०१

विश्वास-प्रस्तुतिः

ते वा᳘ ऽआर्द्राः᳘ स्युः॥
(रे) एत᳘द्ध्येषां जीव᳘मेते᳘न सते᳘जस᳘ ऽएते᳘न व्वीर्य᳘वन्तस्त᳘स्मादार्द्राः᳘ स्युः॥

मूलम् - श्रीधरादि

ते वा᳘ ऽआर्द्राः᳘ स्युः॥
(रे) एत᳘द्ध्येषां जीव᳘मेते᳘न सते᳘जस᳘ ऽएते᳘न व्वीर्य᳘वन्तस्त᳘स्मादार्द्राः᳘ स्युः॥

मूलम् - Weber

ते वा᳘ आर्द्राः᳘ स्युः॥
एतॗद्ध्येषां जीव᳘मेते᳘न स᳘तेजस एते᳘न वीर्य᳘वन्तस्त᳘स्मादार्द्राः᳘ स्युः॥

मूलम् - विस्वरम्

ते वा आर्द्राः स्युः । एतद्ध्येषां जीवम्, एतेन सतेजसः, एतेन वीर्यवन्तः । तस्मादार्द्राः स्युः ॥ १ ॥

सायणः

अथ परिधीनामार्द्रतां विधाय प्रशंसति- ते वा इति । ‘एतद्’ आर्द्रत्वं खलु ‘एषां’ जीवतां जीवनलिङ्गम् । स्थावरजङ्गमादिशरीरे यत्र खल्वार्द्रत्वमस्ति, ‘तेन’ ते ‘सतेजसः’ अवयवकान्तिलक्षणेन तेजसा युक्ताः, वीर्यवन्तः बलवन्तश्च भवन्ति । अतः सतेजस्त्वादिसिद्धये ‘ते’ परिधयो ऽपि ‘आर्द्राः’ भवेयुरित्यर्थः । आर्द्रस्य च सजीवत्वं शुष्कस्य च निर्जीवत्वं छन्दोगैराम्नायते- “अस्य सोम्य ! महतो वृक्षस्य यो मूले ऽभ्याहन्याजीवन् स्रवेद्,…. अस्य यदेकां शाखां जीवो जहात्यथ सा शुष्यति” इति सा० छां० ब्रा० (८ । ११ । १ । २ । ३) ॥ १ ॥

Eggeling
  1. They should be green (fresh); for that is (what constitutes) their living element, by that they are vigorous, by that possessed of strength: for this reason they should be green.

०२

विश्वास-प्रस्तुतिः

स᳘ मध्यम᳘मेवा᳘ग्रे परिधिं प᳘रिदधाति॥
गन्धर्व्व᳘स्त्वा व्विश्वा᳘वसुः प᳘रिदधातु व्वि᳘श्वस्या᳘रिष्ट्यै य᳘जमानस्य परिधि᳘रस्यग्नि᳘रिड᳘ ऽईडित ऽइति॥

मूलम् - श्रीधरादि

स᳘ मध्यम᳘मेवा᳘ग्रे परिधिं प᳘रिदधाति॥
गन्धर्व्व᳘स्त्वा व्विश्वा᳘वसुः प᳘रिदधातु व्वि᳘श्वस्या᳘रिष्ट्यै य᳘जमानस्य परिधि᳘रस्यग्नि᳘रिड᳘ ऽईडित ऽइति॥

मूलम् - Weber

स᳘ मध्यम᳘मेवा᳘ग्रे॥
परिधिं प᳘रिदधाति गन्धर्व᳘स्त्वा विश्वा᳘वसुः प᳘रिदधातु वि᳘श्वस्या᳘रिष्ट्यै य᳘जमानस्य परिधि᳘रस्यग्नि᳘रिड᳘ ईडित इ᳘ति॥

मूलम् - विस्वरम्

स मध्यममेवाग्रे परिधिं परिदधाति- “गन्धर्वस्त्वा विश्वावसुः परिदधातु विश्वस्यारिष्ट्यै यजमानस्य परिधिरस्यग्निरिड ईडितः”- (२ अ० ३ मं०) इति ॥ २ ॥

सायणः

आहवनीयस्य पश्चिमभागे मध्यमपरिधिरेव प्रथमं परिधातव्य इति विधत्ते- इति । मन्त्रः स्पष्टार्थ इत्यभिप्रेत्य ब्राह्मणेन न व्याख्यायते । अस्मिन् मन्त्रे, दक्षिणोत्तरपरिधिमन्त्रयोश्च यद् “अग्निरिड ईडितः” इति तादात्म्यप्रतिपादनम्, तावन्मात्रं व्याख्यास्यते । अस्माभिस्तु संहितायामेव 1 मन्त्रा व्याख्याता इति न पुनस्ते ऽत्र व्याख्यातव्याः ॥ २ ॥

Eggeling
  1. The middle stick he lays down first (on the west side of the fire), with the text (Vāj. S. II, 3), ‘May the Gandharva Viśvāvasu 2 lay thee around

for the security of the All! Thou art a fence to the sacrificer, thou (art) Agni, invoked and worthy of invocation!’

०३

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ द᳘क्षिणां प᳘रिदधाति॥
(ती᳘) इ᳘न्द्रस्य बाहु᳘रसि द᳘क्षिणो व्वि᳘श्वस्या᳘रिष्ट्यै य᳘जमानस्य परिधि᳘रस्यग्नि᳘रिड᳘ ऽईडित ऽइति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ द᳘क्षिणां प᳘रिदधाति॥
(ती᳘) इ᳘न्द्रस्य बाहु᳘रसि द᳘क्षिणो व्वि᳘श्वस्या᳘रिष्ट्यै य᳘जमानस्य परिधि᳘रस्यग्नि᳘रिड᳘ ऽईडित ऽइति॥

मूलम् - Weber

अ᳘थ द᳘क्षिणाम् प᳘रिदधाति॥
इ᳘न्द्रस्य बाहु᳘रसि द᳘क्षिणो वि᳘श्वस्य अ᳘रिष्ट्यै य᳘जमानस्य परिधिरस्यग्नि᳘रिड᳘ ईडित इ᳘ति॥

मूलम् - विस्वरम्

अथ दक्षिणं परिदधाति- “इन्द्रस्य बाहुरसि दक्षिणो विश्वस्यारिष्ट्यै यजमानस्य परिधिरस्यग्निरिड ईडितः”- (२ अ० ३ मं०) इति ॥ ३ ॥

सायणः

“[व्याख्यानम् अग्रे]”

Eggeling
  1. He then lays down the southern one, with the text (ib.), ‘Thou art Indra’s arm for the security of the All! Thou art a fence to the sacrificer; thou Agni, invoked and worthy of invocation!’

०४

विश्वास-प्रस्तुतिः

(त्य) अथो᳘त्तरं प᳘रिदधाति॥
मित्राव᳘रुणौ त्वोत्तरतः प᳘रिधत्तां ध्रुवे᳘ण ध᳘र्म्मणा व्वि᳘श्वस्या᳘रिष्ट्यै य᳘जमानस्य परिधि᳘रस्यग्नि᳘रिड᳘ ऽईडित ऽइ᳘त्यग्न᳘यो हि त᳘स्मादाहाग्नि᳘रिड᳘ ऽईडित ऽइ᳘ति॥

मूलम् - श्रीधरादि

(त्य) अथो᳘त्तरं प᳘रिदधाति॥
मित्राव᳘रुणौ त्वोत्तरतः प᳘रिधत्तां ध्रुवे᳘ण ध᳘र्म्मणा व्वि᳘श्वस्या᳘रिष्ट्यै य᳘जमानस्य परिधि᳘रस्यग्नि᳘रिड᳘ ऽईडित ऽइ᳘त्यग्न᳘यो हि त᳘स्मादाहाग्नि᳘रिड᳘ ऽईडित ऽइ᳘ति॥

