०१

विश्वास-प्रस्तुतिः

पु᳘रुषो वै᳘ यज्ञः॥
पु᳘रुषस्ते᳘न यज्ञो य᳘देनं पु᳘रुषस्तनुत᳘ ऽएष वै᳘ ताय᳘मानो या᳘वानेव पु᳘रुषस्ता᳘वान्वि᳘धीयते त᳘स्मात्पु᳘रुषो यज्ञः॥

मूलम् - श्रीधरादि

पु᳘रुषो वै᳘ यज्ञः॥
पु᳘रुषस्ते᳘न यज्ञो य᳘देनं पु᳘रुषस्तनुत᳘ ऽएष वै᳘ ताय᳘मानो या᳘वानेव पु᳘रुषस्ता᳘वान्वि᳘धीयते त᳘स्मात्पु᳘रुषो यज्ञः॥

मूलम् - Weber

पु᳘रुषो वै᳘ यज्ञः॥
पु᳘रुषस्ते᳘न यज्ञो य᳘देनम् पु᳘रुषस्तनुत᳘ एष वै᳘ ताय᳘मानो यावानेव पु᳘रुषस्तावान्वि᳘धीयते त᳘स्मात्पु᳘रुषो यज्ञः॥

मूलम् - विस्वरम्

पुरुषो वै यज्ञः । पुरुषस्तेन यज्ञः- यदेनं पुरुषस्तनुते । एष वै तायमानो यावानेव पुरुषस्तावान् विधीयते, तस्मात्पुरुषो यज्ञः ॥ १ ॥

सायणः

अथ जुहूपभृद्ध्रुवास्वेतस्याज्यस्य 1 स्रुवेण ग्रहणं विधित्सुस्तत्समुदायस्य पुरुषावयवकल्पनया स्तुत्यर्थं तत्साध्यस्य यज्ञस्य पुरुषतादात्म्यमाह- पुरुषो वा इति । तादात्म्यमुपपादयति- पुरुषस्तेनेति । पुरुषप्रयत्ननिर्वर्त्यत्वाद् यज्ञस्य पुरुषत्वमित्यर्थः । एष वा इत्यादि । यत एवं यज्ञः पुरुषः, अतः ‘एषः‘ यज्ञो विस्तार्यमाणः, यदवयवपरिमाणविशिष्टः पुरुषः, तादृगवयवपरिमाणविशिष्ट एव विधीयते ॥ १ ॥

Eggeling
  1. Now the sacrifice is the man. The sacrifice is the man for the reason that the man spreads (performs) it; and that in being spread it is made of exactly the same extent as the man 2: this is the reason why the sacrifice is the man.

०२

विश्वास-प्रस्तुतिः

(स्त᳘) त᳘स्येयमेव᳘ जुहूः᳘॥
(रि) इय᳘मुपभृ᳘दा᳘त्मैव᳘ ध्रुवा तद्वा᳘ ऽआत्म᳘न ऽए᳘वेमा᳘नि स᳘र्व्वाण्य᳘ङ्गानि प्र᳘भवन्ति त᳘स्मादु ध्रुवा᳘या ऽएव स᳘र्व्वा यज्ञः प्र᳘भवति॥

मूलम् - श्रीधरादि

(स्त᳘) त᳘स्येयमेव᳘ जुहूः᳘॥
(रि) इय᳘मुपभृ᳘दा᳘त्मैव᳘ ध्रुवा तद्वा᳘ ऽआत्म᳘न ऽए᳘वेमा᳘नि स᳘र्व्वाण्य᳘ङ्गानि प्र᳘भवन्ति त᳘स्मादु ध्रुवा᳘या ऽएव स᳘र्व्वा यज्ञः प्र᳘भवति॥

मूलम् - Weber

त᳘स्येयमेव᳘ जुहूः᳟॥
इय᳘मुपभृ᳘दाॗत्मैव᳘ ध्रुवा तद्वा᳘ आत्म᳘न एॗवेमा᳘नि स᳘र्वाण्य᳘ङ्गानि प्र᳘भवन्ति त᳘स्मादु ध्रुवा᳘या एव स᳘र्वो यज्ञः प्र᳘भवति॥

मूलम् - विस्वरम्

तस्येयमेव जुहूः, इयमुपभृत्; आत्मैव ध्रुवा । तद्वा आत्मन एवेमानि सर्वाण्यङ्गानि प्रभवन्ति । तस्मादु ध्रुवाया एव सर्वो यज्ञः प्रभवति ॥ २ ॥

सायणः

तादृगवयवक्लृप्तिमभिनयेन दर्शयति- तस्येति । या ‘जुहूः‘ सा ’इयम्‘ अयम्, दक्षिणो बाहुरित्यर्थः । तथा या ‘उपभृत्‘ सा ’इयम्‘ वामबाहुः । ध्रुवा ‘आत्मा’ मध्यदेह इत्यर्थः । अत एव तैत्तिरीयके विस्पष्टमाम्नायते- “जुहूर्दक्षिणो हस्तः, उपभृत् सव्यः, आत्मा ध्रुवेति" (तै. ब्रा. ३ । ३ । १) । ध्रुवाया आत्मत्वमुपपादयति- तद्वा इति । ‘आत्मनः‘ मध्यदेहादेव ‘इमानि‘ परितो वर्तमानानि हस्तपादादीन्यङ्गानि सर्वाणि ‘प्रभवन्ति‘ उत्पद्यन्ते । यस्मादेवं लोके ‘तस्मात्‘ धुवाया आत्मत्वात्, तस्या एव सकाशात् कृत्स्नो ऽपि यज्ञः ‘प्रभवति‘ उत्पद्यते । ध्रुवास्थस्याज्यस्य सर्वयागसाधारण्यमनेन प्रतिपादितं भवति ॥ २ ॥

Eggeling
  1. The juhū (spoon) further belongs to that (man-shaped sacrifice), and so does the upabhr̥t; and the dhruvā 3 represents its trunk. Now it is from the

trunk that all these limbs proceed, and for this reason the entire sacrifice proceeds from the dhruvā.

