०१
विश्वास-प्रस्तुतिः
प्रो᳘क्षणीरध्वर्युरा᳘दत्ते॥
स᳘ ऽइध्म᳘मेवा᳘ग्रे प्रो᳘क्षति कृ᳘ष्णो ऽस्याखरे᳘ष्ठो ऽग्नये त्वा जु᳘ष्टं प्रो᳘क्षामी᳘ति तन्मे᳘ध्यमे᳘वैत᳘दग्न᳘ये करोति॥
मूलम् - श्रीधरादि
प्रो᳘क्षणीरध्वर्युरा᳘दत्ते॥
स᳘ ऽइध्म᳘मेवा᳘ग्रे प्रो᳘क्षति कृ᳘ष्णो ऽस्याखरे᳘ष्ठो ऽग्नये त्वा जु᳘ष्टं प्रो᳘क्षामी᳘ति तन्मे᳘ध्यमे᳘वैत᳘दग्न᳘ये करोति॥
मूलम् - Weber
प्रो᳘क्षणीरध्वर्युरा᳘दत्ते॥
स᳘ इध्म᳘मेवा᳘ग्रे प्रो᳘क्षति कृ᳘ष्णो ऽस्याखरेॗष्ठो ऽग्नये त्वा जु᳘ष्टम् प्रो᳘क्षामी᳘ति तन्मे᳘ध्यमेवै᳘त᳘दग्न᳘ये करोति॥
मूलम् - विस्वरम्
इध्माबर्हिषोः प्रोक्षणस्तरणपूर्वकं परिधिपरिधानम् ।
प्रोक्षणीरध्वर्युरादत्ते । स इध्ममेवाग्रे प्रोक्षति- “कृष्णो ऽस्याखरेष्ठो ऽग्नये त्वा जुष्टं प्रोक्षामि”- (२ अ. १ मं.) इति । तन्मेध्यमेवैतदग्नये करोति ॥ १ ॥
सायणः
अथेध्मादीनां 1 प्रोक्षणं विधत्ते- प्रोक्षणीरध्वर्युरादत्त इत्यादिना । अग्नये करोतीति । अग्नौ हीध्म आधास्यते, अतो ऽग्न्यर्थं प्रोक्षणेनेध्मं मेध्यं कृतवान् भवतीत्यर्थः ॥ १ ॥
Eggeling
- The Adhvaryu takes the sprinkling-water, and sprinkles in the first place the fire-wood 2, with the
text (Vāj. S. II, 1), ‘A black deer, living in the den, art thou 3; I sprinkle thee, agreeable to Agni!’ He thereby makes it sacrificially pure for Agni.
०२
विश्वास-प्रस्तुतिः
अ᳘थ व्वे᳘दिं प्रो᳘क्षति॥
व्वे᳘दिरसि बर्हि᳘षे त्वा जु᳘ष्टां प्रो᳘क्षामीति तन्मे᳘ध्यामे᳘वैत᳘द्बर्हि᳘षे करोति॥
मूलम् - श्रीधरादि
अ᳘थ व्वे᳘दिं प्रो᳘क्षति॥
व्वे᳘दिरसि बर्हि᳘षे त्वा जु᳘ष्टां प्रो᳘क्षामीति तन्मे᳘ध्यामे᳘वैत᳘द्बर्हि᳘षे करोति॥
मूलम् - Weber
अ᳘थ वे᳘दिम् प्रो᳘क्षति॥
वे᳘दिरसि बर्हि᳘षे त्वा जु᳘ष्टाम् प्रो᳘क्षामि तन्मेध्यामेॗवैत᳘द्बर्हि᳘षे करोति॥
मूलम् - विस्वरम्
अथ वेदिं प्रोक्षति- “वेदिरसि बर्हिषे त्वा जुष्टां प्रोक्षामि”- (२ अ. १ मं.) इति । तन्मेध्यामेवैतद् बर्हिषे करोति ॥ २ ॥
सायणः
अथ वेदिमिति । बर्हिषे करोतीति । ‘बर्हिषे त्वा’- इति मन्त्रलिङ्गात् स्तरिष्यमाणबर्हिरर्थं वेदिं शुद्धां करोति । प्रोक्षणेन बर्हिस्तरणयोग्यतां वेदेरापादयतीत्यर्थः ॥ २ ॥
Eggeling
- He then sprinkles he altar, with the text (Vāj. S. II, 1), ‘Thou art the altar; I sprinkle thee, agreeable to the barhis (sacrificial-grass covering)!’ He thereby makes it sacrificially pure for the grass covering.
०३
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थास्मै बर्हिः प्र᳘यछति॥
त᳘त्पुर᳘स्ताद्ग्रन्थ्या᳘सादयति तत्प्रो᳘क्षति बर्हि᳘रसि स्रुग्भ्य᳘स्त्वा जु᳘ष्टं प्रो᳘क्षामी᳘ति तन्मे᳘ध्यमे᳘वैत᳘त्स्रुग्भ्यः᳘ करोति॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थास्मै बर्हिः प्र᳘यछति॥
त᳘त्पुर᳘स्ताद्ग्रन्थ्या᳘सादयति तत्प्रो᳘क्षति बर्हि᳘रसि स्रुग्भ्य᳘स्त्वा जु᳘ष्टं प्रो᳘क्षामी᳘ति तन्मे᳘ध्यमे᳘वैत᳘त्स्रुग्भ्यः᳘ करोति॥
मूलम् - Weber
अ᳘थास्मै बर्हिः प्र᳘यछति 4 ॥
त᳘त्पुर᳘स्ताद्ग्रन्थ्या᳘सादयति तत्प्रो᳘क्षति बर्हि᳘रसि स्रुग्भ्य᳘स्त्वा जु᳘ष्टम् प्रो᳘क्षामि तन्मे᳘ध्यमेॗवैत᳘त्स्रुग्भ्यः᳘ करोति॥
मूलम् - विस्वरम्
अथास्मै बर्हिः प्रयच्छति । तत्पुरस्ताद्ग्रन्थ्यासादयति । तत् प्रोक्षति- “बर्हिरसि स्रुग्भ्यस्त्वा जुष्टं प्रोक्षामि”- (२ अ. १ मं.) इति तन्मेध्यमेवैतत् स्रुग्भ्यः करोति ॥ ३ ॥
सायणः
अथेति । पुरस्ताद्ग्रन्थीति ‘पुरस्तात्’ पूर्वभागे सन्नहनरज्जोर्ग्रन्थिर्यथा भवति तथा ऽऽसादयतीत्यर्थः । स्रुग्भ्यः करोतीति । बर्हिष उपरि स्रुचामासाद्यमानत्वात् तद्योग्यतामेतन्मन्त्रकरणकेन प्रोक्षणेन बर्हिषः 1 संपादयतीत्यर्थः ॥ ३ ॥
Eggeling
- He (the Āgnīdhra) then hands the sacrificial grass 5 to him (the Adhvaryu). The latter puts it down (on the altar) with the knot turned to the east, and sprinkles it, with the text (Vāj. S. II, I), ‘Barhis art thou! I sprinkle thee, agreeable to the spoons!’ He thereby makes it sacrificially pure for the spoons.
०४
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ याः प्रो᳘क्षण्यः परिशिष्य᳘न्ते॥
ता᳘भिरो᳘षधीनां मू᳘लान्युपनि᳘नयत्य᳘दित्यै व्यु᳘न्दनमसी᳘तीयं वै᳘ पृथिव्य᳘दितिस्त᳘दस्या᳘ ऽएवै᳘तदो᳘षधीनां मू᳘लान्यु᳘पोनत्ति ता᳘ ऽइमा᳘ ऽआर्द्र᳘मूला ऽओ᳘षधयस्त᳘स्माद्यद्य᳘पि शु᳘ष्काण्य᳘ग्राणि भ᳘वन्त्यार्द्रा᳘ण्येव मू᳘लानि भवन्ति॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ याः प्रो᳘क्षण्यः परिशिष्य᳘न्ते॥
ता᳘भिरो᳘षधीनां मू᳘लान्युपनि᳘नयत्य᳘दित्यै व्यु᳘न्दनमसी᳘तीयं वै᳘ पृथिव्य᳘दितिस्त᳘दस्या᳘ ऽएवै᳘तदो᳘षधीनां मू᳘लान्यु᳘पोनत्ति ता᳘ ऽइमा᳘ ऽआर्द्र᳘मूला ऽओ᳘षधयस्त᳘स्माद्यद्य᳘पि शु᳘ष्काण्य᳘ग्राणि भ᳘वन्त्यार्द्रा᳘ण्येव मू᳘लानि भवन्ति॥
मूलम् - Weber
अ᳘थ याः प्रो᳘क्षण्यः परिशिष्य᳘न्ते॥
ता᳘भिरो᳘षधीनाम् मू᳘लान्युपनि᳘नयत्य᳘दित्यै व्यु᳘न्दनमसी᳘तीयं वै᳘ पृथिव्य᳘दितिस्त᳘दस्या᳘ एवै᳘तदो᳘षधीनाम् मू᳘लान्यु᳘पोनत्ति ता᳘ इमा᳘ आर्द्र᳘मूला ओ᳘षधयस्त᳘स्माद्यद्य᳘पि शु᳘ष्काण्य᳘ग्राणि भ᳘वन्त्यार्द्रा᳘ण्येव मू᳘लानि भवन्ति॥
मूलम् - विस्वरम्
अथ याः प्रोक्षण्यः परिशिष्यन्ते, ताभिरोषधीनां मूलान्युपनिनयति- “अदित्यै व्युन्दममसि”- (२ अ. २. मं.) इति । इयं वै पृथिवी- अदितिः, तदस्या एवैतदोषधीनां मूलान्युपोनत्ति । ता इमा आर्द्रमूला ओषधयः । तस्माद्यद्यपि शुष्काण्यग्राणि भवन्ति- आर्द्राण्येव मूलानि भवन्ति ॥ ४॥
सायणः
अवशिष्टानां प्रोक्षणीनां 1 विनियोगमाह- अथेति । ओषधीनामिति । स्तरणार्थमादृतबर्हिर्लक्षणानामोषधीनामित्यर्थः । सूत्रितं हि कात्यायनेन- शेषं मूलेषूपसिञ्चत्यदित्यै व्युन्दनमिति (श्रौ.सू. २. २१०) । मन्त्रस्य प्रयोजनमाह- इय वा इति । पृथिव्याः संबन्धिन्यो या व्रीहियवाद्या ओषधयः, तासामेव मूलानि- आर्द्रीकरोति । “उन्दी क्लेदने” (रु. प. २) इति धातुः । अनेनोदकेन ता इमा ओषधयः आर्द्रमूला भवन्ति; यस्मादेवं तस्मादेव कारणादोषधीनामग्रभागेषु शुष्केष्वपि मूलभागा आर्द्रतयैव दृश्यन्त इत्यर्थः ॥ ४ ॥
Eggeling
- Thereupon he pours the sprinkling-water
which is left on the roots of the (grass) plants, with the text (Vāj. S. II, 2), ‘A moistening art thou for Aditi!’ Aditi, indeed, is this earth; hence it is for the latter that he thus moistens the roots of the plants: thereby these plants become root-moistened; and even if their tops are dry, their roots at least remain moist.