मूलम् - Weber

अथो᳘त्तरम् प᳘रिदधाति॥
मित्राव᳘रुणौ त्वोत्तरतः प᳘रिधत्तां ध्रुवे᳘ण ध᳘र्मणा वि᳘श्वस्या᳘रिष्ट्यै य᳘जमानस्य परिधि᳘रस्यग्नि᳘रिड᳘ ईडित इत्यग्न᳘यो हि त᳘स्मादाहाग्नि᳘रिड ईडित इ᳘ति॥

मूलम् - विस्वरम्

अथोत्तरं परिदधाति- “मित्रावरुणौ त्वोत्तरतः परिधत्तां ध्रुवेण धर्मणा विश्वस्यारिष्ट्यै यजमानस्य परिधिरस्यग्निरिड ईडितः”- (२ अ. ३ मं.) इति । अग्नयो हि । तस्मादाह- अग्निरिड ईडित इति ॥ ४ ॥

सायणः

दक्षिणोत्तरपरिध्योरपि समन्त्रकं परिधानं विधत्ते- अथ दक्षिणमित्यादिना । अग्नयो हीत्यादि । यस्मात् प्रागुक्तरीत्या परिधयः ‘अग्नयः’ ‘तस्मात् कारणात्’ “अग्निरिड ईडितः”- इत्यग्निशब्देन परिधिरभिधीयत इत्यर्थः ॥ ३ ॥ ४ ॥

Eggeling
  1. He then lays down the northern one, with the text (ib.), ‘May Mitra-Varuṇa lay thee around in the north with firm law for the security of the All! Thou art a fence to the sacrificer, thou Agni, invoked and worthy of invocation!’ They are indeed Agnis, and for that reason he says, ‘Agni, invoked and worthy of invocation!’

०५

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ समि᳘धमभ्या᳘दधाति॥
स᳘ मध्यम᳘मेवा᳘ग्रे परिधिमु᳘पस्पृशति ते᳘नैतान᳘ग्रे स᳘मिन्धे᳘ ऽथाग्ना᳘वभ्या᳘दधाति ते᳘नो ऽअग्निं प्रत्य᳘क्षᳫँ᳭ स᳘मिन्धे॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ समि᳘धमभ्या᳘दधाति॥
स᳘ मध्यम᳘मेवा᳘ग्रे परिधिमु᳘पस्पृशति ते᳘नैतान᳘ग्रे स᳘मिन्धे᳘ ऽथाग्ना᳘वभ्या᳘दधाति ते᳘नो ऽअग्निं प्रत्य᳘क्षᳫँ᳭ स᳘मिन्धे॥

मूलम् - Weber

अ᳘थ समि᳘धमभ्या᳘दधाति॥
स᳘ मध्यम᳘मेवा᳘ग्रे परिधिमु᳘पस्पृषति ते᳘नैतान᳘ग्रे स᳘मिन्द्धे ऽथाग्ना᳘वभ्या᳘दधाति ते᳘नो अग्नि᳘म् प्रत्य᳘क्षᳫं स᳘मिन्द्धे॥

मूलम् - विस्वरम्

अथ समिधमभ्यादधाति । स मध्यममेवाग्रे परिधिमुपस्पृशति, तेनैतानग्रे समिन्धे । अथाग्नावभ्या- दधाति, तेनो अग्निं प्रत्यक्षं समिन्धे ॥ ५ ॥

सायणः

पूर्वाधारसमिधो ऽन्याधानं विधत्ते- अथ समिधमिति । वायव्यां दिशमारभ्याग्नेयदिग्भागपयन्तमविच्छिन्नधारया होमः पूर्वाधारः, स च यत्र परिसमाप्यते, तत्रैकां ‘समिधम्’ आदध्यादित्यर्थः । तत्र धर्म्मविशेषमाह- स मध्यममेवेति । ‘अग्रे’ अभ्याधानात्पूर्वं ‘मध्यमं परिधिं ’ तया समिधा संस्पृशेदित्यर्थः । तस्य प्रयोजनमाह- तेनैतानिति । ‘तेन’ उपस्पर्शनेन परिधिरूपान् ‘एतान्’ अग्नीन् प्रथमं ‘समिन्धे’, ‘अग्नौ’ अभ्याधानेन ‘तेन’ आहवनीयरूपेण प्रत्यक्षस्याग्नेः समिन्धनमित्यर्थः ॥ ५ ॥

Eggeling
  1. Thereupon he puts on (the fire) a samidh (kindling-stick). He first touches with it the middle enclosing-stick: thereby he first kindles those (three Agnis). After that he puts it on the fire: thereby he kindles the visible fire.

०६

विश्वास-प्रस्तुतिः

सो ऽभ्या᳘दधाति᳘॥
व्वीतिहोत्रं त्वा कवे द्युम᳘न्तᳫंस᳘मिधीमहि। अ᳘ग्ने बृह᳘न्तमध्वर ऽइ᳘त्येत᳘या गायत्र्या᳘ गायत्री᳘मे᳘वैतत्स᳘मिन्धे सा᳘ गायत्री स᳘मिद्धान्या᳘नि च्छ᳘न्दᳫंसि स᳘मिन्धे च्छ᳘न्दाᳫंसि स᳘मिद्धानि देवे᳘भ्यो यज्ञं᳘ व्वहन्ति॥

मूलम् - श्रीधरादि

सो ऽभ्या᳘दधाति᳘॥
व्वीतिहोत्रं त्वा कवे द्युम᳘न्तᳫंस᳘मिधीमहि। अ᳘ग्ने बृह᳘न्तमध्वर ऽइ᳘त्येत᳘या गायत्र्या᳘ गायत्री᳘मे᳘वैतत्स᳘मिन्धे सा᳘ गायत्री स᳘मिद्धान्या᳘नि च्छ᳘न्दᳫंसि स᳘मिन्धे च्छ᳘न्दाᳫंसि स᳘मिद्धानि देवे᳘भ्यो यज्ञं᳘ व्वहन्ति॥

मूलम् - Weber

सो ऽभ्या᳘दधाति॥
वीति᳘होत्रं त्वा कवे द्युम᳘न्तᳫं स᳘मिधीमहि अ᳘ग्ने बृह᳘न्तमध्वर इ᳘त्येत᳘या गायत्र्या᳘ गायत्री᳘मेॗवैतत्स᳘मिन्द्धे सा᳘ गायत्री स᳘मिद्धान्या᳘नि छ᳘न्दांसि स᳘मिन्द्धे छ᳘न्दांसि स᳘मिद्धानिदेवे᳘भ्यो यज्ञं᳘ वहन्ति॥

मूलम् - विस्वरम्

सो ऽभ्यादधाति- “वीतिहोत्रं त्वा कवे द्युमन्तं समिधीमहि । अग्ने बृहन्तमध्वरे”- (२ अ. ४ मं.) इत्येतया गायत्र्या । गायत्रीमेवैतत् समिन्धे । सा गायत्री समिद्धान्यानि छन्दांसि समिन्धे । छन्दांसि समिद्धानि देवेभ्यो यज्ञं वहन्ति ॥ ६ ॥

सायणः

विहितमभ्याधानमनूद्य मन्त्रं विधत्ते 3- इति । ‘अस्य’ अभ्याधानसाधनमन्त्रस्य गायत्रीच्छन्दस्कत्वात् छन्दसां मध्ये गायत्र्याख्यमपि छन्दः प्रथमं ‘समिन्धे’ सन्दीपयति । समिद्धा च ‘सा गायत्री’ उष्णिगादीनि ‘अन्यानि’ चतुरुत्तराणि 4 ‘छन्दांसि’ सन्दीपयति; समिद्धायाश्चतुर्विंशत्यक्षराया गायत्र्यास्तत्र सर्वत्रानुगमात् । गायत्र्या ‘समिद्धानि’ तानि च ‘छन्दांसि’ ‘देवेभ्यः’ ‘यज्ञं’ ‘वहन्ति’ प्रापयन्ति ॥ ६ ॥

Eggeling
  1. He puts it on 5, with the gāyatrī stanza (Vāj. S. II, 4), ‘Thee, O Sage, who callest (the gods) to the feast, we will kindle so as to shine brilliantly; thee, O Agni, mighty at the sacrifice!’ He thereby kindles the gāyatrī 6; the gāyatrī, when kindled, kindles the other metres; and the metres, when kindled, carry the sacrifice to the gods.