०३

विश्वास-प्रस्तुतिः

प्राण᳘ ऽएव᳘ स्रुवः᳘॥
सो ऽयं᳘ प्राणः स᳘र्व्वाण्य᳘ङ्गान्यनुस᳘ञ्चरति त᳘स्मादु स्रुवः स᳘र्व्वा ऽअ᳘नु स्रु᳘चः स᳘ञ्चरति॥

मूलम् - श्रीधरादि

प्राण᳘ ऽएव᳘ स्रुवः᳘॥
सो ऽयं᳘ प्राणः स᳘र्व्वाण्य᳘ङ्गान्यनुस᳘ञ्चरति त᳘स्मादु स्रुवः स᳘र्व्वा ऽअ᳘नु स्रु᳘चः स᳘ञ्चरति॥

मूलम् - Weber

प्राण᳘ एव᳘ स्रुवः᳟᳟॥
सो ऽय᳘म् प्राणः स᳘र्वाण्यङ्गान्यनुसं᳘चरति त᳘स्मादु स्रुवः स᳘र्वा अ᳘नु स्रुचः सं᳘चरति॥

मूलम् - विस्वरम्

प्राण एव स्रुवः । सो ऽयं प्राणः सर्वाण्यङ्गान्यनुसञ्चरति । तस्मादु स्रुवः सर्वा अनु स्रुचः सञ्चरति ॥ ३ ॥

सायणः

जुह्वादिषु सर्वासु स्रुक्षु स्रुवस्य संचरणमुपपादयितुं तस्य प्राणरूपतामाह- प्राण एवेति । देहमध्ये ऽवस्थितः प्राणवायुर्यस्मात् सर्वाण्यङ्गानि नाडीभिः क्रमेण व्याप्नोति, तस्मात्तदात्मकः स्रुवो ऽपि जुह्वाद्याः सर्वाः ‘स्रुचः’ ‘अनु’-लक्ष्य क्रमेण संचरति ॥ ३ ॥

Eggeling
  1. The dipping-spoon (sruva, masc.) is no other than the breath. This breath passes through (or, goes to) all the limbs, and for that reason the dipping-spoon goes to all the offering-spoons (sruc, fem.).

०४

विश्वास-प्रस्तुतिः

त᳘स्यासा᳘वेव द्यौ᳘र्जुहूः॥
(र᳘) अ᳘थेद᳘मन्त᳘रिक्षमुपभृ᳘दिय᳘मेव᳘ ध्रुवा तद्वा᳘ ऽअस्या᳘ ऽए᳘वेमे स᳘र्व्वे लोकाः प्र᳘भवन्ति त᳘स्मादु ध्रुवा᳘या ऽएव स᳘र्व्वो यज्ञः प्र᳘भवति॥

मूलम् - श्रीधरादि

त᳘स्यासा᳘वेव द्यौ᳘र्जुहूः॥
(र᳘) अ᳘थेद᳘मन्त᳘रिक्षमुपभृ᳘दिय᳘मेव᳘ ध्रुवा तद्वा᳘ ऽअस्या᳘ ऽए᳘वेमे स᳘र्व्वे लोकाः प्र᳘भवन्ति त᳘स्मादु ध्रुवा᳘या ऽएव स᳘र्व्वो यज्ञः प्र᳘भवति॥

मूलम् - Weber

त᳘स्यासा᳘वेव द्यौ᳘र्जुहूः॥
अ᳘थेद᳘मन्त᳘रिक्षमुपभृ᳘दिय᳘मेव᳘ध्रुवा तद्वा᳘ अस्या᳘ एॗवेमे स᳘र्वे लोकाः प्र᳘भवन्ति त᳘स्मादु ध्रुवा᳘या एव स᳘र्वो यज्ञः प्र᳘भवति॥

मूलम् - विस्वरम्

तस्यासावेव द्यौर्जुहूः, अथेदमन्तरिक्षमुपभृत्, इयमेव ध्रुवा । तद्वा अस्या एवेमे सर्वे लोकाः प्रभवन्ति । तस्मादु ध्रुवाया एव सर्वो यज्ञः प्रभवति ॥ ४ ॥

सायणः

एवं पुरुषावयवादिकल्पनया 4 जुह्वादिसमुदायं प्रशस्य, लोकतादात्म्यप्रतिपादनेनापि तं प्रशंसति- तस्येति । ‘तस्य‘ यज्ञस्य ‘असौ‘ दूरदेशे ऽवस्थिता द्यौरेव जुहूः; इदमेवान्तरिक्षमुपभृत्; ‘इयमेव‘ भूमिर्ध्रुवा; जुह्वादयो लोकत्रयात्मिका इत्यर्थः 5 । अस्त्वेवं किं तत इत्याह- तद्वा इति । ‘तत्‘ तथा सति ‘अस्याः‘ भूम्या एव सकाशाद् यस्मादिमे सर्वे लोकाः ‘प्रभवन्ति‘ उत्पद्यन्ते, तस्मादेव कारणात् पृथिव्यात्मिकाया ध्रुवाया एव सर्वो यज्ञः प्रभवति । इतो ऽपि ध्रुवास्थमाज्यं सर्वयागसाधारणमित्यर्थः ॥ ४ ॥

Eggeling
  1. That juhū further is to him no other than yonder sky, and the upabhr̥t this atmosphere, and the dhruvā this same (earth). Now it is from this (earth) that all the worlds originate: and from the dhruvā, therefore, the whole sacrifice proceeds.

०५

विश्वास-प्रस्तुतिः

(त्य) अय᳘मेव᳘ स्रुवो᳘ यो ऽयं प᳘वते᳘॥
सो ऽय᳘मिमान्त्स᳘र्व्वाल्लोँकान᳘नुपवते त᳘स्मादु स्रुवः स᳘र्व्वा अ᳘नु स्रु᳘चः स᳘ञ्चरति॥

मूलम् - श्रीधरादि

(त्य) अय᳘मेव᳘ स्रुवो᳘ यो ऽयं प᳘वते᳘॥
सो ऽय᳘मिमान्त्स᳘र्व्वाल्लोँकान᳘नुपवते त᳘स्मादु स्रुवः स᳘र्व्वा अ᳘नु स्रु᳘चः स᳘ञ्चरति॥

मूलम् - Weber

अय᳘मेव᳘ स्रुवोॗ यो ऽयम् प᳘वते᳟᳟॥
सो ऽय᳘मिमांत्स᳘र्वांल्लोकान᳘नुपवते त᳘स्मादु स्रुवः स᳘र्वा अ᳘नु स्रु᳘चः सं᳘चरति॥