०५
विश्वास-प्रस्तुतिः
(न्त्य᳘) अ᳘थ व्विस्रं᳘ᳫं᳘स्य ग्रन्थि᳘म्॥
(म्पु) पुर᳘स्तात्प्रस्तरं᳘ गृह्णाति व्वि᳘ष्णोस्तु᳘पो ऽसीति यज्ञो वै व्वि᳘ष्णुस्त᳘स्येय᳘मेव शि᳘खा स्तुप᳘ ऽएता᳘मेवा᳘स्मिन्नेत᳘द्दधाति पुर᳘स्ताद्गृह्णाति। पुर᳘स्ता᳘द्ध्यय᳘ᳫँ᳘ स्तुपस्त᳘स्मात्पुरस्ताद्गृह्णाति॥
मूलम् - श्रीधरादि
(न्त्य᳘) अ᳘थ व्विस्रं᳘ᳫं᳘स्य ग्रन्थि᳘म्॥
(म्पु) पुर᳘स्तात्प्रस्तरं᳘ गृह्णाति व्वि᳘ष्णोस्तु᳘पो ऽसीति यज्ञो वै व्वि᳘ष्णुस्त᳘स्येय᳘मेव शि᳘खा स्तुप᳘ ऽएता᳘मेवा᳘स्मिन्नेत᳘द्दधाति पुर᳘स्ताद्गृह्णाति। पुर᳘स्ता᳘द्ध्यय᳘ᳫँ᳘ स्तुपस्त᳘स्मात्पुरस्ताद्गृह्णाति॥
मूलम् - Weber
अ᳘थ विस्र᳘ᳫं᳘स्य ग्रन्थि᳘म्॥
पुर᳘स्तात्प्रस्तरं᳘ गृह्णाति वि᳘ष्णो स्तुॗपो ऽसीति यज्ञो वै वि᳘ष्णुस्त᳘स्येय᳘मेव शि᳘खा स्तुप᳘ एता᳘मेवा᳘स्मिन्नेत᳘द्दधाति पुर᳘स्ताद्गृह्णाति पुर᳘स्ताद्ध्य᳘यᳫं स्तुपस्त᳘स्मात्पुर᳘स्ताद्गृह्णाति॥
मूलम् - विस्वरम्
अथ विस्रंस्य ग्रन्थिं पुरस्तात् प्रस्तरं गृह्णाति- “विष्णोस्तुपो ऽसि” (२ अ. २ मं.) इति । यज्ञो वै विष्णुः, तस्येयमेव शिखा स्तुपः । एतामेवास्मिन्नेतद्दधाति । पुरस्ताद् गृह्णाति । पुरस्ताद्ध्ययं स्तुपः, तस्मात् पुरस्ताद् गृह्णाति ॥ ५ ॥
सायणः
प्रस्तरस्य 6 ग्रहणं विधत्ते 7- अथेति । बर्हिःसन्नहनरज्जोर्ग्रन्थिं विमुच्य ‘पुरस्तात्’ पूर्वदिग्भागे करोति । “विष्णोः’- इति मन्त्रेण प्रस्तरं गृह्णीयात् । मन्त्रस्य प्रयोजनमाह- यज्ञो वा इति । आवहनीयसाध्यस्य यज्ञात्मकस्य ‘विष्णोः’ प्रस्तरमुष्टिरेव शिखारूपः ‘स्तुपः’ केशसंघातः । आहवनीयनिकटे तद्ग्रहणाच्छिखामेव तस्मिन् स्थापितवान् भवतीत्यर्थः । पुरस्ताद् ग्रहणमनूद्य प्रशंसति- पुरस्तादिति । ‘अयं’ पिण्डीभावेन बद्धो मानुषः ‘स्तुपः’ केशसङ्घातः शिरसः पूर्वभागे हि भवति; अतो यज्ञस्यापि पूर्वभागे स्तुपधारणाय पुरस्ताद् ग्रहणं युज्यत इत्यर्थः ॥ ५ ॥
Eggeling
- Having thereupon untied the knot, he takes the prastara bunch from the front (of the barhis), with the text (Vāj. S. II, 2), ‘Vishṇu’s crest art thou!’ Vishṇu, namely, is the sacrifice, and this (the prastara) is his top-knot or crest: this he thereby makes it at this sacrifice 8. From the front he takes it, because this top-knot also is (worn) on the front (of the head): for this reason he takes it from the front.
०६
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ सन्न᳘हनं व्वि᳘स्रᳫँ᳘ सयति॥
प्र᳘कॢप्तᳫँ᳘ है᳘वास्य स्त्री व्वि᳘जायत ऽइ᳘ति त᳘स्मात्सन्न᳘हनं व्वि᳘स्रᳫँ᳭ सयति तद्द᳘क्षिणायाᳫँ श्रो᳘णौ नि᳘दधाति नीवि᳘र्है᳘वास्यैषा᳘ दक्षिणत᳘ ऽइव᳘ हीयं᳘ नीविस्त᳘स्माद्द᳘क्षिणायाᳫं श्रो᳘णौ नि᳘दधाति तत्पु᳘नरभि᳘च्छादयत्यभि᳘च्छन्नेव᳘ हीयं᳘ नीविस्त᳘स्मात्पु᳘नरभि᳘च्छादयति॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ सन्न᳘हनं व्वि᳘स्रᳫँ᳘ सयति॥
प्र᳘कॢप्तᳫँ᳘ है᳘वास्य स्त्री व्वि᳘जायत ऽइ᳘ति त᳘स्मात्सन्न᳘हनं व्वि᳘स्रᳫँ᳭ सयति तद्द᳘क्षिणायाᳫँ श्रो᳘णौ नि᳘दधाति नीवि᳘र्है᳘वास्यैषा᳘ दक्षिणत᳘ ऽइव᳘ हीयं᳘ नीविस्त᳘स्माद्द᳘क्षिणायाᳫं श्रो᳘णौ नि᳘दधाति तत्पु᳘नरभि᳘च्छादयत्यभि᳘च्छन्नेव᳘ हीयं᳘ नीविस्त᳘स्मात्पु᳘नरभि᳘च्छादयति॥
मूलम् - Weber
अ᳘थ संन᳘हनं वि᳘स्रᳫसयति॥
प्र᳘कॢप्तᳫं हैॗवास्य स्त्री वि᳘जायत इ᳘ति त᳘स्मात्संन᳘हनं वि᳘स्रंसयति तद्द᳘क्षिणायां श्रो᳘णौ नि᳘दधाति नीवि᳘र्हैॗवास्यैषा᳘ दक्षिणत᳘ इवॗ हीयं᳘ नीविस्त᳘स्माद्द᳘क्षिणायां श्रो᳘णौ नि᳘दधाति तत्पु᳘नरभि᳘छादयत्यभि᳘छन्नेवॗ हीयं᳘ नीविस्त᳘स्मात्पु᳘नरभि᳘छादयति॥
मूलम् - विस्वरम्
अथ सन्नहनं विस्रंसयति । प्रक्लृप्तं हैवास्य स्त्री विजायत इति । तस्मात् सन्नहनं विस्रंसयति । तद्दक्षिणायां श्रोणौ निदधाति । नीविर्हैवास्यैषा । दक्षिणत इव हीयं नीविः । तस्माद्दक्षिणायां श्रोणौ निदधाति । तत्पुनरभिच्छादयति । अभिच्छन्नेव हीयं नीविः । तस्मात्पुनरभिच्छादयति ॥ ६ ॥
सायणः
सन्नहनरज्जोर्विस्रंसनं विधाय 6 प्रशंसति- अथेति । सन्नहनस्य विस्रंसने सति ‘अस्य’ यजमानस्य स्त्री ‘प्रक्लृप्तं’ प्रकर्षेण क्लृप्तं दशमाससंपूर्णावयवमपत्यं ‘विजायते’ प्रसूयते । ‘इति’- शब्दो हेतौ । यस्मादेवं तस्मादित्यर्थः । तस्याः सन्नहनरज्जोर्देशविशेषे स्थापनं विधत्ते 7- तदिति । नीविर्हैवेति । ‘अस्य’ यजमानस्य ‘एषा’ रज्जूर्नीविरेव भवतीत्यर्थः । नीविरूपत्वं दृष्टान्तेनोपपादयति- दक्षिणत इवेति । लोके हि वाससः परिधाने दक्षिणपार्श्व एव हि नीविः परिकल्प्यते, तस्माद् दक्षिणश्रोणौ सन्नहनरज्जुनिधानं नीविपरिकल्पनमेव भवतीत्यर्थः । सन्नहनस्योपरि दर्भान्तरैश्छादनं विधत्ते 9- तत्पुनरिति । तदुपपादयति- अभिच्छन्नेवेति । उपरि वाससा ‘छन्नेव’ आवृतेव हि लौकिकी नीविर्भवति, तस्मादभिच्छादनं कार्यमित्यर्थः ॥ ६ ॥
Eggeling
- He then undoes the band (of the barhis). ‘His (the sacrificer’s) wife is sure to bring forth without difficulty 10,’ thinking thus he undoes the band. He puts it down on the right hip (of the altar); for this represents his (the sacrificer’s) waist-band, and it is on the right side that the waist-band is (tied): this is the reason why he puts it down on the right hip. He again covers it over (with sacrificial grass); for the waist-band also is covered (by the upper garment): for this reason he again covers it.