०७

विश्वास-प्रस्तुतिः

(न्त्य᳘) अ᳘थ यां᳘ द्विती᳘याᳫं समि᳘धमभ्याद᳘धाति॥
व्वसन्त᳘मेव त᳘या स᳘मिन्धे स᳘ व्वसन्तः स᳘मिद्धो ऽन्या᳘नृतन्त्स᳘मिन्ध ऽऋत᳘वः स᳘मिद्धाः प्रजा᳘श्च प्रजन᳘यन्त्यो᳘षधीश्च पचन्ति᳘ सो ऽभ्या᳘दधाति समि᳘दसी᳘ति समिद्धि᳘ व्वसन्तः᳘॥

मूलम् - श्रीधरादि

(न्त्य᳘) अ᳘थ यां᳘ द्विती᳘याᳫं समि᳘धमभ्याद᳘धाति॥
व्वसन्त᳘मेव त᳘या स᳘मिन्धे स᳘ व्वसन्तः स᳘मिद्धो ऽन्या᳘नृतन्त्स᳘मिन्ध ऽऋत᳘वः स᳘मिद्धाः प्रजा᳘श्च प्रजन᳘यन्त्यो᳘षधीश्च पचन्ति᳘ सो ऽभ्या᳘दधाति समि᳘दसी᳘ति समिद्धि᳘ व्वसन्तः᳘॥

मूलम् - Weber

अ᳘थ यां᳘ द्विती᳘याᳫं समि᳘धमभ्या᳘दधाति॥
वसन्त᳘मेव त᳘या स᳘मिन्धे स᳘ वसन्तः स᳘मिद्धो ऽन्या᳘नृतूंत्स᳘मिन्द्धे ऋत᳘वः स᳘मिद्धाः प्रजा᳘श्च प्रजन᳘यन्त्यो᳘षधीश्च पचन्तिॗ सो ऽभ्यादधाति समि᳘दसी᳘ति समिद्धि᳘ वसन्तः᳟॥

मूलम् - विस्वरम्

अथ यां द्वितीयां समिधमभ्यादधाति वसन्तमेव तया समिन्धे । स वसन्तः समिद्धो ऽन्यानृतून् समिन्धे । ऋतवः समिद्धाः प्रजाश्च प्रजनयन्ति, ओषधीश्च पचन्ति । सो ऽभ्यादधाति- “समिदसि”- (२ अ. ५ मं.) इति । समिद्धि वसन्तः ॥ ७ ॥

सायणः

अथोत्तराधारसमिधो ऽभ्याधानं विधत्ते 7- अथ यामिति । द्वितीयाधारो हि नैर्ऋतिं दिशमारभ्यैशानीं दिशं प्रत्यनवच्छिन्नधारया होमः; स यत्र परिसमाप्यते, तत्रैकां समिधमादध्यात् । पूर्वाधारसमिदपेक्षया ‘द्वितीयाम्’- इति व्यपदेशः । ‘तया’ च समिधा ‘वसन्तः’ ऋतुः सन्दीप्यते । निगदसिद्धमन्यत् । अभ्याधानमनूद्य मन्त्रं विधत्ते- इति । समिद्धीति । “समिधो यजति 4” -इति तद्विधानात् । ईदृशी प्रसिद्धिरत्र ‘हि’- शब्देन प्रतिपाद्यते ॥ ७ ॥

Eggeling
  1. By the second kindling-stick (samidh), which he now puts on, he kindles the spring; the spring, when kindled, kindles the other seasons; and the seasons, when kindled, cause living beings to be produced and the plants to ripen. He puts it on, with the formula (Vāj. S. II, 5), ‘A kindler (samidh) art thou!’ for the spring is indeed a kindler.

०८

विश्वास-प्रस्तुतिः

(न्तो᳘ ऽथा) अ᳘थाभ्याधा᳘य जपति॥
सू᳘र्य्यस्त्वा पुर᳘स्तात्पातु क᳘स्याश्चिदभि᳘शस्त्या ऽइ᳘ति गुप्त्यै वा᳘ ऽअभि᳘तः परिध᳘यो भ᳘वन्त्य᳘थैतत्सू᳘र्य्यमेव᳘ पुर᳘स्ताद्गोप्ता᳘रं करोति ने᳘त्पुर᳘स्तान्नाष्ट्रा र᳘क्षाᳫंस्यभ्यवच᳘रानि᳘ति सू᳘र्य्यो हि᳘ नाष्ट्राणाᳫं र᳘क्षसामपहन्ता᳘॥

मूलम् - श्रीधरादि

(न्तो᳘ ऽथा) अ᳘थाभ्याधा᳘य जपति॥
सू᳘र्य्यस्त्वा पुर᳘स्तात्पातु क᳘स्याश्चिदभि᳘शस्त्या ऽइ᳘ति गुप्त्यै वा᳘ ऽअभि᳘तः परिध᳘यो भ᳘वन्त्य᳘थैतत्सू᳘र्य्यमेव᳘ पुर᳘स्ताद्गोप्ता᳘रं करोति ने᳘त्पुर᳘स्तान्नाष्ट्रा र᳘क्षाᳫंस्यभ्यवच᳘रानि᳘ति सू᳘र्य्यो हि᳘ नाष्ट्राणाᳫं र᳘क्षसामपहन्ता᳘॥

मूलम् - Weber

अ᳘थाभ्याधा᳘य जपति॥
सू᳘र्यस्त्वा᳘ पुर᳘स्तात्पातु क᳘स्याश्चिदभि᳘शस्त्या इ᳘ति गु᳘प्त्यै वा᳘ अभि᳘तः परिध᳘यो भ᳘वन्त्य᳘थैतत्सू᳘र्यमेव᳘ पुर᳘स्ताद्गोप्ता᳘रं करोति ने᳘त्पुर᳘स्तान्नाष्ट्रा र᳘क्षांस्यभ्यवच᳘रानि᳘ति सू᳘र्यो हि᳘ नाष्ट्रा᳘णां र᳘क्षसामपहन्ता᳟॥

मूलम् - विस्वरम्

अथाभ्याधाय जपति- “सूर्यस्त्वा पुरस्तात्पातु कस्याश्चिदभिशस्त्यै” (२ अ. ५मं.) -इति । गुप्त्यै वा अभितः परिधयो भवन्ति । अथैतत्सूर्यमेव पुरस्ताद् गोप्तारं करोति- नेत् पुरस्तान्नाष्ट्रा रक्षांस्यभ्यवचरानिति । सूर्यो हि नाष्ट्राणां रक्षसामपहन्ता ॥ ८ ॥

सायणः

एवमाधारसमिदभ्याधानानन्तरं मन्त्रविशेषस्य जपं विधत्ते 7- अथाभ्याधायेति । मन्त्रस्य प्रयोजनमाह- गुप्त्यै वा इति । राक्षसादिसञ्चरणनिरसनं गोपनम् । गुप्त्यर्थं हि परिधिपरिधानम् । पूर्वस्यां दिशि परिधिर्नास्ति, तथा च ‘एतत्’ एतेन “सूयस्त्वा”- इति मन्त्रोच्चारणेन तमुद्यन्तं ‘सूर्यमेव’ यज्ञस्य रक्षितारं करोति । शिष्टं स्पष्टम् । इममर्थं तैत्तिरीयके विस्पष्टमामनन्ति । “परिधीन्परिदधाति रक्षसामपहत्यै, संस्पर्शयति रक्षसामनन्ववचाराय, न पुरस्तात् परिदधात्यादित्यो ह्येवोद्यन् पुरस्ताद्रक्षा ँ स्यपहन्ति” इति (तै. ब्रा. ३ । ३ । ७) ॥ ८॥

Eggeling
  1. When he has put it on, he murmurs (ib.), ‘May the sun guard thee from the east against any imprecation!’ for the enclosing-sticks serve for protection on all (the other three) sides; and thereby he makes the sun the protector on the east side, fearing ’lest the evil spirits, the Rakshas, should rush in from the east:’ for the sun is the repeller of the evil spirits, the Rakshas.