मूलम् - विस्वरम्

अयमेव स्रुवो यो ऽयं पवते । सो ऽयमिमान् सर्वान् लोकाननुपवते । तस्मादु स्रुवः सर्वा अनु स्रुचः सञ्चरति ॥ ५ ॥

सायणः

अस्मिन्नपि पक्षे स्रुवस्य सर्वासु स्रुक्षु संचरणमुपपादयति- अयमेवेति । ‘यो ऽयं‘ लोकत्रये वायुः ‘पवते‘ वाति, तदात्मक एव स्रुवः । स च बाह्यो वायुः, यथा सर्वान् लोकान् संचरति, तथैव तदात्मकस्य स्रुवस्यापि लोकत्रयात्मिकासु स्रुक्षु सञ्चरणं युक्तमित्यर्थः ॥ ५॥

Eggeling
  1. The dipping-spoon then is no other than that blowing one (the wind); it is this that sweeps across all these worlds: and for that reason the sruva goes to all the offering-spoons.

०६

विश्वास-प्रस्तुतिः

स᳘ ऽएष᳘ यज्ञ᳘स्ताय᳘मानः॥
(नो) देवे᳘भ्यस्तायत ऽऋतु᳘भ्यश्छ᳘न्दोभ्यो य᳘द्धविस्त᳘द्देवा᳘नां यत्सो᳘मो रा᳘जा य᳘त्पुरोडा᳘शस्तत्त᳘दादि᳘श्य गृह्णात्यमु᳘ष्मै त्वा जु᳘ष्टं गृह्णामी᳘त्येव᳘मु हैते᳘षाम्॥

मूलम् - श्रीधरादि

स᳘ ऽएष᳘ यज्ञ᳘स्ताय᳘मानः॥
(नो) देवे᳘भ्यस्तायत ऽऋतु᳘भ्यश्छ᳘न्दोभ्यो य᳘द्धविस्त᳘द्देवा᳘नां यत्सो᳘मो रा᳘जा य᳘त्पुरोडा᳘शस्तत्त᳘दादि᳘श्य गृह्णात्यमु᳘ष्मै त्वा जु᳘ष्टं गृह्णामी᳘त्येव᳘मु हैते᳘षाम्॥

मूलम् - Weber

स᳘ एष᳘ यज्ञस्ताय᳘मानो॥
देवेभ्यस्तायत ऋतु᳘भ्यश्छ᳘न्दोभ्यो य᳘द्धविस्त᳘द्देवा᳘नां यत्सो᳘मो राजा य᳘त्पुरोडा᳘शस्तत्त᳘दादि᳘श्य गृह्णात्यमु᳘ष्मे त्वा जु᳘ष्टं गृह्णामी᳘त्येव᳘मु हैते᳘षाम्॥

मूलम् - विस्वरम्

स एष यज्ञस्तायमानो देवेभ्यस्तायते । ऋतुभ्यः, छन्दोभ्यः । यद्धविः, तद्देवानाम् । यत्सोमो राजा, यत्पुरोडाशः, तत्तदादिश्य गृह्णाति- अमुष्मै त्वा जुष्टं गृह्णामीति । एवमु हैतेषाम् ॥ ६ ॥

सायणः

अथ तासु स्रुक्षु- आज्यग्रहणं विधित्सुस्तस्य पुरोडाशादिहविरन्तरवत्प्रसक्तं देवतादेशनपूर्वकत्वं निवारयितुमाह- स एष इति । ‘तायमानः‘ विस्तार्यमाणो यज्ञः, प्रथममग्न्यादिभ्यः प्रधानभूतेभ्यो ‘देवेभ्यः‘ तादर्थ्ये चतुर्थी, (पा. सू. १ । ४ । ४४ । वार्तिक १) देवतार्थं ‘तायते‘ विस्तार्यते। “तनु विस्तारे” (त. उ. १)- इत्यस्मात् कर्मणि यकि, (पा. सू. ३ । १ । ६७) “तनोतेर्यकि"- (पा० सू० ६ । ४ । ४४) इत्यात्वम् । ततः ‘ऋतुभ्यः’ वसन्तादिभ्यः प्रयाजदेवताभ्यः, ‘छन्दोभ्यः‘ गायत्र्यादिभ्यो ऽनुयाजदेवताभ्यश्च; तायत इति शेषः । तच्च पुरोडाशादिलक्षणं ‘यद्धविः‘ तद्देवानां स्वभूतम्, अतस्तद्देवानामादेशपुरःसरं ग्रहीतव्यम् । कुत एतदित्यत आह- एवमिति । एवमेव हि ‘तेषाम्‘ अग्न्यादिदेवतानां दर्शपूर्णमासादिषु सोमयागादिषु च नामादेशविशिष्टा मन्त्राः समाम्नाताः । “अग्नये त्वा जुष्टं गृह्णामि" (वा. सं. १ । १०)- इति “अग्नीषोमाभ्या त्वा जुष्टं गृह्णामि” वा. सं. ७ । ८- इति पुरोडाशनिर्वापे; सोमरसग्रहणेष्वैन्द्रवायवादिषु “उपयामगृहीतो ऽसि वायव इन्द्रवायुभ्यां त्वा” (वा. सं. ७ । ८ । १ । २)- इति ॥ ६ ॥

Eggeling
  1. Now when this sacrifice is being performed, it is performed for the gods, the seasons, and the metres (or sacred texts). To the gods belongs what sacrificial food there is, to wit, king Soma and the sacrificial cake: all this he takes, while announcing it with the formula, ‘I take thee, agreeable to so and so!’ for thus it becomes theirs.

