समाद᳘धतो य᳘थेदम᳘प्येत᳘र्हि ज्ञातीनां यं ग᳘रिष्ठे युञ्ज᳘न्ति त᳘मुपम᳘दन्ति व्वी᳘र्यवान्वै त्व᳘मस्य᳘लं वै त्व᳘मेत᳘स्मा ऽअसी᳘ति व्वी᳘र्ये समाद᳘धतः स यद᳘त ऊर्ध्व᳘मन्वाहो᳘पस्तौत्ये᳘मेत᳘द्वी᳘र्यमे᳘वास्मिन्दधाति॥

मूलम् - Weber

एत᳘द्ध वै᳘ देवा᳘ अग्निं ग᳘रिष्ठे ऽयुञ्जन्॥
य᳘द्धोतृत्व᳘ इदं᳘ नो हव्यं᳘ वहे᳘ति त᳘मेतद्ग᳘रिष्ठे युक्त्वो᳘पामदन्वीर्य᳘वान्वै त्व᳘मस्य᳘लं वै त्व᳘मेत᳘स्मा असी᳘ति वीॗर्ये समाद᳘धतो य᳘थेदम᳘ष्येत᳘र्हि ज्ञातीनां यं ग᳘रिष्ठे युञ्ज᳘न्ति त᳘मुपम᳘दन्ति वीर्य᳘वान्वै त्व᳘मस्य᳘लं वै त्व᳘मेत᳘स्मा असी᳘ति वीॗर्ये समाद᳘धतः स यद᳘मेॗवास्मिन्दधाति॥

मूलम् - विस्वरम्

निगदानुवचनम् ।

एतद्ध वै देवा अग्निं गरिष्ठे युञ्जन्- यद्धोतृत्वे ‘इदं नो हव्यं वह’ इति । तमेतद् गरिष्ठे युक्त्वोपामदन् ‘वीर्यवान् वै त्वमसि, अलं वै त्वमेतस्मा असि’ इति- वीर्ये समादधतः । यथेदमप्येतर्हि ज्ञातीनां यं गरिष्ठे युञ्जन्ति, तमुपमदन्ति- वीर्यवान्वै त्वमसि, अलं वै त्वमेतस्मा असीति वीर्ये समादधतः । स यदत ऊर्ध्वमन्वाह- उपस्तौत्येवैनमेतत्, वीर्यमेवास्मिन् दधाति ॥ १ ॥

सायणः

सामिधेन्यनुवचनानन्तरमग्ने महाँ असीति 1 निगदस्यानुवचनं 2 विधित्सुस्तत्प्रतिपाद्यायाः प्रशंसायाः कर्त्तव्यतां तदुपोद्धातत्वेन प्रतिपादयति- एतद्ध वा इति । ‘गरिष्ठे’ गुरुतमे । “प्रियस्थिर”- (पा० सू० ६. ४. १५७) इत्यादिना गुरुशब्दस्य गरादेशः । हविर्वहनार्थं गुरुतमे तस्मिन् होतृत्वे योजयित्वा तस्योत्साहं जनयितुम् ‘उपामदन्’ अस्तुवन् । “वीर्यवान् वै" इत्यादिः स्तुतिप्रकारः । अनया च स्तुत्या ‘तम्’ अग्निं ‘वीर्ये’ सम्यक् स्थापितवन्तः । इदं लौकिकेन दृष्टान्तेन प्रतिपादयति- यथेदमिति । निगदस्यानुवचनं विधत्ते- स यदिति । ‘अतः’ अस्मात् सामिधेन्यनुवचनादित्यर्थः ॥ १ ॥

Eggeling
  1. Now in former times the gods appointed Agni to the chief (office), namely, that of Hotr̥; and having appointed him to the chief (office) saying ‘do thou carry this our oblation!’ they cheered him up, saying, ‘Surely, thou art vigorous; surely, thou art equal to this!’ thereby endowing him with vigour, even as in our own days, when they appoint any one from among their kinsmen to the chief (office), they cheer him up saying ‘surely, thou art vigorous; surely, thou art equal to this!’ thereby endowing him with vigour. By what, therefore, he recites after this, he eulogizes him, puts vigour into him 3.

०२

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘ग्ने महा᳘ २ँ ॥ ऽअसि ब्राह्मण भारते᳘ति॥
ब्र᳘ह्म᳘ ह्यग्निस्त᳘स्मादाह ब्राह्मणे᳘ति भारते᳘त्येष हि᳘ देवे᳘भ्यो हव्यं भ᳘रति त᳘स्माद्भर᳘तो ऽग्निरि᳘त्याहुरेष᳘ उ वा᳘ ऽइमाः᳘ प्रजाः᳘ प्राणो᳘ भूत्वा᳘ बिभर्त्ति त᳘स्माद्वे᳘वाह भारतेति᳘॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘ग्ने महा᳘ २ँ ॥ ऽअसि ब्राह्मण भारते᳘ति॥
ब्र᳘ह्म᳘ ह्यग्निस्त᳘स्मादाह ब्राह्मणे᳘ति भारते᳘त्येष हि᳘ देवे᳘भ्यो हव्यं भ᳘रति त᳘स्माद्भर᳘तो ऽग्निरि᳘त्याहुरेष᳘ उ वा᳘ ऽइमाः᳘ प्रजाः᳘ प्राणो᳘ भूत्वा᳘ बिभर्त्ति त᳘स्माद्वे᳘वाह भारतेति᳘॥

मूलम् - Weber

अ᳘ग्ने महां᳘ असि ब्राह्मण भारते᳘ति॥
ब्र᳘ह्म ह्य᳘ग्निस्त᳘स्मादाह ब्राह्मणे᳘ति भारते᳘त्येष हि᳘ देवे᳘भ्यो हव्यं भ᳘रति त᳘स्माद्भरॗतो ऽग्निरि᳘त्याहुरेष᳘ उ वा᳘ इमाः᳘ प्रजाः᳘ प्राणो᳘ भूत्वा᳘ बिभर्ति त᳘स्माद्वेॗवाह भारते᳘ति॥

मूलम् - विस्वरम्

“अग्ने महा २ँ॥ असि ब्राह्मण भारत”- इति । ब्रह्म ह्यग्निः । तस्मादाह- ब्राह्मणेति । “भारतेति" । एष हि देवेभ्यो हव्यं भरति, तस्माद् भरतो ऽग्निरित्याहुः । एष उ वा इमाः प्रजाः प्राणो भूत्वा बिभर्त्ति, तस्माद्वेवाह- भारतेति ॥ २ ॥

सायणः

अनुवक्तव्यं निगदं पठित्वा पदशो व्याचष्टे- अग्ने महानित्यादिना । “स त्रेधात्मानं व्यकुरुताग्निं तृतीय वायुं तृतीयम्”- इत्यादिश्रुतेरग्निवाय्वादित्यात्मना 1 ब्रह्मणस्त्रेधावस्थानात् “ब्रह्म ह्यग्निः”- इति तादात्म्यप्रतिपादनम् । ‘तस्मात्’ ब्रह्मणो जातत्वाद् ‘ब्राह्मणेति’ अग्निः स्तूयत इत्यर्थः । ‘भारत’ इति पदमनूद्य द्वेधा निर्ब्रूते- एष हीत्यादिना ॥ २ ॥

Eggeling
  1. ‘O Agni, thou art great! O priest (brāhmaṇa), O Bhārata!’ for Agni, indeed, is the brahman

(sacerdotium): therefore he says ‘O Brāhmaṇa!–O Bhārata’ he says, because he (Agni) bears (bhar) the oblation to the gods: therefore they say ‘Agni is bhārata (the bearer).’ Or, he, being the breath, sustains (bhar) these creatures: therefore he says ‘O Bhārata (sustainer)!’