०७
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ बर्हि᳘ स्तृणाति॥
(त्य) अयं वै᳘ स्तुपः᳘ प्रस्तरो᳘ ऽथ यान्य᳘वाञ्चि लो᳘मानि ता᳘न्ये᳘वास्य यदि᳘तरं बर्हिस्ता᳘न्ये᳘वास्मिन्नेत᳘द्दधाति त᳘स्माद्बर्हि᳘ स्तृणाति॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ बर्हि᳘ स्तृणाति॥
(त्य) अयं वै᳘ स्तुपः᳘ प्रस्तरो᳘ ऽथ यान्य᳘वाञ्चि लो᳘मानि ता᳘न्ये᳘वास्य यदि᳘तरं बर्हिस्ता᳘न्ये᳘वास्मिन्नेत᳘द्दधाति त᳘स्माद्बर्हि᳘ स्तृणाति॥
मूलम् - Weber
अ᳘थ बर्हि᳘ स्तृणाति॥
अयं वै᳘ स्तुपः᳘ प्रस्तरो᳘ ऽथ यान्य᳘वाञ्चि लो᳘मानि ता᳘न्येॗवास्य यदि᳘तरम् बर्हिस्ता᳘न्येॗवास्मिन्नेत᳘द्दधाति त᳘स्माद्बर्हि᳘ स्तृणाति॥
मूलम् - विस्वरम्
अथ बर्हिस्तृणाति । अयं वै स्तुपः प्रस्तरः । अथ यान्यवाञ्चि लोमानि, तान्येवास्य; यदितरं बर्हिः; तान्येवास्मिन्नेतद्दधाति । तस्माद् बर्हिस्तृणाति ॥ ७ ॥
सायणः
बर्हिषः स्तरणं विधत्ते 11- अथेति । ‘स्तृणातीति’ वेदिं छादयतीत्यर्थः; तत् स्तरणं प्रशंसति- अयं वा इति । यः ‘अयं’ प्रस्तरः स ऊर्ध्वबद्धकेशसंघातात्मकः स्तुपः; अथ तद्व्यतिरिक्तानि श्मश्रुप्रभृतीनि यान्यवाङ्मुखानि लोमानि, -स्तीर्यमाणेन बर्हिषा ‘अस्य’ यज्ञस्य तान्येव सम्पाद्यन्त इत्यर्थः ॥ ७ ॥
Eggeling
- He now spreads the barhis (on the altar). For the prastara is the top-knot; and this other
sacrificial grass is for this (sacrifice) what other hair there is below that (top-knot, viz. the beard, &c.):–that (hair) he thereby puts on it, and for this reason he spreads the barhis.
०८
विश्वास-प्रस्तुतिः
यो᳘षा वै व्वे᳘दिः॥
(स्ता᳘) ता᳘मेत᳘द्देवा᳘श्च पर्या᳘सते ये᳘ चेमे᳘ ब्राह्मणाः᳘ शुश्रुवा᳘ᳫँ᳘सो ऽनूचानास्ते᳘ष्वे᳘वैनामेत᳘त्पर्या᳘सीनेष्व᳘नग्नां करोत्यनग्न᳘ताया ऽएव त᳘स्माद्बर्हि᳘ स्तृणाति॥
मूलम् - श्रीधरादि
यो᳘षा वै व्वे᳘दिः॥
(स्ता᳘) ता᳘मेत᳘द्देवा᳘श्च पर्या᳘सते ये᳘ चेमे᳘ ब्राह्मणाः᳘ शुश्रुवा᳘ᳫँ᳘सो ऽनूचानास्ते᳘ष्वे᳘वैनामेत᳘त्पर्या᳘सीनेष्व᳘नग्नां करोत्यनग्न᳘ताया ऽएव त᳘स्माद्बर्हि᳘ स्तृणाति॥
मूलम् - Weber
यो᳘षा वै वे᳘दिः॥
ता᳘मेत᳘द्देवा᳘श्च पर्या᳘सते ये᳘ चेमे᳘ ब्राह्मणाः᳘ शुश्रुवा᳘ᳫं᳘सो ऽनूचानास्ते᳘ष्वेॗवैनामेत᳘त्पर्या᳘सीनेष्व᳘नग्नां करोत्यनग्न᳘ताया एव त᳘स्माद्बर्हि᳘ स्तृणाति॥
मूलम् - विस्वरम्
योषा वै वेदिः । तामेतद्देवाश्च पर्यासते, ये चेमे ब्राह्मणाः शुश्रुवांसो ऽनूचानाः । तेष्वेवैनामेतत् पर्यासीनेष्वनग्नां करोति- अनग्नताया एव । तस्माद्बर्हिस्तृणाति ॥ ८ ॥
सायणः
योषा वा इत्यादि । हविर्ग्रहणायागत्य ये देवा वेदेरुपरित उपविशन्ति, ये च ‘शुश्रुवांसः’ प्रयोगाभिज्ञानाः ‘अनूचानाः’ अनुष्ठातृरूपा ऋत्विग्रूपा ब्राह्मणाः समीपे वर्त्तन्ते; स्त्रीरूपा इयं वेदिः स्वयमत्रानावृता सती तेभ्यो लज्जाविशिष्टा भवति; अतस्तस्या बर्हिषाच्छादनमनग्नतायै सम्पद्यत इत्यर्थः ॥ ८ ॥
Eggeling
- Now the altar (vedi, fem.) is a woman, and around her sit the gods and those priests who have studied and teach revealed lore 12; and as they thus sit around her, he makes her not naked: hence it is in order to avoid nudity (on her or the altar’s part) that he spreads the barhis.
०९
विश्वास-प्रस्तुतिः
या᳘वती वै व्वे᳘दिः॥
(स्ता᳘) ता᳘वती पृथिव्यो᳘षधयो बर्हिस्त᳘दस्या᳘मे᳘वैत᳘त्पृथिव्यामो᳘षधीर्दधाति ता᳘ ऽइमा᳘ ऽअस्यां᳘ पृथिव्यामो᳘षधयः प्र᳘तिष्ठितास्त᳘स्माद्बर्हि᳘ स्तृणाति॥
मूलम् - श्रीधरादि
या᳘वती वै व्वे᳘दिः॥
(स्ता᳘) ता᳘वती पृथिव्यो᳘षधयो बर्हिस्त᳘दस्या᳘मे᳘वैत᳘त्पृथिव्यामो᳘षधीर्दधाति ता᳘ ऽइमा᳘ ऽअस्यां᳘ पृथिव्यामो᳘षधयः प्र᳘तिष्ठितास्त᳘स्माद्बर्हि᳘ स्तृणाति॥
मूलम् - Weber
या᳘वती वै वे᳘दिः॥
ता᳘वती पृथिव्यो᳘षधयो बर्हिस्त᳘दस्या᳘मेॗवैत᳘त्पृथिव्यामो᳘षधीर्दधाति ता᳘ इमा᳘ अस्या᳘म् पृथिव्यामो᳘षधयः प्र᳘तिष्ठितास्त᳘स्माद्बर्हि᳘ स्तृणाति॥
मूलम् - विस्वरम्
यावती वै वेदिः, तावती पृथिवी; ओषधयो बर्हिः । तदस्यामेवैतत् पृथिव्यामोषधीर्दधाति । ता इमा अस्यां पृथिव्यामोषधयः प्रतिष्ठिताः । तस्माद्बर्हिस्तृणाति ॥ ९ ॥
सायणः
प्रकारान्तरेण स्तरणं प्रशंसति- यावती वा इति ॥ ९ ॥
Eggeling
- As large as the altar is, so large is the earth; and the plants (are represented by) the barhis; so that he thereby furnishes the earth with plants; and those plants are firmly established in this earth: for this reason he spreads the barhis.
१०
विश्वास-प्रस्तुतिः
तद्वै᳘ बहुल᳘ᳫं᳘ स्तृणीयादि᳘त्याहुः। (र्य᳘) य᳘त्र वा᳘ ऽअस्यै᳘ बहुल᳘तमा ऽओ᳘षधयस्त᳘दस्या ऽउपजीवनी᳘यत᳘मं तस्माद्बहुल᳘ᳫं᳘ स्तृणीयादि᳘ति तद्वै त᳘दाहर्त्ते᳘र्येवा᳘धि त्रिवृ᳘त्स्तृणाति त्रिवृद्धि᳘ यज्ञो᳘ ऽथो ऽअ᳘पि प्रब᳘र्हᳫं स्तृणीयात्स्तृण᳘न्ति बर्हि᳘रानुषगि᳘ति ह्यृषिणाभ्य᳘नूक्तम᳘धरमूलᳫंस्तृणात्य᳘धरमूला ऽइव᳘ हीमा᳘ ऽअस्यां᳘ पृथिव्यामो᳘षधयः प्र᳘तिष्ठितास्त᳘स्माद᳘धरमूलᳫं स्तृणाति॥
मूलम् - श्रीधरादि
तद्वै᳘ बहुल᳘ᳫं᳘ स्तृणीयादि᳘त्याहुः। (र्य᳘) य᳘त्र वा᳘ ऽअस्यै᳘ बहुल᳘तमा ऽओ᳘षधयस्त᳘दस्या ऽउपजीवनी᳘यत᳘मं तस्माद्बहुल᳘ᳫं᳘ स्तृणीयादि᳘ति तद्वै त᳘दाहर्त्ते᳘र्येवा᳘धि त्रिवृ᳘त्स्तृणाति त्रिवृद्धि᳘ यज्ञो᳘ ऽथो ऽअ᳘पि प्रब᳘र्हᳫं स्तृणीयात्स्तृण᳘न्ति बर्हि᳘रानुषगि᳘ति ह्यृषिणाभ्य᳘नूक्तम᳘धरमूलᳫंस्तृणात्य᳘धरमूला ऽइव᳘ हीमा᳘ ऽअस्यां᳘ पृथिव्यामो᳘षधयः प्र᳘तिष्ठितास्त᳘स्माद᳘धरमूलᳫं स्तृणाति॥
मूलम् - Weber
तद्वै᳘ बहुल᳘ᳫं᳘ स्तृणीयादि᳘त्याहुः य᳘त्र वा᳘ अस्यै᳘ बहुल᳘तमा ओ᳘षधयस्त᳘दस्या उपजीवनी᳘यतमं त᳘स्माद्बहुल᳘ᳫं᳘ स्तृणीयादि᳘ति तद्वै त᳘दाहर्त᳘र्येवा᳘धि त्रिॗवृत्स्तृणाति त्रिवृद्धि᳘ यज्ञो᳘ ऽथो अ᳘पि प्रव᳘र्हᳫं स्तृणीयात्स्तृण᳘न्ति बर्हि᳘रानुषगि᳘ति न्वृ᳘षिणाभ्य᳘नूक्तम᳘धरमूलᳫं स्तृणात्य᳘धरमूला इवॗ हीमा᳘ अस्या᳘म् पृथिव्यामो᳘षधयः प्र᳘तिष्ठितास्त᳘स्माद᳘धरमूलᳫं स्तृणाति॥
मूलम् - विस्वरम्
तद्वै बहुलं स्तृणीयादित्याहुः । यत्र वा अस्यै बहुलतमा ओषधयः, तदस्या उपजीवनीयतमम् । तस्माद् बहुलं स्तृणीयादिति । तद्वै तदाहर्त्तर्येवाधि । त्रिवृत् स्तृणाति, त्रिवृद्धि यज्ञः । अथो अपि प्रबर्हं स्तृणीयात्- “स्तृणन्ति बर्हिरानुषगिति” ह्यृषिणाभ्यनूक्तम् । अधरमूलं स्तृणाति अधरमूला इव हीमा अस्यां पृथिव्यामोषधयः प्रतिष्ठिताः । तस्मादधरमूलं स्तृणाति ॥ १० ॥
सायणः
स्तरणस्य श्लक्ष्णतां विधत्ते- तद्वा इति । ‘बहुलं’ निरन्तरं यथा भूमिर्न दृश्यते तथा स्तृणीमादित्यभिज्ञाः कथयन्तीत्यर्थः । एवं वदतामभिप्रायमाह- यत्र वा इति । ‘अस्यै’ षष्ठ्यर्थे चतुर्थी (पा० सू० २ । ३ । ६ वा० १) ‘अस्याः’ पृथिव्याः सम्बन्धिनि ‘यत्र’ यस्मिन् स्थाने ओषधीनां बाहुल्यमस्ति तदेव स्थानं सर्वैः प्राणिभिरतिशयेनोपजीवनीयं भवति, तस्मादुपजीवनीयत्वसिद्धये बहुलं स्तरणं कर्तव्यमित्यनेनाभिप्रायेणेत्यर्थः । अस्तु भूमेरुपजीवनीयतमत्वम्, तावता यजमानस्य को लाभः ? तत्राह- तद्वा इति । ‘तस्य’ बर्हिषो यः ‘आहर्त्ता’ यजमानः, तस्मिन्नेव ‘तद्’ बहुलस्तरणकृतमुपजीवनीयतमत्वलक्षणं फलं भवति; अनुष्ठेयक्रियाफलस्य कर्त्तृगामित्वात् । अतः एव जैमिनिः सूत्रयामास- “शास्त्रफलं प्रयोक्तरि तल्लक्षणत्वात्“ इति (३ । ७ । १८; अ. मा. ३ । ७ । ८ ।) ‘आहर्त्तर्येवाधि’- इत्यधिशब्दो विभक्त्यर्थानुवादी ॥