०९

विश्वास-प्रस्तुतिः

(न्ता᳘थ) अ᳘थ या᳘मे᳘वामूं᳘ तृतीयाᳫं समि᳘धमभ्याद᳘धाति॥
(त्य) अनुयाजे᳘षु ब्राह्मण᳘मेव त᳘या स᳘मिन्धे स᳘ ब्राह्मणः स᳘मिद्धो देवे᳘भ्यो यज्ञं᳘ वहति॥

मूलम् - श्रीधरादि

(न्ता᳘थ) अ᳘थ या᳘मे᳘वामूं᳘ तृतीयाᳫं समि᳘धमभ्याद᳘धाति॥
(त्य) अनुयाजे᳘षु ब्राह्मण᳘मेव त᳘या स᳘मिन्धे स᳘ ब्राह्मणः स᳘मिद्धो देवे᳘भ्यो यज्ञं᳘ वहति॥

मूलम् - Weber

अथ यामेवामृं तृतीयाᳫं समिधमभ्यादधाति॥
अनुयाजेषु ब्राह्मणमेव तया समिन्द्धे स ब्राह्मणः समिद्धो देवेभ्यो यज्ञंवहति॥

मूलम् - विस्वरम्

अथ यामेवामुं तृतीयां समिधमभ्यादधाति- अनुयाजेषु, ब्राह्मणमेव तया समिन्धे । स ब्राह्मणः समिद्धो देवेभ्यो यज्ञं वहति ॥ ९ ॥

सायणः

अनुयाजप्राक्काले ऽभ्याधानायैका समिदवशेषयितव्येत्यभिप्रेत्य तस्याः समिधो ऽभिधास्यमानमभ्याधानमनूद्य प्रसङ्गात्तस्य प्रयोजनमाह- अथ यामिति । अमूमिति । ‘अदः’ शब्दो विप्रकृष्टार्थवाची । विप्रकृष्टे ऽनुयाजप्राक्काले ऽभ्याधानमित्यर्थः । ब्राह्मणमेव तयेति । “एषा ते ऽग्ने समित्”- इत्यादिना (वा 8. सं. २ । १४ । १) । मन्त्रेण यजमानगामिनो वर्द्धनाप्यायनादिलक्षणफलस्य प्रतिपादनात् तेनाभ्याहितया समिधा यजमानरूपं ब्राह्मणमेव ‘समिन्धे’ सन्दीपयति । गतमन्यत् ॥ ९ ॥

Eggeling
  1. By that third kindling-stick, then, which he puts on at the after-offerings 9, he kindles the officiating priest (brāhmaṇa); and he, the priest, when kindled, carries the sacrifice to the gods.

१०

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ स्तीर्णां व्वे᳘दिमुपा᳘वर्त्तते॥
स द्वे तृ᳘णे ऽआदा᳘य तिर᳘श्ची नि᳘दधाति सवितु᳘र्बा᳘हू᳘ स्थ ऽइ᳘त्ययं वै᳘ स्तुपः᳘ प्रस्तरो᳘ ऽथास्यैते भ्रु᳘वावेव᳘ ऽतिर᳘श्ची नि᳘दधाति त᳘स्मादिमे᳘ तिर᳘श्च्यौ भ्रु᳘वौ क्षत्रं व्वै᳘ प्रस्तरो व्वि᳘श ऽइ᳘तरं बर्हिः᳘ क्षत्र᳘स्य चैव᳘ व्विश᳘श्च व्वि᳘धृत्यै त᳘स्मात्तिर᳘श्ची नि᳘दधाति त᳘स्माद्वेव व्वि᳘धृती ना᳘म॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ स्तीर्णां व्वे᳘दिमुपा᳘वर्त्तते॥
स द्वे तृ᳘णे ऽआदा᳘य तिर᳘श्ची नि᳘दधाति सवितु᳘र्बा᳘हू᳘ स्थ ऽइ᳘त्ययं वै᳘ स्तुपः᳘ प्रस्तरो᳘ ऽथास्यैते भ्रु᳘वावेव᳘ ऽतिर᳘श्ची नि᳘दधाति त᳘स्मादिमे᳘ तिर᳘श्च्यौ भ्रु᳘वौ क्षत्रं व्वै᳘ प्रस्तरो व्वि᳘श ऽइ᳘तरं बर्हिः᳘ क्षत्र᳘स्य चैव᳘ व्विश᳘श्च व्वि᳘धृत्यै त᳘स्मात्तिर᳘श्ची नि᳘दधाति त᳘स्माद्वेव व्वि᳘धृती ना᳘म॥

मूलम् - Weber

अ᳘थ स्तीर्णां वे᳘दिमुपा᳘वर्तते॥
स द्वे तृ᳘णे आदा᳘य तिर᳘श्ची नि᳘दधाति सवितु᳘र्बा᳘हू स्थ इ᳘त्ययं वै᳘ स्तुपः᳘ प्रस्तरो᳘ऽथा᳘स्यैते भ्रु᳘वावेव᳘ तिर᳘श्ची नि᳘दधाति त᳘स्मादिमे᳘ तिर᳘श्च्यौ भ्रु᳘वौ क्षत्रं वै᳘ प्रस्तरो वि᳘श इ᳘तरम् बर्हिः᳘ क्षत्र᳘स्य चैव᳘ विश᳘श्च वि᳘धृत्यै त᳘स्मात्तिरश्ची नि᳘दधाति त᳘स्माद्वेव वि᳘धृती ना᳘म॥

मूलम् - विस्वरम्

अथ स्तीर्णां वेदिमुपावर्त्तते । स द्वे तृणे आदाय तिरश्ची निदधाति- “सवितुर्बाहू स्थः”- (२ अ. ५ मं.) इति । अयं वै स्तुपः प्रस्तरः । अथास्यैते भ्रुवावेव तिरश्ची निदधाति । तस्मादिमे तिरौश्च्यौ भ्रुवौ । क्षत्रं वै प्रस्तरः, विश इतरं बर्हिः । क्षत्रस्य चैव विशश्च विधृत्यै । तस्मात्तिरश्ची निदधाति । तस्माद्वेव विधृती नाम ॥ १० ॥

सायणः

एवमाहवनीये कर्तव्याः परिधिपरिधानादयो विहिताः; अथ वेद्यां हविरासादनार्थं प्रस्तरस्तरणं विधित्सुस्तदर्थं विधृत्योः सादनं विधत्ते 8- अथेति । बर्हिषा ‘स्तीर्णां वेदिम्, उपलक्ष्या ऽऽहवनीयसमीपादुपावर्त्तेतेत्यर्थः । उपावृत्य च बर्हिषः 10 सकाशाद् ‘द्वे तृणे आदाय’ बर्हिष उपरि ‘तिरश्ची’ तिर्यगग्रे ‘निदधाति’ “सवितुः”- इति मन्त्रेण । तदेतत् तृणनिधानं प्रशंसति- अयं वा इति । ‘प्रस्तरः’ हि यज्ञस्य ‘स्तुपः’ केशसङ्घातः । बर्हींषि श्मश्रुप्रभृतीनि लोमानि । तथा च प्रस्तरबर्हिषोर्मध्ये तिर्यङ्निहिते ‘एते’ तृणे ‘भ्रुवावेव’ भ्रूस्थानीये इत्यर्थः । लोकप्रसिद्ध्यैतद् द्रढयति- तस्मादिति । यस्मादेवं यज्ञे केशश्मश्रुरूपेण संस्तुतयोः प्रस्तरबर्हिषोर्मध्ये संस्थिते 11 तृणे तिर्य्यङ् निधीयेते, ‘तस्मात्’ कारणात् पुरुषशरीरस्य ‘भ्रुवौ’ ‘तिरश्च्यौ’ दृश्येते इत्यर्थः । तिर्यङ्निधानस्य प्रयोजनमाह- क्षत्रं वा इति । क्षत्रियवैश्यजातिस्थानीये प्रस्तरबर्हिषी; अतस्तयोर्विविधं धारणाय तत्तिर्यक् तृणनिधानं सम्पद्यते; इतरथा हि प्रस्तरबर्हिषोः साङ्कर्याय क्षत्रियवैश्ययोरपि साङ्कर्यं स्यात् । यस्मादेवमेते तृणे तिर्यङ्निहिते विधारणप्रयोजने, तस्मादनयोः ‘विधृती’ इति ‘ना?? सम्पद्यत इति निर्ब्रूते- तस्मादिति॥ १० ॥

