०१
विश्वास-प्रस्तुतिः
हिङ्कृत्या᳘न्वाह᳘॥
नासामा᳘ य᳘ज्ञो ऽस्ती᳘ति वा᳘ ऽआहुर्न्न वा ऽअ᳘हिङ्कृत्य सा᳘म गीयते स य᳘द्धिङ्करो᳘ति त᳘द्धिङ्कार᳘स्य रूपं᳘ क्रियते प्रणवे᳘नैव सा᳘म्नो रूपमु᳘पगच्छत्यो३ मो ३ मि᳘त्येते᳘नो हास्यैष स᳘र्व्व एव स᳘सामा यज्ञो᳘ भवति॥
मूलम् - श्रीधरादि
हिङ्कृत्या᳘न्वाह᳘॥
नासामा᳘ य᳘ज्ञो ऽस्ती᳘ति वा᳘ ऽआहुर्न्न वा ऽअ᳘हिङ्कृत्य सा᳘म गीयते स य᳘द्धिङ्करो᳘ति त᳘द्धिङ्कार᳘स्य रूपं᳘ क्रियते प्रणवे᳘नैव सा᳘म्नो रूपमु᳘पगच्छत्यो३ मो ३ मि᳘त्येते᳘नो हास्यैष स᳘र्व्व एव स᳘सामा यज्ञो᳘ भवति॥
मूलम् - Weber
हिंकृत्या᳘न्वाह॥
नासामा᳘ यॗज्ञो ऽस्ती᳘ति वा᳘ आहुर्न वा अ᳘हिंकृत्य सा᳘म गीयते म य᳘द्धिंकरो᳘ति त᳘द्धिंकार᳘स्य रूपं᳘ क्रियते प्रणवे᳘नैव सा᳘म्नो रूपमु᳘पगछत्यो३ं ओ३मि᳘त्येते᳘नो हास्यैष स᳘र्व एव स᳘सामा यज्ञो᳘ भवति॥
मूलम् - विस्वरम्
हिङ्कृत्यान्वाह । नासामा यज्ञो ऽस्तीति वा आहुः । न वा अहिङ्कृत्य साम गीयते । स यद्धिङ्करोति, तद्धिङ्कारस्य रूपं क्रियते । प्रणवेनैव साम्नो रूपमुपगच्छति- ओ ३ म् ओ ३ म् इति । एतेनो हास्यैष सर्व एव ससामा यज्ञो भवति ॥ १ ॥
सायणः
यस्य निःश्वसितं वेदा यो वेदेभ्यो ऽखिलं जगत् । निर्ममे, तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥
अथ तस्मिन् सामिधेन्यनुवचने धर्मविशेषं विधत्ते- हिङ्कृत्येति । ‘हिं’- इति शब्दमुच्चार्येत्यर्थः 1 । नासामेत्यादि । सामरहितस्यायज्ञत्वात्, हिङ्कारप्रणवयोः सामावयवत्वात् 2, सामिधेनीषु तत्करणेन सामिधेनीयुक्तः सर्वो ऽपि सामवान् यज्ञः संपद्यत इत्यर्थः । ‘ओ ३ म्-ओ ३ म्’- इति वीप्सया सर्वासु सामिधेनीषु स्थितस्य प्रणवस्यानुकरणम् ॥ १ ॥
Eggeling
- He recites after uttering (the syllable) ‘Hiṅ!’ Sacrifice, they say, is not (performed) without the Sāman; and neither is the Sāman chanted without ‘Hiṅ’ having been uttered. By his uttering ‘Hiṅ!’ the peculiar nature (rūpam) of the word ‘Hiṅ’ is produced (in the sacrifice); and by the sacred syllable (om) it assumes the nature of the Sāman. By uttering ‘Om! Om 3!’ this his entire sacrifice becomes endowed with the Sāman.
०२
विश्वास-प्रस्तुतिः
य᳘द्वेव᳘ हिङ्करो᳘ति॥
प्राणो वै᳘ हिङ्कारः᳘ प्राणो हि वै᳘ हिङ्कारस्त᳘स्मादपिगृ᳘ह्य ना᳘सिके न हि᳘ङ्कर्तुंᳫँ᳭ शक्नोति व्वाचा वा ऽऋ᳘चम᳘न्वाह व्वा᳘क्च वै᳘ प्राण᳘श्च मिथुनं त᳘देत᳘त्पुर᳘स्तान्मिथुनं᳘ प्रज᳘ननं क्रियते सामिधेनी᳘नां त᳘स्माद्वै᳘ हिङ्कृत्या᳘न्वाह॥
मूलम् - श्रीधरादि
य᳘द्वेव᳘ हिङ्करो᳘ति॥
प्राणो वै᳘ हिङ्कारः᳘ प्राणो हि वै᳘ हिङ्कारस्त᳘स्मादपिगृ᳘ह्य ना᳘सिके न हि᳘ङ्कर्तुंᳫँ᳭ शक्नोति व्वाचा वा ऽऋ᳘चम᳘न्वाह व्वा᳘क्च वै᳘ प्राण᳘श्च मिथुनं त᳘देत᳘त्पुर᳘स्तान्मिथुनं᳘ प्रज᳘ननं क्रियते सामिधेनी᳘नां त᳘स्माद्वै᳘ हिङ्कृत्या᳘न्वाह॥
मूलम् - Weber
य᳘द्वेव᳘ हिंकरो᳘ति॥
प्राणो वै᳘ हिंकारः᳘ प्राणो हि वै᳘ हिंकारस्त᳘स्मादपिगृ᳘ह्य ना᳘सिके न हिं᳘कर्तुं शक्नोति वाचा वा ऋ᳘चम᳘न्वाह वा᳘क्च वै᳘ प्राण᳘श्च मिथुनं त᳘देत᳘त्पुर᳘स्तान्मिथुन᳘म् प्रज᳘ननं क्रियते सामिधेनी᳘नां त᳘स्माद्वै᳘ हिंकृत्या᳘न्वाह॥
मूलम् - विस्वरम्
यद्वेव हिङ्करोति । प्राणो वै हिङ्कारः । प्राणो हि वै हिङ्कारः, तस्माद्-अपिगृह्य नासिके न हिङ्कर्त्तुं शक्नोति । याचा वा ऋचमन्वाह । वाक् च वै प्राणश्च मिथुनम् । तदेतत्पुरस्तान्मिथुनं प्रजननं क्रियते सामिधेनीनाम् । तस्माद्वै हिङ्कृत्यान्वाह ॥ २॥
सायणः
यद्वेवेत्यादिः हिङ्कारस्तुतिः । तस्य प्रतिज्ञातं प्राणात्मकत्वमुपपादयति- प्राणो वा इति 1 । हिङ्कृत्यानुवचनम्, मिथुनसंपत्त्या स्तौति- वाचा वा इत्यादिना । नासिकास्थप्राणात्मको हिङ्कारः, तन्निवर्त्त्यत्वात्, ऋक् च वागात्मिका, तयोच्चार्यमाणत्वात्, ‘प्राणश्च वाक् च’ ‘एतत्’ एकं ‘मिथुनम्’; स्त्रीपुंसरूपत्वात् । अतः सामिधेनीनां ‘पुरस्ताद्’ यजमानस्य पुत्रपौत्रादिप्रजनननिमित्तं ‘हिङ्कृत्य’ अनुवचनेन ‘मिथुनमेव क्रियते’ इत्यर्थः 2 ॥ २ ॥
Eggeling
- And (another reason) why he utters ‘Hiṅ!’ is this. The word ‘Hiṅ’ means breath, for the word Hiṅ’ does indeed mean breath: he cannot therefore pronounce the word ‘Hiṅ,’ when he closes his nostrils. The r̥c (verse) he recites with his voice. Now, voice and breath are a pair, so that a productive union of the sāmidhenīs is thereby effected at the outset: for this reason he recites, after uttering ‘Hiṅ!’
०३
विश्वास-प्रस्तुतिः
स वा᳘ ऽउपाᳫंशु हि᳘ङ्करोति॥
(त्य᳘) अ᳘थ य᳘दुच्चै᳘र्हिङ्कुर्या᳘दन्यतर᳘देव᳘ कुर्याद्वा᳘चमेव त᳘स्मादुपाᳫंशु हि᳘ङ्करोति॥
मूलम् - श्रीधरादि
स वा᳘ ऽउपाᳫंशु हि᳘ङ्करोति॥
(त्य᳘) अ᳘थ य᳘दुच्चै᳘र्हिङ्कुर्या᳘दन्यतर᳘देव᳘ कुर्याद्वा᳘चमेव त᳘स्मादुपाᳫंशु हि᳘ङ्करोति॥
मूलम् - Weber
स वा᳘ उपांशु हिं᳘करोति॥
अ᳘थ य᳘दुच्चै᳘र्हिंकुर्या᳘दन्यतर᳘देव᳘ कुर्याद्वा᳘चमेव त᳘स्मादुपांशु हिं᳘करोति॥
मूलम् - विस्वरम्
स वा उपांशु हिङ्करोति । अथ यदुच्चैर्हिङ्कुर्यात्, अन्यतरदेव कुर्यात्; वाचमेव । तस्मादुपांशु हिङ्करोति ॥ ३ ॥
सायणः
अन्यतरदेवेति । उच्चैर्हिङ्कारस्योच्चारणे हि सो ऽपि वाचैव निवर्त्येत- इति तदात्मक एव स्यान्न प्राणात्मकः । तथा च मिथुनसंपत्तिर्न स्यादित्यर्थः ॥ ३ ॥
Eggeling
- He utters the word ‘Hiṅ’ in a low voice. Were he, on the contrary, to pronounce ‘Hiṅ’ aloud, he would make ‘voice’ of both the one and the other: for this reason he utters the word ‘Hiṅ’ in a low voice.
०४
विश्वास-प्रस्तुतिः
स वा ऽए᳘ति च प्रे᳘ति चा᳘न्वाह॥
गायत्री᳘मे᳘वैत᳘दर्व्वा᳘चीं च प᳘राचीं च युनक्ति प᳘राच्य᳘ह देवे᳘भ्यो यज्ञं व्व᳘हत्यर्व्वा᳘ची मनु᳘ष्यानवति त᳘स्माद्वा ऽए᳘ति च प्रे᳘ति चा᳘न्वाह॥
मूलम् - श्रीधरादि
स वा ऽए᳘ति च प्रे᳘ति चा᳘न्वाह॥
गायत्री᳘मे᳘वैत᳘दर्व्वा᳘चीं च प᳘राचीं च युनक्ति प᳘राच्य᳘ह देवे᳘भ्यो यज्ञं व्व᳘हत्यर्व्वा᳘ची मनु᳘ष्यानवति त᳘स्माद्वा ऽए᳘ति च प्रे᳘ति चा᳘न्वाह॥
मूलम् - Weber
स वा ए᳘ति च प्रे᳘ति चा᳘न्वाह॥
गायत्री᳘मेॗवैत᳘दर्वा᳘चीं च प᳘राचीं च युनक्ति प᳘राच्य᳘ह देवे᳘भ्यो यज्ञं व᳘हत्यर्वा᳘ची मनुॗष्यानवति तस्माद्वा ए᳘ति च प्रे᳘ति चा᳘न्वाह॥
मूलम् - विस्वरम्
स वा एति च प्रेति चान्वाह । गायत्रीमेवैतदर्वाचीं च पराचीं च युनक्ति । पराच्यह देवेभ्यो यज्ञं वहति, अर्वाची मनुष्यानवति, तस्माद्वा एति च प्रेति चान्वाह ॥ ४ ॥
सायणः
सामिधेनीनां लिङ्गविशेषं विधत्ते- स वा एति चेति । आ इति ‘एति’; प्र इति ‘प्रेति’ । अत्र ‘इति’- शब्देन प्रकृतविपर्यासकृता एतौ शब्दार्थपरत्वात् प्रच्याव्य अर्वाची- शब्दपरतया व्यवस्थाप्येते । तथा च आङुपसर्गयुक्ताः प्रोपसर्गयुक्ताश्चर्चो ऽनुब्रूयादित्यर्थः ।
तदेतल्लिङ्गद्वयं प्रयोजनकथनेन प्रशंसति- गायत्री मेवेति । आङुपसर्गो ह्याभिमुख्ये वर्तते 4 । अतस्तेन ‘अर्वाचीम्’ अभिमुखीं युनक्ति । परेतः प्रेत इति पर्यायदर्शनात् प्रशब्दस्य पराङ्मुखत्वे ऽपि वृत्तिरस्ति 5, अतो ऽत्र प्रशब्देन पराङ्मुखत्ववाचिना पराङ्मुखीमेव तां ‘युनक्ति’- इत्यर्थः ।
एवमुभयथा योजनस्य प्रयोजनमाह- पराच्यहेति । यतो देवयजनान्निष्क्रम्य ‘पराची’ पराङ्मुखी, अनिवर्त्तमानैव 6 गायत्री द्युलोकं प्रति ‘यज्ञ’ वोढुं शक्नोति नार्वाची । सा तु सन्निधानात् ‘मनुष्यान्’ रक्षितुं शक्नोति । अतो लिङ्गद्वययुक्ता एवानुवक्तव्याः ॥ ४ ॥
Eggeling
- He recites with ‘ā (hither)!’ and ‘pra (forth or thither) 7!’ He thereby joins a gāyatrī verse directed hitherward to one directed away from here: the one which tends from hence carries the sacrifice to the gods, and the one which tends hitherward pleases the men. For this reason he recites with ‘ā’ and ‘pra.’
०५
विश्वास-प्रस्तुतिः
य᳘द्वेवे᳘ति च प्रे᳘ति चान्वा᳘ह॥
प्रे᳘ति वै᳘ प्राण ऽए᳘त्युदानः᳘ प्राणोदाना᳘वे᳘वैत᳘द्दधाति त᳘स्माद्वा ऽए᳘ति च प्रे᳘ति चा᳘न्वाह॥
मूलम् - श्रीधरादि
य᳘द्वेवे᳘ति च प्रे᳘ति चान्वा᳘ह॥
प्रे᳘ति वै᳘ प्राण ऽए᳘त्युदानः᳘ प्राणोदाना᳘वे᳘वैत᳘द्दधाति त᳘स्माद्वा ऽए᳘ति च प्रे᳘ति चा᳘न्वाह॥
मूलम् - Weber
य᳘द्वेवे᳘ति च प्रे᳘ति चान्वा᳘ह॥
प्रे᳘ति वै᳘ प्राण ए᳘त्युदा᳘नः प्राणोदाना᳘वेॗवैत᳘द्दधाति त᳘स्माद्वा ए᳘ति च प्रे᳘ति चा᳘न्वाह॥
मूलम् - विस्वरम्
यद्वेवेति च प्रेति चान्वाह । प्रेति वै प्राणः, एत्युदानः; प्राणोदानावेवैतद्दधाति । तस्माद्वा एति च प्रेति चान्वाह ॥ ५ ॥
सायणः
तदेतल्लिङ्गद्वयं विधाय प्रशंसति- यद्वेवेत्यादिना । प्रेति वै प्राण इति । प्रशब्दस्य परागञ्चनार्थत्वात्, प्राणस्य च पराग्वृत्तित्वादुभयोस्तादात्म्यम् । एत्युदान इति । आकारस्याभिमुख्यार्थत्वादुदानस्यान्तःप्रवेशवृत्तिरूपत्वात्तादात्म्यम् ॥ ५ ॥
Eggeling
- And (another reason) why he recites with ‘ā’ and ‘pra,’ is this. ‘Pra (forth)’ clearly means out-breathing, and ‘ā (hither)’ means in-breathing: hence he thereby obtains out-breathing and in-breathing (for the sacrificer). For this reason he recites with ‘ā’ and ‘pra.’
०६
विश्वास-प्रस्तुतिः
य᳘द्वेवे᳘ति च प्रे᳘ति चान्वा᳘ह॥
प्रे᳘ति वै रे᳘तः सिच्य᳘त ऽए᳘ति प्र᳘जायते प्रे᳘ति पश᳘वो व्विति᳘ष्ठन्त ऽए᳘ति समा᳘वर्तन्ते स᳘र्व्वं वा᳘ ऽइदमे᳘ति च प्रे᳘ति च त᳘स्माद्वा ऽए᳘ति च प्रे᳘ति चा᳘न्वाह॥
मूलम् - श्रीधरादि
य᳘द्वेवे᳘ति च प्रे᳘ति चान्वा᳘ह॥
प्रे᳘ति वै रे᳘तः सिच्य᳘त ऽए᳘ति प्र᳘जायते प्रे᳘ति पश᳘वो व्विति᳘ष्ठन्त ऽए᳘ति समा᳘वर्तन्ते स᳘र्व्वं वा᳘ ऽइदमे᳘ति च प्रे᳘ति च त᳘स्माद्वा ऽए᳘ति च प्रे᳘ति चा᳘न्वाह॥
मूलम् - Weber
य᳘द्वेवे᳘ति च प्रे᳘ति चान्वा᳘ह॥
प्रे᳘ति वै रे᳘तः सिच्य᳘त ए᳘ति प्र᳘जायते प्रे᳘ति पश᳘वो विति᳘ष्टन्त ए᳘ति समा᳘वर्तन्ते स᳘र्वं वा᳘ इदमे᳘ति च प्रे᳘ति च त᳘स्माद्वा ए᳘ति च प्रे᳘ति चा᳘न्वाह॥
मूलम् - विस्वरम्
यद्वेवेति च प्रेति चान्वाह । प्रेति वै रेतः सिच्यते, एति प्रजायते । प्रेति पशवो वितिष्ठन्ते । एति समावर्त्तन्ते । सर्वं वा इदमेति च प्रेति च । तस्माद्वा एति च प्रेति चान्वाह ॥ ६॥
सायणः
यद्वेवेति चेति । प्रेति वै रेतः सिच्यत इति । सिच्यमानस्य रेतसः पराङ्मुखप्रवृत्तेः प्र-शब्दस्य तस्य च तादात्म्यम् । अपत्यरूपेण जायमानस्याभिमुखमावर्त्तनादाभिमुख्यवाचिन आकारस्य तादात्म्यम् । प्रेति पशव इत्यादि । पशूनां तृणादिभक्षणाय यद्वनं प्रति पराग् गमनम् तत् प्रशब्दार्थः । यच्च सायं समागमनम्, तदाकारस्यार्थः 4 । किं बहुना ‘सर्वम्’ अपि ‘इदम्’ जगत् प्रगमनस्वभावमावर्त्तनस्वभावं च । तस्मादेतल्लिङ्गद्वयमनुवचने संपादनीयमित्यर्थः ॥ ६ ॥
Eggeling
- Yet (other reasons) why he recites with ‘hither (ā)’ and ’thither (pra),’ are these. ‘Thither’ the seed is cast, and ‘hither’ birth takes place. ‘Thither’ the cattle disperse (for grazing), ‘hither’ they return. Indeed, everything here (moves) ‘hither’ and ’thither:’ for this reason he recites with ‘ā’ and ‘pra.’