०३

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थार्षेयं प्र᳘वृणीते॥
(त ऽ) ऽऋ᳘षिभ्यश्चै᳘वैनमेत᳘द्देवे᳘भ्यश्च नि᳘वेदयत्ययं᳘ महा᳘वीर्यो यो᳘ यज्ञं प्रा᳘पदि᳘ति त᳘स्मादार्षेयं प्र᳘वृणीते॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थार्षेयं प्र᳘वृणीते॥
(त ऽ) ऽऋ᳘षिभ्यश्चै᳘वैनमेत᳘द्देवे᳘भ्यश्च नि᳘वेदयत्ययं᳘ महा᳘वीर्यो यो᳘ यज्ञं प्रा᳘पदि᳘ति त᳘स्मादार्षेयं प्र᳘वृणीते॥

मूलम् - Weber

अ᳘थार्षेयम् प्र᳘वणीते॥
ऋ᳘षिभ्यश्चैॗवैनमेत᳘द्देवे᳘भ्यश्च नि᳘वेदयत्यय᳘म् महा᳘वीर्यो यो᳘ यज्ञम् प्रा᳘पदि᳘ति त᳘स्मादार्षेयम् प्र᳘वृणीते॥

मूलम् - विस्वरम्

आर्षेयानुवचनम् ।

अथार्षेयं प्रवृणीते । ऋषिभ्यश्चैवैनमेतद्देवेभ्यश्च निवेदयति- ‘अयं महावीर्यो- यो यज्ञं प्रापदिति’ । तस्मादार्षेयं प्रवृणीते ॥ ३ ॥

सायणः

आर्षेयमित्यादि । होतृकर्त्तृकप्रवरविधिः ॥ ३ ॥

Eggeling
  1. He now calls on (Agni as) the ancestral (Hotr̥ priest) 4. He thereby introduces him both to the R̥shis and to the gods (as if he were to say), ‘Of great vigour is he who has obtained the sacrifice!’ This is the reason why he calls on (Agni as) the ancestral (Hotr̥).

०४

विश्वास-प्रस्तुतिः

पर᳘स्तादर्व्वाक्प्र᳘वृणीते॥
पर᳘स्ता᳘द्ध्यर्व्वा᳘च्यः प्रजाः᳘ प्रजा᳘यन्ते ज्या᳘यसस्प᳘तय ऽउ चै᳘वैतं᳘ नि᳘ह्नुत ऽइदᳫँ᳭ हि᳘ पि᳘तैवाग्रे᳘ ऽथ पुत्रो᳘ ऽथ पौ᳘त्रस्त᳘स्मात्पर᳘स्तादर्व्वाक्प्र᳘वृणीते॥

मूलम् - श्रीधरादि

पर᳘स्तादर्व्वाक्प्र᳘वृणीते॥
पर᳘स्ता᳘द्ध्यर्व्वा᳘च्यः प्रजाः᳘ प्रजा᳘यन्ते ज्या᳘यसस्प᳘तय ऽउ चै᳘वैतं᳘ नि᳘ह्नुत ऽइदᳫँ᳭ हि᳘ पि᳘तैवाग्रे᳘ ऽथ पुत्रो᳘ ऽथ पौ᳘त्रस्त᳘स्मात्पर᳘स्तादर्व्वाक्प्र᳘वृणीते॥

मूलम् - Weber

पर᳘स्तादर्वाक्प्र᳘वृणीते॥
पर᳘स्ताद्ध्य᳘र्वा᳘च्यः प्रजाः᳘ प्रजा᳘यन्ते ज्या᳘यसस्प᳘तय उ चैॗवैतं नि᳘ह्नुत इदᳫं हि᳘ पिॗतैवाग्रे᳘ ऽथ पुत्रो᳘ ऽथ पौ᳘त्रस्त᳘स्मात्पर᳘स्तादर्वाक्प्र᳘वृणीते॥

मूलम् - विस्वरम्

परस्तादर्वाक् प्रवृणीते । परस्ताद्ध्यर्वाच्यः प्रजाः प्रजायन्ते, ज्यायसस्पतय उ चैवैतं निह्नुते, इदं हि- पितैवाग्रे, अथ पुत्रः, अथ पौत्रः; तस्मात्परस्तादर्वाक् प्रवृणीते ॥ ४ ॥

सायणः

तत्र धर्मविशेषमाह- परस्तादर्वागिति । तस्मिन्नार्षेयप्रवरणे कूटस्थमृषिमारभ्य तत्पुत्रपौत्रादिक्रमेणार्वाचीनं वरणं कर्त्तव्यम् । यथा आङ्गिरसबार्हस्पत्यभारद्वाजेत्यादि । तथा च ‘ज्यायसः’ भावपरो निर्द्देशः; ज्यैष्ठ्यस्य ‘पतय एवैतं 5 निह्नुते’ अनेन प्रवरणेन निवेदयति । स्पष्टमन्यत् ॥ ४ ॥

Eggeling
  1. He calls from the remote end (of the sacrificer’s

ancestral line) downwards; for it is from the remote end downwards that a race is propagated. He (the Hotr̥) also thereby propitiates the lord of seniority for him (the Sacrificer); for here among men the father comes first, then the son, and then the grandson: this is the reason why he calls from the remote end downwards.

०५

विश्वास-प्रस्तुतिः

स᳘ ऽआर्षेय᳘मु᳘क्त्वाह॥
देवे᳘द्धो म᳘न्विद्ध ऽइ᳘ति देवा᳘ ह्येतम᳘ग्र ऽऐ᳘न्धत त᳘स्मादाह देवे᳘द्ध ऽइ᳘ति म᳘न्विद्ध ऽइ᳘ति म᳘नु᳘र्ह्येतम᳘ग्र ऽऐ᳘न्द्ध त᳘स्मादाह म᳘न्विद्ध ऽइ᳘ति॥

मूलम् - श्रीधरादि

स᳘ ऽआर्षेय᳘मु᳘क्त्वाह॥
देवे᳘द्धो म᳘न्विद्ध ऽइ᳘ति देवा᳘ ह्येतम᳘ग्र ऽऐ᳘न्धत त᳘स्मादाह देवे᳘द्ध ऽइ᳘ति म᳘न्विद्ध ऽइ᳘ति म᳘नु᳘र्ह्येतम᳘ग्र ऽऐ᳘न्द्ध त᳘स्मादाह म᳘न्विद्ध ऽइ᳘ति॥

मूलम् - Weber

स᳘ आर्षेय᳘मुॗक्त्वाह॥
देवे᳘द्धो म᳘न्विद्ध इ᳘ति देवाॗ ह्येतम᳘ग्र ऐ᳘न्धत त᳘स्मादाह देवे᳘द्ध इ᳘ति म᳘न्विद्ध इ᳘ति म᳘नुॗर्ह्येतम᳘ग्र ऐ᳘न्द्ध त᳘स्मादाह म᳘न्विद्ध इति॥

मूलम् - विस्वरम्

निवित्पाठः ।

स आर्षेयभुक्त्वाह- “देवेद्धो मन्विद्धः”- (तै. ब्रा. ३. ५. ३. १) इति । देवा ह्येतमग्र ऐन्धत । तस्मादाह- देवेद्ध इति । मन्विद्ध इति । मनुर्ह्येतमग्र ऐन्ध । तस्मादाह- मन्विद्ध इति ॥ ५ ॥

सायणः

‘देवेद्धः’ इत्यादिनिवित्पदानामनुवचनं विधत्ते 5- स आर्षेयमुक्त्वेति । तानि पदानि क्रमेण व्याचष्टे- देवा ह्येतमित्यादिना । स्पष्टोऽर्थः । ५ । ६ । ७ । ८ । ९ । १० । ११ । १२ ॥

Eggeling
  1. Having named (him as) the ancestral one, he says, ‘(thou wert) kindled by the gods, kindled by Manu;’ for in olden times the gods did kindle him: for this reason he says ‘kindled by the gods;’ and ‘kindled by Manu’ he says, because in olden times Manu did kindle him: for this reason he says ‘kindled by Manu.’