Eggeling
  1. He now returns to the altar covered (with sacrificial grass). Having taken two stalks of grass, he lays them down across (the barhis or grass covering, with the tops to the north), with the formula (Vāj. S. II, 5), ‘Savitr̥’s arms 12 are ye!’ The prastara bunch is indeed the top-knot (of the sacrifice); and he now lays down these two crosswise as its eye-brows: thereby these two (represent) the transverse eye-brows. The prastara, further,

(represents) the kshatra (or military class); and the other barhis the viś (or, the common Āryan people);–(and the two stalks he puts down between them) for the sake of separating (vidhr̥ti) the kshatra and the viś: for this reason he lays them down crosswise; and for this reason these two (stalks) are called vidhr̥ti.

११

विश्वास-प्रस्तुतिः

त᳘त्प्रस्तर᳘ᳫं᳘ स्तृणाति॥
(त्यू᳘) ऊ᳘र्णम्रदसं त्वा स्तृणामि स्वासस्थं᳘ देवे᳘भ्य ऽइ᳘ति साधुं᳘ देवे᳘भ्य ऽइ᳘त्ये᳘वैत᳘दाह- यदाहो᳘र्णम्रदसं त्वे᳘ति स्वासस्थं᳘ देवे᳘भ्य ऽइ᳘ति स्वास᳘दं देवे᳘भ्य ऽइ᳘त्ये᳘वैत᳘दाह॥

मूलम् - श्रीधरादि

त᳘त्प्रस्तर᳘ᳫं᳘ स्तृणाति॥
(त्यू᳘) ऊ᳘र्णम्रदसं त्वा स्तृणामि स्वासस्थं᳘ देवे᳘भ्य ऽइ᳘ति साधुं᳘ देवे᳘भ्य ऽइ᳘त्ये᳘वैत᳘दाह- यदाहो᳘र्णम्रदसं त्वे᳘ति स्वासस्थं᳘ देवे᳘भ्य ऽइ᳘ति स्वास᳘दं देवे᳘भ्य ऽइ᳘त्ये᳘वैत᳘दाह॥

मूलम् - Weber

त᳘त्प्रस्तर᳘ᳫं᳘ स्तृणाति॥
ऊ᳘र्णम्रदसं त्वा स्तृणामि स्वासस्थं᳘ देवे᳘भ्य इ᳘ति साधुं᳘ देवे᳘भ्य इ᳘त्येॗवैत᳘दाह यदाहो᳘र्णम्रदसं त्वे᳘ति स्वासस्थं᳘ देवे᳘भ्य इ᳘ति स्वास᳘दं देवे᳘भ्य इ᳘त्येॗवैत᳘दाह॥

मूलम् - विस्वरम्

तत् प्रस्तरं स्तृणाति- ** “ऊर्णम्रदसं त्वा स्तृणामि स्वासस्थं देवेभ्यः”**- (२ अ० ५ मं.) इति । साधुं देवेभ्य इत्येवैतदाह- यदाहोर्णम्रदसं त्वेति । स्वासस्थं देवेभ्य इति- स्वासदं देवेभ्य इत्येवैतदाह ॥ ११ ॥

सायणः

प्रस्तरस्य समन्त्रकं स्तरणं विधत्ते 13- तदिति । ‘तत्’ तत्र विधृत्योरुपरीत्यर्थः । प्रस्तरस्तरणमन्त्रस्तु बर्हिस्तरणमन्त्रवत् । तत्र स्तीर्यमाणाया वेदेरभिधेयत्वात् ‘साध्वीं देवेभ्यः’- इत्येवं स्त्रीलिङ्गतया व्याख्यातः; अत्र तु प्रस्तर एवाभिधेय इति ‘साधुं देवेभ्य’ इति पुल्ँलिङ्गत्तया व्याख्यायत इत्येतावानेव विशेषः । अन्यत् पूर्ववद् 14 योज्यम् ॥ ११ ॥

Eggeling
  1. On them he spreads the prastara, with the formula (Vāj. S. II, 5), ‘I spread thee, soft as wool, pleasant to sit upon for the gods!’ When he says ’thee, soft as wool,’ he means to say ‘agreeable to the gods;’ and by ‘pleasant to sit upon for the gods’ he means to say ‘forming a good seat for the gods.’

१२

विश्वास-प्रस्तुतिः

त᳘मभिनि᳘दधाति᳘॥
(त्या᳘) आ᳘ त्वा व्व᳘सवो रुद्रा᳘ ऽआदित्याः᳘ सदन्त्वि᳘त्येते वै᳘ त्रया᳘ देवा यद्व᳘सवो रुद्रा᳘ ऽआदित्या᳘ ऽएते त्वा᳘सीदन्त्वि᳘त्ये᳘वैत᳘दाहाभिनि᳘हित ऽएव᳘ सव्ये᳘न पाणि᳘ना भ᳘वति॥

मूलम् - श्रीधरादि

त᳘मभिनि᳘दधाति᳘॥
(त्या᳘) आ᳘ त्वा व्व᳘सवो रुद्रा᳘ ऽआदित्याः᳘ सदन्त्वि᳘त्येते वै᳘ त्रया᳘ देवा यद्व᳘सवो रुद्रा᳘ ऽआदित्या᳘ ऽएते त्वा᳘सीदन्त्वि᳘त्ये᳘वैत᳘दाहाभिनि᳘हित ऽएव᳘ सव्ये᳘न पाणि᳘ना भ᳘वति॥

मूलम् - Weber

त᳘मभिनि᳘दधाति॥
आ᳘ त्वा व᳘सवो रुद्रा᳘ आदित्याः᳘ सदन्त्वि᳘त्येते वै᳘ त्रया᳘ देवा यद्व᳘सवो रुद्रा᳘ आदित्या᳘ एते त्वा᳘सीदन्त्वि᳘त्येॗवैत᳘दाहाभिनि᳘हित एव᳘ सव्ये᳘न पाणि᳘ना भ᳘वति॥

मूलम् - विस्वरम्

तमभिनिदधाति- “आ त्वा वसवो रुद्रा आदित्याः सदन्तु-” (२ अ. ५ मं.) इति । एते वै त्रया देवाः- यद्वसवो रुद्रा आदित्याः । एते त्वासीदन्त्वित्येवैतदाह । अभिनिहित एव सव्येन पाणिना भवति ॥ १२ ॥

सायणः

स्तीर्णस्य प्रस्तरस्योपरि स्पर्शनं विधत्ते 13- तमभीति “आ त्वा”- इति मन्त्रेण प्रस्तरस्योपरि हस्तं निदध्यादित्यर्थः । मन्त्रव्याख्यानं सुगमम् । जुह्वादीनां सादनपर्यन्तं प्रस्तरस्यान्वारम्भं विधत्ते- अभिनिहित एवेति । सव्यहस्तेन प्रस्तरः ‘अभिनिहितः’ संस्पृष्टः ‘एव’ भवेत् ॥ १२ ॥