०७
विश्वास-प्रस्तुतिः
सो᳘ ऽन्वाह॥
प्र᳘ वो व्वा᳘जा ऽअभि᳘द्यव ऽइ᳘ति तन्नु प्रे᳘ति भवत्य᳘ग्न ऽआ᳘याहि व्वी᳘तय ऽइ᳘ति तद्वे᳘ति भवति॥
मूलम् - श्रीधरादि
सो᳘ ऽन्वाह॥
प्र᳘ वो व्वा᳘जा ऽअभि᳘द्यव ऽइ᳘ति तन्नु प्रे᳘ति भवत्य᳘ग्न ऽआ᳘याहि व्वी᳘तय ऽइ᳘ति तद्वे᳘ति भवति॥
मूलम् - Weber
सो᳘ ऽन्वाह॥
प्र᳘ वो वा᳘जा अभि᳘द्यव इ᳘ति तन्नु प्रे᳘ति भवत्य᳘ग्न आ᳘याहिवी᳘तय इ᳘ति तद्वे᳘ति भवति॥
मूलम् - विस्वरम्
सो ऽन्वाह- “प्र वो वाजा अभिद्यव” इति । तन्नु प्रेति भवति । “अग्न आयाहि वीतयं” इति । तद्वेति भवति ॥ ७ ॥
सायणः
तदेतदुदाहरणेन दर्शयति- सो ऽन्वाहेति । प्र 8 वो वाजा इति । एषा प्रशब्दलिङ्गयुक्ता सामिधेनी तै. ब्रा. ३ । ५ । २ । १ । तै. सं. २ । ५ । ७ । २ । अग्न आयाहीत्याङुपसर्गलिङ्गयुक्ता तै. ब्रा० ३ । ५ । २ । २ । तै. सं. २ । ५ । ८ । १-११ । ॥ ७ ॥
“प्रवो वाजा अभिद्यवो हविष्मन्तो वृताच्या । देवाञ्जियाति सुम्नयुः ॥ १ ॥
अग्न आयाहि वीतये गृणानो हव्यदातये । नि होता सत्सि बर्हिषि ॥ २ ॥
तं त्वा समिद्भिरङ्गिरो घृतेन वर्द्धयामसि । बृहच्छोचा यविष्ट्य ॥ ३ ॥
स नः पृथुः श्रवाय्यमच्छा देव विवाससि । बृहदग्ने सुवीर्य्यम् ॥ ४ ॥
ईडेन्यो नमस्यस्तिरस्तमा ँ सि दर्शतः । समग्निरिध्यते वृषा ॥ ५ ॥
वृषो अग्निः समिध्यते अश्वो न देववाहनः । त ँ हविष्मन्त ईडते ॥ ६ ॥
वृषणं त्वा वयं वृषन् वृषाणः समिधीमहि । अग्ने दीद्यतं बृहत् ॥ ७ ॥
अग्निं दूतं वृणीमहे होतारं विश्ववेदसम् । अस्य यज्ञस्य सुक्रतुम् ॥ ८ ॥
समिध्यमानो अध्वरे । अग्निः पावक ईड्यः । शोचिष्केशस्तमीमहे ॥ ९ ॥
समिद्धो अग्न आहुत देवान् यक्षि स्वध्वर । त्व ँ हि हव्यवाडसि ॥ १० ॥
आजुहोत दुवस्यताग्निं प्रयत्यध्वरे । वृणीध्व ँ हव्यवाहनम् ॥ ११ ॥” (कां. ३. प्र. ५. अ० २)
“अग्ने महा ँ असि ब्राह्मण भारत, असावसौ, देवेद्धो मन्विद्ध ऋषिष्टुतो विप्रानुमदितः कविशस्तो ब्रह्मस ँ शितो घृताहवनः, प्रणीर्यज्ञाना ँ रथीरध्वराणाम् । अतूर्तो होता तूर्णिर्हव्यवाट् । आस्पात्रं जुहुर्देवानां चमसो देवपानः । अरा ँ इवाग्नेः नेमिर्देवांस्त्वं परिभूरसि । आवह देवान् यजमानाय, अग्निमग्न आवह, सोममावह, अग्निमावह, प्रजापतिमावह, अग्नीषोमावावह, इन्द्राग्नी आवह, इन्द्रमावह, महेन्द्रमावह, देवा ँ आज्यपा ँ आवह, अग्निं होत्रायावह, स्वं महिमानमावह, आ चाग्ने देवान् वह, सुयजा च यज जातवेदः ॥” (तै० ब्रा० कां० ३ । प्र० ५ । अ० ३ )
इत्थमेते “तं त्वा समिद्भिरिति तृतीयमन्त्रव्यतिरक्ताः सामिधेन्यादिमन्त्राः प्रचलिते माध्यन्दिनीयसंहितापाठे नोपलभ्यन्ते । अपि च सप्तममन्त्रे वृषाण इति तैत्तिरीये पाठः । इह तु ब्राह्मणे वृषण इति ह्रस्वः पठ्यते । अन्ते च- “आ च वह जातवेदः सुयजा च यज”- इत्येव माध्यन्दिनीयः पाठ इति विशेषः ॥
Eggeling
- He recites 9, ‘Forth go your viands, heavenward!’–
hereby, then, the ’thither’ is (realised). And (in the second verse), ‘Come hither, Agni, to expand 10!’–by this, on the other hand, the ‘hither’ is (realised).
०८
विश्वास-प्रस्तुतिः
त᳘दु है᳘क ऽआहुः॥
(रु) उभ᳘यं वा᳘ ऽएतत्प्रे᳘ति सं᳘पद्यत ऽइ᳘ति त᳘दु तदा᳘तिविज्ञान्यमिव प्र᳘ वो व्वा᳘जा ऽअभि᳘द्यव ऽइ᳘ति तन्नु प्रेत्य᳘ग्न ऽआ᳘याहि व्वीत᳘य ऽइ᳘ति तद्वे᳘ति॥
मूलम् - श्रीधरादि
त᳘दु है᳘क ऽआहुः॥
(रु) उभ᳘यं वा᳘ ऽएतत्प्रे᳘ति सं᳘पद्यत ऽइ᳘ति त᳘दु तदा᳘तिविज्ञान्यमिव प्र᳘ वो व्वा᳘जा ऽअभि᳘द्यव ऽइ᳘ति तन्नु प्रेत्य᳘ग्न ऽआ᳘याहि व्वीत᳘य ऽइ᳘ति तद्वे᳘ति॥
मूलम् - Weber
त᳘दु है᳘क आहुः॥
उभ᳘यं वा᳘ एतत्प्रे᳘ति स᳘म्पद्यत इ᳘ति त᳘दु तदा᳘तिविज्ञान्यमिव प्र᳘ वो वा᳘जा अभि᳘द्यव इ᳘ति तन्नु प्रेत्य᳘ग्न आ᳘याहि वीत᳘य इ᳘ति तद्वे᳘ति॥
मूलम् - विस्वरम्
तदु हैक आहुः- उभयं वा एतत् प्रेति संपद्यत इति । तदु तदातिविज्ञान्यमिव । प्र वो वाजा अभिद्यव इति तन्नु प्रेति । अग्न आयाहि वीतय इति- तद्वेति ॥ ८ ॥
सायणः
अनयोर्लिङ्गयोरैक्यमाशङ्क्य निरस्यति- तदु हेति । ‘आयाहि’- इत्यनेन यदस्मान् प्रत्याभिमुख्यगमनं प्रतिपादितम्, ‘तत्’ स्वर्गवासिदेवतापेक्षया परागमनमेवेति ‘एति’ लिङ्गमपि ‘प्रेति’ लिङ्गं सम्पद्यते ‘इति’ एकीयमताभिप्रायः । ‘तत्’ एतत् ‘आतिविज्ञान्यं’ विज्ञानपथातिवर्ति । ‘आयाहि’ इत्युक्ते यस्मादागमनमेव शीघ्रं बुद्धावारोहति न तु प्रगमनम् । तस्मात् प्रेति संपत्तिर्दुरधिगमेत्यर्थः । लिङ्गद्वयं तथैव व्यवस्थितमित्यभिप्रेत्यानुवदति- प्रव इति ॥ ८ ॥
Eggeling
- Now, in reference to this point, some people say, ‘Both these (texts) surely result in a “thither 11.”’ This, however, is beyond the ordinary understanding: the text, ‘forth go your viands, heavenward!’ is clearly (directed) away from (the sacrificer); and the text, ‘Come hither, Agni, to expand!’ is (directed) towards (him).
०९
विश्वास-प्रस्तुतिः
सो᳘ ऽन्वाह॥
प्र᳘ वो व्वा᳘जा ऽअभि᳘द्यव ऽइ᳘ति तन्नु प्रे᳘ति भवति व्वा᳘जा ऽइत्य᳘न्नं वै व्वा᳘जा ऽअ᳘न्नमे᳘वैत᳘दभ्य᳘नूक्तमभि᳘द्यव ऽइ᳘त्यर्धमासा वा᳘ ऽअभि᳘द्यवो ऽर्धमासा᳘ने᳘वैत᳘दभ्य᳘नूक्तᳫँ᳭हवि᳘ष्मन्त ऽइ᳘ति पश᳘वो वै᳘ हवि᳘ष्मन्तः पशू᳘ने᳘वैत᳘दभ्य᳘नूक्तम्॥
मूलम् - श्रीधरादि
सो᳘ ऽन्वाह॥
प्र᳘ वो व्वा᳘जा ऽअभि᳘द्यव ऽइ᳘ति तन्नु प्रे᳘ति भवति व्वा᳘जा ऽइत्य᳘न्नं वै व्वा᳘जा ऽअ᳘न्नमे᳘वैत᳘दभ्य᳘नूक्तमभि᳘द्यव ऽइ᳘त्यर्धमासा वा᳘ ऽअभि᳘द्यवो ऽर्धमासा᳘ने᳘वैत᳘दभ्य᳘नूक्तᳫँ᳭हवि᳘ष्मन्त ऽइ᳘ति पश᳘वो वै᳘ हवि᳘ष्मन्तः पशू᳘ने᳘वैत᳘दभ्य᳘नूक्तम्॥
मूलम् - Weber
सो᳘ ऽन्वाह॥
प्र᳘ वो वा᳘जा अभि᳘द्यव इ᳘ति तन्नु प्रे᳘ति भवति वा᳘जा इत्य᳘न्नं वै वा᳘जा अ᳘न्नमेॗवैत᳘दभ्य᳘नूक्तमभि᳘द्यव इ᳘त्यर्धमासा वा᳘ अभि᳘द्यवो ऽर्धमासा᳘नेॗवैत᳘दभ्य᳘नूक्तᳫं हवि᳘ष्मन्त इ᳘ति पश᳘वो वै᳘ हवि᳘ष्मन्तः पशू᳘नेॗवैत᳘दभ्य᳘नूक्तम्॥
मूलम् - विस्वरम्
सो ऽन्वाह- प्र वो वाजा अभिद्यव इति- तन्नु प्रेति भवति । वाजा इति । अन्नं वै वाजाः, अन्नमेवैतदभ्यनूक्तम् । अभिद्यव इति । अर्धमासा वा अभिद्यवः, अर्धमासानेवैतदभ्यनूक्तम् । “हविष्मन्त” इति । पशवो वै हविष्मन्तः, पशूनेवैतदभ्यनूक्तम् ॥ ९ ॥
सायणः
विहितमनुवचनमनूद्य प्रथमतो ऽनुवक्तव्यामृचं विधाय तत्पदानि व्याचष्टे- सो ऽन्वाहेत्यादिना । अत्र ‘वाजाः’ इति पदेनान्नं विवक्षितम्, वाजयति बलयतीति तच्छब्दव्युत्पत्तेः । अतः एतत्पदोच्चारणेन ‘अन्नमेव’ ‘अभ्यनूक्तम्’ अभिलक्ष्यानुवचनं कृतं भवति । “वस्तोः द्यौः भानुः वासरम्” इत्यहर्नामसु पाठात् “द्यु”- शु शब्दो दिनवचनः । (निघ. १ अ. ९ खं. । १ । २ । ३ । ४ ।) द्यून् दिवसान् अभिगता इति व्युत्पत्त्या ‘अभिद्यव’ इत्यनेनार्धमासा उच्यन्त इति व्याचष्टे- अर्धमासा वा अभिद्यवः- इति । पशवो वै हविष्मन्तः- इति । क्षीरदध्याज्यादिहविर्जनकत्वाद् भाविना हविषा तद्वन्त इत्यर्थः ॥ ९ ॥
Eggeling
- He recites (the first kindling verse), ‘Forth go your viands, heavenward!’ this, then, tends in a forward direction. ‘Viands’ (vāja) 12 he says, because viands mean food: hence food is obtained (for the sacrificer) by this recitation. ‘Heavenward’ he says, because those that tend heavenward are the half-moons:
it is, therefore, the half-moons which he obtains by this recitation. ‘In havis rich’ he further says, because those that are rich in havis (milk, butter) are the cattle; it is cattle, therefore, that he thereby obtains through the recitation.
१०
विश्वास-प्रस्तुतिः
घृताच्ये᳘ति॥
व्विदेघो᳘ ह माथ᳘वो ऽग्निं᳘ व्वैश्वानरं मु᳘खे बभार त᳘स्य गो᳘तमो राहूगण ऋ᳘षिः पुरो᳘हित ऽआस त᳘स्मै ह स्मामन्त्र्य᳘माणो न प्र᳘तिशृणोति ने᳘न्मे ऽग्नि᳘र्व्वैश्वानरो मु᳘खान्निष्प᳘द्याता ऽइ᳘ति॥
मूलम् - श्रीधरादि
घृताच्ये᳘ति॥
व्विदेघो᳘ ह माथ᳘वो ऽग्निं᳘ व्वैश्वानरं मु᳘खे बभार त᳘स्य गो᳘तमो राहूगण ऋ᳘षिः पुरो᳘हित ऽआस त᳘स्मै ह स्मामन्त्र्य᳘माणो न प्र᳘तिशृणोति ने᳘न्मे ऽग्नि᳘र्व्वैश्वानरो मु᳘खान्निष्प᳘द्याता ऽइ᳘ति॥
मूलम् - Weber
घृताच्ये᳘ति॥
विदेघो᳘ ह माथॗवो 13 ऽग्निं᳘ वैश्वानरम् मु᳘खे बभार त᳘स्य गो᳘तमो राहूगण ऋ᳘षिः पुरो᳘हित आस त᳘स्मै ह स्मामन्त्र्य᳘माणो न प्र᳘तिशृणोति ने᳘न्मे ऽग्नि᳘र्वैश्वानरो मु᳘खान्निष्प᳘द्याता इ᳘ति॥
मूलम् - विस्वरम्
“घृताच्या” इति । विदेघो ह माथवो ऽग्निं वैश्वानरं मुखे बभार । तस्य गोतमो राहूगण ऋषिः पुरोहित आस । तस्मै ह स्मामन्त्र्यमाणो न प्रतिशृणोति- नेन्मे ऽग्निर्वैश्वानरो मुखान्निष्पद्याता इति ॥ १० ॥
सायणः
घृताच्येति । घृतशब्दोच्चारणस्याग्निसमिन्धने ऽतिशयितमानुकूल्यमाख्यायिकया दर्शयति- विदेघो ह माथव इत्यादिना । ‘माथवः 14’ मथुनाम्नः पुत्रो ‘विदेघः15’ नाम राजा । स च स्वमुखे विश्वनरहितम् ‘अग्निं’ धारयामास । रहूगणस्य पुत्रो ‘गोतमः’ नाम ऋषिः, तस्य राज्ञः ‘पुरोहितः’ । स च राजा तेन ऋषिणा आहूयमानः ‘तस्मै’ न प्रत्युत्तरं ददौ । केनाभिप्रायेणेति चेद्, उच्यते- यद्यहं वदिष्यामि, मदीयात् ‘मुखात्’ सो ऽग्निर्निष्पद्येत, नैव निष्पद्यतामित्यनेनाभिप्रायेणेत्यर्थः ॥ १० ॥
Eggeling
- ‘With buttered (spoon)–’ he adds. Now Māthava, the (king of) Videgha 16, carried Agni Vaiśvānara in his mouth. The R̥shi Gotama Rāhūgaṇa was his family priest. When addressed (by the latter), he made no answer to him, fearing lest Agni might fall from his mouth.
११
विश्वास-प्रस्तुतिः
त᳘मृग्भिर्ह्व᳘यितुं दध्रे॥
व्वीति᳘होत्रं त्वा कवे द्युम᳘न्तᳫँ᳭ स᳘मिधीमहि। अ᳘ग्ने बृह᳘न्तमध्वरे व्विदेघे᳘ति॥
मूलम् - श्रीधरादि
त᳘मृग्भिर्ह्व᳘यितुं दध्रे॥
व्वीति᳘होत्रं त्वा कवे द्युम᳘न्तᳫँ᳭ स᳘मिधीमहि। अ᳘ग्ने बृह᳘न्तमध्वरे व्विदेघे᳘ति॥
मूलम् - Weber
त᳘मृग्भिर्ह्व᳘यितुं दध्रे॥
वीति᳘होत्रं त्वा कवे द्युम᳘न्तᳫं स᳘मिधीमहि अ᳘ग्ने बृह᳘न्तमध्वरे᳘ विदेघे᳘ति॥
मूलम् - विस्वरम्
तमृग्भिर्ह्वयितुं दध्रे- “वीतिहोत्रं त्वा कवे द्युमन्तं समिधीमहि । अग्ने बृहन्तमध्वरेविदेघ” इति ॥ ११ ॥
सायणः
तमृग्भिरित्यादि । स च ऋषिः ऋङ्मन्त्रैस्तस्य मुखगतमग्निं स्तुवन् ‘तं’ विदेघमाह्वातुं निश्चितवान्, निश्चित्य च “वीतिहोत्रम्” (वा.सं. २. ४.) इति मन्त्रेणाजुहाव । एवं स्तुतो ऽप्यग्निस्तन्मुखे तूष्णीमेव स्थितवान् ॥ ११॥
Eggeling
- He (the priest) began to invoke the latter with
verses of the Rig-veda, ‘We kindle thee at the sacrifice, O wise Agni, thee the radiant, the mighty caller to the sacrificial feast (Rig-veda V, 26, 3)!–O Videgha!’
१२
विश्वास-प्रस्तुतिः
स न प्र᳘तिशुश्राव॥
(वो᳘) उ᳘दग्ने शु᳘चयस्त᳘व शुक्रा भ्रा᳘जन्त ऽईरते। त᳘व ज्यो᳘तीᳫंष्यर्च᳘यो व्विदेघा ३ ऽइ᳘ति॥
मूलम् - श्रीधरादि
स न प्र᳘तिशुश्राव॥
(वो᳘) उ᳘दग्ने शु᳘चयस्त᳘व शुक्रा भ्रा᳘जन्त ऽईरते। त᳘व ज्यो᳘तीᳫंष्यर्च᳘यो व्विदेघा ३ ऽइ᳘ति॥
मूलम् - Weber
स न प्र᳘तिशुश्राव॥
उ᳘दग्ने शु᳘चयस्त᳘व शुक्रा भ्रा᳘जन्त ईरते त᳘व ज्यो᳘तींष्यर्च᳘यो विदेघा३ इ᳘ति॥
मूलम् - विस्वरम्
स न प्रतिशुश्राव- “उदग्ने शुचयस्तव शुक्रा भ्राजन्त ईरते । तव ज्योतीँष्यर्चयोविदेघा ३” इति ॥ १२ ॥
सायणः
स न इति । ‘सः’ विदेघो ऽपि ‘न’ प्रत्युवाच । पुनरपि ‘सः’ ऋषिः “उदग्ने शुचयः” (तै. सं. १. ३. १४. २८; ४. ४६. १३; ५. ५. १२; २. ४. १४. ११) इति मन्त्रेणाग्निं स्तुवन् क्रोधेन विदेघमाकारयामास । ‘विदेघा ३’- इति प्लुतिरसूयार्था 17 ॥ १२ ॥
Eggeling
- He (the king) did not answer. (The priest went on), ‘Upwards, O Agni, dart thy brilliant, shining rays, thy flames, thy beams (Rig-veda VIII, 44, 16)!–O Videgha-a-a!’
१३
विश्वास-प्रस्तुतिः
स᳘ ह᳘ नैव प्र᳘तिशुश्राव॥
त᳘न्त्वा घृतस्रवीमह ऽइ᳘त्ये᳘वाभिव्या᳘हरद्द᳘थास्य घृतकीर्ता᳘वे᳘वाग्नि᳘र्वैश्वानरो मु᳘खादुज्जज्वाल तन्न᳘ शशाक धा᳘रयितुᳫँ᳘ सो ऽस्य मु᳘खान्नि᳘ष्पेदे स᳘ ऽइमां᳘ पृथिवीं प्रा᳘पादः॥
मूलम् - श्रीधरादि
स᳘ ह᳘ नैव प्र᳘तिशुश्राव॥
त᳘न्त्वा घृतस्रवीमह ऽइ᳘त्ये᳘वाभिव्या᳘हरद्द᳘थास्य घृतकीर्ता᳘वे᳘वाग्नि᳘र्वैश्वानरो मु᳘खादुज्जज्वाल तन्न᳘ शशाक धा᳘रयितुᳫँ᳘ सो ऽस्य मु᳘खान्नि᳘ष्पेदे स᳘ ऽइमां᳘ पृथिवीं प्रा᳘पादः॥
मूलम् - Weber
स᳘ हॗ नैव प्र᳘तिशुश्राव॥
तं᳘ त्वा घृतस्नवीमह इ᳘त्येॗवाभिव्या᳘हरद᳘थास्य घृतकीर्ता᳘वेॗवाग्नि᳘र्वैश्वानरो मु᳘खादुज्जज्वाल तम् न᳘ शशाक धा᳘रयितुॗᳫंॗ सो ऽस्य मु᳘खान्नि᳘ष्पेदे 18 स᳘इमा᳘म् पृथिवीम् प्रा᳘पादः᳟॥
मूलम् - विस्वरम्
स ह नैव प्रतिशुश्राव । “तन्त्वा घृतस्रवीमहे” इत्येवाभिव्याहरत्- अथास्य घृतकीर्ता- वेवाग्निर्वैश्वानरो मुखादुज्जज्वाल । तं न शशाक धारयितुम् । सो ऽस्य मुखान्निष्पेदे । स इमां पृथिवीं प्रापादः ॥ १३ ॥
सायणः
स ह नैवेति । एवमपि प्रतिश्रवणाभावे “तन्त्वा घृतस्रवीमहे”- ‘इति’ इमामेवर्चम्, (ऋ. सं० ५ । २६ । २) अग्निमभिलक्ष्योक्तवान् । ‘सः’ चाग्निर्मन्त्रगतघृतशब्दोच्चारणसमये एव माथवस्य मुखसकाशादूर्द्ध्वं ज्वलितो ऽभूत् । ‘तम्’ अग्निं ‘धारयितुं’ सो ऽपि ‘न शशाक’ ज्वालाधिक्येन दाहकत्वात् । ‘स’ च मुखान्निर्गतः सन् ‘पृथिवीं’ प्राप्तवान् ॥ १३॥
Eggeling
- Still he did not answer. (The priest continued), ‘Thee, O butter-sprinkled one, we invoke! (Rig-veda V, 26, 2);’ so much he uttered, when at the very mentioning of butter, Agni Vaiśvānara flashed forth from the (king’s) mouth: he was unable to hold him back; he issued from his mouth, and fell down on this earth.