स्तरणस्य त्रिवृत्त्वं विधत्ते- त्रिवृत् स्तृणातीति । त्रिभिर्मुष्टिभिर्बर्हिस्त्रिधा यथा भवति तथा वेदिं छादयेत् । तत्रैकं मुष्टिं वेदेः पूर्वभागे स्तीर्त्वा, द्वितीयं मुष्टिं तन्मध्यमभागे पूर्वमुष्टिना सम्बद्धं स्तृणीयात् । ततस्तृतीयं मुष्टिमपि वेदेरपरार्द्धे द्वितीयमुष्टिना सम्बद्धं स्तृणीयादिति । एवं स्तरणं प्रत्यक्परिसमाप्तिरित्येकः 13 पक्षः । पक्षान्तरमाह- अधो इति । ‘प्रबर्हं’ प्रबृह्य प्रबृह्य प्रथममुष्टिं वेद्यपरार्द्धे स्तीर्त्वा, तस्याग्रमुद्यम्याधस्तात् तत्सम्बद्धं द्वितीयं मुष्टिं स्तृणीयात्, एवमेव तृतीयमपि । एवं मुष्टित्रयस्य परस्परसम्बन्धं ऋङ्मन्त्रपादोदाहरणेन द्रढयति- स्तृणन्तीति । ‘आनुषक्’ अनुषक्तं परस्परसम्बद्धं बर्हिरध्वर्यवः स्तृणन्तीति ऋक्पादस्यार्थः 14 । ‘अतः’ अस्मान्मन्त्रलिङ्गात् पूर्वं मुष्टिं प्रबृह्य तस्याधस्तात् तत्संसक्तमेवापरं मुष्टिं स्तृणीयादिति भावः । अस्मिन् पक्षे स्तरणस्य प्रागपवर्गता ।
कात्यायनः पक्षद्वयमपि सूत्रयामास- “पश्चादपवर्गम्” (श्रौ. सू. २. २१६) “प्रवृहन् वा” (श्रौ. सू. २. २१७) इति । अस्मिन् पक्षद्वये ऽपि बर्हिर्मूलस्याधरत्वं विधाय प्रशंसति 15- अधरमूलमिति ॥ १० ॥
Eggeling
- Here now they say, ‘Let him strew abundantly; for where the plants are most abundant on her, there the means of subsistence are most amply afforded by her: let him therefore strew abundantly!’ It is in favour of him (the sacrificer) who procures (the sacrificial grass), then, (that this is done.) He strews it threefold 16, for threefold is the sacrifice. Or he may also spread it whilst lifting up (the tops) 17; for
it has been said by the seer (Vāj. S. VII, 32), ‘They spread the barhis continuously.’ He spreads it with the roots below (the tops); for it is with their roots below that those plants are firmly established in this earth: for this reason he spreads it with the roots below.
११
विश्वास-प्रस्तुतिः
स᳘ स्तृणाति॥
(त्यू᳘) ऊ᳘र्णम्रदसं त्वा स्तृणामि स्वासस्थां᳘ देवे᳘भ्य ऽइ᳘ति साध्वीं᳘ देवे᳘भ्य ऽइ᳘त्ये᳘वैत᳘दाह यदाहो᳘र्णम्रदसं त्वे᳘ति स्वासस्थां᳘ देवे᳘भ्य ऽइ᳘ति स्वास᳘दां देवे᳘भ्य ऽइ᳘त्ये᳘वैत᳘दाह॥
मूलम् - श्रीधरादि
स᳘ स्तृणाति॥
(त्यू᳘) ऊ᳘र्णम्रदसं त्वा स्तृणामि स्वासस्थां᳘ देवे᳘भ्य ऽइ᳘ति साध्वीं᳘ देवे᳘भ्य ऽइ᳘त्ये᳘वैत᳘दाह यदाहो᳘र्णम्रदसं त्वे᳘ति स्वासस्थां᳘ देवे᳘भ्य ऽइ᳘ति स्वास᳘दां देवे᳘भ्य ऽइ᳘त्ये᳘वैत᳘दाह॥
मूलम् - Weber
स᳘ स्तृणाति॥
ऊ᳘र्णम्रदसं त्वा स्तृणामि स्वासस्थां᳘ देवे᳘भ्य इ᳘ति साध्वीं᳘ देवे᳘भ्य इ᳘त्येॗवैत᳘दाह यदाहो᳘र्णम्रदसं त्वे᳘ति स्वासस्थां᳘ देवे᳘भ्य इ᳘ति स्वास᳘दां देवे᳘भ्य इ᳘त्येॗवैत᳘दाह 18 ॥
मूलम् - विस्वरम्
स स्तृणाति- “ऊर्णम्रदसं त्वा स्तृणामि स्वासस्थां देवेभ्यः”- (२ अ० २ मं०) इति । साध्वीं देवेभ्य इत्येवैतदाह- यदाहोर्णम्रदसं त्वेति । स्वासस्थां देवेभ्य इति- स्वासदां देवेभ्य इत्येवैतदाह ॥ ११ ॥
सायणः
विहितं स्तरणमनूद्य मन्त्रं विधत्ते- स स्तृणातीति । ऊर्णम्रदसमिति मन्त्रपदस्य पर्यवसितमर्थमाह- साध्वीमिति । ऊर्णासूत्रनिर्मितकम्बलवन्मृदुभूतां त्वां हे वेदे ! स्तृणामीति हि तस्यार्थः । तथा च ‘साध्वीं’ शोभनां देवेभ्यः प्रीतिकरीमित्ययमर्थः सम्पद्यत इत्यर्थः । मन्त्रस्य द्वितीयभागमनूद्य व्याचष्टे- स्वासस्थामिति । सुखेनासितुमुपवेष्टुं योग्यां ‘स्वासस्थाम्’ । एतस्य पदस्याभिप्रायकथनं ‘स्वासदाम्’- इति । सुखेनासितुम् आसदनमुपवेशनं कर्त्तुं शक्या ‘स्वासदा’ तामित्यर्थः ॥ ११ ॥
Eggeling
- He spreads it, with the text (Vāj. S. II, 2), ‘I spread thee, soft as wool, pleasant to sit upon for the gods!’–when he says ’thee, soft as wool,’ he thereby means to say ‘agreeable to the gods;’ and by ‘pleasant to sit upon for the gods,’ he means to say ‘forming a good seat for the gods.’
१२
विश्वास-प्रस्तुतिः
अ᳘थाग्निं᳘ कल्पयति॥
शि᳘रो वै᳘ यज्ञ᳘स्याहवनी᳘यः पूर्व्वार्द्धो वै शि᳘रः पूर्व्वार्द्ध᳘मे᳘वैत᳘द्यज्ञ᳘स्य कल्पयत्युप᳘र्युपरि प्रस्तरं᳘ धार᳘यन्कल्पयत्ययं वै᳘ स्तुपः᳘ प्रस्तर᳘ ऽएत᳘मे᳘वास्मिन्नेतत्प्र᳘तिदधाति त᳘स्मादुप᳘र्युपरि प्रस्तरं᳘ धार᳘यन् कल्पयति॥
मूलम् - श्रीधरादि
अ᳘थाग्निं᳘ कल्पयति॥
शि᳘रो वै᳘ यज्ञ᳘स्याहवनी᳘यः पूर्व्वार्द्धो वै शि᳘रः पूर्व्वार्द्ध᳘मे᳘वैत᳘द्यज्ञ᳘स्य कल्पयत्युप᳘र्युपरि प्रस्तरं᳘ धार᳘यन्कल्पयत्ययं वै᳘ स्तुपः᳘ प्रस्तर᳘ ऽएत᳘मे᳘वास्मिन्नेतत्प्र᳘तिदधाति त᳘स्मादुप᳘र्युपरि प्रस्तरं᳘ धार᳘यन् कल्पयति॥
मूलम् - Weber
अ᳘थाग्निं᳘ कल्पयति॥
शि᳘रो वै᳘ यज्ञ᳘स्याहवनी᳘यः पूर्वो᳘ ऽर्धो वै शि᳘रः पूर्वार्ध᳘मेॗवैत᳘द्यज्ञ᳘स्य कल्पयत्युप᳘र्युपरि प्रस्तरं᳘ धार᳘यङ्कल्पयत्ययं वै᳘ स्तुपः᳘ प्रस्तर᳘ एत᳘मेॗवास्मिन्नेतत्प्र᳘तिदधाति त᳘स्मादुप᳘र्युपरि प्रस्तरं᳘ धार᳘यङ्कल्पयति॥
मूलम् - विस्वरम्
अथाग्निं कल्पयति । शिरो वै यज्ञस्याहवनीयः । पूर्वार्द्धो वै शिरः- पूर्वार्द्धमेवैतद्यज्ञस्य कल्पयति । उपर्युपरि प्रस्तरं धारयन् कल्पयति । अयं वै स्तुपः प्रस्तरः । एतमेवास्मिन्नेतत् प्रतिदधाति । तस्मादुपर्युपरि प्रस्तरं धारयन् कल्पयति ॥ १२ ॥
सायणः
अग्नेः प्रबलीकरणं विधत्ते 19- अथाग्निमिति । ‘कल्पयति’ क्लृप्तं हविर्दहनसमर्थं करोतीत्यर्थः । तच्च कल्पनमाहवनीयस्यैवेति प्रतिपादयति- शिरो वा इति । देहस्य पूर्वभागो हि शिरः । अत आहवनीयो ऽपि वेदेः पूर्वभागे ऽवस्थानात् ‘यज्ञस्य शिरः’ । तथा च यज्ञस्य पूर्वार्द्धमाहवनीयं कल्पयन् शिर एव कल्पयति । तस्मिन् समये प्रस्तरस्योपरि धारणं विधत्ते- उपर्युपरीति । अग्नेरत्यन्तसन्निकृष्टोपरिभाग इत्यर्थः । “उपर्यध्यघसः सामीप्ये” (पा० सू० ८ । १ । ७) इति द्विर्वचनम् । तद्धारणं प्रशंसति- अयं वा इति । यो ऽयं ‘स्तुपः’ केशसंघातः 20 शिरसि दृश्यते, अयमेव खलु प्रस्तरः । यज्ञशिरस आहवनीयस्योपरि प्रस्तरं धारयन्, ‘एतमेव’ केशसङ्घातं तस्मिन् ‘प्रतिदधाति’ सन्दधाति ॥ १२ ॥
Eggeling
- He now trims the fire 21. The Āhavanīya, doubtless, is the head of the sacrifice, for the head is the fore-part 22: that fore-part of the sacrifice he thereby trims. He trims it while holding the prastara (which he has received back from the Brahman) close over it; for the prastara is the top-knot, and it is this which he thereby puts on it: for this reason he trims (the fire) while holding the prastara close over it.