Eggeling
  1. He presses it down (with his left hand), with the text (ib.), ‘May the Vasus, the Rudras, the Ādityas sit on thee!’ These three, that is, the Vasus, the Rudras, and the Ādityas, namely, are (classes of) gods; and these, he means to say, are to sit down on it. While it is still being held down with his left hand,–

१३

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ दक्षिणे᳘न जुहूं प्र᳘तिगृह्णाति॥
ने᳘दिह᳘ पुरा नाष्ट्रा र᳘क्षाᳫंस्याविशानि᳘ति ब्राह्मणो हि र᳘क्षसामपहन्ता त᳘स्मादभिनि᳘हित ऽएव᳘ सव्ये᳘न पाणि᳘ना भ᳘वति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ दक्षिणे᳘न जुहूं प्र᳘तिगृह्णाति॥
ने᳘दिह᳘ पुरा नाष्ट्रा र᳘क्षाᳫंस्याविशानि᳘ति ब्राह्मणो हि र᳘क्षसामपहन्ता त᳘स्मादभिनि᳘हित ऽएव᳘ सव्ये᳘न पाणि᳘ना भ᳘वति॥

मूलम् - Weber

अ᳘थ दक्षिणे᳘न जुहूम् प्र᳘तिगृह्णाति॥
ने᳘दिह᳘ पुरा᳘ नाष्ट्रार᳘क्षांस्याविशानि᳘ति ब्राह्मणो हि र᳘क्षसामपहन्ता त᳘स्मादभिनि᳘हित एव᳘ सव्ये᳘न पाणि᳘ना भ᳘वति॥

मूलम् - विस्वरम्

अथ दक्षिणेन जुहूं प्रतिगृह्णाति- नेदिह पुरा नाष्ट्रा रक्षांस्याविशानिति । ब्राह्मणो हि रक्षसामपहन्ता । तस्मादभिनिहित एव सव्येन पाणिना भवति ॥ १३ ॥

सायणः

अथेति । ‘अथ’ अनन्तरमेव ‘दक्षिणेन’ हस्तेन ‘जुहूं’ प्रतिगृह्णीयात् । जुहूसादनपर्यन्तं प्रस्तरविमोको न युक्त इत्यर्थः । तस्य प्रयोजनमाह- नेदिहेति । उक्ताभिप्रायमेतत् ॥ १३ ॥

Eggeling
  1. He seizes the juhū with his right, fearing ’lest the evil spirits, the Rakshas, should enter there in the meantime;’ for the officiating priest (brāhmaṇa) is the repeller of the Rakshas: therefore, while it (the prastara) is still being held down with his left hand,–

१४

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ जुहूं प्र᳘तिगृह्णाति॥
घृता᳘च्यसि जुहूर्नाम्ने᳘ति घृता᳘ची हि᳘ जुहूर्हि ना᳘म्ना᳘ से᳘दं᳘ प्रिये᳘ण धा᳘म्ना प्रियᳫँ᳭ स᳘द ऽआ᳘सीदे᳘ति घृता᳘च्यस्युपभृन्नाम्ने᳘त्युपभृ᳘तं घृता᳘ची᳘ ह्युपभृद्धि ना᳘म्ना᳘ सेदं᳘ प्रिये᳘ण धा᳘म्ना प्रियᳫँ᳭ स᳘द ऽआ᳘सीदे᳘ति घृता᳘च्यसि ध्रुवा नाम्ने᳘ति ध्रुवां᳘ घृता᳘ची हि᳘ ध्रुवा हि ना᳘म्ना᳘ सेदं᳘ प्रिये᳘ण धा᳘म्ना प्रियᳫँ᳭ स᳘द ऽआ᳘सीदे᳘ति प्रिये᳘ण धा᳘म्ना प्रियᳫँ᳭ स᳘द आ᳘सीदे᳘ति य᳘दन्य᳘द्धविः॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ जुहूं प्र᳘तिगृह्णाति॥
घृता᳘च्यसि जुहूर्नाम्ने᳘ति घृता᳘ची हि᳘ जुहूर्हि ना᳘म्ना᳘ से᳘दं᳘ प्रिये᳘ण धा᳘म्ना प्रियᳫँ᳭ स᳘द ऽआ᳘सीदे᳘ति घृता᳘च्यस्युपभृन्नाम्ने᳘त्युपभृ᳘तं घृता᳘ची᳘ ह्युपभृद्धि ना᳘म्ना᳘ सेदं᳘ प्रिये᳘ण धा᳘म्ना प्रियᳫँ᳭ स᳘द ऽआ᳘सीदे᳘ति घृता᳘च्यसि ध्रुवा नाम्ने᳘ति ध्रुवां᳘ घृता᳘ची हि᳘ ध्रुवा हि ना᳘म्ना᳘ सेदं᳘ प्रिये᳘ण धा᳘म्ना प्रियᳫँ᳭ स᳘द ऽआ᳘सीदे᳘ति प्रिये᳘ण धा᳘म्ना प्रियᳫँ᳭ स᳘द आ᳘सीदे᳘ति य᳘दन्य᳘द्धविः॥

मूलम् - Weber

अ᳘थ जुहूम् प्र᳘तिगृह्णाति॥
घृता᳘च्यसि जुहूर्नाम्ने᳘ति घृता᳘चीहि᳘ जुहूर्हि ना᳘म्ना से᳘द᳘म् प्रिये᳘ण धा᳘म्ना प्रियᳫं स᳘द आ᳘सीदे᳘ति घृता᳘च्यस्युपभृन्नाम्ने᳘त्युपभृ᳘तं घृता᳘चीॗ ह्युपभृद्धि नाम्नाॗ सेद᳘म् प्रिये᳘ण धा᳘म्ना प्रियᳫं स᳘द आ᳘सीदे᳘ति घृता᳘च्यसि ध्रुवा नाम्ने᳘ति ध्रुवां᳘ घृता᳘ची हि᳘ ध्रुवा हि ना᳘म्नाॗसेद᳘म् प्रिये᳘ण धा᳘म्ना प्रियᳫं स᳘द आ᳘सीदे᳘ति प्रिये᳘ण धा᳘म्ना प्रियᳫं स᳘द आ᳘सीदे᳘ति य᳘दन्य᳘द्धविः᳟॥

मूलम् - विस्वरम्

अथ जहूं प्रतिगृह्णाति- “घृताच्यसि जुहूर्नाम्ना”- (२ अ. ६ मं.) इति । घृताची हि जुहूर्हि, नाम्ना । “सेदं प्रियेण धाम्ना प्रिय ँ सद आसीद” (२ अ. ६ मं.) इति । “घृताच्यस्युपभृन्नाम्ना”- (२ अ. ६ मं.) इत्युपभृतम् । घृताची हि, उपभृद्धि नाम्ना । “सेदं प्रियेण धाम्ना प्रियँसद आसीद”- (२ अ. ६ मं.) इति । “घृताच्यसि ध्रुवा नाम्ना”- (२ अ. ६ मं.) इति ध्रुवाम् । घृताची हि, धुवा हि नाम्ना । “सेदं प्रियेण धाम्ना प्रियँसद आसीद-” (२ अ. ६ मं.) इति- यदन्यद्धविः ॥ १४ ॥