१४
विश्वास-प्रस्तुतिः
(स्त᳘) त᳘र्हि व्विदेघो᳘ माथव᳘ आस॥
स᳘रस्वत्याᳫं स त᳘त ऽएव प्राङ्द᳘हन्न᳘भीयायेमां᳘ पृथिवीं तं गो᳘तमश्च राहूगणो᳘ व्विदेघ᳘श्च माथवः᳘ पश्चाद्द᳘हन्तम᳘न्वीयतुः स᳘ ऽइमाः स᳘र्व्वा नदीर᳘तिददाह सदानीरेत्यु᳘त्तराद्गिरेर्नि᳘र्द्धावति ता᳘ᳫँ᳘ हैव ना᳘तिददाह ता᳘ᳫँ᳘ ह स्म तां᳘ पुरा᳘ ब्राह्मणा न᳘ तरन्त्य᳘नतिदग्धाग्नि᳘ना व्वैश्वानरेणे᳘ति॥
मूलम् - श्रीधरादि
(स्त᳘) त᳘र्हि व्विदेघो᳘ माथव᳘ आस॥
स᳘रस्वत्याᳫं स त᳘त ऽएव प्राङ्द᳘हन्न᳘भीयायेमां᳘ पृथिवीं तं गो᳘तमश्च राहूगणो᳘ व्विदेघ᳘श्च माथवः᳘ पश्चाद्द᳘हन्तम᳘न्वीयतुः स᳘ ऽइमाः स᳘र्व्वा नदीर᳘तिददाह सदानीरेत्यु᳘त्तराद्गिरेर्नि᳘र्द्धावति 17 ता᳘ᳫँ᳘ हैव ना᳘तिददाह ता᳘ᳫँ᳘ ह स्म तां᳘ पुरा᳘ ब्राह्मणा न᳘ तरन्त्य᳘नतिदग्धाग्नि᳘ना व्वैश्वानरेणे᳘ति॥
मूलम् - Weber
त᳘र्हि विदेघो᳘ माथव᳘ आस॥
स᳘रस्वत्याᳫं स त᳘त एव प्राङ्दहन्नॗभीयायेमा᳘म् पृथिवीं तं गो᳘तमश्च राहूगणो᳘ विदेघ᳘श्च माथवः᳘ पश्चाद्द᳘हन्तम᳘न्वीयतुः स᳘ इमाः स᳘र्वा नदीर᳘तिददाह सदानीरेत्यु᳘त्तराद्गिरेर्नि᳘र्घावति 19 ता᳘ᳫं᳘ हैव ना᳘तिददाह ता᳘ᳫं᳘ ह स्मैतां᳘ पुरा᳘ ब्राह्मणा न᳘ तरन्त्य᳘नतिदग्धाग्नि᳘ना वैश्वानरेणे᳘ति॥
मूलम् - विस्वरम्
तर्हि विदेघो माथव आस सरस्वत्याम् । स तत एव प्राङ् दहन्नभीयायेमां पृथिवीम् । तं गोतमश्च राहूगणो विदेघश्च माथवः पश्चाद्दहन्तमन्वीयतुः । स इमाः सर्वा नदीरतिददाह | सदानीरेत्युत्तराद् गिरेर्निर्द्धावति, तां हैव नातिददाह । तां ह स्म तां पुरा ब्राह्मणा न तरन्ति, अनतिदग्धा ऽग्निना वैश्वानरेणेति ॥ १४ ॥
सायणः
तर्हीति । तस्मिन् समये माथवश्च तापशमनाय ‘सरस्वत्यां’ नद्यां निमग्नो ऽभूत् । ‘सः’ अग्निस्तस्मात् । स्थानादारभ्य ‘प्राङ् दहन्’ ‘इमां’ सर्वां ‘पृथिवीम्’ अभितो व्याप्नोत् । माथवगोतमावुभावपि ‘दहन्तं’ ‘तम्’ अग्निं ‘पश्चात्’ अनुजग्मतुः । ‘सः’ च दहन्नग्निः पृथिव्यां यावत्यो नद्यः सन्ति, ताः ‘सर्वा नदीः’ अतिशयेन ‘ददाह’ शोषयामास । प्राचीनं दहतो ऽस्य पुरस्तात् ‘सदानीरा’ नाम नदी ‘उत्तरात्’ उदक्प्रवाहा ‘एति’ गच्छति । तया च व्यवहितः सो ऽग्निः । एनमग्निम्, सापि निःशेषेण धारयति, इतस्ततो गमनं निवार्य धारितवतीत्यर्थः । स चाग्निः, ‘तां’ नदीमितरनदीवत्, ‘नातिददाह’ । अत एव सदासर्वदा नीरं जलमस्यामस्तीति व्युत्पत्त्या ‘सदानीरा’- इत्युच्यते । तथा च निघण्टुः 20- “करतोया सदानीरा बाहुदा सैतवाहिनी” इति । ‘तां ह’ नदीं ‘पुरा’ तद्दहनोत्तरकाले ‘ब्राह्मणाः’ ‘न तरन्ति’ न स्पृशन्ति । अग्निदाहाभावेनाविशुद्धत्वादिति हेतुमाह- अनतिदग्धेति ॥ १४ ॥
Eggeling
- Māthava, the Videgha, was at that time on the (river) Sarasvatī 21. He (Agni) thence went burning along this earth towards the east; and Gotama Rāhūgaṇa and the Videgha Māthava followed after him as he was burning along. He burnt over (dried up) all these rivers. Now that (river), which is called ‘Sadānīrā,’ flows from the northern (Himālaya) mountain: that one he did not burn over. That one the Brāhmans did not cross in former times, thinking, ‘it has not been burnt over by Agni Vaiśvānara.’
१५
विश्वास-प्रस्तुतिः
त᳘त ऽएत᳘र्हि॥
प्राची᳘नं बह᳘वो ब्राह्मणास्तद्धा᳘क्षेत्रतरमिवास स्रावि᳘तरमिवा᳘स्वदितमग्नि᳘ना व्वैश्वानरेणे᳘ति॥
मूलम् - श्रीधरादि
त᳘त ऽएत᳘र्हि॥
प्राची᳘नं बह᳘वो ब्राह्मणास्तद्धा᳘क्षेत्रतरमिवास स्रावि᳘तरमिवा᳘स्वदितमग्नि᳘ना व्वैश्वानरेणे᳘ति॥
मूलम् - Weber
त᳘त एत᳘र्हि॥
प्राची᳘नम् बह᳘वो ब्राह्मणास्तद्धाक्षेत्रतरमिवास स्रावि᳘तरमिवा᳘स्वदितमग्नि᳘ना वैश्वानरेणे᳘ति॥
मूलम् - विस्वरम्
तत एतर्हि प्राचीनं बहवो ब्राह्मणाः । तद्धाक्षेत्रतरमिवास, स्रावितरमिवास्वदितमग्निना वैश्वानरेणेति ॥ १५ ॥
सायणः
तत एतर्हीति । ‘ततः’ तस्या नद्याः ‘प्राचीनं’ प्राग्देशम् । ‘एतर्हि’ इदानीं ‘बहवो ब्राह्मणाः’ निवसन्ति । अत्यन्तसंयोगे द्वितीया (पा. सू. २ । १ । २९।) प्राग्देशः सर्वो ऽपि ब्राह्मणवास इत्यर्थः । ‘तत्’ च स्थानम् । ‘अक्षेत्रतरमिव’ अतिशयेन निवासायोग्यमिव ‘आस’ बभूव । तथा ‘स्रावितरं’ भग्नभाण्डे निक्षिप्तनीरवत्तद्देशे ऽनुष्ठितं यज्ञदानादिकमतिशयेन ‘स्रावि’ स्रवणशीलं फलप्रदानासमर्थं बभूवेत्यर्थः । तत्र हेतुमाह- अस्वदितमिति । यतो ‘वैश्वानरेणाग्निना’ ‘अस्वदितम्’ अनास्वादितम्, अतस्तत्स्थानमपवित्रमित्यर्थः ॥ १५ ॥
Eggeling
- Now-a-days, however, there are many Brāhmans to the east of it. At that time it (the land east of the Sadānīrā) was very uncultivated, very marshy, because it had not been tasted by Agni Vaiśvānara.
१६
विश्वास-प्रस्तुतिः
त᳘दु हेत᳘र्हि॥
क्षे᳘त्रतरमिव ब्राह्मणा᳘ ऽउ हि᳘ नून᳘मेनद्यज्ञैर᳘सिष्वदन्त्सा᳘पि जघ᳘न्ये नैदाघे स᳘मिवैव᳘ कोपयति ता᳘वच्छीता᳘नतिदग्धा᳘ ह्यग्नि᳘ना व्वैश्वानरे᳘ण॥
मूलम् - श्रीधरादि
त᳘दु हेत᳘र्हि॥
क्षे᳘त्रतरमिव ब्राह्मणा᳘ ऽउ हि᳘ नून᳘मेनद्यज्ञैर᳘सिष्वदन्त्सा᳘पि जघ᳘न्ये नैदाघे स᳘मिवैव᳘ कोपयति ता᳘वच्छीता᳘नतिदग्धा᳘ ह्यग्नि᳘ना व्वैश्वानरे᳘ण॥
मूलम् - Weber
त᳘दु हैत᳘र्हि॥
क्षे᳘त्रतरमिव ब्राह्मणा᳘ उ हि᳘ नून᳘मेनद्यज्ञैर᳘सिष्वदंत्सा᳘पि जघॗन्ये नैदाघे स᳘मिवैव᳘ कोपयति ता᳘वछीता᳘नतिदग्धा ह्य᳘ग्नि᳘ना वैश्वानरे᳘ण॥
मूलम् - विस्वरम्
तदु हैतर्हि क्षेत्रतरमिव । ब्राह्मणा उ हि नूनमेनद्यज्ञैरसिष्वदन् । सापि जघन्ये नैदाघे समिवैव कोपयति तावत्, शीता ऽनतिदग्धा ह्यग्निना वैश्वानरेण ॥ १६ ॥
सायणः
अस्य दोषस्य परिहारमाह- तदु हेति । ‘एतर्हि’ एतस्मिन् समये ‘तद्’ अपि स्थानं ‘क्षेत्रतरं’ निवासयोग्यमेव भवति । कुत इत्यत आह- ब्राह्मणा उ हीति । ‘नूनम्’ इति निश्चये 20; ‘हि’ यस्मात् ‘एनत्’ स्थानं ब्राह्मणा ‘यज्ञैरसिष्वदन्’ यज्ञानुष्ठानैरग्निना ऽऽस्वादितमकृषत, तस्मादित्यर्थः । ‘सा’ च नदी ‘जघन्ये’ निकृष्टे सर्वरसवर्जिते ‘नैदाघे’ ग्रीष्मसंबन्धिकाले ऽपि सम्यक् ‘कोपयति’ बहुजलतया प्रकुपिता भवति । ‘तावत्’ पर्यन्ते हि काले ‘वैश्वानरेणाग्निना’ ‘दग्धा’ तदा च तं निवारयितुं तस्याः प्रकोपो जात इत्यर्थः ॥ १६ ॥
Eggeling
- Now-a-days, however, it is very cultivated, for the Brāhmans have caused (Agni) to taste it through
sacrifices. Even in late summer that (river), as it were, rages along 22: so cold is it, not having been burnt over by Agni Vaiśvānara.
१७
विश्वास-प्रस्तुतिः
स᳘ होवाच॥
व्विदेघो᳘ माथवः᳘ क्वाहं᳘ भवानीत्य᳘त एव᳘ ते प्राची᳘नं भु᳘वनमि᳘ति होवाच᳘ सैषा᳘प्येत᳘र्हि कोसलविदेहा᳘नां मर्या᳘दा ते हि᳘ माथवाः॥
मूलम् - श्रीधरादि
स᳘ होवाच॥
व्विदेघो᳘ माथवः᳘ क्वाहं᳘ भवानीत्य᳘त एव᳘ ते प्राची᳘नं भु᳘वनमि᳘ति होवाच᳘ सैषा᳘प्येत᳘र्हि कोसलविदेहा᳘नां मर्या᳘दा ते हि᳘ माथवाः॥
मूलम् - Weber
स᳘ होवाच॥
विदेघो᳘ माथॗवः क्वाह᳘म् भवानीत्य᳘त एव᳘ ते प्राची᳘नम् भु᳘वनमि᳘ति होवाचॗ सैषा᳘प्येत᳘र्हि कोसलविदेहा᳘नाम् मर्या᳘दा ते हि᳘ माथवाः᳟॥
मूलम् - विस्वरम्
स होवाच विदेघो माथवः- क्वाहं भवानीति । अत एव ते प्राचीनं भुवनमिति होवाच । सैषाप्येतर्हि कोसलविदेहानां मर्यादा । ते हि माथवाः ॥ १७ ॥
सायणः
स होवाचेति । एवं सर्वेषु देशेषु दग्धेषु ‘सः’ च माथवो ऽग्निमेव प्रतीक्ष्य ‘उवाच’-‘क्व’ कुत्र देशे ‘अहं भवानि’ निवसेयम्? ‘इति’ पृष्ठे सो ऽप्यग्निरेनम् ‘उवाच’ । किमिति । ‘अतः’ अस्याः नद्याः ‘प्राचीनं’ यद् ‘भुवनं’ भूमिः, एतदेव ‘ते’ तव निवासो ऽस्त्विति । अत एव कारणात्, एतस्मिन्नपि काले ‘सैषा’ सदानीरा नदी कोसलदेशस्य च विदेहस्य च मर्यादात्वेन दृश्यते । ‘हि’ यस्मादेवं माथवायाग्निरदात्, तस्मात्ते विदेहदेशा अपि माथवा इत्युच्यन्ते ॥ १७ ॥
Eggeling
- Māthava, the Videgha, then said (to Agni), ‘Where am I to abide?’ ‘To the east of this (river) be thy abode!’ said he. Even now this (river) forms the boundary of the Kosalas and Videhas; for these are the Māthavas (or descendants of Māthava).
१८
विश्वास-प्रस्तुतिः
(ऽ) अ᳘थ होवाच॥
गो᳘तमो राहूगणः᳘ कथन्नु᳘ न ऽआमन्त्र्य᳘माणो न प्र᳘त्यश्रौषीरि᳘ति स᳘ होवाचाग्नि᳘र्मे व्वैश्वानरो मु᳘खे ऽभूत्स ने᳘न्मे मु᳘खान्निष्प᳘द्यातै त᳘स्मात्ते न प्र᳘तिश्रौषमि᳘ति॥
मूलम् - श्रीधरादि
(ऽ) अ᳘थ होवाच॥
गो᳘तमो राहूगणः᳘ कथन्नु᳘ न ऽआमन्त्र्य᳘माणो न प्र᳘त्यश्रौषीरि᳘ति स᳘ होवाचाग्नि᳘र्मे व्वैश्वानरो मु᳘खे ऽभूत्स ने᳘न्मे मु᳘खान्निष्प᳘द्यातै त᳘स्मात्ते न प्र᳘तिश्रौषमि᳘ति॥
मूलम् - Weber
अ᳘थ होवाच॥
गो᳘तमो राहूगणः᳘ कथं नु᳘ न आमन्त्र्य᳘माणो न प्र᳘त्यश्रौषीरि᳘ति स᳘ होवाचाग्नि᳘र्मे वैश्वानरो मु᳘खे ऽभुत्स ने᳘न्मे मु᳘खान्निष्प᳘द्यातै त᳘स्मात्ते न प्र᳘तिश्रौषमि᳘ति॥
मूलम् - विस्वरम्
अथ होवाच गोतमो राहूगणः- कथन्नु न आमन्त्र्यमाणो न प्रत्यश्रौषीरिति । स होवाच- अग्निर्मे वैश्वानरो मुखे ऽभूत्, स नेन्मे मुखान्निष्पद्यातै, तस्मात्ते न प्रत्यश्रौषमिति ॥ १८ ॥
सायणः
“[व्याख्यानम् अग्रे]”
Eggeling
- Gotama Rāhūgaṇa then said (to Māthava), ‘Why didst thou not answer when addressed by us?’ He replied, ‘Agni Vaiśvānara was in my mouth; I did not reply, lest he should escape from my mouth.’
१९
विश्वास-प्रस्तुतिः
त᳘दु कथ᳘मभूदि᳘ति॥
य᳘त्रैव त्वं᳘ घृतस्नवीमह ऽइ᳘त्यभिव्या᳘हार्षीस्त᳘देव᳘ मे घृतकीर्ता᳘वग्नि᳘र्व्वैश्वानरो मु᳘खादु᳘दज्वाली᳘त्तं नाशकं धा᳘रयितुᳫँ᳭ स᳘ मे मु᳘खान्नि᳘रपादी᳘ति॥
मूलम् - श्रीधरादि
त᳘दु कथ᳘मभूदि᳘ति॥
य᳘त्रैव त्वं᳘ घृतस्नवीमह ऽइ᳘त्यभिव्या᳘हार्षीस्त᳘देव᳘ मे घृतकीर्ता᳘वग्नि᳘र्व्वैश्वानरो मु᳘खादु᳘दज्वाली᳘त्तं नाशकं धा᳘रयितुᳫँ᳭ स᳘ मे मु᳘खान्नि᳘रपादी᳘ति॥
मूलम् - Weber
त᳘दु कथ᳘मभूदि᳘ति॥
य᳘त्रैव त्वं᳘ घृतस्नवीमह इ᳘त्यभिव्या᳘हार्षीस्त᳘देव᳘ मे घृतकीर्ता᳘वग्नि᳘र्वैश्वानरो मु᳘खादु᳘दज्वालीॗत्तं नाशकं धा᳘रयितुᳫं स᳘ मे मु᳘खान्नि᳘रपादी᳘ति॥
मूलम् - विस्वरम्
तदु कथमभूदिति । यत्रैव त्वं ‘वृतस्रवीमहे’ इत्यभिव्याहार्षीः तदेव मे घृतकीर्तावग्निर्वैश्वानरो मुखादुदज्वालीत्; तन्नाशकं धारयितुम्, स मे मुखान्निरपादीति ॥ १९ ॥
सायणः
उक्तं वृत्तान्तं गोतमेन पृष्टः सन् विदेहो ऽनुवदति- अथ होवाचेत्यादिना । परोक्षत्वात्पूर्वं श्रुतिवाक्ये लिट्प्रयोगः । (पा. सू. ३ । २ । ११० ।) गोतममाथवयोः प्रश्नप्रतिवचनरूपवाक्ये तु भूताद्यतनत्वाल्लुङ्-प्रयोगो (पा. सू. ३ । २ । ११० ।) विशेषः ॥ १९ ॥
Eggeling
- ‘How then did this happen?’–‘At the moment when thou didst utter the words, “(Thee), O butter-sprinkled one, we invoke!” just then, at the mention of butter, Agni Vaiśvānara flashed forth from my mouth; I was unable to hold him back, he issued from my mouth.’
२०
विश्वास-प्रस्तुतिः
स᳘ य᳘त्सामिधेनी᳘षु घृत᳘वत्॥
(त्सा) सामिधेन᳘मेव तत्स᳘मे᳘वैनं ते᳘नेन्धे व्वीर्य्यमे᳘वास्मिन्दधाति॥
मूलम् - श्रीधरादि
स᳘ य᳘त्सामिधेनी᳘षु घृत᳘वत्॥
(त्सा) सामिधेन᳘मेव तत्स᳘मे᳘वैनं ते᳘नेन्धे व्वीर्य्यमे᳘वास्मिन्दधाति॥
मूलम् - Weber
स᳘ य᳘त्सामिधेनी᳘षु घृत᳘वत्॥
सामिधेन᳘मेव तत्स᳘मेॗवैनं ते᳘नेन्धे वीर्य᳘मेॗवास्मिन्दधाति॥
मूलम् - विस्वरम्
स यत्सामिधेनीषु घृतवत्- सामिधेनमेव तत् । समेवैनं तेनेन्धे, वीर्यमेवास्मिन् दधाति ॥ २० ॥
सायणः
एवं प्रासङ्गिकं परिसमाप्य प्रकृते योजयति- स यदिति । यस्माद् घृतशब्दोच्चारणेनाग्निः प्रज्वलितो बभूव, तस्मात् कारणात् ‘सामिधेनीषु’ ‘यद्’ घृतप्रातिपदिकयुक्तं पदम् ‘तत्’ ‘सामिधेनमेव’ अग्निसमिन्धनहेतुर्भवतीत्यर्थः ॥ २० ॥
Eggeling
- That (word) in the sāmidhenīs, therefore, which contains butter (ghr̥ta) is especially suitable for kindling (sam-indh); and by it he accordingly kindles him (Agni, the fire) and bestows vigour on this (sacrificer).