०६

विश्वास-प्रस्तुतिः

(त्यृ᳘) ऋ᳘षिष्टुत ऽइति॥
(त्य᳘) ऋ᳘षयो᳘ ह्येतमग्रे᳘ ऽस्तुवंस्त᳘स्मादाह᳘ ऽर्षिष्टुत ऽइ᳘ति॥

मूलम् - श्रीधरादि

(त्यृ᳘) ऋ᳘षिष्टुत ऽइति॥
(त्य᳘) ऋ᳘षयो᳘ ह्येतमग्रे᳘ ऽस्तुवंस्त᳘स्मादाह᳘ ऽर्षिष्टुत ऽइ᳘ति॥

मूलम् - Weber

ऋ᳘षिष्टुत इ᳘ति॥
ऋ᳘षयोॗ ह्येतमग्रे᳘ स्तुवंस्त᳘स्मादाह᳘ऽर्षिष्टुत इ᳘ति॥

मूलम् - विस्वरम्

“ऋषिष्टुतः”- (३. ५. ३. २) इति । ऋषयो ह्येतमग्रे ऽस्तुवन् । तस्मादाह- ऋषिष्टुत इति ॥ ६ ॥

सायणः

“[व्याख्यानम् पञ्चमे]”

Eggeling
  1. He continues, ‘Praised by the R̥shis (wert thou);’ for in olden times the R̥shis did praise him: for this reason he says ‘praised by the R̥shis.’

०७

विश्वास-प्रस्तुतिः

व्विप्रानुमदित ऽइ᳘ति॥
(त्ये) एते वै व्वि᳘प्रा यदृ᳘षय ऽएते᳘ ह्येत᳘मन्व᳘मदंस्त᳘स्मादाह व्वि᳘प्रानुमदित ऽइ᳘ति॥

मूलम् - श्रीधरादि

व्विप्रानुमदित ऽइ᳘ति॥
(त्ये) एते वै व्वि᳘प्रा यदृ᳘षय ऽएते᳘ ह्येत᳘मन्व᳘मदंस्त᳘स्मादाह व्वि᳘प्रानुमदित ऽइ᳘ति॥

मूलम् - Weber

विप्रानुमदित इ᳘ति॥
एते वै वि᳘प्रा यदृ᳘षय एतेॗ ह्येत᳘मन्व᳘मदंस्त᳘स्मादाह वि᳘प्रानुमदित इ᳘ति॥

मूलम् - विस्वरम्

“विप्रानुमदितः”- (३. ५. ३. ३) इति । एते वै विप्राः- यदृषयः । एते ह्येतमन्वमदन् । तस्मादाह- विप्रानुमदित इति ॥ ७ ॥

सायणः

“[व्याख्यानम् पञ्चमे]”

Eggeling
  1. Further, ‘Gladdened by bards (vipra);’ for those bards, the R̥shis, indeed gladdened him: for this reason he says ‘gladdened by bards.’

०८

विश्वास-प्रस्तुतिः

कवि᳘शस्त ऽइ᳘ति॥
(त्ये) एते वै᳘ कव᳘यो यदृ᳘षय ऽएते᳘ ह्येतम᳘शᳫँ᳭ संस्त᳘स्मादाह कवि᳘शस्त ऽइ᳘ति॥

मूलम् - श्रीधरादि

कवि᳘शस्त ऽइ᳘ति॥
(त्ये) एते वै᳘ कव᳘यो यदृ᳘षय ऽएते᳘ ह्येतम᳘शᳫँ᳭ संस्त᳘स्मादाह कवि᳘शस्त ऽइ᳘ति॥

मूलम् - Weber

कवि᳘शस्त इ᳘ति॥
एते वै᳘ कवयो यदृ᳘षय एतेॗ ह्येतम᳘शंसंस्त᳘स्मादाह कवि᳘शस्त इ᳘ति॥

मूलम् - विस्वरम्

“कविशस्तः”- (३. ५. ३. ४) इति । एते वै कवयो यदृषयः । एते ह्येतमशंसन् । तस्मादाह- कविशस्त इति ॥ ८ ॥

सायणः

“[व्याख्यानम् पञ्चमे]”

Eggeling
  1. Further, ‘Celebrated by sages (kavi);’ for those sages, the R̥shis, indeed celebrated him: this is why he says ‘celebrated by sages.’

०९

विश्वास-प्रस्तुतिः

ब्र᳘ह्मसᳫँ᳭ शित ऽइ᳘ति॥ ब्र᳘ह्मसᳫँ᳭ शितो᳘ ह्येष᳘ घृता᳘हवन ऽइ᳘ति घृता᳘हवनो᳘ ह्येषः᳘॥

मूलम् - श्रीधरादि

ब्र᳘ह्मसᳫँ᳭ शित ऽइ᳘ति॥ ब्र᳘ह्मसᳫँ᳭ शितो᳘ ह्येष᳘ घृता᳘हवन ऽइ᳘ति घृता᳘हवनो᳘ ह्येषः᳘॥

मूलम् - Weber

ब्र᳘ह्मसंशित इ᳘ति ब्र᳘ह्मसंशितोॗ ह्येष᳘ घृता᳘हवन इ᳘ति घृता᳘हवनोॗ ह्येषः᳟॥

मूलम् - विस्वरम्

“ब्रह्मस ँ शित” (३. ५. ३. ५) इति । ब्रह्मसंशितो ह्येषः । “घृताहवनः”- (३. ५. ३. ६) इति । घृताहवनो ह्येषः ॥ ९ ॥

सायणः

“[व्याख्यानम् पञ्चमे]”

Eggeling
  1. Further, ‘Sharpened by the brahman (the Veda or vedic formulas),’ for he is indeed sharpened by the brahman;–’the receiver of butter-offerings,’ for he is indeed the receiver of butter-offerings.