सायणः

अथ जुह्वाः सादनं विधत्ते- अथ जुहूमिति । जुहूमादायानेन मन्त्रेण प्रस्तरे सादयेन्न तु ग्रहणमात्रम्, मन्त्रस्य सादनलिङ्गत्वात् । अत एवोक्तं कात्यायनेन- “सव्या शून्ये जुहूं प्रतिगृह्य निदघाति, घृताचीति” “एवमितरे उत्तराभ्यां प्रतिमन्त्रम् । बर्हिष्युपभृतं ध्रुवायां चावकृष्टे ऽनुपूर्वम्” इति- (का० श्रौ० सू० २ । २३२-२३३) । घृताची हीति । घृतमञ्चति प्राप्नोतीति ’घृताची’ । घृताचीत्येतत् प्रसिद्धमिति हेरर्थः; ’नाम्ना’ नामधेयेन, एषा स्रुक् ’जुहूर्हि’ न केवलं होमसाधनत्वादित्यभिप्रायः । मन्त्रशेषो निगदसिद्ध इत्यभिप्रेत्यानुवदति- सेदमिति । अथोपभृतः सादनं विधत्ते- घृताच्यस्युपभृन्नाम्नेत्युपभृतमिति । वाक्यशेषः पूर्ववद् योज्यः । ध्रुवायाः सादनं विधत्ते- घृताच्यसि ध्रुवा नाम्नेति ध्रुवामिति । अन्यत् पूर्ववत् । स्रुग्गताज्यव्यतिरिक्तस्य हविषः सादनं विधत्ते- प्रियेणेति । ’यद्’ आज्यात् ’अन्यद्धविः’ पुरोडाशादिकम् । “प्रियेण” इति मन्त्रेण तत् सादयेदिति शेषः ॥ १४ ॥

Eggeling
  1. He seizes the juhū, with the text (Vāj. S. II, 6), ‘Fond of butter art thou, Juhū by name!’ for fond of butter indeed it is, and Juhū by name;–‘Sit down here with the favourite resort 15 (or dainty) on the favourite seat!’ The upabhr̥t (he takes), with the formula (ib.), ‘Fond of butter art thou, Upabhr̥t

by name!’ for fond of butter indeed it is, and Upabhr̥t by name;–‘Sit down here with the favourite resort on the favourite seat!’ The dhruvā (he takes) with ‘Fond of butter art thou, Dhruvā by name!’ for fond of butter indeed it is, and Dhruvā by name;–‘Sit down here with the favourite resort on the favourite seat!’ What other sacrificial food there is, (he puts down on the prastara), with the formula, ‘With the favourite resort sit down on the favourite seat!’

१५

विश्वास-प्रस्तुतिः

स वा᳘ ऽउप᳘रि जुहू᳘ᳫँ᳘ साद᳘यति॥
(त्य) अध ऽइ᳘तराः स्रु᳘चः क्षत्रं वै᳘ जुहूर्व्वि᳘श ऽइ᳘तराः स्रुचः क्ष᳘त्र᳘मे᳘वैत᳘द्विश ऽउ᳘त्तरं करोति त᳘स्मादुपर्या᳘सीनं क्षत्रि᳘यमध᳘स्ता᳘दिमाः᳘ प्रजा ऽउ᳘पासते त᳘स्मादुप᳘रि जुहू᳘ᳫँ᳘ साद᳘यत्यध इ᳘तराः स्रुचः॥

मूलम् - श्रीधरादि

स वा᳘ ऽउप᳘रि जुहू᳘ᳫँ᳘ साद᳘यति॥
(त्य) अध ऽइ᳘तराः स्रु᳘चः क्षत्रं वै᳘ जुहूर्व्वि᳘श ऽइ᳘तराः स्रुचः क्ष᳘त्र᳘मे᳘वैत᳘द्विश ऽउ᳘त्तरं करोति त᳘स्मादुपर्या᳘सीनं क्षत्रि᳘यमध᳘स्ता᳘दिमाः᳘ प्रजा ऽउ᳘पासते त᳘स्मादुप᳘रि जुहू᳘ᳫँ᳘ साद᳘यत्यध इ᳘तराः स्रुचः॥

मूलम् - Weber

स वा᳘ उप᳘रि जुहू᳘ᳫं᳘ साद᳘यति॥
अध इ᳘तराः स्रु᳘चः क्षत्रंवै᳘ जुहूर्वि᳘श इ᳘तराः स्रु᳘चः क्ष᳘त्रमेॗवैत᳘द्विश उ᳘त्तरं करोति त᳘स्मादुपर्या᳘सीनं क्षत्रि᳘यमध᳘स्तादिमाः᳘ प्रजा उ᳘पासते त᳘स्मादुप᳘रिजुहू᳘ᳫं᳘ साद᳘यत्यध इ᳘तराः स्रु᳘चः॥

मूलम् - विस्वरम्

स वा उपरि जुहू ँसादयति, अध इतराः स्रुचः । क्षत्रं वै जुहूः, विश इतराः स्रुचः । क्षत्रमेवैतत्-विश उत्तरं करोति । तस्मादुपर्यासीनं क्षत्रियमधस्तादिमाः प्रजा उपासते । तस्मादुपरि जुहूं सादयति, अंध इतराः स्रुचः ॥ १५ ॥

सायणः

जुह्वादीनां सादने विशेषमाह- स वा इति । प्रस्तरस्योपरि जुहूमेव सादयेत् । तस्याधस्ताद् बर्हिषि ’इतराः’ उपभृदाद्याः ’स्रुचः’ सादयेदित्यर्थः । अत एवोक्तं सूत्रकृता- " बर्हिष्युपभृतं ध्रुवायां च” (श्रौ० सू० २. २३३) इति । तदेतदुपर्यधःसादनमुपपादयति- क्षत्रं वा इति । स्वातन्त्र्येण होमसाधनत्वाद्- जुहूः क्षत्रियजातिः । उपभृदादीनां तु जुहूवद्धोमे स्वातन्त्र्याभावात्, प्रत्युत तत्स्थस्याज्यस्य जुह्वामानेयत्वात् ता वैश्यजातिस्थानीयाः । निगदसिद्धः शेषः ॥ १५ ॥

Eggeling
  1. He lays the juhū down on (the prastara), and the other spoons down below, (viz. on the barhis, north of the juhū, and so as not to touch it or one another); for the juhū assuredly is the kshatra, and the other spoons (sruc) are the viś: he thereby makes the kshatra superior to the viś. Hence the people here serve, from a lower position, the Kshatriya seated above them: for this reason he places the juhū upon (the prastara) and the other spoons down below it.

१६

विश्वास-प्रस्तुतिः

सो ऽभि᳘मृशति॥
ध्रुवा᳘ ऽअसदन्नि᳘ति ध्रुवा ह्यसदन्नृत᳘स्य यो᳘नावि᳘ति यज्ञो वा᳘ ऽऋत᳘स्य यो᳘निर्यज्ञे ह्यसदंस्ता᳘ व्विष्णो पाहि पाहि᳘ यज्ञं᳘ पाहि᳘ यज्ञ᳘पतिमि᳘ति तद्य᳘जमानमाह पाहि मां᳘ यज्ञन्य᳘मि᳘ति तद᳘प्यात्मा᳘नं यज्ञा᳘न्नान्त᳘रेति यज्ञो वै व्वि᳘ष्णोस्त᳘द्यज्ञा᳘यै᳘वैतत्स᳘र्व्वं प᳘रिददाति गु᳘प्त्यै त᳘स्मादाह ता᳘ व्विष्णो पाही᳘ति॥

मूलम् - श्रीधरादि

सो ऽभि᳘मृशति॥
ध्रुवा᳘ ऽअसदन्नि᳘ति ध्रुवा ह्यसदन्नृत᳘स्य यो᳘नावि᳘ति यज्ञो वा᳘ ऽऋत᳘स्य यो᳘निर्यज्ञे ह्यसदंस्ता᳘ व्विष्णो पाहि पाहि᳘ यज्ञं᳘ पाहि᳘ यज्ञ᳘पतिमि᳘ति तद्य᳘जमानमाह पाहि मां᳘ यज्ञन्य᳘मि᳘ति तद᳘प्यात्मा᳘नं यज्ञा᳘न्नान्त᳘रेति यज्ञो वै व्वि᳘ष्णोस्त᳘द्यज्ञा᳘यै᳘वैतत्स᳘र्व्वं प᳘रिददाति गु᳘प्त्यै त᳘स्मादाह ता᳘ व्विष्णो पाही᳘ति॥