२१
विश्वास-प्रस्तुतिः
त᳘दु घृताच्ये᳘ति॥
देवा᳘ञ्जिगाति सुम्नयुरि᳘ति य᳘जमानो वै᳘ सुम्नयुः स हि᳘ देवाञ्जि᳘गीषति स हि᳘ देवाञ्जि᳘घाᳫंसति त᳘स्मादाह देवा᳘ञ्जिगाति सुम्नयुरि᳘ति सै᳘षाग्नेयी᳘ सत्य᳘निरुक्ता स᳘र्व्वं वा ऽअ᳘निरुक्तᳫँ᳭ स᳘र्व्वेणै᳘वैतत्प्र᳘तिपद्यते᳘॥
मूलम् - श्रीधरादि
त᳘दु घृताच्ये᳘ति॥
देवा᳘ञ्जिगाति सुम्नयुरि᳘ति य᳘जमानो वै᳘ सुम्नयुः स हि᳘ देवाञ्जि᳘गीषति स हि᳘ देवाञ्जि᳘घाᳫंसति त᳘स्मादाह देवा᳘ञ्जिगाति सुम्नयुरि᳘ति सै᳘षाग्नेयी᳘ सत्य᳘निरुक्ता स᳘र्व्वं वा ऽअ᳘निरुक्तᳫँ᳭ स᳘र्व्वेणै᳘वैतत्प्र᳘तिपद्यते᳘॥
मूलम् - Weber
त᳘दु घृताच्ये᳘ति॥
देवा᳘ञ्जिगाति सुम्नयुरि᳘ति य᳘जमानो वै᳘ सुम्नयुः स हि᳘ देवाञ्जि᳘गीषति स हि᳘ देवाञ्जि᳘घांसति 23 त᳘स्मादाह देवा᳘ञ्जिगाति सुम्नयुरि᳘तिॗ सैॗषाग्नेयी᳘ सत्य᳘निरुक्ता स᳘र्वं वा अ᳘निरुक्तᳫं स᳘र्वेणैॗवैतत्प्र᳘तिपद्यते॥
मूलम् - विस्वरम्
तदु घृताच्येति । “देवाञ् जिगाति सुम्नयुः”- इति । यजमानो वै सुम्नयुः, स हि देवाञ् जिगीषति स हि देवाञ् जिघांसति । तस्मादाह- देवाञ् जिगाति सुम्नयुरिति । सैषाग्नेयी सत्यनिरुक्ता । सर्वं वा अनिरुक्तम्, सर्वेणैवैतत्प्रतिपद्यते ॥ २१ ॥
सायणः
तस्माद् धृताच्यैतत्पदं सामिधेनीषु युक्ततरमिति निगमयति- तद्विति । तैत्तिरीयके ऽपि नृमेधपरुच्छेपसंवादोदाहरणे घृतवत्पदस्याग्निजननहेतुत्वं प्रतिपादितम्- “यत्समावद्विद्व कथा त्वमग्निमजीजनो नाहमिति; सामिधेनीनामेवाहं वर्णं वेदेत्यब्रवीद्; यद् घृतवत्पदमनूच्यते, स आसां वर्णः”- (तै. सं. २ । ५ । ८ । ५ ) इति । यजमानो वा इत्यादि । ‘सुम्नं’ सुखं स्वर्गादिलक्षणमात्मन इच्छतीति. (पा. सू. ३ । १ । ८) सुम्नयुः यजमानः । जिगातीत्यस्याभिप्रायमाह- जिगीषतीति । जेतुमिच्छतीत्यर्थः ॥ ननु “गा स्तुतौ”- (जुहो. प. २३) इति धातुः । कथं तस्य जिगीषतीति व्याख्यानमित्यत आह- स हीति । ‘हि’ यस्माद् यजमानो देवान् स्तुत्या ‘जिघांसति’, हन्तुं प्राप्तुमिच्छति । हन्तिरत्र गत्यर्थः । ‘तस्मात्’ जिगीषतीति युज्यत इत्यर्थः । “अज्झनगमां सनि”- (पा. सू. ३ । ४ । १६) -इति सनि दीर्घत्वम् । सर्वं वा- अंनिरुक्तमिति । यन्नामविशेषैरनिरुक्तम्, तत्सर्वात्मकमित्यर्थः ॥ २१ ॥
Eggeling
- Now that (word) is ghr̥tācyā, ‘with the buttered (spoon).’–‘He nears 24 the gods, wishful of bliss.’ Wishful of bliss, truly, is the sacrificer, since he wishes to approach the gods, to go to 25
the gods: therefore he says, ‘he nears the gods, wishful of bliss.’ This (verse), which is addressed to Agni, is undefined (vague); and undefined, doubtless, is the ‘All;’ he thus commences (this holy work) with the All.
२२
विश्वास-प्रस्तुतिः
(ते᳘ ऽग्न) अ᳘ग्न ऽआ᳘याहि व्वीत᳘य ऽइ᳘ति॥
तद्वे᳘ति भवति व्वीत᳘य ऽइ᳘ति स᳘मन्तिकमिव ह वा᳘ ऽइमे᳘ ऽग्रे लोका᳘ ऽआसुरित्युन्मृ᳘श्या हैव द्यौ᳘रास॥
मूलम् - श्रीधरादि
(ते᳘ ऽग्न) अ᳘ग्न ऽआ᳘याहि व्वीत᳘य ऽइ᳘ति॥
तद्वे᳘ति भवति व्वीत᳘य ऽइ᳘ति स᳘मन्तिकमिव ह वा᳘ ऽइमे᳘ ऽग्रे लोका᳘ ऽआसुरित्युन्मृ᳘श्या हैव द्यौ᳘रास॥
मूलम् - Weber
अ᳘ग्न आ᳘याहि वीत᳘य इ᳘ति॥
तद्वे᳘ति भवति वीत᳘य इ᳘ति स᳘मन्तिकमिव हवा᳘ इमे᳘ ऽग्रे लोका᳘ आसुरित्युन्मृ᳘श्या हैव द्यौ᳘रास॥
मूलम् - विस्वरम्
“अग्न आयाहि वीतये” -इति । तद्वेति भवति । वीतय इति- समन्तिकमिव ह वा इमे ऽग्रे लोका आसुः, इत्युन्मृश्या हैव द्यौरास ॥ २२॥
सायणः
अग्न आयाहीति । “वीतये”- इति पदं व्याख्यातुमितिहासमाह- समन्तिकमिवेति । सन्निकृष्टतरमिवेत्यर्थः । सन्निकर्षमेवाभिनयेन दर्शयति- इत्युन्मृश्येति । यथोर्ध्वबाहुना शाखाग्रं स्पृश्यते ‘इति’ एवमेव द्यौरपि हस्तस्पृश्येव बभूवेत्यर्थः ॥ २२ ॥
Eggeling
- [He recites the second sāmidhenī]: ‘Come hither, Agni, to expand!’–‘To expand’ he says, because at the beginning these worlds were well-nigh contiguous to one another: at that time one could touch the sky thus 26.
२३
विश्वास-प्रस्तुतिः
ते᳘ देवा᳘ ऽअकामयन्त॥
कथन्नु᳘ न इमे᳘ लोका᳘ व्वितराᳫं स्युः᳘ कथ᳘न्न इदं व्व᳘रीय ऽइव स्यादि᳘ति ता᳘नेतै᳘रेव᳘ त्रिभि᳘रक्ष᳘रैर्व्य᳘नयन्वीत᳘य ऽइ᳘ति त᳘ ऽइमे व्वि᳘दूरं लोकास्त᳘तो देवे᳘भ्यो व्व᳘रीयो ऽभवद्व᳘रीयो ह वा᳘ ऽअस्मै भवति य᳘स्यैवं᳘ व्विदु᳘ष ऽएता᳘मन्वाहु᳘र्व्वीत᳘य ऽइ᳘ति॥
मूलम् - श्रीधरादि
ते᳘ देवा᳘ ऽअकामयन्त॥
कथन्नु᳘ न इमे᳘ लोका᳘ व्वितराᳫं स्युः᳘ कथ᳘न्न इदं व्व᳘रीय ऽइव स्यादि᳘ति ता᳘नेतै᳘रेव᳘ त्रिभि᳘रक्ष᳘रैर्व्य᳘नयन्वीत᳘य ऽइ᳘ति त᳘ ऽइमे व्वि᳘दूरं लोकास्त᳘तो देवे᳘भ्यो व्व᳘रीयो ऽभवद्व᳘रीयो ह वा᳘ ऽअस्मै भवति य᳘स्यैवं᳘ व्विदु᳘ष ऽएता᳘मन्वाहु᳘र्व्वीत᳘य ऽइ᳘ति॥
मूलम् - Weber
ते᳘ देवा᳘ अकामयन्त॥
कथं नु᳘ न इमे᳘ लोका᳘ वितराᳫं स्युः᳘ कथं᳘ न इदं व᳘रीय इव स्यादि᳘ति ता᳘नेतै᳘रेव᳘ त्रिभि᳘रक्ष᳘रैर्व्य᳘नयन्वीत᳘य इ᳘ति त᳘ इमे वि᳘टूरं लोकास्त᳘तो देवे᳘भ्यो व᳘रीयो ऽभवद्व᳘रीयो ह वा᳘ अस्य भवति य᳘स्यैवं᳘ विदु᳘ष एता᳘मन्वाहु᳘र्वीत᳘य इ᳘ति॥
मूलम् - विस्वरम्
ते देवा अकामयन्त- कथन्नु न इमे लोका वितरां स्युः, कथन्नु इदं वरयि इव स्यादिति । तानेतैरेव त्रिभिरक्षरैर्व्यनयन्- वीतय इति । त इमे विदूरं लोकाः, ततो देवेभ्यो वरीयो ऽभवत् वरीयो ह वा अस्मै भवति- यस्यैवं विदुष एतामन्वाहुर्वीतय इति ॥ २३ ॥
सायणः
ते देवा इति । वितरां स्युरिति । अतिशयेन विप्रकृष्टा भवेयुरित्यर्थः । वरीय इवेति । उरुतरं विस्तीर्णतरमेवैतत्, त्रिरूपं स्थानं केन प्रकारेण स्यादित्यर्थः । विश्लिष्टा इतिः -वीतिः । तथा च वीतये- इत्यस्य विविधमानायेत्यर्थो भवति । एतदक्षरत्रयप्रयोगात् त्रयः ‘इमे लोकाः’ परस्परं ‘विदुरं’ विप्रकर्षं प्राप्ता इत्यर्थः । एतामन्वाहुरिति । ‘वीतये’- इति पदेन युक्ताम् ‘अग्न आयाहि’ इत्यादिकामित्यर्थः ॥ २३ ॥
Eggeling
- The gods desired, ‘How could these worlds of ours become farther apart from one another? How could there be more space for us?’ They breathed through them (the worlds) with these three syllables (forming the word) vītaye 27,’ and these worlds became far apart from one another; and there was then ampler space for the gods: ample space, therefore, he will have for whom, knowing this, they recite this (verse) containing (the word) ‘vītaye.’
२४
विश्वास-प्रस्तुतिः
गृणानो᳘ हव्य᳘दातय ऽइ᳘ति॥
य᳘जमानो वै᳘ हव्य᳘दातिर्गृणानो य᳘जमनाये᳘त्ये᳘वैत᳘दाह नि हो᳘ता सत्सि बर्हिषी᳘त्यग्निर्वै हो᳘तायं᳘ लोको᳘ बर्हि᳘रस्मि᳘न्ने᳘वैत᳘ल्लो᳘के ऽग्निं᳘ दधाति᳘ सो ऽय᳘मस्मिल्ँ᳘लो᳘के ऽग्नि᳘र्हितः᳘ सै᳘षेम᳘मेव᳘ लोक᳘मभ्य᳘नूक्तेम᳘मे᳘वैत᳘या लोकं᳘ जयति य᳘स्यैवं᳘ व्विदु᳘ष ऽएता᳘मन्वाहुः॥
मूलम् - श्रीधरादि
गृणानो᳘ हव्य᳘दातय ऽइ᳘ति॥
य᳘जमानो वै᳘ हव्य᳘दातिर्गृणानो य᳘जमनाये᳘त्ये᳘वैत᳘दाह नि हो᳘ता सत्सि बर्हिषी᳘त्यग्निर्वै हो᳘तायं᳘ लोको᳘ बर्हि᳘रस्मि᳘न्ने᳘वैत᳘ल्लो᳘के ऽग्निं᳘ दधाति᳘ सो ऽय᳘मस्मिल्ँ᳘लो᳘के ऽग्नि᳘र्हितः᳘ सै᳘षेम᳘मेव᳘ लोक᳘मभ्य᳘नूक्तेम᳘मे᳘वैत᳘या लोकं᳘ जयति य᳘स्यैवं᳘ व्विदु᳘ष ऽएता᳘मन्वाहुः॥
मूलम् - Weber
गृणानो᳘ हव्य᳘दातय इ᳘ति॥
य᳘जमानो वै᳘ हव्य᳘दातिर्गृणानो य᳘जमनाये᳘त्येॗवैत᳘दाह नि हो᳘ता सत्सि बर्हिषी᳘त्यग्निर्वै हो᳘तायं᳘ लोको᳘ बर्हि᳘रस्मि᳘न्नेॗवैतल्लोॗके ऽग्निं᳘ दधातिॗ सो ऽय᳘मस्मिं᳘ल्लोॗके ऽग्नि᳘र्हिॗतः सैॗषेम᳘मेव᳘ लोक᳘मभ्य᳘नूक्तेम᳘मेॗवैत᳘या लोकं᳘ जयति य᳘स्यैवं᳘ विदु᳘ष एता᳘मन्वाहुः᳟॥
मूलम् - विस्वरम्
“गृणानो हव्यदातये” ** इति । यजमानो वै हव्यदातिः । गृणानो यजमानायेत्येवैतदाह । ** “नि होता सत्सि बहिर्षि” इति । अग्निर्वै होता, अयं लोको बर्हिः । अस्मिन्नेवैतल्लोके ऽग्निं दधाति । सो ऽयमस्मिंल्लोके ऽग्निर्हितः । सैषेममेव लोकमभ्यनूक्ता, इममेवैतया लोकं जयति यस्यैवं विदुष एतामन्वाहुः ॥ २४ ॥
सायणः
अस्या ऋचो द्वितीयं पादमनूद्य व्याचष्टे- गृणान इति । हविषो दानाद् ‘हव्यदातिः’ यजमानः । अस्या ऋचो ऽनुवचनं भूलोकजयहेतुत्वेन प्रशंसति- अग्निर्वै होतेत्यादिना ॥ २४ ॥
Eggeling
- He proceeds, ‘Invoked for the giver of oblations!’ ‘The giver of oblations 28,’ of course, is the
sacrificer: hence ‘invoked for the sacrificer’ is what he thereby means to say.–‘As Hotr̥ on the barhis sit!’ Agni, indeed, is the Hotr̥, and the barhis (the covering of sacrificial grass on the altar) is this world: hence he thereby establishes Agni (the fire) in this world, as this fire is established (or, beneficial, hita) in this world. This (verse), then, is recited with reference to this world (the earth): through it this world is conquered by him for whom, knowing this, they recite this (verse).
२५
विश्वास-प्रस्तुतिः
(स्तं᳘) त᳘न्त्वा समि᳘द्भिरङ्गिर ऽइ᳘ति॥
संमि᳘द्भि᳘र्ह्येतम᳘ङ्गिरस ऽऐ᳘न्धताङ्गिर ऽइत्य᳘ङ्गिरा ऽउ᳘ ह्यग्नि᳘र्घृते᳘न व्वर्द्धयामसी᳘ति त᳘त्सामिधेनं᳘ पदᳫँ᳭ स᳘मे᳘वैनं ते᳘नेन्धे व्वीर्य्यमे᳘वास्मिन्दधाति॥ [शतं ३००]
मूलम् - श्रीधरादि
(स्तं᳘) त᳘न्त्वा समि᳘द्भिरङ्गिर ऽइ᳘ति॥
संमि᳘द्भि᳘र्ह्येतम᳘ङ्गिरस ऽऐ᳘न्धताङ्गिर ऽइत्य᳘ङ्गिरा ऽउ᳘ 29 ह्यग्नि᳘र्घृते᳘न व्वर्द्धयामसी᳘ति त᳘त्सामिधेनं᳘ पदᳫँ᳭ स᳘मे᳘वैनं ते᳘नेन्धे व्वीर्य्यमे᳘वास्मिन्दधाति॥ [शतं ३००]
मूलम् - Weber
तं᳘ त्वा समि᳘द्भिरङ्गिर इ᳘ति॥
समि᳘द्भिॗर्ह्येतम᳘ङ्गिरस ऐ᳘न्धताङ्गिर इत्य᳘ङ्गिरा उ ह्य᳘ग्नि᳘र्घृते᳘न 30 वर्धयामसी᳘ति त᳘त्सामिधेन᳘म् पदᳫं स᳘मेॗवैनं ते᳘नेन्धे वीर्य᳘मेॗवास्मिन्दधाति॥
मूलम् - विस्वरम्
“तन्त्वा समिद्भिरङ्गिरः” इति । समिद्भिर्ह्येतमङ्गिरस ऐन्धत । “अङ्गिर” इति । अङ्गिरा उ ह्यग्निः । “घृतेन वर्द्धयामसीति” । तत्सामिधेनं पदम् । समेवैनं तेनेन्धे, वीर्यमेवास्मिन्दधाति ॥ २५ ॥
सायणः
तृतीयां सामिधेनीमनूद्य व्याचष्टे- तन्त्वेति 29 । ‘अङ्गिरसः’ महर्षयो यत् ‘समिद्भिः’ ‘अग्निम्’ ‘ऐन्धन्त’ समिद्धमकुर्वन् 31 तस्मादग्निरपि ‘अंगिर’ इति सम्बोध्यते । तदेतन्नाम अग्नेः प्रसिद्धमित्याह- अंगिरा उ हीति । “इतरे ये ऽङ्गारा आसंस्ते ऽङ्गिरसो ऽभवन्निति 32” अङ्गिरसामङ्गारपरिणामरूपत्वात् ‘अङ्गिरः’- शब्दाभिधयता | अग्निरप्यङ्गाररूप इति युक्तं तस्याप्यङ्गिरस्त्वमित्यर्थः ॥ २५ ॥
Eggeling
- [He recites the third sāmidhenī]: ‘With samidhs thee, O Aṅgiras!’–with samidhs (kindling-sticks), indeed, the Aṅgiras kindled him. ‘O Aṅgiras!’ he says, for Agni is indeed Aṅgiras 33.–‘With butter we exhilarate!’ This (viz. ghr̥tena, ‘with butter’) is a word which is especially suitable for the kindling of Agni: by it he kindles him, and bestows vigour on this (sacrificer).