१०

विश्वास-प्रस्तुतिः

प्रणी᳘र्यज्ञा᳘नांᳫं रथी᳘रध्वरा᳘णामि᳘ति॥
(त्ये) एते᳘न वै स᳘र्व्वान्यज्ञान्प्र᳘णयन्ति ये᳘ च पाकयज्ञा ये चे᳘तरे त᳘स्मादाह प्रणीर्य᳘ज्ञा᳘नामि᳘ति॥

मूलम् - श्रीधरादि

प्रणी᳘र्यज्ञा᳘नांᳫं रथी᳘रध्वरा᳘णामि᳘ति॥
(त्ये) एते᳘न वै स᳘र्व्वान्यज्ञान्प्र᳘णयन्ति ये᳘ च पाकयज्ञा ये चे᳘तरे त᳘स्मादाह प्रणीर्य᳘ज्ञा᳘नामि᳘ति॥

मूलम् - Weber

प्रणी᳘र्यज्ञा᳘नां रथी᳘रध्वरा᳘णामि᳘ति॥
एते᳘न वै स᳘र्वान्यज्ञान्प्र᳘णयन्ति ये᳘ च पाकयज्ञा ये चे᳘तरे त᳘स्मादाह प्रणी᳘र्यज्ञा᳘नामि᳘ति॥

मूलम् - विस्वरम्

“प्रणीर्यज्ञानाँरथीरध्वराणाम्”- (३. ५. ३. ७) इति । एतेन वै सर्वान् यज्ञान् प्रणयन्ति, ये च पाकयज्ञाः, ये चेतरे । तस्मादाह- प्रणीर्यज्ञानामिति ॥ १० ॥

सायणः

“[व्याख्यानम् पञ्चमे]”

Eggeling
  1. Further, ‘The leader of oblations (yajña), the carrier of (Soma-)sacrifices (adhvara),’ for through him they lead forward all oblations, both the domestic oblations and the others: this is why he says ’the leader of oblations.’

११

विश्वास-प्रस्तुतिः

रथी᳘रध्वरा᳘णामि᳘ति॥
र᳘थो ह वा᳘ एष᳘ भूत्वा᳘ देवे᳘भ्यो यज्ञं᳘ व्वहति त᳘स्मादाह रथी᳘रध्वरा᳘णामि᳘ति॥

मूलम् - श्रीधरादि

रथी᳘रध्वरा᳘णामि᳘ति॥
र᳘थो ह वा᳘ एष᳘ भूत्वा᳘ देवे᳘भ्यो यज्ञं᳘ व्वहति त᳘स्मादाह रथी᳘रध्वरा᳘णामि᳘ति॥

मूलम् - Weber

रथी᳘रध्वरा᳘णामि᳘ति॥
र᳘थो ह वा᳘ एष᳘ भूत्वा᳘ देवे᳘भ्यो यज्ञं᳘ वहति त᳘स्मादाह रथी᳘रध्वरा᳘णामि᳘ति॥

मूलम् - विस्वरम्

रथीरध्वराणामिति । रथो ह वा एष भूत्वा देवेभ्यो यज्ञं वहति । तस्मादाह- रथीरध्वराणामिति ॥ ११॥

सायणः

“[व्याख्यानम् पञ्चमे]”

Eggeling
  1. ‘The carrier (rathī) of sacrifices;’ for being a cart (as it were) he conveys the sacrifice to the

gods: this is the reason why he says ’the carrier of sacrifices.’

१२

विश्वास-प्रस्तुतिः

(त्य) अतू᳘र्त्तो हो᳘ता तू᳘र्णिर्हव्यवाडि᳘ति॥
न᳘ ह्येतᳫँ᳭ र᳘क्षाᳫंसि त᳘रन्ति त᳘स्मादाहातू᳘र्त्तो होते᳘ति तू᳘र्णिर्हव्यवाडि᳘ति स᳘र्व्ँ वᳫ᳘ ह्येष᳘ पाप्मा᳘नं तरति त᳘स्मादाह तू᳘र्णिर्हव्यवाडि᳘ति॥

मूलम् - श्रीधरादि

(त्य) अतू᳘र्त्तो हो᳘ता तू᳘र्णिर्हव्यवाडि᳘ति॥
न᳘ ह्येतᳫँ᳭ र᳘क्षाᳫंसि त᳘रन्ति त᳘स्मादाहातू᳘र्त्तो होते᳘ति तू᳘र्णिर्हव्यवाडि᳘ति स᳘र्व्ँ वᳫ᳘ ह्येष᳘ पाप्मा᳘नं तरति त᳘स्मादाह तू᳘र्णिर्हव्यवाडि᳘ति॥

मूलम् - Weber

अतू᳘र्तो हो᳘ता तू᳘र्णिर्हव्यवाडि᳘ति॥
नॗ ह्येतं र᳘क्षांसि त᳘रन्ति त᳘स्मादाहातू᳘र्तो होते᳘ति तू᳘र्णिर्हव्यवाडि᳘तिॗ स᳘र्वᳫं ह्येष᳘ पाप्मा᳘नं तरति त᳘स्मादाह तू᳘र्णिर्हव्यवाडि᳘ति॥

मूलम् - विस्वरम्

**“अतूर्त्तो होता तूर्णिर्हव्यवाट्”- (३. ५. ३. ८) इति । न ह्येतं रक्षांसि तरन्ति । तस्मादाह- अतूर्त्तो होतेति । तूर्णिर्हव्यवाडिति । सर्वं ह्येष पाप्मानं तरति । तस्मादाह- तूर्णिर्हव्यवाडिति ॥ १२ ॥

सायणः

“[व्याख्यानम् पञ्चमे]”

Eggeling
  1. Further, ‘The unsurpassed Hotr̥, the surpassing bearer of oblations;’ for him the Rakshas do not surpass (tar): for this reason he says ’the unsurpassed (atūrta) Hotr̥.’ ‘The surpassing (tūrṇi, rather ‘swift’) bearer of oblations,’ for he overcomes (tar) every evil: therefore he says ’the surpassing bearer of oblations 6.’

१३

विश्वास-प्रस्तुतिः

(त्या) आस्पा᳘त्रं जुहू᳘र्देवा᳘नामि᳘ति॥
देवपात्रं वा᳘ ऽएष य᳘दग्निस्त᳘स्मादग्नौ स᳘र्व्वे᳘भ्यो देवे᳘भ्यो जुह्वति देवपात्र᳘ᳫं᳘ ह्येष प्रा᳘प्नोति ह वै त᳘स्य पा᳘त्रं य᳘स्य पा᳘त्रं प्रे᳘प्स्यति य एव᳘मेतद्वे᳘द॥

मूलम् - श्रीधरादि

(त्या) आस्पा᳘त्रं जुहू᳘र्देवा᳘नामि᳘ति॥
देवपात्रं वा᳘ ऽएष य᳘दग्निस्त᳘स्मादग्नौ स᳘र्व्वे᳘भ्यो देवे᳘भ्यो जुह्वति देवपात्र᳘ᳫं᳘ ह्येष प्रा᳘प्नोति ह वै त᳘स्य पा᳘त्रं य᳘स्य पा᳘त्रं प्रे᳘प्स्यति य एव᳘मेतद्वे᳘द॥

मूलम् - Weber

आस्पा᳘त्रं जुहू᳘र्देवा᳘नामि᳘ति॥
देवपात्रं वा᳘ एष य᳘दग्निस्त᳘स्मादग्नौ स᳘र्वेभ्यो देवे᳘भ्यो जुह्वति देवपाॗत्रᳫं ह्येष प्रा᳘प्नोति ह वै त᳘स्य पा᳘त्रं य᳘स्य पा᳘त्रम् प्रे᳘प्स्यति य एव᳘मेतद्वे᳘द॥

मूलम् - विस्वरम्

“आस्पात्रं जुहूर्देवानाम्”- (तै० ब्रा० ३. ५. ३. ९) इति । देवपात्रं वा एष यदग्निः । तस्मादन्नौ सर्वेभ्यो देवेभ्यो जुह्वति । देवपात्रं ह्येषः । प्राप्नोति ह वै तस्य पात्रम्- यस्य पात्रं प्रेप्सति, य एवमेतद्वेद ॥ १३ ॥

सायणः

“[व्याख्यानम् अग्रे]”

Eggeling
  1. Further, ‘The mouth-vessel 7, the offering-spoon of the gods;’ for he, Agni, is indeed the vessel of the gods: therefore they make offerings in Agni to all the gods, he being the vessel of the gods. And, verily, whosoever knows this, obtains the vessel of him whose vessel he desires to obtain 8.