०७

विश्वास-प्रस्तुतिः

(म᳘) अ᳘थ यान्या᳘ज्यानि गृह्य᳘न्ते॥
(न्त ऽ) ऋतु᳘भ्यश्चैव ता᳘नि च्छ᳘न्दोभ्यश्च गृह्यन्ते तत्तद᳘नादिश्या᳘ज्यस्यैव᳘ रूपे᳘ण गृह्णाति स वै᳘ चतु᳘र्ज्जुह्वां᳘ गृह्णा᳘त्यष्टौ कृ᳘त्व उपभृ᳘ति॥

मूलम् - श्रीधरादि

(म᳘) अ᳘थ यान्या᳘ज्यानि गृह्य᳘न्ते॥
(न्त ऽ) ऋतु᳘भ्यश्चैव ता᳘नि च्छ᳘न्दोभ्यश्च गृह्यन्ते तत्तद᳘नादिश्या᳘ज्यस्यैव᳘ रूपे᳘ण गृह्णाति स वै᳘ चतु᳘र्ज्जुह्वां᳘ गृह्णा᳘त्यष्टौ कृ᳘त्व उपभृ᳘ति॥

मूलम् - Weber

अ᳘थ यान्या᳘ज्यानि गृह्य᳘न्ते॥
ऋतु᳘भ्यश्चैव ता᳘नि छ᳘न्दोभ्यश्च गृह्यन्ते तत्तद᳘नादिश्या᳘ज्यस्यैव᳘ रूपे᳘ण गृह्णाति स वै चतु᳘र्जुह्वा᳘म् 6 गृह्णात्यष्टौ कृ᳘त्व उपभृ᳘ति॥

मूलम् - विस्वरम्

अथ यान्याज्यानि गृह्यन्ते- ऋतुभ्यश्चैव तानि छन्दोभ्यश्च गृह्यन्ते । तत्तदनादिश्य- आज्यस्यैव रूपेण गृह्णाति । स वै चतुर्जुह्वां गृह्णाति, अष्टौ कृत्व उपभृति ॥ ७ ॥

सायणः

अथेति । अथ तस्मिन् यज्ञे यदाज्यग्रहणम्, तत्प्रयाजानुयाजदेवतार्थम्; ‘च’- शब्दादेव 7 स्विष्टकृद्यागार्थं च । ‘तत्‘ तथा सति ‘तत्‘ आज्यं देवतानाम् ‘अनादिश्य‘ अनुक्त्वा- आज्यसम्बन्धिनैव 8 रूपेण गृह्णाति । आज्यसम्बन्धि रूपं च देवताया अनादेशनम्, न वा एतत्कस्यैचन देवतायै हविर्गृह्णन्नादिशति- यदाज्यम् इत्यनादेशनस्य तद्धर्मतया प्रागाम्नातत्वात् (श० प० १ । २ । १ । २२) ॥

अथ जुहूपभृतोराज्यग्रहणं विधत्ते- स वा इति । (का. श्रौ. सू. २ । २०२- २०४) । जुह्वां चतुर्वारं स्रुवेणाज्यं गृह्णीयात्; उपभृत्यष्टवारम् ॥ ७ ॥

Eggeling
  1. And whatever oblations of butter are taken, they are taken for the seasons and the metres. Every one of them he takes in the form of butter without announcing it (to any particular deity). In the juhū he takes of it four times (with the sruva from the pot), in the upabhr̥t eight times 9.

०८

विश्वास-प्रस्तुतिः

स य᳘च्चतु᳘र्जुह्वां᳘ गृह्णा᳘ति॥
(त्यृ) ऋतु᳘भ्यस्त᳘द्गृह्णाति प्रयाजे᳘भ्यो हि त᳘द् गृह्णा᳘त्यृत᳘वो हि᳘ प्रयाजास्तत्तद᳘नादिश्या᳘ज्यस्यैव᳘ रूपे᳘ण गृह्णात्य᳘जामितायै जामि᳘ ह कुर्याद्य᳘द्वसन्ता᳘य त्वा ग्रीष्मा᳘य त्वे᳘ति गृह्णीयात्त᳘स्माद᳘नादिश्या᳘ज्यस्यैव᳘ रूपे᳘ण गृह्णाति॥

मूलम् - श्रीधरादि

स य᳘च्चतु᳘र्जुह्वां᳘ गृह्णा᳘ति॥
(त्यृ) ऋतु᳘भ्यस्त᳘द्गृह्णाति प्रयाजे᳘भ्यो हि त᳘द् गृह्णा᳘त्यृत᳘वो हि᳘ प्रयाजास्तत्तद᳘नादिश्या᳘ज्यस्यैव᳘ रूपे᳘ण गृह्णात्य᳘जामितायै जामि᳘ ह कुर्याद्य᳘द्वसन्ता᳘य त्वा ग्रीष्मा᳘य त्वे᳘ति गृह्णीयात्त᳘स्माद᳘नादिश्या᳘ज्यस्यैव᳘ रूपे᳘ण गृह्णाति॥

मूलम् - Weber

स य᳘च्चतु᳘र्जुह्वां᳘ गृह्णाति॥
ऋतु᳘भ्यस्त᳘द्गृह्णाति प्रयाजे᳘भ्यो हि त᳘द्गृह्णा᳘त्यृत᳘वो हि᳘ प्रयाजास्तत्तद᳘नादिश्या᳘ज्यस्यैव᳘ रूपेण गृह्णात्य᳘जामितायै जामि᳘ ह कुर्याद्य᳘द्वसन्ता᳘य त्वा ग्रीष्मा᳘य त्वे᳘ति गृह्णीयात्त᳘स्माद᳘नादिश्या᳘ज्यस्यैव᳘ रूपे᳘ण गृह्णाति॥

मूलम् - विस्वरम्

स यच्चतुर्जुह्वां गृह्णाति- ऋतुभ्यस्तद् गृह्णाति, प्रयाजेभ्यो हि तद् गृह्णाति । ऋतवो हि प्रयाजाः तत्तदनादिश्य- आज्यस्यैव रूपेण गृह्णाति- अजामितायै । जामि ह कुर्याद्- यद्वसन्ताय त्वा ग्रीष्माय त्वेति गृह्णीयात् तस्मादनादिश्य- आज्यस्यैव रूपेण गृह्णाति ॥ ८ ॥

सायणः

तत्र जुहूस्थमाज्यं किमथमित्याशङ्क्य तत्प्रयोजनमाह- स यदिति । के पुनस्त ऋतवः, येभ्यो जुहूस्थमाज्यं भाग इत्यत आह- प्रयाजेभ्य इति । प्रयाजदेवता हि- ऋतवो वसन्ताद्याः । तेषां च नामादेशनरहितमेवाज्यं ग्रहीतव्यमित्युक्तम्; तदिदानीमनूद्य तस्य प्रयोजनमाह- तदिति । ‘तत्‘ तथा सति ‘तत्‘ अनादिश्य ग्रहणम् ‘अजामितायै‘ जामितादोषराहित्याय सम्पद्यते; हविर्ग्रहणाज्यग्रहणयोर्देवतादेशने सत्येकरूपेणाजामिता स्यात् । तमिमं दोषं विपक्षे दर्शयति- जामि हेति ॥ ८ ॥

Eggeling
  1. Now when he takes of it four times (with the sruva) in the juhū, he takes it for the seasons, since

he takes it for the fore-offerings 10, and the fore-offerings are the seasons: all this he takes in the form of butter without making any announcement, in order to avoid sameness; for if he were to take it with the formulas ‘For Spring (I take) thee!’ ‘For Summer–thee!’ he would commit (the fault of) a repetition 11: he therefore takes it in the form of butter without making any announcement.