२६
विश्वास-प्रस्तुतिः
बृहच्छोचा यविष्ठ्येति॥
बृह᳘दु᳘ ह्येष शो᳘चति स᳘मिद्धो यविष्ठ्ये᳘ति य᳘विष्ठो᳘ ह्यग्निस्त᳘स्मादाह यविष्ठ्ये᳘ति᳘ सै᳘षैत᳘मेव᳘ लोक᳘मभ्य᳘नूक्तान्तरिक्षलोक᳘मेव त᳘स्मादाग्नेयी᳘ सत्य᳘निरुक्ता᳘निरुक्तो᳘ ह्येष᳘ लोक᳘ ऽएत᳘म᳘वैत᳘या लोकं᳘ जयति य᳘स्यैवं᳘ व्विदु᳘ष ऽएता᳘मन्वाहुः॥
मूलम् - श्रीधरादि
बृहच्छोचा यविष्ठ्येति॥
बृह᳘दु᳘ ह्येष शो᳘चति स᳘मिद्धो यविष्ठ्ये᳘ति य᳘विष्ठो᳘ ह्यग्निस्त᳘स्मादाह यविष्ठ्ये᳘ति᳘ सै᳘षैत᳘मेव᳘ लोक᳘मभ्य᳘नूक्तान्तरिक्षलोक᳘मेव त᳘स्मादाग्नेयी᳘ सत्य᳘निरुक्ता᳘निरुक्तो᳘ ह्येष᳘ लोक᳘ ऽएत᳘म᳘वैत᳘या लोकं᳘ जयति य᳘स्यैवं᳘ व्विदु᳘ष ऽएता᳘मन्वाहुः॥
मूलम् - Weber
बृह᳘छोचा यविष्ट्ये᳘ति॥
बृहदुॗ ह्येष षो᳘चति स᳘मिद्धो यविष्ट्ये᳘ति य᳘विष्ठो ह्य᳘ग्निस्त᳘स्मादाह यविष्ठ्ये᳘तिॗ सैॗषित᳘मेव᳘ लोक᳘मभ्य᳘नूक्तान्तरिक्षलोक᳘मेव त᳘स्मादाग्नेयी᳘ सत्य᳘निरुक्ता᳘निरुक्तोॗ ह्येष᳘ लोक᳘ एत᳘मेॗवैत᳘या लोकं᳘ जयति य᳘स्यैवं᳘ विदु᳘ष एता᳘मन्वाहुः॥
मूलम् - विस्वरम्
“बृहच्छोचा यविष्ठ्य” इति । बृहदु ह्येष शोचति समिद्धः । यविष्ठ्येति- यविष्ठो ह्यग्निः, तस्मादाह यविष्ठ्येति । सैषा एतमेव लोकमभ्यनूक्ता- अन्तरिक्षलोकमेव । तस्मादाग्नेयी सत्यनिरुक्ता । अनिरुक्तो ह्येष लोकः । एतमेवैतया लोकं जयति- यस्यैवं विदुष एतामन्वाहुः ॥ २६ ॥
सायणः
बृहच्छोचेति । यविष्ठो ह्यग्निरिति । ‘यविष्ठः’ युवतमो नित्यतरुणः 29; अजरामरत्वात् । अस्या ऋचो ऽनुवचनमन्तरिक्षलोकजयहेतुत्वेन प्रशंसति सैषेति । “एतमेव”- इति सामान्योक्तं विवृणोति- अन्तरिक्षेति । ऋचो ऽन्तरिक्षलोकस्य साम्यमाह- तस्मादिति ॥ २६ ॥
Eggeling
- ‘Shine forth, O youngest, brilliantly!’ he adds; for brilliantly he shines, when kindled; and ‘O youngest!’ he says, because he is really the youngest Agni 34: therefore he says, ‘O youngest!’ This (verse) is recited with reference to yonder world, to wit, the aërial world; hence this (verse), which is addressed to Agni, is undefined, for undefined is yonder world: that world he thereby gains, for whom, knowing this, they recite this verse.
२७
विश्वास-प्रस्तुतिः
स᳘ नः पृथु᳘ श्रवा᳘य्यमि᳘ति॥
(त्य) अदो वै᳘ पृथु य᳘स्मिन्देवा᳘ ऽएत᳘च्छ्रवा᳘य्यं य᳘स्मिन्देवा ऽअ᳘च्छा देव व्विवाससीत्य᳘च्छ देव व्विवासस्येत᳘न्नो गमये᳘त्ये᳘वैत᳘दाह॥
मूलम् - श्रीधरादि
स᳘ नः पृथु᳘ श्रवा᳘य्यमि᳘ति॥
(त्य) अदो वै᳘ पृथु य᳘स्मिन्देवा᳘ ऽएत᳘च्छ्रवा᳘य्यं य᳘स्मिन्देवा ऽअ᳘च्छा देव व्विवाससीत्य᳘च्छ देव व्विवासस्येत᳘न्नो गमये᳘त्ये᳘वैत᳘दाह॥
मूलम् - Weber
स᳘ नः पृथु᳘ श्रवा᳘य्यमि᳘ति॥
अदो वै᳘ पृथु य᳘स्मिन्देवा᳘ एत᳘छ्रवा᳘य्यं य᳘स्मिन्देवा अ᳘छा देव विवाससीत्य᳘छ देव विवासस्येत᳘न्नो गमये᳘त्येॗवैत᳘दाह॥
मूलम् - विस्वरम्
“स नः पृथु श्रवाय्यम्” इति । अदो वै पृथु- यस्मिन् देवाः । एतत् श्रवाय्यम्- यस्मिन् देवाः । “अच्छा देव विवाससि” इति । अच्छ देव विवाससि- एतन्नो गमय- इत्येवैतदाह ॥ २७ ॥
सायणः
चतुर्थी सामिधेनीमनूद्य द्युलोकजयहेतुत्वेन व्याचष्टे- स न 35 इत्यादिना । ‘अदः’ विप्रकृष्टं द्युस्थानं खलु ‘पृथु’ विस्तीर्णम् । तद्विशिनष्टि- यस्मिन्निति । ‘यस्मिन्’ लोके ‘देवाः’ सर्वे वसन्ति, तत् स्थानमत्र पृथुशब्दवाच्यम् । देवनिवासत्वादेव ‘एतत्’ ‘श्रवाय्यं’ श्रवणीयं प्रशस्यम् । पादान्तरमनूद्य व्याचष्टे- अच्छा देवेति । देवोषितं द्युलोकरूपं स्थानम् ‘अच्छ’ अभिलक्ष्य ‘विवाससि’ प्रकाशयेत्यर्थः । प्रकाशनं च प्राप्त्यर्थमित्यभिप्रेत्य व्याचष्टे- एतन्नो गमयेति ॥ २७॥
Eggeling
- [He recites the fourth sāmidhenī]: ‘Agni, do thou obtain for us that (region) wide and
glorious!’ For wide, indeed, is yonder (region) wherein the gods (dwell), and glorious is that (region) wherein the gods (dwell). When he says, ‘Do thou obtain for us 36,’ he means to say, ‘make us go to it!’
२८
विश्वास-प्रस्तुतिः
बृह᳘दग्ने सुवी᳘र्यामि᳘ति॥
(त्य) अदो वै᳘ बृहद्य᳘स्मिन्देवा᳘ ऽएत᳘त्सुवी᳘र्यं य᳘स्मिन्देवाः᳘ सै᳘षैत᳘मेव᳘ लोक᳘मभ्य᳘नूक्ता दि᳘वमे᳘वैतमेवैत᳘या लोकं᳘ जयति य᳘स्यैवं᳘ व्विदु᳘ष ऽएता᳘मन्वाहुः॥
मूलम् - श्रीधरादि
बृह᳘दग्ने सुवी᳘र्यामि᳘ति॥
(त्य) अदो वै᳘ बृहद्य᳘स्मिन्देवा᳘ ऽएत᳘त्सुवी᳘र्यं य᳘स्मिन्देवाः᳘ सै᳘षैत᳘मेव᳘ लोक᳘मभ्य᳘नूक्ता दि᳘वमे᳘वैतमेवैत᳘या लोकं᳘ जयति य᳘स्यैवं᳘ व्विदु᳘ष ऽएता᳘मन्वाहुः॥
मूलम् - Weber
बृह᳘दग्ने सुवी᳘र्यामि᳘ति॥
अदो वै᳘ बृहद्य᳘स्मिन्देवा᳘ एत᳘त्सुवी᳘र्यं य᳘स्मिन्देवाःॗ सैॗषित᳘मेव᳘ लोक᳘मभ्य᳘नूक्ता दि᳘वमेॗवैत᳘मेॗवैत᳘या लोकं᳘ जयति य᳘स्यैवं᳘ विदु᳘ष एता᳘मन्वाहुः॥
मूलम् - विस्वरम्
“बृहदग्ने सुवीर्यम्” इति । अदो वै बृहद्- यस्मिन् देवाः, एतत् सुवीर्यम्- यस्मिन् देवाः । सैषा एतमेव लोकमभ्यनूक्ता- दिवमेव । एतमेवैतया लोकं जयति- यस्यैवं विदुष एतामन्वाहुः ॥ २८॥
सायणः
बृहदग्न इति । अदो वा इति । सर्वत्र हि विशेष्यरहित इदंशब्दो भूलोकवचनः, अदःशब्दश्च द्युलोकवचनः ॥ २८ ॥
Eggeling
- ‘That great and mighty one, O God!’ For great, indeed, is yonder (region) wherein the gods (dwell), and mighty 37 is that wherein the gods (dwell). This (verse), then, is recited with reference to yonder world: that heavenly world he thereby gains, for whom, knowing this, they recite this (verse).
२९
विश्वास-प्रस्तुतिः
सो᳘ ऽन्वाह॥
(हे) ईडे᳘न्यो नम᳘स्य ऽइ᳘तीडे᳘न्यो᳘ ह्येष᳘ नम᳘स्यो᳘ ह्येष᳘ तिरस्त᳘माᳫंसि दर्शत ऽइ᳘ति तिर᳘ ऽइव᳘ ह्येष त᳘माᳫंसि स᳘मिद्धो ददृशे स᳘मग्नि᳘रिध्यते व्वृषे᳘ति स᳘ᳫँ᳘हीध्य᳘ते व्वृ᳘षा व्वृ᳘षो ऽअग्निः स᳘मिध्यत ऽइ᳘ति स᳘ᳫँ᳭हीध्यते᳘॥
मूलम् - श्रीधरादि
सो᳘ ऽन्वाह॥
(हे) ईडे᳘न्यो नम᳘स्य ऽइ᳘तीडे᳘न्यो᳘ ह्येष᳘ नम᳘स्यो᳘ ह्येष᳘ तिरस्त᳘माᳫंसि दर्शत ऽइ᳘ति तिर᳘ ऽइव᳘ ह्येष त᳘माᳫंसि स᳘मिद्धो ददृशे स᳘मग्नि᳘रिध्यते व्वृषे᳘ति स᳘ᳫँ᳘हीध्य᳘ते व्वृ᳘षा व्वृ᳘षो ऽअग्निः स᳘मिध्यत ऽइ᳘ति स᳘ᳫँ᳭हीध्यते᳘॥
मूलम् - Weber
सो᳘ न्वाह॥
इडे᳘न्यो 38 नमस्य᳘ इ᳘तीडे᳘न्योॗ ह्येष᳘ नमॗस्योॗ ह्येष᳘तिरस्त᳘मांसि दर्षत इ᳘ति तिर᳘ इवॗ ह्येष त᳘मांसि स᳘मिद्धो ददृशे स᳘मग्नि᳘रिध्यते वृषे᳘तिॗ सᳫं हीध्य᳘ते वृ᳘षा वृ᳘षो अग्निः स᳘मिध्यत इ᳘तिॗ सᳫं हीध्यते॥
मूलम् - विस्वरम्
सो ऽन्वाह- “ईडेन्यो नमस्यः-” इति । ईडेन्यो ह्येषः, नमस्यो ह्येषः । “तिरस्तमांसि दर्शतः”- इति । तिर इव ह्येष तमांसि समिद्धो ददृशे । “समग्निरिध्यते वृषा” इति । " सं हीध्यते वृषा । “वृषो अग्निः समिध्यते-” इति । सं हीध्यते ॥ २९ ॥
सायणः
ऋगन्तरस्यानुवचनं 35 विधत्ते- सो ऽन्वाहेति । ‘ईडेन्यः’ स्तोतव्यः, ‘नमस्यः’ नमस्कर्त्तव्य इत्ययमर्थः प्रसिद्ध इति हेरर्थः । द्वितीयं पादमनूद्य व्याचष्टे- तिरस्तमांसीति । ‘एष’ खल्वग्निः समिद्धः सन् ‘तमांसि’ तिरस्कृत्यैव दृश्यते । अनेन ‘दर्शतः’- इति पदस्य कर्म्मणि व्युत्पत्तिर्दर्शिता । ‘समग्निरिष्यते’ इत्यादि निगदसिद्धम् ॥ २९ ॥
Eggeling
- He recites (the fifth sāmidhenī): ‘Praiseworthy he, adorable,’ for worthy of praise he is, and worthy of adoration;–‘visible through the veil of gloom,’ for when kindled he is seen right through the gloom;–‘Agni, the mighty one (bull), is lit,’ for he is indeed lit up, the mighty one.
[He recites the sixth sāmidhenī]: ‘The mighty Agni is lit up,’ for he is indeed lit up.
३०
विश्वास-प्रस्तुतिः
(ते᳘ ऽश्वो) अ᳘श्वो न᳘ देववा᳘हन इ᳘ति॥
(त्य᳘) अ᳘श्वो ह वा᳘ ऽएष᳘ भूत्वा᳘ देवे᳘भ्यो यज्ञं᳘ व्वहति यद्वै ने᳘त्यृच्योमि᳘ति तत्त᳘स्मादाहा᳘श्वो न᳘ देववा᳘हन ऽइ᳘ति॥
मूलम् - श्रीधरादि
(ते᳘ ऽश्वो) अ᳘श्वो न᳘ देववा᳘हन इ᳘ति॥
(त्य᳘) अ᳘श्वो ह वा᳘ ऽएष᳘ भूत्वा᳘ देवे᳘भ्यो यज्ञं᳘ व्वहति यद्वै ने᳘त्यृच्योमि᳘ति तत्त᳘स्मादाहा᳘श्वो न᳘ देववा᳘हन ऽइ᳘ति॥
मूलम् - Weber
अ᳘श्वो न᳘ देववा᳘हन इ᳘ति॥
अ᳘श्वो ह वा᳘ एष᳘ भूत्वा᳘ देवे᳘भ्यो यज्ञं᳘ वहति यद्वै ने᳘त्यृच्योमि᳘ति तत्त᳘स्मादाहा᳘श्वो न᳘ देववा᳘हन इ᳘ति॥
मूलम् - विस्वरम्
“अश्वो न देववाहनः”- इति । अश्वो ह वा एष भूत्वा देवेभ्यो यज्ञं वहति । यद्वै नेति ऋचि- ओमिति तत् । तस्मादाह- अश्वो न देववाहन इति ॥ ३० ॥
सायणः
अश्वो नेति । “अश्वो न देववाहनः”- इत्यत्र ‘न’- शब्दस्य निषेधार्थत्वमाशङ्क्य विवक्षितमर्थं दर्शयति- यद्वा इति । ‘ऋचि’ ऋमन्त्रे ‘यत्’ ‘न-’ इति पदम्, तत् ‘ओमिति’ अङ्गीकारार्थतया प्रतिपत्तव्यम् । “एवम्परमोम्पदं” 39- इति हि निघण्टुः (?) ‘अश्वो ह वा एष भूत्वा’ अश्वरूपमास्थायेति यावत् ॥ ३० ॥
Eggeling
- ‘Yea 40, as a horse that bears the gods,’ for having become a horse he does indeed carry the sacrifice to the gods: the (word) ’na’ which occurs in this verse has the meaning of ‘om’ (verily); hence he says, ‘Yea, as a horse that bears to the gods.’
३१
विश्वास-प्रस्तुतिः
त᳘ᳫँ᳭ हवि᳘ष्मन्त ऽईडत ऽइ᳘ति॥
हवि᳘ष्मन्तो᳘ ह्येतं᳘ मनु᳘ष्या ऽई᳘डते त᳘स्मादाह त᳘ᳫँ᳭हवि᳘ष्मन्त ऽईडत ऽइ᳘ति॥
मूलम् - श्रीधरादि
त᳘ᳫँ᳭ हवि᳘ष्मन्त ऽईडत ऽइ᳘ति॥
हवि᳘ष्मन्तो᳘ ह्येतं᳘ मनु᳘ष्या ऽई᳘डते त᳘स्मादाह त᳘ᳫँ᳭हवि᳘ष्मन्त ऽईडत ऽइ᳘ति॥
मूलम् - Weber
त᳘ᳫं᳘ हवि᳘ष्मन्त ईदत इ᳘ति॥
हवि᳘ष्मन्तोॗ ह्येतं᳘ मनुॗष्या ई᳘दते त᳘स्मादाह त᳘ᳫं᳘ हवि᳘ष्मन्त ईडत इ᳘ति॥
मूलम् - विस्वरम्
“तं हविष्मन्त ईडते”- इति । हविष्मन्तो ह्येतं मनुष्या ईडते । तस्मादाह- तं हविष्मन्त ईडत इति ॥ ३१ ॥
सायणः
तं हविष्मन्त इति । हविष्मन्तो ह्येतमित्यादि । चरुपुरोडाशादीनि ‘हवींषि’ संपाद्य, तद्युक्ता ऋत्विग्-यजमानास्तानि हवींषि देवान् प्रापयितुमग्निं स्तुवन्तीत्यर्थः । “ईड स्तुतौ” (अदा. आ. ९) इति धातुः ॥ ३१ ॥
Eggeling
- ‘With offerings him they glorify,’ for with offerings men indeed glorify him; therefore he says, ‘with offerings him they glorify.’
३२
विश्वास-प्रस्तुतिः
व्वृ᳘षणं त्वा व्वयं᳘ व्वृषन्वृ᳘षणः स᳘मिधीमही᳘ति॥
स᳘ᳫं᳘ ह्येनमिन्धते᳘ ऽग्ने दी᳘द्यतं बृहदि᳘ति दीद᳘येव᳘ ह्येष᳘ बृहत्स᳘मिद्धः॥ [अर्धप्रपाठकः।]
मूलम् - श्रीधरादि
व्वृ᳘षणं त्वा व्वयं᳘ व्वृषन्वृ᳘षणः स᳘मिधीमही᳘ति॥
स᳘ᳫं᳘ ह्येनमिन्धते᳘ ऽग्ने दी᳘द्यतं बृहदि᳘ति दीद᳘येव᳘ ह्येष᳘ बृहत्स᳘मिद्धः॥ [अर्धप्रपाठकः।]
मूलम् - Weber
वृ᳘षणं त्वा वयं᳘ वृषन्वृ᳘षणः स᳘मिधीमही᳘ति॥
स᳘ᳫं᳘ ह्येनमिन्धते᳘ ऽग्ने दी᳘द्यतं बृहदि᳘ति दीद᳘येवॗ ह्येष᳘ बृहत्स᳘मिद्धः॥
मूलम् - विस्वरम्
“वृषणं त्वा वयं वृषन् वृष (षा) णः समिधीमहि”- इति । सं ह्येनमिन्धते । “अग्ने दीद्यतं बृहद्”- इति । दीदयेव ह्येष बृहत् समिद्धः ॥ ३२ ॥
सायणः
वृषणन्त्वेत्यादि 39 । निगदसिद्धम् । “दीद्यतं बृहत्”- इत्यत्र दीद्यच्छब्दस्याभिप्रायमाह- दीदयेवेति । ‘दीदयतिः’ 41 दीप्तिकर्मा, छान्दसो धातुः । (निघ. १ । १६ । ४ । निरु. १० । २ । ६) । पूर्वाभिः समिद्धः स च ‘एषः’ अग्निरस्मिन् समये ‘बृहत्’ अधिकं ‘दीदयेव’ दिदीप- इतीव हि यतो ‘दीद्यतं’ दीप्यमानं त्वामित्यग्निविशेषणं युक्तमित्यर्थः ॥ ३२ ॥
Eggeling
- He recites the seventh sāmidhenī): ‘O mighty one 42! we mighty men do kindle thee, the mighty one!’ for they indeed kindle him;–‘O Agni, thee that brightly shines!’ for he indeed shone brightly when he was kindled.
३३
विश्वास-प्रस्तुतिः
तं व्वा᳘ एतम्॥
व्वृ᳘षण्वन्तं त्रिचम᳘न्वाहाग्ने᳘य्यो वा᳘ ऽएताः स᳘र्व्वाः सामिधे᳘न्यो भवन्ती᳘न्द्रो वै᳘ यज्ञ᳘स्य देवते᳘न्द्रो व्वृ᳘षैते᳘नो हास्यैताः से᳘न्द्राः सामिधे᳘न्यो भवन्ति त᳘स्माद्वृ᳘षण्वन्तं त्रि᳘चन्म᳘न्वाह॥
मूलम् - श्रीधरादि
तं व्वा᳘ एतम्॥
व्वृ᳘षण्वन्तं त्रिचम᳘न्वाहाग्ने᳘य्यो वा᳘ ऽएताः स᳘र्व्वाः सामिधे᳘न्यो भवन्ती᳘न्द्रो वै᳘ यज्ञ᳘स्य देवते᳘न्द्रो व्वृ᳘षैते᳘नो हास्यैताः से᳘न्द्राः सामिधे᳘न्यो भवन्ति त᳘स्माद्वृ᳘षण्वन्तं त्रि᳘चन्म᳘न्वाह॥
मूलम् - Weber
तं वा᳘ एतम्॥
वृ᳘षण्वन्तं त्रि᳘चम᳘न्वाहाग्नेॗय्यो 43 वा᳘ एताः स᳘र्वाः सामिधेॗन्यो भवन्ती᳘न्द्रो वै᳘ यज्ञ᳘स्य देवते᳘न्द्रो वृ᳘षैते᳘नो हास्यैताः से᳘न्द्राः सामिधेॗन्यो भवन्ति त᳘स्माद्वृ᳘षण्वन्तं त्रि᳘चम᳘न्वाह॥
मूलम् - विस्वरम्
तं वा एतं वृषण्वन्तं त्रिचमन्वाह- आग्नेय्यो वा एताः सर्वाः सामिधेन्यो भवन्ति । इन्द्रो वै यज्ञस्य देवता, इन्द्रो वृषा एतेन उ ह अस्यैताः सेन्द्राः सामिधेन्यो भवन्ति । तस्माद् वृषण्वन्तं त्रिचमन्वाह ॥ ३३ ॥
सायणः
“ईडेन्य”- इत्यस्य तृचस्य वृषण्वच्छब्दायातमुपजीव्य प्रशसति- तं वा इत्यादि । अग्निविशेषणभूतेनापि ‘वृषन्’- शब्देनेन्द्रो ऽप्युपस्थाप्यते, ‘वृषन्’- शब्दस्य तन्नामधेयत्वात् । अतो ‘वृषन्’- शब्दयुक्तस्य तृचस्यानुवचनादितरयज्ञवत् सामिधेनीनामपीन्द्रसम्बन्धः सिद्ध्यतीत्यर्थः ॥ ३३ ॥
Eggeling
- He recites this tristich which contains the word (vr̥shan), ‘mighty.’ All these kindling verses, it is true, are addressed to Agni; Indra, however, is the deity of sacrifice, Indra is the mighty (hero); hence these his (the sacrificer’s) kindling verses thereby become possessed of Indra: this is the reason why he recites the tristich containing the word ‘mighty.’