१३
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ परिधीन्प᳘रिदधाति॥
तद्य᳘त्परिधी᳘न्परिद᳘धाति य᳘त्र वै᳘ देवा ऽअ᳘ग्रे ऽग्नि᳘ᳫँ᳘ होत्रा᳘य प्रा᳘वृणत त᳘द्धोवा᳘च न वा᳘ अह᳘मिदमु᳘त्सहे य᳘द्वो हो᳘ता स्यां य᳘द्वो हव्यं व्व᳘हेयं त्रीन्पू᳘र्वान्प्रा᳘वृढ्वं ते प्रा᳘धन्विषुस्तान्नु मे᳘ ऽवकल्पयता᳘थवा᳘ ऽअहमेतदु᳘त्साक्ष्ये य᳘द्वो हो᳘ता स्यां य᳘द्वो हव्यं व्व᳘हेयमि᳘ति तथे᳘ति ता᳘नस्मा ऽएतान᳘वाकल्पयंस्त᳘ ऽएते परिध᳘यः॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ परिधीन्प᳘रिदधाति॥
तद्य᳘त्परिधी᳘न्परिद᳘धाति य᳘त्र वै᳘ देवा ऽअ᳘ग्रे ऽग्नि᳘ᳫँ᳘ होत्रा᳘य प्रा᳘वृणत त᳘द्धोवा᳘च न वा᳘ अह᳘मिदमु᳘त्सहे य᳘द्वो हो᳘ता स्यां य᳘द्वो हव्यं व्व᳘हेयं त्रीन्पू᳘र्वान्प्रा᳘वृढ्वं ते प्रा᳘धन्विषुस्तान्नु मे᳘ ऽवकल्पयता᳘थवा᳘ ऽअहमेतदु᳘त्साक्ष्ये य᳘द्वो हो᳘ता स्यां य᳘द्वो हव्यं व्व᳘हेयमि᳘ति तथे᳘ति ता᳘नस्मा ऽएतान᳘वाकल्पयंस्त᳘ ऽएते परिध᳘यः॥
मूलम् - Weber
अ᳘थ परिधीन्प᳘रिदधाति॥
तद्य᳘त्परिधी᳘न्परिद᳘धाति य᳘त्र वै᳘ देवा अ᳘ग्रे ऽग्नि᳘ᳫं᳘ होत्रा᳘य प्रा᳘वृणत त᳘द्धोवाच न वा᳘ अह᳘मिदमु᳘त्सहे य᳘द्वो हो᳘ता स्यां य᳘द्वो हव्यं व᳘हेयं त्रीन्पू᳘र्वान्प्रा᳘वृढ्वं ते प्राधन्विषुस्तान्नु मे᳘ ऽवकल्पयता᳘थ वा᳘अहमेतदु᳘त्साक्ष्ये य᳘द्वो हो᳘ता स्यां य᳘द्वो हव्यं व᳘हेयमिति तथे᳘ति ता᳘नस्मा एतान᳘वाकल्पयंस्त᳘ एते परिध᳘यः॥
मूलम् - विस्वरम्
अथ परिधीन् परिदधाति । तद् यत्परिधीन् परिदधाति- यत्र वै देवा अग्रे ऽग्निं होत्राय प्रावृणत, तद्धोवाच- न वा अहमिदमुत्सहे, यद्वो होता स्याम्, यद्वो हव्यं वहेयम्; त्रीन् पूर्वान् प्रावृढ्वम् । ते प्राधन्विपुः; तान्नु मे ऽवकल्पयत । अथ वा अहमेतदुत्साक्ष्ये- यद्वो होता स्याम्, यद्वो हव्यं वहेयमिति । तथेति । तानस्मा एतानवाकल्पयन्- त एते परिधयः ॥ १३ ॥
सायणः
परिधिपरिधानं विधत्ते 19- अथेति । परितो धीयन्त इति ‘परिधयः 20’ “उपसर्गे घोः किः” (पा० सू० ३. ३. ९२)- इति कर्मणि किप्रत्ययः । तदेतत् परिधानमुपपादयितुमनुवदति- तद्यदिति । इतिहासमुखेनैतत्परिधानमुपपादयति- यत्र वा इति । यत्रेमम् 23 ‘अग्निं’ पुरा ‘होत्राय’ होतृकर्मणे देवाः ‘प्रावृणत’ प्रवृतवन्तः; ‘तत्’ तदानीं सो ऽग्निः ‘उवाच’ उक्तवान् । कथमिति, तदुच्यते- “न खल्वहमिदानीमुत्साहं करोमि, ‘वः’ युष्माकं होता स्यां हव्यं च वहेयम्”- इति । यदेतद्धोतृत्वहव्यवहनादिलक्षणं कार्यं युष्माभिः प्रार्थ्यते, तत्कर्त्तुं नोत्सह इत्यर्थः । अनुत्साहकारणमुपन्यस्यति- त्रीन् पूर्वानिति । “हे देवाः ! यूयं मदीयान् पूर्वपुरुषान् त्रीन् ‘प्रावृढ्वम्’ प्रवृतवन्तः स्थ; ते च तत एव प्रवरणात् ‘प्राधन्विषुः’ प्रागमन्; प्रामृषतेत्यर्थः । एतच्च प्रागाम्नातम्- “चतुर्द्धा विहितो ह वा अग्रे ऽग्निरास”- (श० प० १ । २ । ३ । १) इत्यत्र । तान्न्वित्यादि । प्राग्गतान् ‘तान्’ मदीयान् पूर्वम् ‘अवकल्पयत’ अवक्लृप्तान् मूर्तिसामर्थ्ययुक्तान् कुरुत; ‘अथ’ अनन्तरमेव होता स्यानित्यादि ‘यदेतदुत्साक्ष्ये ऽहम्’ एतद्विषयमुत्साहं करिष्ये । ते च देवाः ‘तथेति’ अङ्गीकृत्य ‘एतानवाकल्पयन्’ समर्थान् मूर्त्यादियुक्तानकुर्वन् । ‘ते’ चेमे ‘परिधयः’ सञ्जाताः ॥ १३ ॥
Eggeling
- He then lays the (three) enclosing-sticks (paridhi) around (the fire). The reason why he lays the enclosing-sticks around (is this). When at first the gods chose Agni for the office of Hotr̥, he said: ‘Verily, I am not equal to this, that I should be your Hotr̥, and that I should carry your oblation. Already you have chosen three before,
and they have passed away 24. Restore them to me: then I shall be equal to this, that I should be your Hotr̥ and that I should carry your oblation!’ They said, ‘So be it!’ and they restored to him those (three former Agnis): they are these enclosing-sticks.
१४
विश्वास-प्रस्तुतिः
स᳘ होवाच॥
व्व᳘ज्रो वै ता᳘न्वषट्कारः प्रा᳘वृणग्व᳘ज्राद्वै᳘ व्वषट्कारा᳘द्बिभेमि य᳘न्मा व्व᳘ज्रो व्वषट्कारो न᳘ प्रवृञ्ज्या᳘देतै᳘रेव᳘ मा प᳘रिधत्त त᳘था मा व्व᳘ज्रो व्वषट्कारो न प्र᳘वर्क्ष्यती᳘ति तथे᳘ति त᳘मेतैः प᳘र्यदधुस्तन्न व्व᳘ज्रो व्वषट्कारः प्रा᳘वृणक्त᳘द्व᳘र्म्मै᳘वैत᳘दग्न᳘ये नह्यति य᳘देतैः᳘ परिद᳘धाति॥
मूलम् - श्रीधरादि
स᳘ होवाच॥
व्व᳘ज्रो वै ता᳘न्वषट्कारः प्रा᳘वृणग्व᳘ज्राद्वै᳘ व्वषट्कारा᳘द्बिभेमि य᳘न्मा व्व᳘ज्रो व्वषट्कारो न᳘ प्रवृञ्ज्या᳘देतै᳘रेव᳘ मा प᳘रिधत्त त᳘था मा व्व᳘ज्रो व्वषट्कारो न प्र᳘वर्क्ष्यती᳘ति तथे᳘ति त᳘मेतैः प᳘र्यदधुस्तन्न व्व᳘ज्रो व्वषट्कारः प्रा᳘वृणक्त᳘द्व᳘र्म्मै᳘वैत᳘दग्न᳘ये नह्यति य᳘देतैः᳘ परिद᳘धाति॥
मूलम् - Weber
स᳘ होवाच॥
व᳘ज्रो वै ता᳘न्वषट्कारः प्रा᳘वृणग्व᳘ज्राद्वै᳘ वषट्कारा᳘द्बिभेमि य᳘न्मा व᳘ज्रो वषट्कारो न᳘ प्रवृञ्ज्या᳘देतै᳘रेव᳘ माप᳘रिधत्त त᳘था मा व᳘ज्रो वषट्कारो न प्र᳘वर्क्ष्यती᳘ति तथे᳘ति त᳘मेतैः प᳘र्यदधुस्तं न व᳘ज्रो वषट्कारः प्रा᳘वृणक्त᳘द्वॗर्मैॗवैत᳘दग्न᳘ये नह्यति य᳘देतैः᳘ परिद᳘धाति॥
मूलम् - विस्वरम्
स होवाच- वज्रो वै तान् वषट्कारः प्रावृणक् । वज्राद्वै वषट्काराद्बिभेमि, यन्मा वज्रो वषट्कारो न प्रवृञ्ज्यात् । एतैरेव मा परिधत्त, तथा मा वज्रो वषट्कारो न प्रवर्क्ष्यतीति । तथेति । तमेतैः पर्यदधुः । तन्न वज्रो वषट्कारः प्रावृणक् । तद्वर्मैवैतदग्नये नह्यति- यदेतैः परिदधाति ॥ १४ ॥
सायणः
एवमाख्यायिकया परिधीनामुत्पत्तिं प्रतिपाद्य, तैरग्नेः परिधानं कार्यमित्येतदपि प्रतिपादयति- स हेति । एतद्देवान् प्रत्यग्निरुवाच ‘प्रावृणक्’ प्रकर्षेणावर्जयत् । वषट्काराद् भीतं मां ‘यत्’ येन परिधानेन हेतुना वषट्कारात्मको वज्रो न हिंस्यात्, तदेतत्परिधानं मम कुरुत; तथा च वषट्कारात्मको वज्रो मां ‘न प्रवर्क्ष्यति’ न हिंसिष्यति । एवमग्निनोक्ते देवा अपि ‘तथेति’ अङ्गीकृत्य तं परिधिभिः पर्यदधुः । ‘अतः’ देवैः परिधानकरणात् ‘तम्’ अग्निं वज्रात्मको वषट्कारो नाबाधिष्ट । अतः परिधिपरिधानमग्नेः कवचबन्धनमेव भवति । तस्मादवश्यं तत्कर्त्तव्यमिति भावः ॥ १४ ॥
Eggeling
- He then said, ‘The thunderbolt, (in the shape of) the vashaṭ-call 25, has struck these down: I am afraid of that thunderbolt, the vashaṭ-call. Lest that thunderbolt, the vashaṭ-call, should strike me down, enclose me by those (three Agnis, or paridhis); and thus that thunderbolt, the vashaṭ-call, will not strike me down.’ They said, ‘So be it!’ and they enclosed him with those (three sticks), and that thunderbolt, the vashaṭ call, did not strike him down. When he encloses Agni with those (sticks) he buckles armour on him.