१४

विश्वास-प्रस्तुतिः

चमसो᳘ देवपा᳘न ऽइ᳘ति॥
चमसे᳘न ह वा᳘ ऽएते᳘न भूते᳘न देवा᳘ भक्षयन्ति त᳘स्मादाह चमसो᳘ देवपा᳘न ऽइ᳘ति॥

मूलम् - श्रीधरादि

चमसो᳘ देवपा᳘न ऽइ᳘ति॥
चमसे᳘न ह वा᳘ ऽएते᳘न भूते᳘न देवा᳘ भक्षयन्ति त᳘स्मादाह चमसो᳘ देवपा᳘न ऽइ᳘ति॥

मूलम् - Weber

चमसो᳘ देवपा᳘न इ᳘ति॥
चमसे᳘न ह वा᳘ एते᳘न भूते᳘न देवा᳘ भक्षयन्ति त᳘स्मादाह चमसो᳘ देवपा᳘न इ᳘ति॥

मूलम् - विस्वरम्

“चमसो देवपानः”- (३. ५. ३. १०) इति । चमसेन ह वा एतेन भूतेन देवा भक्षयन्ति । तस्मादाह- चमसो देवपान इति ॥ १४ ॥

सायणः

आस्पात्रमिति । आस्यरूपं पात्रम् ‘आस्पात्रम्’ । देवपात्रं वा इति । अग्नौ प्रक्षिप्तस्य हविषो देवैरद्यमानत्वादग्नेर्देवपात्रत्वम् । एतद्वेदितुः फलमाह- प्राप्नोति हेति । ‘यस्य’ खलु भोज्यस्य वस्तुनः सम्बन्धि ‘पात्रं’ ‘प्रेप्सति’ प्राप्तुमिच्छति, तद्वस्तुसंबन्धि ‘पात्रं’ ‘प्राप्नोति’ एवं वेदितेत्यर्थः ॥ १३ ॥ १४॥

Eggeling
  1. Further, ‘The cup from which the gods drink;’ for from him, being (as it were) a cup, the gods drink (the Soma-libations): for this reason he says ’the cup from which the gods drink.’

१५

विश्वास-प्रस्तुतिः

अरा᳘ २ँ॥ ऽइवाग्ने नेमि᳘र्देवांस्त्वं᳘ परिभू᳘रसी᳘ति॥
य᳘थारा᳘न्नेमिः᳘ सर्व्व᳘तः परिभू᳘रेवं त्वं᳘ देवा᳘न्त्सर्व्व᳘तः परिभू᳘रसी᳘त्ये᳘वैत᳘दाह᳘॥

मूलम् - श्रीधरादि

अरा᳘ २ँ॥ ऽइवाग्ने नेमि᳘र्देवांस्त्वं᳘ परिभू᳘रसी᳘ति॥
य᳘थारा᳘न्नेमिः᳘ सर्व्व᳘तः परिभू᳘रेवं त्वं᳘ देवा᳘न्त्सर्व्व᳘तः परिभू᳘रसी᳘त्ये᳘वैत᳘दाह᳘॥

मूलम् - Weber

अरां᳘ इवाग्ने नेमि᳘र्देवांस्त्वं᳘ परिभू᳘रसी᳘ति॥
य᳘था᳘रान्नेमिः᳘ सर्व᳘तः परिभू᳘रेवं त्वं᳘ देवां᳘त्सर्व᳘तः परिभू᳘रसी᳘त्येॗवैत᳘दाह॥

मूलम् - विस्वरम्

“अरा २ँ ॥ इवाग्ने नेमिर्द्देवांस्त्वं परिभूरसि”- (३. ५. ३. ११) इति । यथा ऽरान्नेमिः सर्वतः परिभूः, एवं त्वं देवान् सर्वतः परिभूरसि- इत्येवैतदाह ॥ १५ ॥

सायणः

अरा २ँ ॥ इवेति । यथारान्नेमिरिति । यथा 9 चक्रस्य नाभौ नेम्यां च संयोजिताः कीलकाः ‘अराः’ तान् ‘यथा’ ‘नेमिः’ परितो वर्त्तमानान् व्याप्नोति तद्वद् ‘देवान्’ अग्निरपि संव्याप्नोतीत्यर्थः ॥ १५ ॥

Eggeling
  1. Further, ‘Thou, O Agni! dost encompass the gods, as the felly the spokes;’ ‘in the same way in which the felly on all sides encompasses the spokes, so dost thou on all sides encompass the gods,’ this is what he thereby says.

१६

विश्वास-प्रस्तुतिः

(हा᳘) आ᳘वह देवान्य᳘जमानाये᳘ति॥
त᳘दस्मै᳘ यज्ञा᳘य देवाना᳘वोढवा᳘ ऽआहाग्नि᳘मग्न ऽआ᳘वहे᳘ति त᳘दाग्नेयाया᳘ज्यभागायाग्निमा᳘वोढवा ऽआह सो᳘ममा᳘वहे᳘ति त᳘त्सौम्याया᳘ज्यभागाय सो᳘ममा᳘वोढवा᳘ ऽआहाग्निमा᳘वहे᳘ति तद्य᳘ ऽएष᳘ ऽउभय᳘त्राच्युत᳘ ऽआग्नेयः᳘ पुरोडा᳘शो भ᳘वति त᳘स्मा ऽअग्निमा᳘वोढवा᳘ ऽआह᳘॥

मूलम् - श्रीधरादि

(हा᳘) आ᳘वह देवान्य᳘जमानाये᳘ति॥
त᳘दस्मै᳘ यज्ञा᳘य देवाना᳘वोढवा᳘ ऽआहाग्नि᳘मग्न ऽआ᳘वहे᳘ति त᳘दाग्नेयाया᳘ज्यभागायाग्निमा᳘वोढवा ऽआह सो᳘ममा᳘वहे᳘ति त᳘त्सौम्याया᳘ज्यभागाय सो᳘ममा᳘वोढवा᳘ ऽआहाग्निमा᳘वहे᳘ति तद्य᳘ ऽएष᳘ ऽउभय᳘त्राच्युत᳘ ऽआग्नेयः᳘ पुरोडा᳘शो भ᳘वति त᳘स्मा ऽअग्निमा᳘वोढवा᳘ ऽआह᳘॥

मूलम् - Weber

आ᳘वह देवान्य᳘जमानाये᳘ति॥
त᳘दस्मै᳘ यज्ञा᳘य देवा᳘ना᳘वोढवा᳘ आहाग्नि᳘मग्न आ᳘वहे᳘ति त᳘दाग्नेया᳘याज्यभागायाग्निमा᳘वोढ्वा᳘ आह सो᳘ममा᳘वहे᳘ति तत्सौम्याया᳘ज्यभागाय सोममा᳘वोढवा᳘ आहाग्निमा᳘वहे᳘ति तद्य᳘ एष᳘ उभय᳘त्राच्युत᳘ आग्नेयः᳘ पुरोडाशो भ᳘वति त᳘स्मा अग्निमा᳘वोढवा᳘ आह॥