३४
विश्वास-प्रस्तुतिः
सो᳘ ऽन्वाह॥
(हा) अग्निं᳘ दूतं᳘ व्वृणीमह ऽइ᳘ति देवा᳘श्च वा ऽअ᳘सुराश्चोभ᳘ये प्राजापत्याः᳘ पस्पृधिरे तान्त्स्प᳘र्द्धमानान्गाय᳘त्र्यन्तरा᳘ तस्थौ या वै सा᳘ गायत्र्या᳘सीदियं वै सा᳘ पृथि᳘वीय᳘ᳫं᳘हैव त᳘दन्तरा᳘ तस्थौ त᳘ ऽउभ᳘य ऽएव᳘ व्विदा᳘ञ्चक्रुर्यतरान्वै᳘ न इय᳘मुपावर्त्स्य᳘ति ते᳘ भविष्य᳘न्ति परे᳘तरे भविष्यन्ती᳘ति ता᳘मुभ᳘य ऽए᳘वोपमन्त्रया᳘ञ्चक्रिरे ऽग्नि᳘रेव᳘ देवा᳘नां दूत ऽआ᳘स सह᳘रक्षा ऽइ᳘त्यसुररक्षसम᳘सुराणा᳘ᳫँ᳘साग्नि᳘मे᳘वानुप्रे᳘याय त᳘स्माद᳘न्वाहाग्निं᳘ दूतं᳘ व्वृणीमह ऽइ᳘ति स हि᳘ देवा᳘नां दूत ऽआ᳘सीद्धो᳘तारं व्विश्व᳘वेदसमि᳘ति॥
मूलम् - श्रीधरादि
सो᳘ ऽन्वाह॥
(हा) अग्निं᳘ दूतं᳘ व्वृणीमह ऽइ᳘ति देवा᳘श्च वा ऽअ᳘सुराश्चोभ᳘ये प्राजापत्याः᳘ पस्पृधिरे तान्त्स्प᳘र्द्धमानान्गाय᳘त्र्यन्तरा᳘ तस्थौ या वै सा᳘ गायत्र्या᳘सीदियं वै सा᳘ पृथि᳘वीय᳘ᳫं᳘हैव त᳘दन्तरा᳘ तस्थौ त᳘ ऽउभ᳘य ऽएव᳘ व्विदा᳘ञ्चक्रुर्यतरान्वै᳘ न इय᳘मुपावर्त्स्य᳘ति ते᳘ भविष्य᳘न्ति परे᳘तरे भविष्यन्ती᳘ति ता᳘मुभ᳘य ऽए᳘वोपमन्त्रया᳘ञ्चक्रिरे ऽग्नि᳘रेव᳘ देवा᳘नां दूत ऽआ᳘स सह᳘रक्षा ऽइ᳘त्यसुररक्षसम᳘सुराणा᳘ᳫँ᳘साग्नि᳘मे᳘वानुप्रे᳘याय त᳘स्माद᳘न्वाहाग्निं᳘ दूतं᳘ व्वृणीमह ऽइ᳘ति स हि᳘ देवा᳘नां दूत ऽआ᳘सीद्धो᳘तारं व्विश्व᳘वेदसमि᳘ति॥
मूलम् - Weber
सो᳘ ऽन्वाह॥
अग्निं᳘ दूतं᳘ वृणीमह इ᳘ति देवा᳘श्च वा अ᳘सुराश्चोभ᳘ये प्राजापत्याः᳘ पस्पृधिरे तांत्स्प᳘र्धमानाङ्गायत्र्य᳘न्तरा᳘ तस्थौ या वै सा᳘ गायत्र्या᳘सीदियं वै सा᳘ पृथिॗवीय᳘ᳫं᳘ हैव त᳘दन्तरा᳘ तस्थौ त᳘ उभ᳘य एव᳘ विदां᳘ चक्रुर्यतरान्वै᳘ न इय᳘मुपावर्त्स्य᳘ति ते᳘ भविष्य᳘न्ति परे᳘तरे भविष्यन्तीति ता᳘मुभ᳘य एॗवोपमन्त्रयां᳘ चक्रिरे ऽग्नि᳘रेव᳘ देवा᳘नां दूत आ᳘स सह᳘रक्षा इ᳘त्यसुररक्शसम᳘सुराणाॗᳫंॗ साग्नि᳘मेॗवानुप्रे᳘याय त᳘स्माद᳘न्वाहाग्निं᳘ दूतं᳘ वृणीमह इ᳘ति स हि᳘ देवा᳘नां दूत आ᳘सीद्धो᳘तारं विश्व᳘वेदसमि᳘ति॥
मूलम् - विस्वरम्
सो ऽन्वाह- “अग्निं दूतं वृणीमहे” इति । देवाश्च वा असुराश्च उभये प्राजापत्याः पस्पृधिरे । तान् स्पर्द्धमानान् गायत्र्यन्तरा तस्थौ । या वै सा गायत्र्यासीद्- इयं वै सा पृथिवी । इयं हैव तदन्तरा तस्थौ । त उभय एव विदाञ्चक्रुः- ‘यतरान् वै न इयमुपावर्त्स्यति, ते भविष्यन्ति, परेतरे भविष्यन्ति’ इति । तामुभय एवोपमन्त्रयाञ्चक्रिरे । अग्निरेव देवानां दूत आस, सहरक्षा इत्यसुररक्षसमसुराणाम् । साग्निमेवानुप्रेयाय । तस्मादन्वाह- अग्निं दूतं वृणीमह इति । स हि देवानां दूत आसीद् । “होतारं विश्ववेदसम्” इति ॥ ३४ ॥
सायणः
सामिधेन्यन्तरस्यानुवचनं विधत्ते- सो ऽन्वाहेति । अग्नेर्देवदूतत्वमुपपादयितुमितिहासमाह- देवाश्च वा इति । ‘तान्’ मिथः स्पर्द्धमानान् देवासुरान् ‘अन्तरा’ तेषामुभयेषां मध्यत इत्यर्थः । “अन्तरान्तरेण-” (पा० सू० २ । ३ । ४)- इति द्वितीया । इयं वा इत्यादि । योत्स्यमानांस्तानुभयविधान् निवारयितुं गायत्री मध्ये प्रादुर्भूता ‘सेयं पृथिव्येव’ इयमेव खलु पृथिवी तेषामुभयेषां मध्यवर्त्तिनी । युक्तं चैतत्ः- मेरोरग्रभागे हि अमरावती नाम नगरी, तस्यां हि देवाः, तथा मेरोरधस्ताद्भागे च यदिरामुखं नाम नगरम्, तस्मिन् ह्यसुरा निवसन्ति । तयोर्मध्ये पृथिवी वर्त्तत इति ‘ह’- शब्दयोगादस्ति शास्त्रप्रसिद्धिः 44 । यतरान् वा इति । “किंयत्तदोर्निर्धारणे"- (पा० सू० ५ । ३ । ९२) इति यच्छब्दात् डतरच् । ‘उपावर्त्स्यति’ उपावृत्ता भविष्यति । ‘उपमन्त्रयाञ्चक्रे’ रहस्ये दूतमुखेनाहूतवन्त इत्यर्थः । “मत्रि गुप्तपरिभाषणे”- (चुरा. आ. १४६) इति धातुः; लिट्प्रत्ययान्तत्वादाम्प्रत्ययः (पा. सू. ३ । १ । ३५-३६) । तस्मिन्नुपमन्त्रणे देवानां को दूतः, को वा असुराणामित्युभयं विविनक्ति- अग्निरेवेति । ‘सहरक्षाः’ नाम यत् ‘असुररक्षसम्’ सुरविरोधि रक्षः । समासान्तो ‘अ’- प्रत्ययः 45 । ‘रक्षः’- शब्दस्य नियतनपुंसकत्वात् समासान्तस्यापि तथात्वम् । स हि देवानामिति । ‘हि’ यस्मादुक्तरीत्या ‘अग्निं दूतं वृणीमहे’- इति अनुवचनं युक्तमित्यर्थः । द्वितीयपादमनूद्य तत्र पाठान्तरमुपन्यस्य दूषयति- होतारमित्यादिना ॥ ३४ ॥
Eggeling
- He recites [the eighth sāmidhenī]: ‘Agni we choose as messenger!’ Now the gods and the Asuras, both of them sprang from Prajāpati, were contending for superiority. When they were thus contending, the gāyatrī stood between them. That gāyatrī was the same as this earth, and this earth indeed lay between them 46. Now both of them knew that whichever she would side with, they would be victorious and the others would be defeated. Both parties then invited her secretly to come to them. Agni acted as messenger for the gods; and an Asura-Rakshas, named
Saharakshas 47, for the Asuras. She then followed Agni: he therefore recites, ‘Agni we choose for messenger,’ because he was the messenger of the gods.–‘As Hotr̥ the all-knowing, him!’
३५
विश्वास-प्रस्तुतिः
त᳘दु हैके᳘ ऽन्वाहुः॥
(र्हो᳘) हो᳘ता यो᳘ व्विश्व᳘वेदस इ᳘ति ने᳘दरमि᳘त्यात्मा᳘नं ब्र᳘वाणी᳘ति त᳘दु त᳘था न᳘ ब्रूयान्मानुष᳘ᳫँ᳘ ह ते᳘ यज्ञे᳘ कुर्वन्ति᳘ व्यृद्धं वै त᳘द्यज्ञ᳘स्य य᳘न्मानुषं ने᳘द्व्यृद्धं यज्ञे᳘ कर᳘वाणी᳘ति त᳘स्माद्य᳘थै᳘वर्च्चा᳘ ऽनूक्तमेवा᳘नुब्रूयाद्धो᳘तारं व्विश्व᳘वेदसमि᳘त्ये᳘वास्य᳘ यज्ञ᳘स्य सुक्र᳘तुमि᳘त्येष हि᳘ यज्ञ᳘स्य सुक्रतुर्य᳘दग्निस्त᳘स्मादाहास्य᳘ यज्ञ᳘स्य सुक्र᳘तुमि᳘ति᳘ सेयं᳘ देवा᳘नुपा᳘ववर्त त᳘तो देवा ऽअ᳘भवन्परा᳘सुरा भ᳘वति ह वा᳘ ऽआत्म᳘ना प᳘रास्य सप᳘त्ना भवन्ति य᳘स्यैवं᳘ विदु᳘ष ऽएता᳘मन्वाहुः॥
मूलम् - श्रीधरादि
त᳘दु हैके᳘ ऽन्वाहुः॥
(र्हो᳘) हो᳘ता यो᳘ व्विश्व᳘वेदस इ᳘ति ने᳘दरमि᳘त्यात्मा᳘नं ब्र᳘वाणी᳘ति त᳘दु त᳘था न᳘ ब्रूयान्मानुष᳘ᳫँ᳘ ह ते᳘ यज्ञे᳘ कुर्वन्ति᳘ व्यृद्धं वै त᳘द्यज्ञ᳘स्य य᳘न्मानुषं ने᳘द्व्यृद्धं यज्ञे᳘ कर᳘वाणी᳘ति त᳘स्माद्य᳘थै᳘वर्च्चा᳘ ऽनूक्तमेवा᳘नुब्रूयाद्धो᳘तारं व्विश्व᳘वेदसमि᳘त्ये᳘वास्य᳘ यज्ञ᳘स्य सुक्र᳘तुमि᳘त्येष हि᳘ यज्ञ᳘स्य सुक्रतुर्य᳘दग्निस्त᳘स्मादाहास्य᳘ यज्ञ᳘स्य सुक्र᳘तुमि᳘ति᳘ सेयं᳘ देवा᳘नुपा᳘ववर्त त᳘तो देवा ऽअ᳘भवन्परा᳘सुरा भ᳘वति ह वा᳘ ऽआत्म᳘ना प᳘रास्य सप᳘त्ना भवन्ति य᳘स्यैवं᳘ विदु᳘ष ऽएता᳘मन्वाहुः॥
मूलम् - Weber
त᳘दु हैके᳘ ऽन्वाहुः॥
हो᳘ता यो᳘ विश्व᳘वेदस इ᳘ति ने᳘दरमि᳘त्यात्मा᳘न ब्र᳘वाणी᳘ति तदु त᳘था न᳘ ब्रूयान्मानुष᳘ᳫं᳘ ह ते यज्ञे᳘ कुर्वन्ति व्यृद्धं वै त᳘द्यज्ञ᳘स्य य᳘न्मानुषं नेॗद्व्यृद्धम् यज्ञे᳘ कर᳘वाणी᳘ति त᳘स्माद्य᳘थैवऽर्चा᳘नूक्तमेवा᳘नुब्रूयाद्धो᳘तारं विश्व᳘वेदसमि᳘त्येॗवास्य᳘ यज्ञ᳘स्य सुक्र᳘तुमि᳘त्येष 48 हि᳘यज्ञ᳘स्यसुक्र᳘तुर्य᳘दग्निस्त᳘स्मादाहास्य᳘ यज्ञ᳘स्य सुक्र᳘तुमि᳘तिॗ सेयं᳘ देवा᳘नुपा᳘ववर्त त᳘तो देवा अ᳘भवन्परा᳘सुरा भ᳘वति ह वा᳘ आत्म᳘ना प᳘रास्य सप᳘त्ना भवन्ति य᳘स्यैवं᳘ विदु᳘ष एता᳘मन्वाहुः॥
मूलम् - विस्वरम्
तदु हैके ऽन्वाहुः- ‘होता यो विश्ववेदसः’ इति । नेद् अरमित्यात्मानं ब्रवाणीति । तदु तथा न ब्रूयाद् । मानुषं ह ते यज्ञे कुर्वन्ति, व्यृद्धं वै तद् यज्ञस्य- यन्मानुषम्; नेद् व्यृद्धं यज्ञे करवाणीति । तस्माद्यथैवर्चा ऽनूक्तमेवमेवानुब्रूयाद्- ‘होतारं विश्ववेदसम्’ इत्येव । **“अस्य यज्ञस्य सुक्रतुम्” ** इति । एष हि यज्ञस्य सुक्रतुः- यदग्निः । तस्मादाह- अस्य यज्ञस्य सुक्रतुमिति । सेयं देवानुपाववर्त ततो देवा अभवन्, परा ऽसुराः । भवति ह वा आत्मना, परा अस्य सपत्ना भवन्ति- यस्यैवं विदुष एतामन्वाहुः ॥ ३५ ॥
सायणः
तद्विति । “होता यो विश्ववेदस इति” पाठान्तरमनुब्रुवतामभिप्रायमाह- यद्यपि होतारमिति ‘होतृ’- शब्दो द्वितीयान्तः; तथापि ‘होता अरम्’ इत्यपि श्रुतिसामान्यात् प्रतीयते । स च ‘अरं’- शब्दः ‘अलं’- शब्दपर्यायः। “बाल-मूल-लघ्वलमङ्गुलीनाम्”- (पा० सू० ८ । २ । १८ वा० २ “वा लो रमापद्यते") इति लत्वस्य विकल्पितत्वात् । ‘अरं’- शब्दो ऽत्र निवारणार्थः । ‘आत्मानं’ निवारणविशिष्टं ‘नेत्’ नैव ‘ब्रवाणि’- इत्यमेनाभिप्रायेणेत्यर्थः । “होता यः”- इति पाठे तु नेदृशी विरुद्धा प्रतिपत्तिरस्ति ॥
तत्पक्षनिराकरणं- तदु तथेत्यादि । स्पष्टम् । “होतारम्”- इत्यार्षपाठं परित्यज्य “होता यः”- इति पाठविपरिणामस्य मनुष्यबुद्धिप्रभवतया मानुषत्वम् 49 । यथैव वेदे पठितम्, तथैवानुवक्तव्यमित्युपसंहरति- तस्मादिति । कीदृग्विधं तर्हि वेदे पठितमिति तदाह- होतारमिति । एवकारः पक्षान्तरव्युदासार्थः । प्रकृतमितिहासशेषमुपसंहरति- सेयमिति । देवासुराणां मध्ये वर्तमाना या गायत्री, ‘सेयं’ रहस्यमाहूता सती ‘देवान्’ एव ‘उपाववर्त’ उपाजगाम । ‘ततः’ गायत्र्या उपावर्त्तनात् ‘देवाः’ ‘अभवन्’ अजयन् । ‘असुरास्तु’ तत्संबन्धविरहात् ‘पराभूताः’ । उक्तेतिहासज्ञानपुरःसरमेतां गायत्रीं प्रयुञ्जानस्य फलमाह- भवतीति । ‘आत्मना’ स्वयं ‘भवति’ भूष्णुः, समर्थो भवति । ‘अस्य’ च शत्रवः ‘पराभवन्ति’ इत्यर्थः ॥ ३५ ॥
Eggeling
- Here now some people recite, ‘He who is the Hotr̥ of the all-knowing 50;’ lest (in saying ‘for Hotr̥, the all-knowing, him’) one should say to oneself ’enough (i.e. have done)!’ This, however, he should not do; for by (doing) so they do at the sacrifice what is human; and what is human, is inauspicious at a sacrifice. Therefore, lest he should do what is inauspicious at the sacrifice, he should recite, just as it is recited by the R̥k, ‘for Hotr̥, the all-knowing, him!’ [He continues], ‘Performing well this sacrifice!’ for he, Agni, is indeed a good performer of the sacrifice: for this reason he says, ‘performing well this sacrifice.’ She (gāyatrī, or the earth) sided with the gods, and the gods thereupon were victorious and the Asuras were defeated: and verily he for whom, knowing this, they recite this (verse), is himself victorious and his adversaries are defeated.
३६
विश्वास-प्रस्तुतिः
(स्तां) तां वा᳘ ऽअष्टमीम᳘नुब्रूयात्॥
(द्वा) गायत्री वा᳘ ऽएषा᳘ निदा᳘नेनाष्टा᳘क्षरा वै᳘ गायत्री त᳘स्मादष्टमीम᳘नुब्रूयात्॥
मूलम् - श्रीधरादि
(स्तां) तां वा᳘ ऽअष्टमीम᳘नुब्रूयात्॥
(द्वा) गायत्री वा᳘ ऽएषा᳘ निदा᳘नेनाष्टा᳘क्षरा वै᳘ गायत्री त᳘स्मादष्टमीम᳘नुब्रूयात्॥
मूलम् - Weber
तां वा᳘ अष्टमीम᳘नुब्रूयात्॥
गायत्री वा᳘ एषा᳘ निदा᳘नेनाष्टा᳘क्षरा वै᳘ गायत्री त᳘स्मादष्टमीम᳘नुब्रूयात्॥
मूलम् - विस्वरम्
तां वा अष्टमीमनुब्रूयात् । गायत्री वा एषा निदानेन- अष्टाक्षरा वै गायत्री । तस्माद् अष्टमीमनुब्रूयात् ॥ ३६ ॥
सायणः
अष्टसङ्ख्योपजीवनेन प्रशंसति- तां वा इति । ‘निदानेन’ मूलकारणेन विचार्यमाणा ऋगक्षरात्मिका ‘एषा गायत्री’ सापि प्रतिपादम् ‘अष्टाक्षरा’; या चाष्टसङ्ख्या, तत्पूर्त्तिहेतुत्वादप्येषा विशेषतो ‘गायत्री’- इति । ताम् ‘अष्टमीमनुब्रूयात्’ इत्यर्थः ॥ ३६ ॥
Eggeling
- He therefore recites this, the eighth sāmidhenī). This, indeed, is peculiarly a gāyatrī verse, since it is of eight syllables that the gāyatrī (metre) consists: for this reason he recites the eighth (sāmidhenī).