१५
विश्वास-प्रस्तुतिः
त᳘ ऽउ हैत᳘ ऊचुः॥
(रि) इद᳘मु चे᳘दस्मा᳘न्यज्ञे युङ्क्था᳘स्त्वे᳘वास्मा᳘कम᳘पि यज्ञे᳘ भाग ऽइ᳘ति॥
मूलम् - श्रीधरादि
त᳘ ऽउ हैत᳘ ऊचुः॥
(रि) इद᳘मु चे᳘दस्मा᳘न्यज्ञे युङ्क्था᳘स्त्वे᳘वास्मा᳘कम᳘पि यज्ञे᳘ भाग ऽइ᳘ति॥
मूलम् - Weber
त᳘ उ हैत᳘ ऊचुः॥
इद᳘मु चे᳘दस्मा᳘न्यज्ञे युङ्क्था᳘स्त्वेवा᳘स्मा᳘कम᳘पि यज्ञे᳘ भाग इ᳘ति॥
मूलम् - विस्वरम्
त उ हैत ऊचुः- इदमु चेदस्मान् यज्ञे युङ्क्थ, अस्त्वेवास्माकमपि यज्ञे भाग इति ॥ १५ ॥
सायणः
अथ प्रसङ्गाद् “भुवपतये स्वाहा”- इत्यादिमन्त्रैः 26 स्कन्नस्य हविषो ऽभिमर्शनं विधित्सुः, परिधिरूपेणावस्थितानां भुवपत्यादिसंज्ञकानां तेषामग्नीनां स्कन्नद्रव्यभाक्त्वं प्रतिपादयति- त उ हेत्यादिना । ते परिधिरूपेणावस्थिताः पूर्वाग्नयः ‘एतद्’ वक्ष्यमाणम् ‘ऊचुः’ उक्तवन्तः । अस्माँश्चेद् ‘इदम्’ इदानीं यज्ञे पुनः ‘युङ्क्थाः’ युक्तान् कुरुथ, तर्ह्यस्माकमपि यज्ञे कश्चिद् भागो ऽस्त्विति ॥ १५ ॥
Eggeling
- They (the other three Agnis) then said, ‘If you join us with the sacrifice in this wise, then let us also have a share in the sacrifice!’
१६
विश्वास-प्रस्तुतिः
तथे᳘ति देवा᳘ ऽअब्रुवन्॥
(न्य᳘) य᳘द्बहिष्परिधि᳘ स्कन्त्स्य᳘ति त᳘द्युष्मा᳘सु हुतम᳘थ य᳘द्व उप᳘र्युपरि होष्य᳘न्ति त᳘द्वो ऽविष्यत्यथ यदग्नौ होष्य᳘न्ति त᳘द्वो ऽविष्यती᳘ति स य᳘दग्नौ जु᳘ह्वति त᳘देनानवत्य᳘थ य᳘देनानुप᳘र्युपरि जु᳘ह्वति त᳘देनानवत्य᳘थ य᳘द्बहिष्परिधि स्क᳘न्दति त᳘देतेषु हुतं त᳘स्मादु ह ना᳘ ऽऽग इव स्कन्न᳘ᳫं᳘ स्यादिमां वै ते᳘ पृथिवीं प्रा᳘विशन्यद्वा᳘ ऽइदं कि᳘ञ्च स्क᳘न्दत्यस्या᳘मेव तत्स᳘र्व्वं प्र᳘तितिष्ठति॥
मूलम् - श्रीधरादि
तथे᳘ति देवा᳘ ऽअब्रुवन्॥
(न्य᳘) य᳘द्बहिष्परिधि᳘ स्कन्त्स्य᳘ति त᳘द्युष्मा᳘सु हुतम᳘थ य᳘द्व उप᳘र्युपरि होष्य᳘न्ति त᳘द्वो ऽविष्यत्यथ यदग्नौ होष्य᳘न्ति त᳘द्वो ऽविष्यती᳘ति स य᳘दग्नौ जु᳘ह्वति त᳘देनानवत्य᳘थ य᳘देनानुप᳘र्युपरि जु᳘ह्वति त᳘देनानवत्य᳘थ य᳘द्बहिष्परिधि स्क᳘न्दति त᳘देतेषु हुतं त᳘स्मादु ह ना᳘ ऽऽग इव स्कन्न᳘ᳫं᳘ स्यादिमां वै ते᳘ पृथिवीं प्रा᳘विशन्यद्वा᳘ ऽइदं कि᳘ञ्च स्क᳘न्दत्यस्या᳘मेव तत्स᳘र्व्वं प्र᳘तितिष्ठति॥
मूलम् - Weber
तथे᳘ति देवा᳘ अब्रुवन्॥
य᳘द्बहिष्परिधि᳘ स्कन्त्स्य᳘ति त᳘द्युष्मा᳘सु हुतम᳘थ य᳘द्व उप᳘र्युपरि होष्य᳘न्ति त᳘द्वो ऽविष्यती᳘ति स य᳘दग्नौ जु᳘ह्वति त᳘देनानवत्य᳘थ य᳘देनानुप᳘र्युपरि जु᳘ह्वति त᳘देनानवत्य᳘थम् य᳘द्बहिष्परिधि स्क᳘न्दति त᳘देतेषु हुतं त᳘स्मादु ह ना᳘ग इव स्कन्न᳘ᳫं᳘ स्यादिमां वै ते प्रा᳘विशन्यद्वा᳘ इदंकिं᳘च स्क᳘न्दत्यस्या᳘मेव तत्स᳘र्वम् प्र᳘तितिष्ठति॥
मूलम् - विस्वरम्
तथेति देवा अब्रुवन्- यद्वहिष्परिधि स्कन्त्स्यति तद्युष्मासु हुतम्, अथ यद्व उपर्य्युपरि होष्यन्ति तद्वो ऽविष्यति । अथ यदग्नौ होष्यन्ति- तद्वो ऽविष्यतीति स यदग्नौ जुह्वति- तदेनानवति, अथ यदेनानुपर्युपरि जुह्वति तदेनानवति, अथ यद्बहिष्परिधि स्कन्दति- तदेतेषु हुतम् । तस्मादु ह ना ऽऽग इव स्कन्नं स्यात् । इमां वैते पृथिवीं प्राविशन् । यद्वा इदं किञ्च स्कन्दति- अस्यामेव तत्सर्वं प्रतितिष्ठति ॥ १६ ॥
सायणः
तथेत्यादि । देवाश्च ‘तथेति’ प्रत्यशृण्वन्, प्रतिश्रुत्य चैवमब्रुवन् । कथमिति- ‘बहिष्परिधि’ परिधीनां बाह्यदेशे ‘यद्’ हविः ‘स्कन्त्स्यति’ स्कन्नं भविष्यति, ‘तद् युष्मासु हुतम्’ अस्तु; तत् स्कन्नं हविरसाधारणो युष्मद्भागो भवत्वित्यर्थः । अथ च ‘वः’ युष्माकम् ‘उपर्युपरि’ अत्यन्तसमीपोपरिभागे ‘यद्’ हविः होष्यन्ति तद् ‘वः’ युष्मान् ‘अविष्यति’ तृप्तान् करिष्यतीति, अवतिरत्र- तृप्त्यर्थः । “अव 27 रक्षणगतिकान्तिप्रीतितृप्त्यवगमेषु”- (भ्वा० प० ६००) इति पठितत्वात् । यच्चाग्नौ होष्यन्ति, तदपि युष्माकं तृप्तिकरमस्त्विति । एवं देवैः तेषामग्नीनां भागो दत्तः । यस्मादेवं तस्मादिदानीमप्यग्नौ हवनादिकमेनांस्तर्पयतीत्याह- स यदिति । ‘सः’- इति व्यत्ययेन बह्वर्थे एकवचनम्, (पा. सू. ३ । १ । ८५ ।) तथा च बहिष्परिधि ‘यत्’ हविः स्कन्दति, तत् ‘एतेषु’ अग्निषु हुतमेव भवति । स्कन्नस्य च तद्भागत्वं प्रत्यक्षतो दर्शयति- तस्मादु हेति । यस्मादेवं परिधिरूपाग्नीनां स्कन्नं हविर्मागत्वेन परिकल्पितम्, तस्मादेव कारणात्- हविः स्कन्नं स्यादिति यत्तत् ‘आगः’ अपराधो न भवति । कुत इत्यत आह- इमामिति । ‘ते’ प्रगता अग्नयः, ‘इमां’ भूमिं खलु प्रविष्टाः यच्चाज्यादिकं किमपि हविः स्कन्दति, तत्सर्वं पृथिव्यामेव प्रतितिष्ठति । एवं च तेन स्कन्नेन तत्रत्यानामग्नीनां सम्बन्धात् तृप्तिर्भविष्यतीति न स्कन्नदोषः ॥ १६ ॥
Eggeling
- The gods said: ‘So be it! What shall fall outside the enclosure, that is offered unto you; and what they shall offer just upon you, that will sate
you; and what they shall offer up in the fire that will sate you!’ Thus what they offer up in the fire, that satisfies them (the Agnis); and what they offer up just upon them (the enclosing-sticks, or Agnis), that satisfies them; and what is spilled outside the enclosure, that is offered to them 28: hence no sin attaches to what (butter) is spilt; for into this earth they entered (when they, the Agnis, passed away), and whatever is spilt here,–all that remains indeed in her.