मूलम् - Weber

सो ऽभि᳘मृशति॥
ध्रुवा᳘ असदन्नि᳘ति ध्रुवा ह्य᳘सदन्नृत᳘स्य यो᳘नावि᳘ति यज्ञो वा᳘ ऋत᳘स्य यो᳘निर्यज्ञे ह्य᳘सदंस्ता᳘ विष्णो पाहि पाहि᳘ यज्ञ᳘म् पाहि᳘ यज्ञ᳘पतिमि᳘ति तद्य᳘जमानमाह पाहि मां᳘ यज्ञन्य᳘मि᳘ति तद᳘प्यात्मा᳘नं यज्ञाॗन्नान्त᳘रेति यज्ञो वै वि᳘ष्णोस्त᳘द्यज्ञा᳘यैॗवैतत्स᳘र्वम् प᳘रिददाति गु᳘प्त्यै त᳘स्मादाह ता᳘ विष्णो पाही᳘ति॥

मूलम् - विस्वरम्

सो ऽभिमृशति- “ध्रुवा असदन्”- (२ अ. ६ मं.) इति । ध्रुवा ह्यसदन् । “ऋतस्य योनौ”- (२ अ. ६ मं.) इति । यज्ञो वा ऋतस्य योनिः, यज्ञे ह्यसदन् । “ता विष्णो पाहि, पाहि यज्ञं, पाहि यज्ञपतिम्”- (२अ. ६मं.) इति । तद्यजमानमाह । “पाहि माँ यज्ञन्यम्”- (२. अ. ६. मं.) इति । तदप्यात्मानं यज्ञान्नान्तरेति । यज्ञो वै विष्णुः, तद्यज्ञायैवैतत्सर्वं परिददाति गुप्त्यै । तस्मादाह- ता विष्णो पाहीति ॥ १६ ॥

सायणः

समन्त्रकमासन्नानां हविषामभिमर्शनं विधत्ते 16- सो ऽभिमृशतीति । मन्त्रप्रतीकस्यार्थः प्रसिद्ध इति ‘हि’- शब्देन व्याचष्टे- ध्रुवा हीति । कर्म्मसमाप्तिपर्यन्तं नैश्चल्येन वेद्यां जुह्वाद्या उपसन्ना इत्यर्थः । “ऋतस्य योनौ”- इत्यस्य विवक्षितमर्थमाह- यज्ञो वा इति । ’ऋत’ शब्दः सत्यशब्दपर्यायः । सत्यफलकारणत्वात्, ऋतस्य योनिः ‘यज्ञः’ । तादृगर्थपरत्वं युज्यत इत्याह- यज्ञे हीति । ‘यज्ञे’ खल्वेता जुह्वाद्याः ’असदन्’ आसादिताः स्थापिताः, अतः “ऋतस्य योनौ”- इत्यनेन यज्ञप्रतिपादनं युक्तमित्यर्थः । मन्त्रशेषमनूद्य व्याचष्टे 17- ता विष्णो इति । फलभोक्तृतया स्वामित्वाद् यज्ञपतिशब्देन यजमानो विवक्षित इत्याह- तद्यजमानमिति । यज्ञं नयति निष्पादयतीति ’यज्ञनीः’ अध्वर्युः । अतो यज्ञन्यमिति पदस्याध्वर्युपरतां व्याचष्टे 18- तदप्यात्मानमिति । ‘तत्’ येन ’यज्ञन्यमिति’ अनेनाध्वर्युः स्वात्मानं यज्ञसकाशात् ’नान्तरेति’ अन्तरितं वियुक्तं न करोति । सिद्धप्रायमन्यत् ॥ १६ ॥ १ ॥ (२.४.)

इति श्रीसायणार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनशतपथभाष्ये तृतीयाध्याये चतुर्थं ब्राह्मणम् ॥

Eggeling
  1. He touches the offerings, with the text (Vāj. S. II, 6), ‘Safely they have sat down,’ for safely indeed they sat down;–‘in the lap (yoni) of divine truth!’ for the sacrifice is indeed the lap of divine truth, and in the sacrifice they sat down;–‘Protect these, O Vishṇu! protect the sacrifice! protect the lord of sacrifice!’ thereby he refers to the sacrificer;–‘Protect me, the leader of the sacrifice!’ thereby he does not exclude himself either from the sacrifice. Vishṇu, assuredly, is the sacrifice: hence it is to the sacrifice that he makes all that over for protection. This is the reason why he says, ‘Protect these, O Vishṇu!’

  1. काण्वसंहितायामिति ज्ञेयम् । ↩︎

  2. 90:2 The genius Viśvāvasu is already mentioned in Rig-veda X, 85, 21 seq., and X, 139, 4, where Grassmann identifies him with the rainbow (cf. Roth, Nirukta notes, p. 245). See also Śat. Br. III, 2, 4, 2; XIV, 9, 4, 18. ↩︎

  3. “प्रथमं परिधि ँ समिधोपस्पृश्य वीतिहोत्रमित्यादधाति” का. श्रौ. सू. २ । २२२ । ↩︎

  4. “चतुरचतुरः प्राजापत्यायाः” इति पि. छं. सू. ३ । ११ । ↩︎ ↩︎

  5. 91:1 According to Sāyaṇa, the two sticks or pieces of wood are put on the fire in a manner similar to that in which the two āghāras or sprinklings of clarified butter are made (see I, 4, 4-5); viz. the first in the direction north-west to south-east, and the second from south-west to north-east. ↩︎

  6. 91:2 The gāyatrī is the first of the three principal metres, cf. p. 80, note 3. It consists of three octo-syllabic pādas, of which Rig-veda I, 164, 25 says,–‘The gāyatra, they say, has three flames (or firebrands, samidh): therefore it excelled in grandeur and power.’ ↩︎

  7. “अनुपस्पृश्य द्वितीया ँ समिदसीति” का. श्रौ. सू. २ । २२३ । ↩︎ ↩︎

  8. (तै. सं. २ । ६ । ९ । १) । ↩︎ ↩︎

  9. 92:1 See I, 8, 2, 3. ↩︎

  10. अत्र “उपावृत्य च बर्हिषः सकाशाद् द्वे तृणे आदाये” तीये सायणाचार्योक्तिः कातीयसूत्रभाष्यविरोधिन्येव । तथा च सूत्रं “अन्ये वायुक्तत्वात्” २ । २२६ । अत्र कर्कः- “अन्ये वा तृणे उपादाय न वेदिसम्बन्धिनी । कुत एतत् । अयुक्तत्वादन्येषामितरेषां च बर्हिस्तृणानां वेदिस्तरणे विनियुक्तत्वात् । न च विनियुक्तं वचनमन्तरेणार्थान्तरे विनियोगमर्हतीत्येवमादिः- तस्मादप्रकृते तृणे-आदाय वेद्यां निदधातीति सूत्रार्थः” इत्येवमन्तः इति । ↩︎

  11. ‘भ्रूसंस्थिते’ इति पा. । ↩︎

  12. 92:2 Bāhū, ’the two arms,’ is apparently taken here by our author both in its natural sense and as the arms of the bow or arch, formed by the eye-brows. The barhis, or grass covering of the altar, was, as we saw (I, 3, 3, 7), identified with the beard and other hair of the body. ↩︎

  13. “तयोः प्रस्तर ँ स्तृणात्यूर्णम्रदसमिति” का. श्रौ. सू. २ । २३० । ↩︎ ↩︎

  14. १ कां. २ प्र. ६ ब्रा. १ कं. इत्यत्र द्रष्टव्यम् । ↩︎

  15. 93:1 Viz. the butter, which is the dear resort, or home, of the gods; see I, 3, 2, 17. Possibly, however, dhāman may here mean ‘dainty.’ ↩︎

  16. “प्रियेण धाम्नेति हवीँषि वेद्यां कृत्वा ध्रुवा असदन्निति सर्वाण्यालभते” का. श्रौ. सू. २ । २३९ । ↩︎

  17. ’मन्त्रगतध्रुवाशब्दस्यार्थः’ इति पा० । ↩︎

  18. “पाहि मामित्यात्मानम्” का. श्रौ. सू. २ । २४० । ↩︎