३७
विश्वास-प्रस्तुतिः
(त्त) तद्धै᳘के॥
पुर᳘स्ताद्धा᳘य्ये दधत्य᳘न्नं धा᳘य्ये मुखत᳘ ऽइद᳘मन्ना᳘द्यं दध्म इ᳘ति व्व᳘दन्तस्त᳘दु त᳘था न᳘ कुर्याद᳘नवकॢप्ता ह त᳘स्यैषा᳘ भवति यः᳘ पुर᳘स्ताद्धा᳘य्ये द᳘धाति दशमी᳘ वा हि त᳘र्ह्येकादशी᳘ वा सम्प᳘द्यते त᳘स्यो है᳘वैषा᳘वकॢप्ता भवति य᳘स्यैता᳘मष्टमी᳘मन्वाहुस्त᳘स्मादुप᳘रिष्टादेव᳘ धा᳘य्ये दध्यात्॥
मूलम् - श्रीधरादि
(त्त) तद्धै᳘के॥
पुर᳘स्ताद्धा᳘य्ये दधत्य᳘न्नं धा᳘य्ये मुखत᳘ ऽइद᳘मन्ना᳘द्यं दध्म इ᳘ति व्व᳘दन्तस्त᳘दु त᳘था न᳘ कुर्याद᳘नवकॢप्ता ह त᳘स्यैषा᳘ भवति यः᳘ पुर᳘स्ताद्धा᳘य्ये द᳘धाति दशमी᳘ वा हि त᳘र्ह्येकादशी᳘ वा सम्प᳘द्यते त᳘स्यो है᳘वैषा᳘वकॢप्ता भवति य᳘स्यैता᳘मष्टमी᳘मन्वाहुस्त᳘स्मादुप᳘रिष्टादेव᳘ धा᳘य्ये दध्यात्॥
मूलम् - Weber
तद्धै᳘के॥
पुर᳘स्ताद्धाॗय्ये दधत्य᳘न्नं धा᳘य्ये मुखत᳘ इद᳘मन्ना᳘द्यं दध्म इ᳘ति व᳘दन्तस्त᳘दु त᳘था न᳘ कुर्या᳘दनवकॢप्तात᳘स्यैषा᳘ भवति यः᳘ पुर᳘स्ताद्धाॗय्ये द᳘धाति दशमी᳘ वाहि त᳘र्ह्येकादशी᳘ वा सम्प᳘द्यते त᳘स्यो हैॗवैषा᳘वकॢप्ता भवति य᳘स्यैता᳘मष्टमी᳘मन्वाहुस्त᳘स्मादुप᳘रिष्टादेव᳘ धाॗय्ये दध्यात्॥
मूलम् - विस्वरम्
तद्वैके पुरस्ताद् धाय्ये दधति- ‘अन्नं धाय्ये, मुखत इदमन्नाद्यं दध्म’ इति वदन्तः । तदु तथा न कुर्याद् । अनवक्लृप्ता ह तस्यैषा भवति- यः पुरस्ताद्धाय्ये दधाति । दशमी वा हि तर्हि एकादशी वा सम्पद्यते । तस्यो ह एवैषा अवक्लृप्ता भवति- यस्यैतामष्टमीमन्वाहुः । तस्मादुपरिष्टादेव धाय्ये दध्यात् ॥ ३७ ॥
सायणः
यत्र सप्तदश सामिधेन्यः, तत्र “पृथुपाजाः” “तं सबाधः”- इति द्वे धाय्याख्ये 51 ऋचौ 52 सामिधेनीषु प्रक्षेप्तव्ये । तयोः स्थानं पूर्वोत्तरपक्षाभ्यां दर्शयति- तद्धैक इति । ‘पुरस्तात्’ अष्टम्याः पूर्वमित्यर्थः । तथा कुर्वतामभिप्रायमाह- मुखत इति । अन्नं च तदाद्यं च ‘अन्नाद्यम्’ ‘इदं’ धाय्यारूपं ‘मुखतः’ मुखप्रदेश एव ‘दध्मः’ धारयामः ‘इति वदन्तः’ ॥ तदेतदेकीयं मतं दूषयति- तदु तथेति । ‘अनवक्लृप्ता’ असमर्था, ऊर्द्ध्वं द्वयोर्धाय्ययोः प्रक्षेपात्- “अग्निं दूतम्”- इत्यष्टमी, ‘दशमी’ संपद्यते; तथा चाष्टमीत्वभङ्गेन “गायत्री वा एषा निदानेन”- इति प्रतिपादितगायत्रीति 53 पदविरहादसमर्था स्यात् । तथा समिद्ध्यमानवती- समिद्धवत्योर्मध्ये हि धाय्ये प्रक्षेप्तव्ये; सा च साप्तदश्ये 54 तूत्कर्षात् ‘एकादशी’ ‘सम्पद्यते’ । उभयत्र ‘वा’ शब्दश्चार्थे । कथं तर्हि, अवकॢप्तिरित्यत आह- तस्यो हेति । ‘यस्य’ यजमानस्य सा सामिधेनीषु “अग्निं दुतम्”- इत्येषा अष्टमी । ‘तस्यैषा’ ‘अवक्लृप्ता’, अवकॢप्तिः समर्था ‘भवति’ इत्यर्थः । कुत्र तर्हि धाय्ययोः प्रक्षेप इति तदाह- तस्मादिति । अष्टम्याः ‘उपरिष्टात्’ समिध्यमानवती- समिद्धवत्योर्मध्ये एव ‘धाय्ये’ प्रक्षिपेत् । उक्तं ह्यापस्तम्बेन- “समिद्ध्यमानवतीं समिद्धवतीं चान्तरेण पृथुपाजवत्यौ धाय्ये दधाति"- (श्रौ. सू. २ । १२ । ५ ।) इति । आश्वलायनो ऽप्यसूत्रयत्- “तृतीयस्यां सामिधेन्यावावपते प्रागुपोत्तमायाः पृथुपाजा अमर्त्य इति द्वे धाय्ये इत्युक्त एते प्रतीयात्"- इति (श्रौ. सू. २ । १ । २६ । ऋ. सं. ३ । २७ । ५ । ६ ।) ॥ ३७ ॥
Eggeling
- Here now some people place the two (dhāyyās) additional kindling verses before (the eighth sāmidhenī), arguing, ‘The two dhāyyās 55 mean food: this edible food we place in front (or, in the mouth, mukhataḥ).’ But let him not do this: for with him who inserts the additional verses before (the eighth), the latter (the eighth) is clearly out of its place 56, since in that case it (and the succeeding verse) become the tenth and eleventh verses. With him, on the other hand, for whom they recite this as the eighth (kindling verse), it is indeed in its proper place: let him therefore insert the two additional verses after (the ninth).
३८
विश्वास-प्रस्तुतिः
समिध्य᳘मानो ऽअध्वर ऽइ᳘ति॥
(त्य) अध्वरो वै᳘ यज्ञः᳘ समिध्य᳘मानो यज्ञ ऽइ᳘त्ये᳘वैत᳘दाहाग्निः᳘ पावक ई᳘ड्य इ᳘ति पावको᳘ ह्येष ऽई᳘ड्यो᳘ ह्येष᳘ शोचि᳘ष्केशस्त᳘मीमह ऽइ᳘ति शो᳘चन्तीव᳘ ह्येत᳘स्य के᳘शाः स᳘मिद्धस्य स᳘मिद्धो ऽअग्न ऽआहुतेत्य᳘तः प्राची᳘नᳫँ᳭ स᳘र्वमिध्म᳘मभ्या᳘दध्याद्य᳘दन्य᳘त्समि᳘धो ऽपवृङ्क्त᳘ ऽइव᳘ ह्येतद्धो᳘ता यद्वा᳘ ऽअन्य᳘त्समि᳘ध ऽइध्म᳘स्यातिरिच्यते᳘ ऽतिरिक्तं तद्यद्वै᳘ यज्ञस्या᳘तिरिक्तं द्विष᳘न्तᳫँ᳭ हास्य तद्भ्रा᳘तृव्यमभ्य᳘तिरिच्यते त᳘स्माद᳘तः प्राची᳘नᳫँ᳭ स᳘र्वमिध्म᳘मभ्या᳘दध्याद्य᳘दन्य᳘त्समि᳘धः॥
मूलम् - श्रीधरादि
समिध्य᳘मानो ऽअध्वर ऽइ᳘ति॥
(त्य) अध्वरो वै᳘ यज्ञः᳘ समिध्य᳘मानो यज्ञ ऽइ᳘त्ये᳘वैत᳘दाहाग्निः᳘ पावक ई᳘ड्य इ᳘ति पावको᳘ ह्येष ऽई᳘ड्यो᳘ ह्येष᳘ शोचि᳘ष्केशस्त᳘मीमह ऽइ᳘ति शो᳘चन्तीव᳘ ह्येत᳘स्य के᳘शाः स᳘मिद्धस्य स᳘मिद्धो ऽअग्न ऽआहुतेत्य᳘तः प्राची᳘नᳫँ᳭ स᳘र्वमिध्म᳘मभ्या᳘दध्याद्य᳘दन्य᳘त्समि᳘धो ऽपवृङ्क्त᳘ ऽइव᳘ ह्येतद्धो᳘ता यद्वा᳘ ऽअन्य᳘त्समि᳘ध ऽइध्म᳘स्यातिरिच्यते᳘ ऽतिरिक्तं तद्यद्वै᳘ यज्ञस्या᳘तिरिक्तं द्विष᳘न्तᳫँ᳭ हास्य तद्भ्रा᳘तृव्यमभ्य᳘तिरिच्यते त᳘स्माद᳘तः प्राची᳘नᳫँ᳭ स᳘र्वमिध्म᳘मभ्या᳘दध्याद्य᳘दन्य᳘त्समि᳘धः॥
मूलम् - Weber
समिध्य᳘मानो अध्वर इ᳘ति॥
अध्वरोॗ वै यज्ञः᳘ समिध्य᳘मानो यज्ञ इ᳘त्येॗवैत᳘दाहाग्निः᳘ पावक ई᳘ड्य इ᳘ति पावकोॗ ह्येष ई᳘ड्योॗ ह्येष᳘ शोचि᳘ष्केशस्त᳘मीमह इ᳘ति शो᳘चन्तीवॗ ह्येत᳘स्य के᳘शाः स᳘मिद्धस्य स᳘मिद्धो अग्न आहुतेत्य᳘तः प्राची᳘नᳫं स᳘र्वमिध्म᳘मभ्या᳘दध्याद्य᳘दन्यत्समि᳘धो ऽपवृङ्क्त इवॗ ह्येतद्धो᳘तायद्वा᳘ अन्य᳘त्समि᳘ध इध्म᳘स्यातिरिच्यते᳘ ऽतिरिक्तं तद्यद्वै᳘ यज्ञस्या᳘तिरिक्तं द्विष᳘न्तᳫं हास्य तद्भ्रा᳘तृव्यमभ्य᳘तिरिच्यते त᳘स्माद᳘तः प्राची᳘नᳫं स᳘र्वमिध्म᳘मभ्या᳘दध्याद्य᳘दन्य᳘त्समि᳘धः॥
मूलम् - विस्वरम्
“समिध्यमानो अध्वरे” इति । अध्वरो वै यज्ञः । समिध्यमानो यज्ञे- इत्येवैतदाह । ** “अग्निः पावक ईड्यः"** इति । पावको ह्येषः, ईड्यो ह्येषः । “शोचिष्केशस्तमीमहे” इति । शोचन्तीव हि एतस्य केशाः समिद्धस्य । “समिद्धो अग्न आहुत” इति । अतः प्राचीनं सर्वमिध्ममभ्या दध्याद्- यदन्यत्समिधः । अपवृङ्क्त इव ह्येतद् होता । यद्वा अन्यत्समिध इध्मस्यातिरिच्यते- अतिरिक्तं तद् । यद्वै यज्ञस्यातिरिक्तं- द्विषन्तं हास्य तद् भ्रातृव्यमभ्यतिरिच्यते । तस्माद् अतः प्राचीनं सर्वमिध्ममभ्यादध्याद्- यदन्यत्समिधः ॥ ३८ ॥
सायणः
एवमष्टमीं विधाय प्रशंसति- समिद्ध्यमान 51 इति । निगदसिद्धमेतत् । शोचन्तीव ह्येतस्येति । दीप्यमानस्याग्नेर्ये ऊर्ध्वमुखा ज्वालाविशेषाः, ते केशाः; ते च ‘शोचन्ति’ दीप्यन्ते । इवशब्दो ऽवधारणे; शोचिषः- दीप्यमानाः केशा यस्येति ‘शोचिष्केशः’ इत्यर्थः । दशम्याः सामिधेन्याः प्रागेवेध्मशेषस्य सर्वस्याग्नावभ्याधानं विधत्ते- समिद्धो अग्न 57 इत्यादिना । तस्या दशम्याः सामिधेन्याः ‘प्राचीनं’ प्राक् । “विभाषा ऽञ्चेरदिक् स्त्रियाम्”- (पा० सू० ५ । ४ । ८) इति स्वार्थिकः ख-प्रत्ययः । यदन्यत्समिध इति । अनुयाजार्थायाः ‘समिधः’ यदन्यत् तत्सर्वमित्यर्थः । अस्मिन्नेव समये इध्मशेषस्य सर्वस्याभ्याधानं कुतो हेतोरित्याशङ्क्य हेतुमाह- अपवृङ्क्त इवेति । ‘एतत्’ एतर्हि अस्मिन् समये होता ‘अपवृङ्क्त इव’ अग्नेः समिन्धनं परिसमापयतीव । “समिद्धो अग्न आहुतेति”- समिन्धनस्य भूतत्वप्रतिपत्तेः । समिन्धनहेतुत्वाच्च सर्वस्येध्मस्य समिद्धावस्थायाः प्रागेवाभ्याधानं युक्तमित्यर्थः । प्रागनभ्याधाने दोषमाह- यद्वा अन्यदिति । अनुयाजसमिद्व्यतिरिक्तं ‘यत्’ इध्मसंबन्धि काष्ठं समिद्धावस्थायां वर्त्तते ‘तदतिरिक्तम्’ तच्च शत्रुवर्द्धनहेतुरित्यपि । “समिद्धो अग्न आहुत”- इत्यतः प्रागेवेध्मशेषः सर्वो ऽपि प्रक्षेप्यः । अत एव कात्यायनेनोक्तम्- “समिद्ध इति प्रागतः सर्वमिध्ममेकवर्जमनुयाजाश्चेत्” (श्रौ० सू. ३ । १ । ११) इति ॥ ३८ ॥
Eggeling
- [He recites the ninth kindling verse]: ‘He who is kindled at the cult’–the cult (adhvara), doubtless, is the sacrifice: ‘he who is kindled at the sacrifice’ he thereby says;–‘Agni, the bright, the laudable,’ for he is both bright and laudable;–’the flaming-locked, him we adore!’ for when he is kindled, his locks, as it were, flame. Previously to (the beginning of the tenth verse), ‘O Agni, worshipped, thou art lit!’ let him (the Adhvaryu) put on
all the kindling-sticks with the exception of the one stick (which is to be put on at the after-offerings 58); for it is now that the Hotr̥ completes (the kindling); and what then is left of the kindling-sticks, other than the one stick, that is left (unused altogether); and what is left (unused) of the sacrifice, that is left for his (the sacrificer’s) spiteful enemy: let him, therefore, previously to this (verse), put on all the samidhs, save one.
३९
विश्वास-प्रस्तुतिः
(धो) देवा᳘न्यक्षि स्वध्वरे᳘ति॥
(त्य) अध्वरो वै᳘ यज्ञो᳘ देवा᳘न्यक्षि सुयज्ञिये᳘त्येवैत᳘दाह त्वᳫँ᳭ हि᳘ हव्यवाडसी᳘त्येष हि᳘ हव्यवाड्य᳘दग्निस्त᳘स्मादाह त्वᳫं हि᳘ हव्यवाडसीत्या᳘जुहोता दुवस्य᳘ताग्निं प्रय᳘त्यध्वरे व्वृणीध्व᳘ ᳫँ᳘ हव्यवा᳘हनमि᳘ति सम्प्रे᳘ष्यत्ये᳘वैतया᳘ जुहुत च य᳘जत च य᳘स्मै का᳘माय समै᳘न्धिढ्वं त᳘त्कुरुते᳘त्ये᳘वैत᳘दाहाग्निं᳘ प्रय᳘त्यध्वर ऽइ᳘त्यध्वरो वै᳘ य᳘ज्ञो ऽग्निं᳘ प्रयति᳘ यज्ञ ऽइ᳘त्ये᳘वैत᳘दाह व्वृणीध्व᳘ᳫँ᳘ हव्यवा᳘हनमित्येष हि᳘ हव्यवा᳘हनो य᳘दग्निस्त᳘स्मादाह व्वृणीध्व᳘ᳫँ᳘ हव्यवा᳘हनमि᳘ति॥
मूलम् - श्रीधरादि
(धो) देवा᳘न्यक्षि स्वध्वरे᳘ति॥
(त्य) अध्वरो वै᳘ यज्ञो᳘ देवा᳘न्यक्षि सुयज्ञिये᳘त्येवैत᳘दाह त्वᳫँ᳭ हि᳘ हव्यवाडसी᳘त्येष हि᳘ हव्यवाड्य᳘दग्निस्त᳘स्मादाह त्वᳫं हि᳘ हव्यवाडसीत्या᳘जुहोता दुवस्य᳘ताग्निं प्रय᳘त्यध्वरे व्वृणीध्व᳘ ᳫँ᳘ हव्यवा᳘हनमि᳘ति सम्प्रे᳘ष्यत्ये᳘वैतया᳘ जुहुत च य᳘जत च य᳘स्मै का᳘माय समै᳘न्धिढ्वं त᳘त्कुरुते᳘त्ये᳘वैत᳘दाहाग्निं᳘ प्रय᳘त्यध्वर ऽइ᳘त्यध्वरो वै᳘ य᳘ज्ञो ऽग्निं᳘ प्रयति᳘ यज्ञ ऽइ᳘त्ये᳘वैत᳘दाह व्वृणीध्व᳘ᳫँ᳘ हव्यवा᳘हनमित्येष हि᳘ हव्यवा᳘हनो य᳘दग्निस्त᳘स्मादाह व्वृणीध्व᳘ᳫँ᳘ हव्यवा᳘हनमि᳘ति॥
मूलम् - Weber
देवा᳘न्यक्षि स्वध्वरे᳘ति॥
अध्वरो वै᳘ यज्ञो᳘ देवा᳘न्यक्षि सुयज्ञिये᳘त्येॗवैत᳘दाह त्वाᳫं हि᳘ हव्यवाडसी᳘त्येष हि हव्यवाड्य᳘दग्निस्त᳘स्मादाह त्वᳫं हि᳘ हव्यवाडसीत्या᳘ जुहोता दुवस्य᳘ताग्नि᳘म् प्रयत्य᳘ध्वरे᳘ वृणीध्व᳘ᳫं᳘ हव्यवा᳘हनमि᳘ति सम्प्रे᳘ष्यत्येॗवैतया᳘जुहुत च य᳘जत च य᳘स्मै का᳘माय समै᳘न्धिढ्वं 59 त᳘त्कुरुते᳘त्येॗवैत᳘दाहाग्नि᳘म् प्रयत्य᳘ध्वर इ᳘त्यध्वरो वै᳘ यॗज्ञो ऽग्नि᳘म् प्रयति᳘ यज्ञ इ᳘त्येॗवैत᳘दाह वृणीध्व᳘ᳫं᳘ हव्यवा᳘हनमि᳘त्येष हि हव्यवा᳘हनो य᳘दग्निस्त᳘स्मादाह वृणीध्व᳘ᳫं᳘ हव्यवा᳘हनमि᳘ति॥
मूलम् - विस्वरम्
“देवान् यक्षि स्वध्वर” इति । अध्वरो वै यज्ञः । देवान् यक्षि सुयज्ञिय इत्येवैतदाह । “त्वं हि हव्यवाडसि” इति । एष हि हव्यवाड् यदग्निः । तस्मादाह- त्वं हि हव्यवाडसीति । “आजुहोता दुवस्यत । अग्निं प्रयत्यध्वरे । वृणीध्वं हव्यवाहनम्” इति । सम्प्रेष्यत्येवैतया- आजुहुत च, यजत च, यस्मै कामाय समैन्धिढ्वं तत्कुरुतेत्येवैतदाह । “अग्निं प्रयत्यध्वर" इति । अध्वरो वै यज्ञः । अग्निं प्रयति यज्ञ इत्येवैतदाह । “वृणीध्वं हव्यवाहनम्” इति । एष हि हव्यवाहनो- यदग्निः । तस्मादाह- वृणीध्वं हव्यवाहनमिति ॥ ३९ ॥
सायणः
देवान् यक्षीत्यादि । निगदसिद्धम् । अन्तिमां सामिधेनीमनूद्य व्याचष्टे- आ जुहोतेति । “आ जुहोत दुवस्यतेति” 60 अध्वर्युप्रमुखा ऋत्विजः संबोध्य हवनादिकार्ये प्रेर्यन्ते; अतः प्रोक्षणीरासादयेत्यादिवदयं मन्त्रः संप्रैषरूप एव । आजुहोत दुवस्यतेति- पदयोरर्थमाह- जुहुत च यजत चेति । जुहुतेत्यत्र । ‘त’- शब्दस्य “तप्तनप्तनथनाश्च” (पा० सू० ७. १. ४५) इति तवादेशे गुणे च सति जुहोतेति रूपं भवति । ‘दुवस्यतिः’ परिचरणार्थः (निघ० ३ अ० ५ खं० ५ पदम्) । ‘दुवस्यत’ परिचरत, यजतेत्यर्थः । तात्पर्यार्थमाह- यस्मै कामायेति । फलसाधनतया काम्यमानाय ‘यस्मै’ यागहोमादिकर्मणे, हे ऋत्विजः ! ‘समैन्धिढ्वम्’ अग्निसमिन्धनमकृढ्वम् । सो ऽग्निः समिद्धः संपन्नः; अतो ऽस्मिन् समये ‘तत्कुरुतेत्येव’ एवंरूपमर्थं मन्त्रो ब्रूत इत्यथः । अग्निं प्रयतीत्यादि स्पष्टम् ॥ ३९ ॥
Eggeling
- [He continues]: ‘Adore, good worshipper, the gods!’ worship (adhvara) doubtless means sacrifice: ‘adore the gods, good sacrificer,’ he thereby says;–‘Oblation-bearer, sure, art thou!’ for he, Agni, is indeed the bearer of oblations: for this reason he says ‘oblation-bearer, sure, art thou.’