१७
विश्वास-प्रस्तुतिः
स᳘ स्कन्न᳘मभि᳘मृशति॥
भु᳘वपतये स्वा᳘हा भु᳘वनपतये स्वा᳘हा भूता᳘नां प᳘तये स्वाहे᳘त्येता᳘नि वै ते᳘षामग्नीनां ना᳘मानि यद्भु᳘वपतिर्भु᳘वनपतिर्भूता᳘नां प᳘तिस्तद्य᳘था व्व᳘षट्कृतᳫँ᳭ हुत᳘मेव᳘मस्यैते᳘ष्वग्नि᳘षु भवति॥
मूलम् - श्रीधरादि
स᳘ स्कन्न᳘मभि᳘मृशति॥
भु᳘वपतये स्वा᳘हा भु᳘वनपतये स्वा᳘हा भूता᳘नां प᳘तये स्वाहे᳘त्येता᳘नि वै ते᳘षामग्नीनां ना᳘मानि यद्भु᳘वपतिर्भु᳘वनपतिर्भूता᳘नां प᳘तिस्तद्य᳘था व्व᳘षट्कृतᳫँ᳭ हुत᳘मेव᳘मस्यैते᳘ष्वग्नि᳘षु भवति॥
मूलम् - Weber
स᳘ स्कन्न᳘मभि᳘मृशति॥
भु᳘वपतये स्वा᳘हा भु᳘वनपतये स्वा᳘हा भूता᳘नाम् पतये स्वाहे᳘त्येता᳘नि वै ते᳘षामग्नी᳘नां ना᳘मानि यद्भु᳘वपतिर्भु᳘वनपतिर्भूता᳘नाम् प᳘तिस्तद्य᳘था व᳘षट्कृतᳫं हुत᳘मेव᳘मस्यैते᳘ष्वग्नि᳘षु भवति॥
मूलम् - विस्वरम्
स स्कन्नमभिमृशति- “भुवपतये स्वाहा भुवनपतये स्वाहा भूतानां पतये स्वाहा”- (२ अ० २ मं०) इति । एतानि वै तेषामग्नीनां नामानि- यद् भुवपतिः, भुवनपतिः, भूतानां पतिः । तद् यथा वषट्कृतं हुतम्- एवमस्यैतेष्वग्निषु भवति ॥ १७ ॥
सायणः
एवंभूतं स्कन्नं हविः परिधिरूपेणावस्थितानां भूमौ प्रविष्टानामग्नीनां भाग इत्युपपाद्य तत्तदग्निनामधेययुक्तैर्मन्त्रैस्तस्याभिमर्शनं विधत्ते- स स्कन्नमिति । ‘तत्’ तत्रैवं नामोद्देशेनाभिमर्शने कृते सति, यथा ‘वषट्कृतं’ वषट्कारेण प्रत्तं हविस्तस्यै देवतायै हुतं भवति, एवमेव ‘अस्य’ यजमानस्य ‘एतेषु’ भुवपत्यादिनामकेषु परिधिरूपाग्निषु तत् स्कन्नं हविर्हुतमेव भवतीत्यर्थः ॥ १७ ॥
Eggeling
- That which is spilt he touches, with the formulas (Vāj. S. II, 2), ‘To the Lord of the Earth–svāhā!’ ‘To the Lord of the World–svāhā!’ ‘To the Lord of Beings–svāhā!’ These, indeed, are the names of those Agnis,–to wit, Lord of the Earth, Lord of the World, and Lord of Beings. Thus in like manner as that (oblation) which is accompanied by ‘Vashaṭ’ is offered up (to the particular deity to which it is announced), so is this (offered up) on his (the sacrificer’s) part to those Agnis.
१८
विश्वास-प्रस्तुतिः
तद्धै᳘के॥
(क ऽ) इध्म᳘स्यै᳘वैता᳘न्परिधीन्प᳘रिदधाति।
त᳘दु त᳘था न᳘ कुर्याद᳘नवकॢप्ता ह त᳘स्यैते᳘ भवन्ति या᳘निध्म᳘स्य परिद᳘धात्यभ्याधा᳘नाय᳘ ह्ये᳘वेध्मः᳘ क्रिय᳘ते त᳘स्यो है᳘वैते᳘ ऽवकॢप्ता भवन्ति य᳘स्यैता᳘नन्या᳘नाह᳘रन्ति परिध᳘य ऽइ᳘ति त᳘स्मादन्या᳘नेवा᳘हरेयुः॥
मूलम् - श्रीधरादि
तद्धै᳘के॥
(क ऽ) इध्म᳘स्यै᳘वैता᳘न्परिधीन्प᳘रिदधाति।
त᳘दु त᳘था न᳘ कुर्याद᳘नवकॢप्ता ह त᳘स्यैते᳘ भवन्ति या᳘निध्म᳘स्य परिद᳘धात्यभ्याधा᳘नाय᳘ ह्ये᳘वेध्मः᳘ क्रिय᳘ते त᳘स्यो है᳘वैते᳘ ऽवकॢप्ता भवन्ति य᳘स्यैता᳘नन्या᳘नाह᳘रन्ति परिध᳘य ऽइ᳘ति त᳘स्मादन्या᳘नेवा᳘हरेयुः॥
मूलम् - Weber
तद्धै᳘के॥
इध्म᳘स्यैॗवैता᳘न्परिधीन्प᳘रिदधाति त᳘दु त᳘था न᳘ कुर्याद᳘नवकॢप्ता ह त᳘स्यैते᳘ भवन्ति या᳘निध्म᳘स्य परिद᳘धात्यभ्याधा᳘नायॗ ह्येॗवेध्मः क्रिय᳘ते त᳘स्यो हैॗवैते᳘ ऽवकॢप्ता भवन्ति य᳘स्यैता᳘नन्या᳘नाह᳘रन्ति परिध᳘य इ᳘ति त᳘स्मादन्या᳘नेवा᳘हरेयुः॥
मूलम् - विस्वरम्
तद्धैके-इध्मस्यैवैतान् परिधीन् परिदधति । तदु तथा न कुर्यात् । अनवक्लृप्ता ह तस्यैते भवन्ति- यानिध्मस्य परिदधाति । अभ्याधानाय ह्येवेध्मः क्रियते । तस्यो हैवैते ऽवक्लृप्ता भवन्ति- यस्यैतानन्यानाहरन्ति–परिधय इति । तस्मादन्यानेवाहरेयुः ॥ १८ ॥
सायणः
तेषां परिधीनामिध्मावयवत्वं केचिन्मन्यन्ते, तेषां मतमुपन्यस्य निरस्यति- तद्वैक इत्यादिना । ‘इध्मस्य’- इत्यवयवावयविसम्बन्धार्था षष्ठी । (पा. सू. २ । ३ । ५० भाष्यं द्रष्टव्यम्) इध्मस्यावयवभूतानित्यर्थः । अग्निसमिन्धनाय हीध्मः क्रियते, अतस्तदवयवानां समिन्धनसामर्थ्यमेव, न तु परिधानसामर्थ्यमस्तीत्यनवक्लृप्तिः । तदेतदाह- अनवक्लृप्ता इति । तस्यो हैवेत्यादि । ‘यस्य’ यजमानस्य परिधय इत्येवंरूपेणेध्मान् पृथक्, तानेवाहरन्त्यध्वर्यवः, तस्यैव यजमानस्यैते ‘अवक्लृप्ताः’ परिधानलक्षणकार्यक्षमा भवन्तीत्यर्थः । यस्मादेवं तस्मात् इध्मानन्तर्भूतान् ‘अन्यान्’ एव परिधीनाहरेयुरिति विधत्ते- तस्मादिति ॥ १८ ॥
Eggeling
- Here now some people take the sticks they lay around from the fire-wood; but let him not do so, for unsuitable for laying around are those which they take from the fire-wood, since the fire-wood is prepared for the purpose of being put upon (the fire); but what other (kind of sticks) they bring to him, called ’enclosing-sticks (paridhis),’ they are indeed suitable for his purpose: let them therefore bring others.
१९
विश्वास-प्रस्तुतिः
(स्ते) ते वै पा᳘लाशाः स्युः॥
(र्ब्र᳘) ब्र᳘ह्म वै पला᳘शो ब्र᳘ह्माग्नि᳘रग्न᳘यो हि त᳘स्मात्पा᳘लाशाः स्युः॥
मूलम् - श्रीधरादि
(स्ते) ते वै पा᳘लाशाः स्युः॥
(र्ब्र᳘) ब्र᳘ह्म वै पला᳘शो ब्र᳘ह्माग्नि᳘रग्न᳘यो हि त᳘स्मात्पा᳘लाशाः स्युः॥
मूलम् - Weber
ते वै पालाशाः स्युः॥
ब्रह्म वै पलाशो ब्रह्माग्निरग्नयो हि तस्मात्पालाशाः स्युः॥
मूलम् - विस्वरम्
ते वै पालाशाः स्युः । ब्रह्म वै पलाशः, ब्रह्माग्निः । अग्नयो हि । तस्मात्पालाशाः स्युः ॥१९॥
सायणः
परिध्युपादानभूतान् वृक्षानुत्तरोत्तराननुकल्पतयोपादेयान् विधत्ते- ते वा इति । ‘ते‘ खलु परिधयः पलाशवृक्षजा भवेयुः । “ब्रह्म वै” इत्यादि तत्प्रशंसा । ब्रह्मविषयस्य रहस्यस्य श्रवणात् पलाशवृक्षस्तावद् ब्रह्मात्मकः, तथा च तैत्तिरीयकम्- “देवा वै ब्रह्मन्नवदन्त तत् पर्ण उपाशृणोदिति” (तै० सं० ३ । ५ । ७ । ३) । अग्निवाय्वादित्यरूपेण हिरण्यगर्भस्य ब्रह्मण एवावस्थानादग्निरपि- ब्रह्मात्मकः । तादृगग्न्यात्मकत्वं च परिधीनां प्रतिपादितम् । अतो ऽग्निरूपब्रह्मात्मकानां परिधीनां पलाशरूपब्रह्मविकारत्वं युक्तमित्यर्थः ॥ १९ ॥
Eggeling
- Indeed, they should be of Palāśa wood
(Butea Frondosa); for the Palāśa tree, doubtless, is the Brahman 29, and Agni also is the Brahman: for this reason the Agnis should be of Palāśa wood.