०९

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ य᳘दष्टौ कृ᳘त्व ऽउपभृ᳘ति गृह्णा᳘ति॥
च्छ᳘न्दोभ्यस्त᳘द्गृह्णात्यनुयाजे᳘भ्यो हि तद्गृह्णा᳘ति च्छ᳘न्दाᳫँ᳭सि᳘ ह्यनुयाजास्तत्तद᳘नादिश्या᳘ज्यस्यैव᳘ रूपे᳘ण गृह्णात्य᳘जामितायै जामि᳘ ह कुर्याद्य᳘द्गायत्र्यै᳘ त्वा त्रिष्टुभेत्वे᳘ति गृह्णीयात्त᳘स्माद᳘नादिश्या᳘ज्यस्यैव᳘ रूपे᳘ण गृह्णाति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ य᳘दष्टौ कृ᳘त्व ऽउपभृ᳘ति गृह्णा᳘ति॥
च्छ᳘न्दोभ्यस्त᳘द्गृह्णात्यनुयाजे᳘भ्यो हि तद्गृह्णा᳘ति च्छ᳘न्दाᳫँ᳭सि᳘ ह्यनुयाजास्तत्तद᳘नादिश्या᳘ज्यस्यैव᳘ रूपे᳘ण गृह्णात्य᳘जामितायै जामि᳘ ह कुर्याद्य᳘द्गायत्र्यै᳘ त्वा त्रिष्टुभेत्वे᳘ति गृह्णीयात्त᳘स्माद᳘नादिश्या᳘ज्यस्यैव᳘ रूपे᳘ण गृह्णाति॥

मूलम् - Weber

अ᳘थ य᳘दष्टौ कृ᳘त्व उपभृ᳘ति गृह्णाति॥
छ᳘न्दोभ्यस्त᳘द्गृह्णात्यनुयाजे᳘भ्यो हि तद्गृह्णा᳘ति छ᳘न्दांसि ह्य᳘नुयाजास्तत्तद᳘नादिश्या᳘ज्यस्यैव᳘ रूपेण गृह्णात्य᳘जामितायै जामि᳘ ह कुर्याद्य᳘द्गायत्र्यै᳘ त्वा त्रि᳘ष्टुभे त्वे᳘ति गृह्णीयात्त᳘स्माद᳘नादिश्या᳘ज्यस्यैव᳘ रूपेण गृह्णाति॥

मूलम् - विस्वरम्

अथ यदष्टौ कृत्व उपभृति गृह्णाति- छन्दोभ्यस्तद् गृह्णाति, अनुयाजेभ्यो हि तद् गृह्णाति । छन्दांसि ह्यनुयाजाः । तत्तदनादिश्य- आज्यस्यैव रूपेण गृह्णाति- अजामितायै । जामि ह कुर्याद्- यद् गायत्र्यै त्वा त्रिष्टुभे त्वेति गृह्णीयात् । तस्मादनादिश्य- आज्यस्यैव रूपेण गृह्णाति ॥ ९ ॥

सायणः

औपभृताज्यस्य विनियोगमाह- अथेति । अत्र छन्दसां कः प्रसङ्ग इत्यत आह- अनुयाजेभ्य इति । गायत्र्यादिच्छन्दोरूपा ह्यनुयाजदेवताः; अतो ऽनुयाजेभ्य एवोपभृति तदाज्यग्रहणम् । अत्रापि देवतानादेशनं पूर्ववज्जामितादोषराहित्यायेत्याह- तदिति । पूर्ववद्विपक्षे बाधमुपन्यस्यानादेशनमुपपादयति- जामि हेति ॥ ९ ॥

Eggeling
  1. When, on the other hand, he takes eight times (with the sruva) in the upabhr̥t, he takes it for the metres 12, since it is for the after-offerings 10 that he takes it; and the after-offerings are the metres: all this he takes in the form of butter without making any announcement, in order to avoid sameness; for were he to take it with the formulas ‘For the Gāyatrī–thee!’ ‘For the Trishṭubh–thee!’ he would commit a repetition: he therefore takes it in the form of butter without making any announcement.

१०

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ य᳘च्चतु᳘र्ध्रुवा᳘यां गृह्णा᳘ति॥
स᳘र्व्वस्मै त᳘द्यज्ञा᳘य गृह्णाति तत्तद᳘नादिश्या᳘ज्यस्यैव᳘ रूपे᳘ण गृह्णाति क᳘स्मा ऽउ᳘ ह्यादिशेद्य᳘तः स᳘र्व्वाभ्य ऽएव᳘ देव᳘ताभ्यो ऽवद्य᳘ति त᳘स्माद᳘नादिश्या᳘ज्यस्यैव᳘ रूपे᳘ण गृह्णाति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ य᳘च्चतु᳘र्ध्रुवा᳘यां गृह्णा᳘ति॥
स᳘र्व्वस्मै त᳘द्यज्ञा᳘य गृह्णाति तत्तद᳘नादिश्या᳘ज्यस्यैव᳘ रूपे᳘ण गृह्णाति क᳘स्मा ऽउ᳘ ह्यादिशेद्य᳘तः स᳘र्व्वाभ्य ऽएव᳘ देव᳘ताभ्यो ऽवद्य᳘ति त᳘स्माद᳘नादिश्या᳘ज्यस्यैव᳘ रूपे᳘ण गृह्णाति॥