[He recites the last sāmidhenī]: ‘Make offerings! do reverence! Him, Agni, while the cult proceeds, for your oblation-bearer choose!’ by this (verse) he urges them on: ‘make offerings and worship! do this for (the accomplishment) of whatever desire you kindled him!’ this is what he thereby means to say. ‘Him, Agni, while the cult proceeds,’ he says, because cult means sacrifice: hence he thereby says, ‘him, Agni, whilst the sacrifice proceeds;’–‘for your oblation-bearer choose!’ for he, Agni, is indeed the oblation-bearer, and for this reason he says ‘for your oblation-bearer choose (him)!’
४०
विश्वास-प्रस्तुतिः
तं वा᳘ ऽएत᳘म्॥
(म) अध्वर᳘वन्तं त्रिचम᳘न्वाह देवा᳘न्ह वै᳘ यज्ञे᳘न य᳘जमानान्त्सप᳘त्ना ऽअ᳘सुरा दुधूर्षा᳘ञ्चक्रुस्ते दु᳘धूर्षन्त ऽएव न᳘ शेकुर्धू᳘र्वितुं ते प᳘राबभूवुस्त᳘स्माद्य᳘ज्ञो ऽध्वरो ना᳘म दु᳘धूर्षन्ह वा᳘ एनᳫँ᳭सप᳘त्नः प᳘राभवति य᳘स्यैवं᳘ व्विदु᳘षो ऽध्वर᳘वन्तं त्रिच᳘मन्वाहुर्या᳘वद्वेव᳘ सौम्ये᳘नाध्वरे᳘णेष्ट्वा ज᳘यति ता᳘वज्जयति॥
मूलम् - श्रीधरादि
तं वा᳘ ऽएत᳘म्॥
(म) अध्वर᳘वन्तं त्रिचम᳘न्वाह देवा᳘न्ह वै᳘ यज्ञे᳘न य᳘जमानान्त्सप᳘त्ना ऽअ᳘सुरा दुधूर्षा᳘ञ्चक्रुस्ते दु᳘धूर्षन्त ऽएव न᳘ शेकुर्धू᳘र्वितुं ते प᳘राबभूवुस्त᳘स्माद्य᳘ज्ञो ऽध्वरो ना᳘म दु᳘धूर्षन्ह वा᳘ एनᳫँ᳭सप᳘त्नः प᳘राभवति य᳘स्यैवं᳘ व्विदु᳘षो ऽध्वर᳘वन्तं त्रिच᳘मन्वाहुर्या᳘वद्वेव᳘ 60 सौम्ये᳘नाध्वरे᳘णेष्ट्वा ज᳘यति ता᳘वज्जयति॥
मूलम् - Weber
तं वा᳘ एत᳘म्॥
अध्वर᳘वन्तं त्रिचम᳘न्वाह देवा᳘न्ह वै᳘ यज्ञे᳘न य᳘जमानांत्सप᳘त्ना अ᳘सुरा दुधूर्षां᳘ चक्रुस्ते दु᳘धूर्षन्त एव न᳘ शेकुर्धू᳘र्वितुं ते प᳘राबभूवुस्त᳘स्माद्यॗज्ञो ऽध्वरो ना᳘म दु᳘धूर्षन्ह वा᳘ एनᳫं सप᳘त्नः प᳘राभवति य᳘स्यैवं᳘ विदु᳘षो ऽध्वर᳘वन्तं त्रिच᳘मन्वाहुर्या᳘वद्वेव᳘ सौम्ये᳘नाध्वरे᳘णेष्ट्वा ज᳘यति ता᳘वज्जयति॥
मूलम् - विस्वरम्
तं वा एतम् अध्वरवन्तं त्रिचमन्वाह । देवान् ह वै यज्ञेन यजमानान् सपत्ना असुरा दुधूर्षाञ्चक्रुः । ते दुधूर्षन्त एव न शेकुर्धूर्वितुम्, ते पराबभूवुः । तस्माद्यज्ञो ऽध्वरो नाम । दुधूर्षन् ह वा एनं सपत्नः पराभवति- यस्यैवं विदुषो ऽध्वरवन्तं त्रिचमन्वाहुः । यावद्वेव सौम्येनाध्वरेणेष्ट्वा जयति तावज्जयति ॥ ४० ॥
सायणः
तृचस्याध्वरशब्दयुक्तत्व प्रशंसितुमनुवदति- तं वा इति । “समिद्ध्यमानो अध्वरे”- इत्यादिकमृक्-त्रय-मध्वरशब्दोपेतमनुब्रूयात् । दुधूर्षाञ्चक्रुरिति । धूर्वितुमिच्छां कृतवन्त इत्यर्थः । “धुर्वी हिंसायाम्”- (भ्वा० प० ५७३) इत्यस्मात् सनि, वलोपे, प्रत्ययान्तत्वादाम् 60- प्रत्ययः । ‘दुधूर्षन्तः’ ‘ते’ असुरा देवान् ‘धूर्वितुं’ हिंसितुं ‘न शेकुः’ न शक्ताः प्रत्युत पराहता एव बभूवुः ‘तस्मात्’ अहिंसाहेतुत्वाद् ‘अध्वरः’- इति यज्ञस्य नाम संपन्नम् ।
एवं पुरावृत्तमुदाहृत्यैतद्विदुषः फलमाह- दुधूर्षन् हेति । यावद्वेवेति । अध्वरशब्दो हि सोमयागे रूढः; स चात्र दर्शपूर्णमासविषये मन्त्रेण प्रस्तूयत इति सोमयागेन यावदेव फलं प्राप्नोति तावद्दर्शपूर्णमासयागेनापि प्राप्नोतीत्यर्थः ॥ ४० ॥ ३ ॥ (४. १.)
इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनशतपथब्राह्मणभाष्ये प्रथमकाण्डे चतुर्थाध्याये प्रथमं ब्राह्मणम् ॥
Eggeling
- This tristich, containing (the word) ‘cult (adhvara),’ he thus recites. For once when the gods were engaged in sacrificing, their rivals, the Asuras, wished to injure (dhurv, dhvar) them; but, though desirous of injuring them, they were
unable to injure them and were foiled: for this reason the sacrifice is called adhvara (’not damaged, uninterrupted’); and for whomsoever, that knows this, they recite this tristich containing (the word) adhvara (‘cult, sacrifice’), his rival, though desirous of injuring him, is foiled; and he, (the sacrificer), moreover, gains as much as one gains by offering a Soma-sacrifice 61.
-
“हू ३ म्”- इति सहिङ्कारः" इति सा. छां. ब्रा. ४ । ८ । १ । २ । ↩︎ ↩︎
-
“लोकेषु पञ्चविधं सामोपासीत” इत्यादि ४ प्र. २-७ खं. । अथ सप्तविधस्य “वाचि सप्तविधं सामोपासीत” इत्यादि च ४ प्र. ८-२१ खं. सा. छां. ब्रा. । ↩︎ ↩︎
-
100:1 That is, by uttering ‘Om!’ after each verse. The recitation of the first verse is preceded by the mystic words ‘Hiṅ bhūr bhuvaḥ svar om!’ Āśv. Ś. I, 2, 3. Both syllables ‘hiṅ’ and ‘om’ are essential elements in the recitation of Sāman hymns, See II, 2, 4, 11 seq. ↩︎
-
“प्रपरेत्येतस्य प्रातिलोम्यम्" इति निरु० १ । १ । ५ । ↩︎
-
‘प्रवर्तमानैव’ इति क. पा. । ↩︎
-
101:1 The particles pra and ā were apparently used in phrases wishing one a safe journey and return (cf. Ait. Br. 3, 26, with Haug’s note). The first sāmidhenī begins, ‘prá vo vā´gā abhídyavaḥ’ (forth go your viands, heavenward); and the second ‘ágna ā´ yāhi vītáye’ (come hither, Agni, to the feast!). It is from these verses that the above symbolical explanation is derived. Cf. Taitt. S. II, 5, 7, 3 [prācīnaṁ reto dhīyate–pratīcīḥ prajā jāyante]. ↩︎
-
इत आरभ्यैताः सामिधेन्य उच्यमानास्तैत्तिरीयब्राह्मणे समाम्नाताः- यथा- ↩︎
-
102:1 The following is a connected translation (as literal as possible, if not elegant) of the eleven sāmidhenīs, or kindling verses, in the same octosyllabic metre as the original. The first and eleventh verses are recited three times; and when at the end of each verse the Hotr̥ pronounces the syllable oṁ, the Adhvaryu throws a stick (samidh) into the fire,–up to the eighth verse, at the end of which the tenth stick is thrown in. At the end of the ninth verse five of the remaining six sticks are thrown into the fire. The throwing of the first stick is accompanied by the sacrificer pronouncing the dedicatory formula (tyāga), ‘For Agni this, not for me!’ ↩︎
-
103:1 See further on, par. 22 seq. ↩︎
-
103:2 Inasmuch as Agni, whilst coming to the sacrifice, goes away from the gods. Sāy. ↩︎
-
103:3 In the Taitt. S. II, 5, 7, 3-4 also vāja is in the first place rendered by ‘food,’ while afterwards it is identified with the months (i.e. the coursers? gamanaśīla, Sāy.); as abhidyavaḥ (in the sense of ‘shining in both directions,’ i.e. in the form of the waxing and waning moon, Sāy.) is referred to the half-moons. ↩︎
-
विदेद्य॰ M. माधव॰ Sây. ↩︎
-
क्वचित् ‘माधवः’ इति पाठो दृश्यते स न युक्त इति भाति । ↩︎
-
शतपथे ऽन्यत्र तु सर्वत्रैव ‘विदेहः’ इति शब्दः श्रुतः । (१ । ४ । १ । १७; १४ । ६ । ११ । ६; ७ । २ । ३० । केवलमत्रैव श्रूयते विदेघ इति । ↩︎
-
104:1 To this important legend attention was first drawn by Professor Weber, Ind. Stud. I, 170 seq. (cf. also Ind. Streifen, I, p. 13; J. Muir, Sanskrit Texts, II, p. 402). It was pointed out by Weber that this legend distinguishes three successive stages of the eastward migration of the Brāhmanical Hindus. In the first place the settlements of the Āryans had already been extended from the Pañjab (where they were settled in the times of the hymns of the Rig-veda) as far as the Sarasvatī. They thence pushed forward, led by the Videgha Māthava and his priest, according to our legend, as far east as the river Sadānīrā (that is, ‘she that is always filled with water’), which, according to Sāyaṇa, is another name for the Karatoyā (the modern Kurattee, on which Bograh lies), which formed the eastern boundary of the Videhas; or more probably the Gaṇḍakī (the modern Gunduck, a noble river which falls into the Ganges opposite Patna, and) which formed the boundary between the Kosalas and the Videhas (cf. par. 17). It would appear from our legend, that for some time the Aryans did not venture to cross this river; but at the time of the author the country to the east of it had long been occupied by them. Sāyaṇa takes the hero of the legend to be Videgha, the Mādhava or son of Madhu; but Videgha, an older form of Videha, is more probably intended here (as Weber takes it) for the name of that people and country (corresponding to the modern Tirhut). The Agni Vaiśvānara (or Agni who is common to all men) of our legend Professor Weber considers a personification of Brāhmanical worship and civilisation and the destructive effects of their extension. ↩︎
-
निष्येदे M apogr. ↩︎
-
सदानीरैत्युत्तरैनं निर्धारयति Sây.! ↩︎
-
‘कोशः’ इति पा. । दृश्यते च पद्यार्द्धमिदममरकोशे १ । १० । ३३ । इत्यत्रैव । ↩︎ ↩︎
-
105:1 Or, according to Sāyaṇa, he was then in the Sarasvatī, plunged into the river in order to quench the heat produced by Agni. ↩︎
-
106:1 That is to say, it is not affected by the heat of the summer, as the other rivers, but rushes along as rapidly and as well-filled as ever. ↩︎
-
जिगाँसति M apogr. ॰घांसति Sây. ↩︎
-
106:2 Jigāti is taken by Sāyaṇa in the sense of ‘he sings, praises.’ Our author, on the other hand, seems to interpret it by ‘he conquers (ji);’ see, however, next note. ↩︎
-
106:3 The text has, ‘Sa hi devān jigīshati sa hi devān jigāṁsati.’ The Kāṇva recension has the same reading, except that it omits ‘hi’ in both cases. Instead of jigāṁsati, however, some MSS., as well as Sāyaṇa, read jighāṁsati (‘he wishes to conquer, or beat, the gods’), probably an old corruption, easily accounted for by the circumstance that jigishati is the regular desiderative of ji, ’to conquer,’ though it also occurs in some passages as the desiderative of gā, ’to go.’ Sāyaṇa, however, though he reads jighāṁsati, here allows to the root han (with Naigh. 2, 14) the meaning of ’to go.’ Cf. Weber, Omina and Portenta, p. 406, note 4. ↩︎
-
107:1 Viz. by stretching the arms upwards. Sāyaṇa. ↩︎
-
107:2 That is, vi-itaye, ‘for going asunder,’ a fanciful analysis of the word vīti; the correct rendering is ‘for the meal or food,’ ‘for the feast.’ ↩︎
-
107:3 Havyadāti, the correct meaning of the word is ’the giving of oblations.’ ↩︎
-
अथ ‘ऐन्धते’ ति पाठच्छांदसो मंतव्यः । व्याकरणदृष्ट्या तु भाष्ये धृतः ‘ऐन्धन्त’ इत्याकारकः पाठो युक्त इति भाति । ↩︎ ↩︎ ↩︎
-
॰तिर्व्वृणा॰ M. B. C sec. manu. = र्घृ? ↩︎
-
तेषां वर्णनं ऐ. ब्रा. ६ । ५ । ८-९ खण्डयोर्द्रष्टव्यम् । वस्तुतस्तु एतमु एवाङ्गिरसं मन्यन्ते ऽङ्गानां यद्रसः" इति सा. छां. ब्रा. ३ । २ । १० । ↩︎
-
ऐ. ब्रा. ३ । ३ । ९ । निरु० ३ । ३ । ५ निघ० ५ । ५ । ११ । ↩︎
-
108:1 Rig-veda I, 31, 1, he is called the first of the Aṅgiras. ↩︎
-
108:2 The fire which has just been kindled is frequently called the youngest (yavishṭḥa). Sāyaṇa takes it as ’the ever young.’ See also the legend regarding the three Agnis who preceded the present Agni in the office of divine Hotr̥, I, 2, 3, 1; 3, 3, 13. ↩︎
-
109:1 Vivāsasi, Sāyaṇa explains it by prakāsaya, ‘illuminate it;’ but cf. Sāyaṇa on Rig-veda VI, 16, asmān accha abhigamaya, ‘make it (dhanam) come to us.’ ↩︎
-
109:2 Suvīrya is taken by our author as an adjective, co-ordinate with the others; but it is evidently a noun (‘abundance of heroes’ or ‘manliness, manly power,’ St. Petersburg Dictionary) qualified by the adjectives. ↩︎
-
इडे॰ M apogr. ईडेन्य॰ Sây. see ४.३.५. ↩︎
-
“ओमेवंपरमं मते" इत्यमरकोषे ३ । ४ । १२ तथा “ॐ ३ मित्यृचः प्रतिगर एवं तथेति गाथा चा ओमिति वै दैवं तथेति मा नुषम्" ऐ. ब्रा. ७ । ३ । ६ । ↩︎ ↩︎
-
109:3 Na is taken by our author as a particle of asseveration; though in reality it is a particle of comparison. In later Sanskrit na is only used as particle of negation. ↩︎
-
‘दीदेतिः दीप्तिकर्मा’ इति पा० । ↩︎
-
110:1 Vr̥shan, ’the male, the vigorous one, the bull;’ cf. Max Müller, Translation of Rig-veda Sanhitā, I, p. 121 seq. ↩︎
-
तृच॰ Say. त्रिच॰ MBC. ↩︎
-
अवैदिकमिदं वर्णनमिति सुधीभिः खलूपेक्षणीयमेवेति पं. सत्यव्रतसामाश्रमिभिः स्वयं संस्कृते पुस्तके टिप्पण्यामुट्टंकितमिति ज्ञेयम् । ↩︎
-
“अनसन्तान्नपुंसकाच्छन्दसि” इति पा. सू. ५ । ४ । १०३ । ↩︎
-
110:2 ‘On the top of Mount Meru lies the city of Amarāvatī, wherein the gods dwell; and beneath Meru lies Irāvatī, the city of the Asuras: between these two lies the earth.’ Sāyaṇa. ↩︎
-
111:1 Cf. the corresponding passage in Taitt. S. II, 5, 11, 8, where Daivya is given as the name of the messenger of the Asuras. ↩︎
-
सुक्रतुर्य᳘० BC. M sec.m. सुक्र᳘तुर्य॰ M prima m. ↩︎
-
तदित्थं मन्त्रेषु स्वाभिप्रेतप्रार्थनादिप्रकाशनाय अपि वैदिकशब्दानां परिवर्तनादिकं सर्वत्रैव निषिद्धमिति सूचितम् । ↩︎
-
111:2 That is to say, instead of ‘Hotāraṁ viśvavedasam,’ they recite ‘Hotā yo viśvavedasaḥ;’ for the reason that Hotāram (accusative of hotr̥) might be understood to be ‘hotā aram,’ aram, ’enough,’ being a particle implying a prohibition. Our author, however, promptly sets his face against this application of human reasoning to an inspired text. ↩︎
-
“पाय्यं-सान्नाय्य-निकाय्य-धाय्या मानहविर्निवाससामिधेनीषु"- इति पा. सू. ३ । १ । १२९ । “धीयते ऽनया समिदिति धाय्या ऋक्” इति तत्र कौ. । ऐ. ब्रा. ३ । २ । ७ । १३; ३ । ७ । तै. सं. २ । २ । १० । २ । ↩︎ ↩︎
-
ऋ. सं. ३ । २७ । ५ । ६ । ↩︎
-
‘प्रतिपादितं गायत्रीत्वमसमर्थं स्यात्’ इति पा । ↩︎
-
‘सा च समिध्यमानवती पाञ्चदश्ये नवमी साप्तदश्ये अष्टम्या सहोत्कर्षात् एकादशी संपद्यते’ एवमेव च प्रतिभाति । ↩︎
-
112:1 Whenever thirteen kindling verses are recited instead of eleven (or counting the repetitions of the first and last verses, seventeen instead of fifteen), the two verses Rig-veda III, 27, 5 and 6 are inserted according to our author after the ninth, and according to others before the eighth, sāmidhenī. They are called dhāyyā, probably derived from dhā, ’to put, add,’ whilst those ritualists whose practice is here rejected apparently connect the word with the root dhā (dhe), ’to suck.’ ↩︎
-
112:2 According to Sāyaṇa, because it no longer occupies the eighth place for which it is specially appropriate on account of its being, according to our author, ‘peculiarly a gāyatrī (eight-syllabled) verse.’ This reasoning is far from satisfactory, since the two dhāyyās (Rig-veda III, 27, 5 and 6) are also gāyatrī verses. ↩︎
-
तै. ब्रा. ३ । ५ । २ । १० । सं. २ । ५ । ८ । १-११। ↩︎
-
113:1 See I, 8, 2, 3. ↩︎
-
॰न्धिढ्वं instead of ‘न्धिड्ढ्वं see ४.३.१८. ↩︎
-
तै. ब्रा. ३ । ५ । २ । ११ । सं. २ । ५ । ८ । १ । ११ । ↩︎ ↩︎ ↩︎
-
114:1 Saumya adhvara is the common designation of the solemn Soma-sacrifice; hence, our author argues, the word adhvara is here used for sacrifice (yajña) with a view to insure to this offering the efficacy of a Soma-sacrifice. ↩︎