मूलम् - विस्वरम्

देवतावाहनम् ।

“आवह देवान्यजमानाय”- (तै. ब्रा. ३. ५. ३) इति । तदस्मै यज्ञाय देवानावोढवा आह ॥ १ ॥ “अग्निमग्न आवह”- (३. ५. ३) इति । तदाग्नेयायाज्यभागायाग्निमावोढवा आह ॥ २ ॥ “सोममावह”- (३. ५. ३) इति । तत्सौम्यायाज्यभागाय सोममावोढवा आह “अग्निमावह”- (३. ५. ३) इति । तद्य एष उभयत्राच्युत आग्नेयः पुरोडाशो भवति आह ॥ ३ ॥ तस्मा अग्निमावोढवा आह ॥ ४ ॥ ॥ १६ ॥

सायणः

निवित्पदानन्तरं वक्तव्यमावाहननिगदमप्यनूद्य पदशो व्याचष्टे- आवह देवानित्यादिना 9देवानावोढवा इति । आङ्पूर्वाद्वहतेः स्वार्थे तवैन्-प्रत्ययः (पा. सू. ३ । ४ । ९ ।) यष्टव्यान् देवान् आवोढुमानेतुमित्यर्थः । “आवह देवान्”- इति सामान्योक्तस्या ऽऽवाहनस्य विवरणम् “अग्निमग्न आवह”- इत्यादि निगदसिद्धम् ॥ १६ ॥

Eggeling
  1. ‘Bring hither the gods for the sacrificer!’ this he says in order that he (Agni) may bring the gods

to this sacrifice 10.–‘Bring Agni hither, O Agni!’ this he says in order that he may bring Agni to the butter-portion intended for Agni.–‘Bring Soma hither!’ this he says in order that he may bring Soma to the butter-portion intended for Soma. ‘Bring Agni hither!’ this he says in order that he (Agni) may bring Agni hither to that indispensable 11 cake which is offered to Agni on both occasions (at the new- and the full-moon sacrifices).

१७

विश्वास-प्रस्तुतिः

(हा᳘) अ᳘थ यथादेवत᳘म्॥
देवा᳘ २ँ॥ ऽआज्यपा २ँ॥ ऽआ᳘वहे᳘ति त᳘त्प्रयाजानुयाजाना᳘वोढवा᳘ ऽआह प्रयाजानुयाजा वै᳘ देवा᳘ ऽआज्यपा᳘ ऽअग्नि᳘ᳫँ᳭ होत्राया᳘वहे᳘ति त᳘दग्निᳫँ᳭होत्राया᳘वोढवा᳘ ऽआह स्वं᳘ महिमा᳘नमा᳘वहे᳘ति तत्स्वं महिमा᳘नमावोढवा᳘ ऽआह व्वाग्वा᳘ ऽअस्य स्वो᳘ महिमा तद्वा᳘चमा᳘वोढवा᳘ ऽआहा᳘ च व्व᳘ह जातवेदः सुय᳘जा च यजे᳘ति तद्या᳘ऽए᳘वैत᳘द्देव᳘ता ऽआ᳘वोढवाऽआ᳘ह ता᳘ ऽए᳘वैत᳘दाहा᳘ चैना व्व᳘हानुष्ठ्या᳘ च यजे᳘ति यदा᳘ह सुय᳘जा च यजे᳘ति॥

मूलम् - श्रीधरादि

(हा᳘) अ᳘थ यथादेवत᳘म्॥
देवा᳘ २ँ॥ ऽआज्यपा २ँ॥ ऽआ᳘वहे᳘ति त᳘त्प्रयाजानुयाजाना᳘वोढवा᳘ ऽआह प्रयाजानुयाजा वै᳘ देवा᳘ ऽआज्यपा᳘ ऽअग्नि᳘ᳫँ᳭ होत्राया᳘वहे᳘ति त᳘दग्निᳫँ᳭होत्राया᳘वोढवा᳘ ऽआह स्वं᳘ महिमा᳘नमा᳘वहे᳘ति तत्स्वं महिमा᳘नमावोढवा᳘ ऽआह व्वाग्वा᳘ ऽअस्य स्वो᳘ महिमा तद्वा᳘चमा᳘वोढवा᳘ ऽआहा᳘ च व्व᳘ह जातवेदः सुय᳘जा च यजे᳘ति तद्या᳘ऽए᳘वैत᳘द्देव᳘ता ऽआ᳘वोढवाऽआ᳘ह ता᳘ ऽए᳘वैत᳘दाहा᳘ चैना व्व᳘हानुष्ठ्या᳘ च यजे᳘ति यदा᳘ह सुय᳘जा च यजे᳘ति॥

मूलम् - Weber

अ᳘थ यथादेवत᳘म्॥
देवां᳘ आज्यपां आ᳘वहे᳘ति त᳘त्प्रयाजानुयाजाना᳘वोढवा᳘ आह प्रयाजानुयाजा वै᳘ देवा᳘ आज्यपा᳘ अग्नि᳘ᳫं᳘ होत्राया᳘वहे᳘ति त᳘दग्नि᳘ᳫं᳘ होत्राया᳘वोढवा᳘ आह स्वं᳘ महिमा᳘नमा᳘वहे᳘ति तत्स्व᳘म् महिमा᳘नमा᳘वोढवा᳘ आह वाग्वा᳘ अस्य स्वो᳘ महिमा तद्वा᳘चमा᳘वोढवा᳘ आहा᳘ च व᳘ह जातवेदः सुय᳘जा च यजे᳘ति तद्या᳘ एॗवैत᳘द्देव᳘ता आ᳘वोढवा आ᳘ह ता᳘ एॗवैत᳘दाहा᳘ चैना व᳘हानुष्ठ्या᳘ 12 च यजे᳘ति यदा᳘ह सुय᳘जा च यजे᳘ति॥

मूलम् - विस्वरम्

अथ यथादेवतम् ॥ ५ ॥ “देवा २ँ ॥ आज्यपा २ँ ॥ आवह”- (३. ५. ३) इति । तत्प्रयाजानुयाजानावोढवा आह । प्रयाजानुयाजा वै देवा आज्यपाः ॥ ६ ॥ “अग्नि ँ होत्रायावह”- (३. ५. ३) इति । तदग्निं होत्रायावोढवा आह ॥ ७ ॥ “स्वं महिमानमावह (३. ५. ३)” इति । तत्स्वं महिमानमावोढवा आह । वाग् वा अस्य स्वो महिमा । तद्वाचमावोढवा आह ॥ ८ ॥ “आ च वह जातवेदः सुयजा च यज”- (३. ५. ३) इति । तद्या एवैतद्देवता आवोढवा आह, ता एवैतदाह । आ चैना वहानुष्ठ्या च यजेति । यदाह- सुयजा च यजेति ॥ ९ ॥ १७ ॥