२०
विश्वास-प्रस्तुतिः
(र्य᳘) य᳘दि पा᳘लाशान्न᳘ विन्देत्॥
(द᳘) अ᳘थो ऽअ᳘पि व्वै᳘कङ्कताः स्युर्य᳘दि व्वै᳘कङ्कतान्न᳘ व्विन्देद᳘थो ऽअ᳘पि कार्ष्मर्यम᳘याः स्युर्य᳘दि कार्ष्मर्यम᳘यान्न᳘ व्विन्देद᳘थो ऽअ᳘पि बैल्वाः᳘ स्युर᳘थो खादिरा ऽअ᳘थो ऽऔ᳘दुम्बरा ऽएते हि᳘ वृक्षा᳘ यज्ञि᳘यास्त᳘स्मादेते᳘षां व्वृक्षा᳘णां भवन्ति॥
मूलम् - श्रीधरादि
(र्य᳘) य᳘दि पा᳘लाशान्न᳘ विन्देत्॥
(द᳘) अ᳘थो ऽअ᳘पि व्वै᳘कङ्कताः स्युर्य᳘दि व्वै᳘कङ्कतान्न᳘ व्विन्देद᳘थो ऽअ᳘पि कार्ष्मर्यम᳘याः स्युर्य᳘दि कार्ष्मर्यम᳘यान्न᳘ व्विन्देद᳘थो ऽअ᳘पि बैल्वाः᳘ स्युर᳘थो खादिरा ऽअ᳘थो ऽऔ᳘दुम्बरा ऽएते हि᳘ वृक्षा᳘ यज्ञि᳘यास्त᳘स्मादेते᳘षां व्वृक्षा᳘णां भवन्ति॥
मूलम् - Weber
य᳘दि पा᳘लाशान्न᳘ विन्देत्॥
अ᳘थो अ᳘पि वै᳘कङ्कता स्युर्य᳘दि वै᳘कङ्कतान्न᳘ विन्देद᳘थो अ᳘पि कार्ष्मर्यम᳘याः स्युर्य᳘दि कार्ष्मर्यम᳘यान्न᳘ विन्देद᳘थो अ᳘पि वैल्वाः᳘ स्युर᳘थो खादिरा अ᳘थो औ᳘दुम्बरा एते हि᳘ वृक्षा᳘ यज्ञि᳘यास्त᳘स्मादेते᳘षां वृक्षा᳘णाम् भवन्ति॥
मूलम् - विस्वरम्
यदि पालाशान् न विन्देत्- अथो अपि वैकङ्कताः स्युः । यदि वैकङ्कतान् न विन्देत्- अथो अपि कार्ष्मर्यमयाः स्युः । यदि कार्ष्मर्यमयान् न विन्देत्- अथो अपि बैल्वाः स्युः । अथो खादिराः, अथो औदुंबराः । एते हि वृक्षा यज्ञियाः । तस्मादेतेषां वृक्षाणां भवन्ति ॥ २० ॥
सायणः
स्पष्टमन्यत् ॥ २० ॥ ६ ॥ (३. ३.)
इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनशतपथब्राह्मणभाष्ये प्रथमकाण्डे तृतीयाध्याये तृतीयं ब्राह्मणम् ॥३॥३ ॥
इति प्रथमकाण्डे द्वितीयप्रपाठकः समाप्तः ।
Eggeling
- Should he be unable to procure them of Palāśa wood, they may be of Vikankata wood (Flacourtia Sapida); and if he be unable to procure any of Vikankata, they may be of Kārshmarya wood (Gmelina Arborea); and if he be unable to procure any of Kārshmarya wood, they may be of Vilva (Aegle Marmelos), or of Khadira (Acacia Catechu), or of Udumbara wood (Ficus Glomerata). These, doubtless, are the trees that are suitable for sacrificial purposes, and from these trees they (the enclosing-sticks) are therefore (taken).
-
“इध्मं प्रोक्षति विस्रंस्य वेदिं च बर्हिः प्रतिगृह्य वेद्यां कृत्वा पुरस्ताद् ग्रन्थिं कृष्णो ऽसीति प्रतिमन्त्रम्” (श्रौ. सू. २. २०९) तथा “इध्मः समिन्धनात्” इति निरु. ८ । २ । १ । ↩︎ ↩︎ ↩︎
-
83:1 The fire-wood had been brought by the Āgnīdhra and laid down on the altar. The Adhvaryu now unties and sprinkles it. [Before doing so he has, as usual, to ask and obtain the permission of the Brahman. The same is the case in regard to the barhis, but not in regard to the altar.] Kāty. II, 7, 19. ↩︎
-
84:1 ? Ākhare-shṭḥa; it probably has a double meaning in this place, viz. ’that which dwells in a den (ākhara)’ and ’that which has its place on the hearth (khara).' ↩︎
-
प्र᳘यछंति M. B. C. ॰छति I. ↩︎
-
84:2 ‘At the beginning of the sacrifice the Adhvaryu makes of the load of Darbha or sacred grass, which has been brought to the sacrificial compound, seven mushṭis or bunches, each of which is tied together with a stalk of grass, just as the Baresma (Barsom) of the Parsis. The several names of these seven bunches are, 1. Vajamānamushṭi, the bunch kept by the sacrificer himself in his hand as long as the sacrifice lasts. 2. Three bunches from the Barhis, or the covering of the Vedi on which the sacrificial vessels are put. These are unloosened and spread all over the Vedi. 3. Prastara. This bunch, which must remain tied, is put over the Darbha of the Vedi. 4. Paribhojanī. From this bunch the Adhvaryu takes a handful out for each priest, and the sacrificer and his wife, which they then use for their seat. 5. The Veda. This bunch is made double in its first part; the latter part is cut off and has to remain on the Vedi; it is called parivāsana. The Veda itself is always wandering from one priest to the other, and is given to the sacrificer and his wife. It is handed over to the latter only when one of the priests makes her recite a mantra.’ Haug’s translation of the Ait. Br. p. 79. ↩︎
-
“कुशप्रस्वः प्रस्तरः उपसन्नद्धं बर्हिः" का. श्रौ. सू. ५ । १ । २६ । पुष्पितदर्भमञ्जर्यो बर्हिषः समीपे बद्धः प्रस्तरो भवतीत्यर्थः । प्रस्तरो दर्भमुष्टिरूपः । इति महीधरः । ↩︎ ↩︎
-
‘पवित्रे निधाय प्रणीतासु बर्हिर्विस्रंस्य पुरस्तात्प्रस्तरग्रहणं विष्णोरिति’ (श्रौ. सू. २. २११) । ↩︎ ↩︎
-
85:1 Because, according to Sāyaṇa, it lies on the front, or eastern side of the altar, near the Āhavanīya fire, and men also wear their topknot (in the form of a ball or lump) on the fore-part of their head. The prastara he hands to the Brahman-priest. Katy. II, 7, 22. ↩︎
-
‘अन्यैरवच्छाद्य’ (श्रौ. सू. २. २१२) । ↩︎
-
85:2 Prakliptam; Sāyaṇa takes it in the sense of ‘a completely formed (child).’ ↩︎
-
‘वेदिं स्तृणात्यूर्णम्रदसमिति त्रिवृत्’- (श्रौ. सू. २. २१२) । ↩︎
-
86:1 ‘Around her on the south sit the gods and those man-gods (manushyadevāḥ), the priests who have studied and teach revealed lore.’ Kāṇva recension. ↩︎
-
‘समाप्यत इत्येकः’ इति प्रतिभाति । ↩︎
-
ऋ. सं. ८ । ४५ । १ निरु. ६ । ३ । ५ । वा. सं. ७ । ३२ । इत्यत्र द्रष्टव्यो ऽयमृक्पादः । ↩︎
-
‘अधरमूलम्’ (श्रौ. सू. २. २१५) । ↩︎
-
86:2 Viz. in three layers, one beside the other, each consisting of one handful of grass. He first spreads a layer on the east side from the southern to the northern shoulder of the altar, with the tops of the blades turned towards the east; then a second one west of it, so as to cover the roots of the first with the tops of the second layer; and in the same way a third one on the west side of the altar. If he thinks fit, he may make more than three layers, but their number should be uneven. Kāty. II, 7, 22-26 (schol.). ↩︎
-
86:3 That is to say, he is to begin on the west side, and in laying down the successive layers, he is to lift up (with a stick or some other object) the heads of the preceding layer and push the roots of the succeeding one under them. Ib. 27 (schol.). ↩︎
-
पूर्वा᳘र्धो वे M apogr. ↩︎
-
‘इध्मात्समिधमादायाहवनीयं कल्पयत्युपर्युपरि प्रस्तरं धारयन्’ (श्रौ. सू. २. २१९) । ↩︎ ↩︎
-
87:1 He takes one stick from the fuel and gets the fire ready (for the oblations, either by throwing the stick into it, or by stirring it with the stick). Ib. 29. ↩︎
-
87:2 The Āhavanīya is at the foremost or eastern end of the sacrificial ground. ↩︎
-
“यत्र खल्विमं हव्यवाहम् अग्निं पुरा” इति क्वचित्पुस्तके पाठः । ↩︎
-
88:1 See I, 2, 3, 1. ↩︎
-
88:2 The call ‘vashaṭ’ (or vaushaṭ), apparently signifying ‘may he (Agni) carry it (the oblation) up!’ (from vah, to bear, carry), is pronounced by the Hotr̥ at the end of the yāgyās or offering prayers (see note on I, 5, 1, 16). Professor Weber has somewhere proposed to derive it from vaksh, to grow, increase, hence ‘may it prosper, or agree, with you!’ Different, but quite fanciful, interpretations of vashaṭ are given Śat. Br. I, 5, 2, 18; Ait. Br. 3, 6. As to the awful solemnity of this formula, and the danger arising from a careless use of it, see Ait. Br. 3, 8, on which Haug remarks, ‘Up to the present day the Shrotriyas or sacrificial priests never dare to pronounce this formula save at the time of sacrificing. They say that if they would do so at any other time, they would be cursed by the gods.’ ↩︎
-
ते च मन्त्रा वा. सं. २ । २ । ४ । ५ । ६ । ↩︎
-
धातुपाठे तु ‘अव रक्षणगतिकान्तिप्रीतितृप्त्यवगमप्रवेशश्रवणस्वाम्यर्थयाचनक्रियेच्छादीप्त्यवाप्त्यालिङ्गनहिंसादानभागवृद्धिषु’ इत्युपलभ्यते । ↩︎
-
89:1 The Kāṇva text has as follows:–They said, ‘So be it! what shall fall outside the enclosure that shall be yours! and what they shall offer just upon you that shall sate you!’ for what they offer just upon them that does indeed sate them (enān); and what they offer up in the fire that is theirs (eshām, ? the gods’); and what falls outside the enclosure by that he shall incur no guilt, &c. ↩︎
-
90:1 The Brahman, or supreme spirit (? or, sacred writ), is more than once identified with the Palāśa tree in the Śatapatha Br., as in V, 2, 4, 18; VI, 6, 3, 7; XII, 7, 2, 15; and with the leaf of that tree (palāśasya palāśam) in II, 6, 2, 8. [? Cf. Rig-veda X, 31, 7, ‘Which was the wood, which was the tree, out of which they fashioned heaven and earth?’ and Taitt. Br. II, 8, 9, 6, ‘Brahma was the wood, Brahma was that tree out of which they fashioned heaven and earth;’ also Ath.-veda X, 7, 38, ‘The gods form part of the divine essence (Skambha-Brahma) as branches of a tree.’] ↩︎