मूलम् - Weber

अ᳘थ य᳘च्चतु᳘र्ध्रुवा᳘यां गृह्णाति॥
स᳘र्वस्मै त᳘द्यज्ञा᳘य गृह्णाति तत्तद᳘नादिश्या᳘ज्यस्यैव᳘ रूपे᳘ण गृह्णाति क᳘स्मा उॗ ह्यादिशेद्य᳘तः स᳘र्वाभ्य एव᳘ देव᳘ताभ्यो ऽवद्य᳘ति त᳘स्माद᳘नादिश्या᳘ज्यस्यैव᳘ रूपे᳘ण गृह्णाति॥

मूलम् - विस्वरम्

अथ यच्चतुर्ध्रुवायां गृह्णाति- सर्वस्मै तद् यज्ञाय गृह्णाति । तत्तदनादिश्य- आज्यस्यैव रूपेण गृह्णाति । कस्मा उ ह्यादिशेत्- यतः सर्वाभ्य एव देवताभ्यो ऽवद्यति । तस्मादनादिश्य- आज्यस्यैव रूपेण गृह्णाति ॥ १० ॥

सायणः

ध्रुवायां चतुर्ग्रहणविधिपुरःसरं तत्प्रयोजनमाह- अथेति- (का . श्रौ. सू. २ । २०८) । ध्रौवाज्यग्रहणमप्याज्यधर्मेण देवतानादेशनलक्षणेन कर्त्तव्यमित्युक्त्वा ऽत्र देवतादेशनस्य प्रसक्तिरेव नास्तीत्याह- कस्मा उ ह्यादिशेदिति । ‘यतः‘ यस्मात् कारणात् ध्रुवास्थमाज्यं यज्ञे यावत्यो देवताः सन्ति, तावतीभ्यः सर्वाभ्य एव देवताभ्यः ‘अवद्यति‘ विभज्य गृह्णाति, ‘अतः‘ सर्वदेवतासाधारण्यात्- देवताविशेषस्योद्देशनं न संभवतीत्यर्थः । अत एव तैत्तिरीयके समाम्नायते- “यज् जुह्वां गृह्णाति प्रयाजेभ्यस्तद्, यदुपभृति प्रयाजानूयाजेभ्यस्तत्, सर्वस्मै वा एतद् यज्ञाय गृह्यते यद् ध्रुवायामाज्यम्"- इति (तै० ब्रा. ३ । ३ । ५ । ५) ॥ १० ॥

Eggeling
  1. Again, when he takes four times (with the sruva)

in the dhruvā, he takes it for the whole sacrifice, and all this he takes in the form of butter without making any announcement. To whom indeed should he announce it, since he cuts it off for all the deities? He therefore takes it in the form of butter without making any announcement.

११

विश्वास-प्रस्तुतिः

य᳘जमान एव᳘ जुहूम᳘नु᳘॥
यो ऽस्मा ऽअरातीय᳘ति स᳘ ऽउपभृ᳘तम᳘न्व᳘त्तैव᳘ जुहूम᳘न्वा᳘द्य ऽउपभृ᳘तम᳘न्व᳘त्तैव᳘ जुहू᳘रा᳘द्य ऽउपभृत्स वै᳘ चतु᳘र्जुह्वां गृह्णा᳘त्यष्टौ कृ᳘त्व ऽउपभृ᳘ति॥

मूलम् - श्रीधरादि

य᳘जमान एव᳘ जुहूम᳘नु᳘॥
यो ऽस्मा ऽअरातीय᳘ति स᳘ ऽउपभृ᳘तम᳘न्व᳘त्तैव᳘ जुहूम᳘न्वा᳘द्य ऽउपभृ᳘तम᳘न्व᳘त्तैव᳘ जुहू᳘रा᳘द्य ऽउपभृत्स वै᳘ चतु᳘र्जुह्वां गृह्णा᳘त्यष्टौ कृ᳘त्व ऽउपभृ᳘ति॥

मूलम् - Weber

य᳘जमान एव᳘ जुहूम᳘नु᳟᳟॥
यो ऽस्मा अरातीय᳘ति स᳘ उपभृ᳘तम᳘न्वॗत्तैव᳘ जुहूम᳘न्वाद्य उपभृ᳘तम᳘न्वॗत्तैव᳘ जुहू᳘राद्य᳘ उपभृत्स वै᳘ चतु᳘र्जुह्वां᳘ गृह्णा᳘त्यष्टौ कृ᳘त्व उपभृ᳘ति॥

मूलम् - विस्वरम्

यजमान एव जुहूमनु । यो ऽस्मा अरातीयति- स उपभृतमनु । अत्तैव जुहूमनु, आद्य उपभृतमनु । अत्तैव जुहूः, आद्य उपभृत् । स वै चतुर्जुह्वां गृह्णाति, अष्टौ कृत्व उपभृति ॥ ११॥

सायणः

अथ जुहूपभृतोराज्यग्रहणस्य चतुष्ट्वादिसंख्याविशेषमुपपादयितुमाह- ** यजमान एवे** ति । ‘यजमान एव जुहूमनु’ भागी, तस्य जुहूर्भाग इत्यर्थः । “लक्षणेत्थंभूताख्यानभागवीप्सासु” (पा० सू० १ । ४ । ९०)- इत्यनोः कर्मप्रवचनीयत्वम्; “कर्मप्रवचनीययुक्ते” (पा० सू० २ । ३ । ८)- इति द्वितीया । तथा यश्च ‘अस्मै‘ यजमानाय ‘अरातीयति‘ अरातिः शत्रुरिवाचरति, सः ‘उपभृतमनु’ उपभृत् तस्य भाग इत्यर्थः । अत एव तैत्तिरीयकम्- “यजमानदेवत्या वै जुहूः- भ्रातृव्यदेवत्योपभृत्”- इति (तै. ब्रा. ३ । ५ । ४) । तथा भोक्तुर्भोग्यस्य च क्रमेण जुहूपभृतौ भागावित्याह- अत्तैवं जुहूमिति । तद्भागत्वेन तत्तादात्म्यमाह- अत्तैव जुहूरिति । प्राग्विहितं तयोराज्यग्रहणं स्तुत्यर्थमनुवदितुमनुसन्धत्ते- स वा इति ॥ ११ ॥

Eggeling
  1. Now the sacrificer stands behind the juhū, and he who means evil to him stands behind the upabhr̥t. The eater stands behind the juhū, and what (or, he who) is to be eaten stands behind the upabhr̥t. And the juhū, indeed, is the eater, and the upabhr̥t is that which is to be eaten. In the juhū he takes four times (with the sruva), and in the upabhr̥t eight times.