सायणः

अथ यथादेवतमिति । दर्शपूर्णमासयोरुभयत्र यो ऽग्निः पुरोडाशदेवता; तदावाहनानन्तरं निर्वापसमये यस्यै यस्यै देवतायै येन क्रमेण निरुप्तम्, तेनैव क्रमेण तस्याः सर्वस्या देवतायाः “अग्नीषोमावावह” इत्यादिवाक्यैरावाहनं कार्यमित्यर्थः । देवा२ ॥ आज्यपानिति । प्रयाजानुयाजदेवतावाहनं विवक्षितमिति व्याचष्टे- तत्प्रयाजानुयाजानिति । कर्मवाचिना प्रयाजानुयाजशब्देन तत्संबन्धिनो देवा 13 लक्ष्यन्ते । ते हि हविर्भागाङ्गीकाराय वोढव्याः । तेषामाज्यमेव हि भागः; “यज्जुह्वां गृह्णाति प्रयाजेभ्यस्तत्, यदुपभृति प्रयाजानुयाजेभ्यस्तत्”- (शत. ब्रा. १ का. २ प्र. ५ ब्रा. ८-९ कं. इत्यत्र द्रष्टव्यम्) इति जौहवौपभृतयोराज्ययोस्तद्धविष्ट्वश्रवणात् । “अग्निं होत्राय”- इत्यनेन स्विष्टकृतो ऽग्नेरावाहनं विवक्षितम् । स्वं महिमानमिति । देवताया अग्नेः स्वभूतो वाग्रूपो ‘महिमा’; तस्यावाहनम् । “आवह जातवेदः” इति वाक्येन । प्राक्प्रतिपादितस्याज्यभागादिदेवतानां सर्वासामावाहनस्य निगमनम्- “सुयजा च यजेति”- इति । अस्य व्याख्यानम्- “अनुष्ठ्या च यजेति” इति । ‘अनुष्ठ्या’ अनुक्रमेण सम्यगित्यर्थः ॥ १७ ॥

Eggeling
  1. And (in the same way) according to the respective deities 14. He then continues, ‘Bring hither the butter-drinking gods!’ this he says in order that he may bring hither the prayāgas and anuyāgas (fore and after-offerings), for the prayāgas and anuyāgas (represent) indeed the butter-drinking gods.–‘Bring Agni hither for the Hotr̥ship!’ this he says in order that he may bring Agni hither for the office of Hotr̥.–‘Your own greatness bring hither!’ this he says in order that he (Agni) may

bring hither his own greatness; his own greatness, in truth, is his voice: hence he says it in order that he may bring hither his voice 15.–‘Bring thou hither (the gods), O Jātavedas 16, and offer up a good offering!’ what deities he bids him bring hither, with regard to those (deities) he thereby says ‘bring them hither!’ When he says, ‘offer up a good offering!’ he means to say, ‘sacrifice in the proper order!’

१८

विश्वास-प्रस्तुतिः

स वै ति᳘ष्ठन्न᳘न्वाह॥
(हा) अन्वा᳘ह᳘ ह्येत᳘दसौ᳘ ह्यनुवा᳘क्या त᳘दसा᳘वे᳘वैत᳘द्भूत्वा᳘न्वाह त᳘स्मात्ति᳘ष्ठन्न᳘न्वाह᳘॥

मूलम् - श्रीधरादि

स वै ति᳘ष्ठन्न᳘न्वाह॥
(हा) अन्वा᳘ह᳘ ह्येत᳘दसौ᳘ ह्यनुवा᳘क्या त᳘दसा᳘वे᳘वैत᳘द्भूत्वा᳘न्वाह त᳘स्मात्ति᳘ष्ठन्न᳘न्वाह᳘॥

मूलम् - Weber

स वै ति᳘ष्ठन्न᳘न्वाह॥
अन्वा᳘हॗ ह्येत᳘दसौ ह्य᳘नुवाॗक्या त᳘दसा᳘वेॗवैत᳘द्भूत्वा᳘न्वाह त᳘स्मात्ति᳘ष्ठन्न᳘न्वाह॥

मूलम् - विस्वरम्

स वै तिष्ठन्नन्वाह । अन्वाह ह्येतद्, असौ ह्यनुवाक्या, तदसावेवैतद् भूत्वा ऽन्वाह । तस्मात्तिष्ठन्नन्वाह ॥ १८ ॥

सायणः

यदेतत्सामिधेन्यादिकमनुवचनादि, तत्सर्वं तिष्ठतैव वक्तव्यमिति विधत्ते- स वा इति । कुत इत्यत आह- अन्वाह ह्येतदिति । अनुवाक्या हि द्युलोकरूपा, तिष्ठतश्च द्युलोकसंबन्धो भवति । अतो ऽनुवाक्या 17 तावत्तिष्ठतैवानुवक्तुं योग्या | अनुवचनसाम्यात्सामिधेन्यादिकमपि तिष्ठतैव पठितुं युक्तमित्यर्थः ॥ १८ ॥

Eggeling
  1. He recites (the invitatory prayer) 18 while standing, since it is yonder (sky) which he thereby recites; for, indeed, the invitatory prayer (signifies) yonder (sky), and by it he recites that which is yonder (sky). This is the reason why he recites standing.

१९

विश्वास-प्रस्तुतिः

(हा᳘) आ᳘सीनो या᳘ज्यां यजति॥
इयᳫँ᳭ हि᳘ या᳘ज्या त᳘स्मन्न क᳘श्चन ति᳘ष्ठन्या᳘ज्यां यजतीयᳫँ᳭ हि᳘ या᳘ज्या त᳘दिय᳘मेवैत᳘द्भूत्वा᳘ यजति त᳘स्मादा᳘सीनो या᳘ज्यां यजति॥

मूलम् - श्रीधरादि

(हा᳘) आ᳘सीनो या᳘ज्यां यजति॥
इयᳫँ᳭ हि᳘ या᳘ज्या त᳘स्मन्न क᳘श्चन ति᳘ष्ठन्या᳘ज्यां यजतीयᳫँ᳭ हि᳘ या᳘ज्या त᳘दिय᳘मेवैत᳘द्भूत्वा᳘ यजति त᳘स्मादा᳘सीनो या᳘ज्यां यजति॥

मूलम् - Weber

आ᳘सीनो याॗज्यां यजति॥
इयᳫं हि᳘ याॗज्या त᳘स्मन्न क᳘श्चन ति᳘ष्ठन्याॗज्यां यजतीयᳫं हि᳘ याॗज्या त᳘दिय᳘मेॗवैत᳘द्भूत्वा᳘ यजति त᳘स्मादा᳘सीना याॗज्यां यजति॥

मूलम् - विस्वरम्

आसीनो याज्यां यजति । इयं हि याज्या, तस्मान्न कश्चन तिष्ठन् याज्यां यजति । इयं हि याज्या, तदियमेवैतद् भूत्वा यजति । तस्मादासीनो याज्यां यजति ॥ १९ ॥

सायणः

याज्यायां विशेषमाह- आसीनो याज्यामिति । ‘हि’ यस्मात् ‘इयं’ पृथिव्यात्मिकैव ‘याज्या’ तस्मात् याज्यापाठस्तिष्ठता न कर्तव्यः, ‘आसीनश्च’ सन्निकर्षविशेषात् पृथिवीरूपापन्नो भवति; तदियमित्युक्तम्- इयमेवैतद् भूत्वेति ॥ १९ ॥ ४ ॥ (४. २.) ॥

इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनीयशतपथब्राह्मणभाष्ये प्रथमकाण्डे चतुर्थाध्याये द्वितीयं ब्राह्मणम् ॥

Eggeling
  1. The offering-prayer 18 he pronounces while sitting, since the offering-prayer (represents) this (earth): hence no one pronounces the offering-prayer while standing; for the offering-prayer is

this earth, and by it he pronounces that which is this (earth). This is the reason why he pronounces the offering-prayer while sitting.