१२

विश्वास-प्रस्तुतिः

स यच्चतु᳘र्जुह्वां गृह्णा᳘ति॥
अत्ता᳘रमे᳘वैतत्प᳘रिमिततरं क᳘नीयाᳫँ᳭संकरोत्य᳘थ य᳘दष्टौ कृ᳘त्व ऽउपभृ᳘ति गृह्णा᳘त्या᳘द्यमे᳘वैतद᳘परिमिततरं भू᳘याᳫँ᳭संकरोति तद्धि स᳘मृद्धं य᳘त्रात्ता क᳘नीयाना᳘द्यो भू᳘यान्॥

मूलम् - श्रीधरादि

स यच्चतु᳘र्जुह्वां गृह्णा᳘ति॥
अत्ता᳘रमे᳘वैतत्प᳘रिमिततरं क᳘नीयाᳫँ᳭संकरोत्य᳘थ य᳘दष्टौ कृ᳘त्व ऽउपभृ᳘ति गृह्णा᳘त्या᳘द्यमे᳘वैतद᳘परिमिततरं भू᳘याᳫँ᳭संकरोति तद्धि स᳘मृद्धं य᳘त्रात्ता क᳘नीयाना᳘द्यो भू᳘यान्॥

मूलम् - Weber

स य᳘च्चतु᳘र्जुह्वां᳘ गृह्णाति॥
अत्ता᳘रमेॗवैतत्प᳘रिमिततरं क᳘नीयांसं करोत्य᳘थ य᳘दष्टौ कृ᳘त्व उपभृ᳘ति गृह्णा᳘त्याद्य᳘मेॗवैतद᳘परिमिततरम् भूयांसं करोति तद्धि स᳘मृद्धं य᳘त्रात्ता क᳘नीयानाॗद्यो भू᳘यान्॥

मूलम् - विस्वरम्

स यच्चतुर्जुह्वां गृह्णाति- अत्तारमेवैतत्परिमिततरं कनीयांसं करोति । अथ यदष्टौ कृत्व उपभृति गृह्णाति- आद्यमेवैतदपरिमिततरं भूयांसं करोति । तद्धि समृद्धम्- यत्रात्ता कनीयान्, आद्यो भूयान् ॥ १२ ॥

सायणः

तत्र जुह्वां चतुर्ग्रहणमनूद्य संख्यापीयस्त्वं प्रशंसति- स यदिति । जुह्वा अत्तृरूपत्वादष्टसंख्यातश्चतुःसंख्याया अल्पीयस्त्वेनात्तारमेव परिमिततरम्, अतः ‘कनीयांसं‘ अल्पीयांसम् करोति । उपभृति-आज्यग्रहण-संख्यामनूद्य तद्भूयस्त्वं प्रशंसति- अथ यदिति । आद्यरूपा ह्युपभृत्, तत्र भोक्तृरूपजुहूः संख्याबाहुल्यात् ‘आज्यं‘ भोग्यवस्तुजातमेव ‘अपरिमिततरम्’ अधिकतरम् । अत एव ‘भूयांसं’ बहुतरम्, अतिशयेन बहुलं करोति । तद्धि समृद्धमित्यादि । यत् खलु भोक्तॄणामल्पीयस्त्वम्, भोग्यवस्तुजातस्य च भूयस्त्वम्, तत् खलु समृद्धमित्यर्थः ॥ १२ ॥

Eggeling
  1. Now when he takes four times (butter) in the juhū, he thereby makes the eater more limited, smaller; and when he takes eight times in the upabhr̥t, he makes that which is to be eaten more unlimited, more abundant: for a flourishing condition indeed exists where the eater is smaller and that which is to be eaten more abundant.

१३

विश्वास-प्रस्तुतिः

(न्त्स) स वै᳘ चतु᳘र्जुह्वां᳘ गृह्णन्॥
(न्भू᳘) भू᳘य ऽआ᳘ज्यं गृह्णात्यष्टौ कृ᳘त्व ऽउपभृ᳘ति गृह्णन्क᳘नीय ऽआ᳘ज्यं गृह्णाति॥

मूलम् - श्रीधरादि

(न्त्स) स वै᳘ चतु᳘र्जुह्वां᳘ गृह्णन्॥
(न्भू᳘) भू᳘य ऽआ᳘ज्यं गृह्णात्यष्टौ कृ᳘त्व ऽउपभृ᳘ति गृह्णन्क᳘नीय ऽआ᳘ज्यं गृह्णाति॥

मूलम् - Weber

स वै᳘ चतु᳘र्जुह्वां᳘ गृह्णन्॥
भूय आ᳘ज्यं गृह्णात्यष्टौ कृ᳘त्व उपभृ᳘ति गृह्णन्क᳘नीय आ᳘ज्यं गृह्णाति॥

मूलम् - विस्वरम्

स वै चतुर्जुह्वां गृह्णन् भूय आज्यं गृह्णाति, अष्टौ कृत्व उपभृति गृह्णन्- कनीय आज्यं गृह्णाति ॥ १३ ॥

सायणः

जुहूपभृतोराज्यग्रहणे प्रतिनियतं धर्मविशेषं विधत्ते- स वा इति । ‘भूयः‘ बहुतरमधिकमाज्यं जुह्वां यथा भवति तथा सम्यक् पूर्णेन स्रुवेण कर्त्तव्यम्; ‘कनीयः’ अल्पतरमुपभृति गृह्यमाणमाज्यं यथा भवति तथा ऽर्द्धपूर्णस्रुवेण कार्यमित्यर्थः ॥ १३ ॥

Eggeling
  1. In taking four times in the juhū, he takes (altogether) more butter, and in taking eight times in the upabhr̥t he takes less butter.