  1. तै. ब्रा. ३ । ५ । ३ । १ । सं. २ । ५। ९ । १। ↩︎ ↩︎

  2. निगदानां यजुष्ट्वाधिकरणं- मो. द. २ अ. १ पा. ३८-४५ सू. । न्या. मा. २ ।१ । १३ अधिं. द्रष्टव्यम् । ↩︎

  3. 114:2 The invocations he now proceeds to recite, on the termination of the sāmidhenīs or kindling verses, belong to the class of formulas called nigada. In the present case, they consist of the pravara mantra–or formula by which Agni is invited to assist the sacrificer as Hotr̥ or Invoker on the present occasion, as he has of old assisted his ancestors (cf. the following note)–and of short detached formulas called nivid. Sāyaṇa on Taitt. S. II, 5, 8. ↩︎

  4. 115:1 Ārsheyam pravr̥nīte, literally ‘he chooses the ancestral’ (r̥shi). I take ‘ārsheyam’ as a masculine adjective qualifying a supplied ‘(Agniṁ) hotāram.’ In this way the formula is explained by Sāyaṇa on I, 5, 1, 9 (r̥shīṇāṁ sambandhinam adhvaryur hotāraṁ vr̥ṇīte), and this seems to me the most natural interpretation. It is true, however, that, as the formula (‘he chooses the ancestral’) became stereotyped, its exact import became forgotten, and ārsheya was generally taken as a neuter, either adjective (viz. ’nāmadheyam,’ ‘apatyam’) or noun (ancestral lineage). Agni is invoked as the one who has of old officiated as the Hotr̥ of the sacrificer’s ancestors, three or five ancestral names being usually mentioned: thus, in the case of a sacrificer belonging to the Jāmadagna Vatsa family, claiming Bhr̥gu, Cyavana, Apnavāna, Aurva, and Jamadagni as its founders, Agni is invoked, on the present occasion, as ‘Bhargava Cyavana Āpnavāna Aurva Jāmadagna!’ (Āśval. Sr. 12, 10, 6; Sāyaṇa on Taitt. S. II, 5, 8). If the sacrificer belongs to the Kshatriya or Vaiśya castes, the priest substitutes for the sacrificer’s ancestors those of his family priest (purohita) or his spiritual guide (guru); and in the case of kings the same course was adopted, or the names of their royal r̥shi ancestors (rājarshi) were chosen. As to the second pravara, or the election of the human Hotr̥, for the present sacrifice, see I, 5, 1, 1. Cf. Max Müller, History of Ancient Sanskrit Literature, p. 386 seq.; A. Weber, Ind. Stud. IX, 325 seq.; X, 78 seq.; M. Haug, Aitar. Br., Translation, p. 479. ↩︎

  5. ‘एवैतत् निह्नुते’ क्व. पा. । ↩︎ ↩︎

  6. 117:1 At this point of the recitation a pause is made, during which (as already partly during the preceding recitation) the Adhvaryu and Āgnīdhra engage in the acts detailed in I, 4, 4, 13 seq. Cf. Hillebrandt, Neu and Vollm. p. 81. ↩︎

  7. 117:2 Ās-pātram: the fire is, as it were, the vessel into which the sacrificial food is thrown and from which it is eaten by the gods. ↩︎

  8. 117:3 ? Sāyaṇa supplies ‘food:’ he obtains the vessel of that food of which he wishes to obtain the vessel. ↩︎

  9. प्रमादपतितं पदमिदमत्र प्रतिभाति । ↩︎ ↩︎

  10. 118:1 Here begins what is called the devatānām āvahanam, or invitation (lit, bringing) of the deities to the oblations. Whilst the Hotr̥ recites these formulas, the Adhvaryu performs what is set forth in I, 4, 5, 2 seq. ↩︎

  11. 118:2 Acyuta, lit. ’not fallen,’ i.e. immutable, invariable. For the legendary explanation of this epithet of Agni and his oblation, see I, 6, 1, 6; 2, 5-6. ↩︎

  12. ॰नुप्द्या C. B. and Sây. ↩︎

  13. “त्रयस्त्रिंशद्वै देवाः सोमपाः, त्रयस्त्रिंशद्वै असोमपाः । अष्टौ वसवः एकादश रुद्राः द्वादशादित्याः प्रजापतिश्च वषट्कारश्चैते देवाः सोमपाः; ‘एकादश प्रयाजाः, एकादशानुयाजाः, एकादशोपयाजाः, -एते ऽसोमपाः पशुभाजनाः’ इत्यैतरेयब्राह्मणे (२ । २ । ८ ।) प्रयाजानां देवत्वमुक्तं द्रष्टव्यम् । ↩︎

  14. 118:3 The three preceding invocations are used alike at the new- and full-moon sacrifices, but the subsequent ones differ according to the oblations that are made, viz. a rice-cake to Indra-Agni (or an oblation of mixed milk and butter to Indra) at the new-moon ceremony; and to Agni-Soma at the full-moon sacrifice. Previously to these an upāṁśuyāja or ’low-voiced oblation’ is made by some to Agni-Soma at the full moon, and one to Vishṇu (or to Agni-Soma) at the new-moon sacrifice; according to others also one to Prajāpati,–the names of the gods being whispered in the respective formulas. ↩︎

  15. 119:1 Sāyaṇa on Taitt. S. II, 5, 9 explains the formula ‘Bring hither the own greatness’ by ‘bring hither whatever greatness or power is peculiar to each of the havis-eating gods,’ and he remarks expressly that it is not to be referred to Agni, as our author certainly appears to do. Cf. I, 7, 3, 13. ↩︎

  16. 119:2 Jatavedas probably means ‘he who knoweth (all) beings,’ but it is more generally explained by ‘he who possesseth riches (or wisdom),’ not to mention other interpretations. According to Haug, Ait. Br. vol. ii. p. 224, the proper meaning of the term is ‘having possession of all that is born, i.e. pervading it.’ He further mentions that the R̥shis are quite familiar with the idea of the fire being an all-pervading power; and that by Gātavedas the ‘animal fire’ is particularly to be understood. Our present formula ‘ā ca vaha jātavedaḥ suyajā ca yaja’ somewhat differs from the corresponding formula of the Taitt. S. II, 5, 9, 5, ‘ā cāgne devān vaha suyajā ca yaja jātavedaḥ.’ ↩︎

  17. “सर्वेषामग्रे ऽग्रे ऽनुवाक्यास्ततो याज्याः” इति आश्व. श्रौ. सू. ३ । ७ । ३ । “पुरस्ताल्लक्ष्मा पुरो ऽनुवाक्या भवति । जातानेव भ्रातृव्यान्प्रणुदते । उपरिष्टाल्लक्ष्मा याज्या जनिष्यमाणानेव प्रतिनुदते” इति तै. सं. २ । ६ । २ । ३ । ”मन्त्रप्रतिपाद्याया देवताया नामधेयं लक्ष्म तद्यस्यामृचिं पूर्वार्द्धं विद्यते सा पुरो ऽनुवाक्या, तन्नाम यस्यामुत्तरार्द्धे विद्यते सा याज्या । तद्यथा- ‘अग्निर्मूर्धा’ इति पूर्वार्द्धे ऽग्निशब्दः । ‘जिह्वामग्ने चकृषे’ इत्युत्तरार्द्धे ऽग्निशब्दः’ इति च तत्र सा. भा. । हूयति वा अनुवाक्यया, प्रयच्छति याज्यया; सा या पुरस्ताल्लक्षणा सानुवाक्या स्यात्; अथ योपरिष्टाल्लक्षणा सा याज्या स्यात्” इति चेहैवोपरिष्टात् ७ । २ । १७-१९। “पुरो ऽनुवाक्या देवतास्मरणार्था, याज्या च हविःप्रदानार्था” -इति हि का. श्रौ. सू. १ । ८ । ९. सू. वृ. ॥ ↩︎

  18. 119:3 For the anuvākyā or invitatory prayer, and the yājyā or Offering-prayer, see p. 135 note. ↩︎ ↩︎