१४

विश्वास-प्रस्तुतिः

स य᳘च्चतु᳘र्जुह्वां गृह्णन्॥
(न्भू᳘) भू᳘य ऽआ᳘ज्यं गृह्णा᳘त्यत्ता᳘रमे᳘वैतत्प᳘रिमिततरं क᳘नीयांᳫँ᳭सं कुर्व्वंस्त᳘स्मिन्वी᳘र्यं ब᳘लं दधात्य᳘थ य᳘दष्टौ कृ᳘त्व ऽउपभृ᳘ति गृह्णन्क᳘नीय ऽआ᳘ज्यं गृह्णा᳘त्या᳘द्यमे᳘वैतद᳘परिमिततरं भू᳘याᳫँ᳭सं कुर्व्वंस्त᳘मवीर्यम᳘बलीयाᳫँ᳭सं करोति त᳘स्मादुत रा᳘जापारां व्वि᳘शं प्रावसाया᳘प्येकवेश्म᳘नैव᳘ जिना᳘ति त्वद्य᳘था त्वत्काम᳘यते त᳘था सचत ऽएते᳘नो ह त᳘द्वी᳘र्येण य᳘ज्जुह्वां भू᳘य ऽआ᳘ज्यं गृह्णा᳘ति स य᳘ज्जुह्वां गृह्णा᳘ति जुह्वैव त᳘ज्जुहोति य᳘दुपभृ᳘ति गृह्णा᳘ति जुह्वैव त᳘ज्जुहोति॥

मूलम् - श्रीधरादि

स य᳘च्चतु᳘र्जुह्वां गृह्णन्॥
(न्भू᳘) भू᳘य ऽआ᳘ज्यं गृह्णा᳘त्यत्ता᳘रमे᳘वैतत्प᳘रिमिततरं क᳘नीयांᳫँ᳭सं कुर्व्वंस्त᳘स्मिन्वी᳘र्यं ब᳘लं दधात्य᳘थ य᳘दष्टौ कृ᳘त्व ऽउपभृ᳘ति गृह्णन्क᳘नीय ऽआ᳘ज्यं गृह्णा᳘त्या᳘द्यमे᳘वैतद᳘परिमिततरं भू᳘याᳫँ᳭सं कुर्व्वंस्त᳘मवीर्यम᳘बलीयाᳫँ᳭सं करोति त᳘स्मादुत रा᳘जापारां व्वि᳘शं प्रावसाया᳘प्येकवेश्म᳘नैव᳘ जिना᳘ति त्वद्य᳘था त्वत्काम᳘यते त᳘था सचत ऽएते᳘नो ह त᳘द्वी᳘र्येण य᳘ज्जुह्वां भू᳘य ऽआ᳘ज्यं गृह्णा᳘ति स य᳘ज्जुह्वां गृह्णा᳘ति जुह्वैव त᳘ज्जुहोति य᳘दुपभृ᳘ति गृह्णा᳘ति जुह्वैव त᳘ज्जुहोति॥

मूलम् - Weber

स य᳘च्चतु᳘र्जुह्वां᳘ गृह्णन्॥
भू᳘य आ᳘ज्यं गृह्णात्यत्ता᳘रमेॗवैतत्प᳘रिमिततरं क᳘नीयांसं कुर्वंस्त᳘स्मिन्वीर्य᳘म् ब᳘लं दधात्य᳘थ य᳘दष्टौ कृ᳘त्व उपभृति गृह्णन्क᳘नीय आ᳘ज्यं गृह्णा᳘त्याद्य᳘मेॗवैतदपरिमिततरम् भू᳘यांसं कुर्वंस्त᳘मवीर्यम᳘बलीयांसं करोति त᳘स्मादुत रा᳘जापारां वि᳘शम् प्रावसाया᳘प्येकवेश्म᳘नैव᳘ जिना᳘ति त्वद्य᳘था त्वत्काम᳘यते त᳘था सचत एते᳘नो ह त᳘द्वीॗर्येण य᳘ज्जुह्वाम् भू᳘य आ᳘ज्यं गृह्णा᳘ति स य᳘ज्जुह्वां᳘ गृह्णाति जुॗह्वैव त᳘ज्जुहोति य᳘दुपभृ᳘ति गृह्णाति जुह्वैव त᳘ज्जुहोति॥

मूलम् - विस्वरम्

स यच्चतुर्जुह्वां गृह्णन् भूय आज्यं गृह्णाति- अत्तारमेवैतत् परिमिततरं कनीयांसं कुर्वंस्तस्मिन् वीर्यं बलं दधाति । अथ यदष्टौ कृत्वा उपभृति गृह्णन् कनीय आज्यं गृह्णाति- आद्यमेवैतदपरिमिततरं भूयांसं कुर्वंस्तमवीर्यमबलीयांसं करोति । तस्मादुत राजा ऽपारां विशं प्रावसाय, अप्येकवेश्मनैव जिनाति । त्वद्यथा त्वत्कामयते तथा सचते- एतेनो ह तद्वीर्येण- यज्जुह्वां भूय आज्यं गृह्णाति । स यज्जुह्वां गृह्णाति- जुह्वैव तज्जुहोति, यदुपभृति गृह्णाति- जुह्वैव तज्जुहोति ॥ १४ ॥

सायणः

जौहवाज्यस्य विहितं भूयस्त्वमनूद्य प्रशंसति- स यदिति । ग्रहणसंख्याह्रासेन भोक्तारं भोग्यजातादल्पीयांसं कुर्वन् भूयोग्रहणेन ‘तस्मिन्‘ भोक्तरि- अधिकं ‘वीर्यं’ सामर्थ्यं तद्धेतुभूतं ‘बलं‘ च स्थापयति । औपभृताज्यस्य विहितमल्पीयस्त्वमनूद्य प्रशंसति- अथ यदिति । संख्याधिक्येन भोग्यपदार्थमपरिमितं कुर्वन्, अल्पीयस आज्यस्य ग्रहणेन ‘तम्‘ आद्यम् ‘अवीर्यं‘ वीर्यरहितं बलरहितं च करोति । तस्मादिति । यस्मादेवमाद्यवर्गो बलरहितः ‘अबलीयान्‘ तस्मादेव कारणात्, सार्वभौमो ‘राजा‘ ‘अपारां‘ निरवधिकां ‘विशं‘ राज्यं ‘प्रावसाय‘ प्राप्यापि ‘एकवेश्मनैव’ एकगृहात्मनैव ‘जिनाति’ जयति स्वाधीनं करोति । तत्र च ‘त्वत्-त्वत्‘ एकमेकं वस्तु यथा कामयते तथा ‘सचते‘ समवैति प्राप्नोति । ‘त्वत्’- शब्द एकशब्द-समानार्थः । “उत त्वः पश्यन्न ददर्श वाचम्”- (ऋ. सं. मं. १० । ७१ । ४) इत्यादौ तथा दृष्टत्वात् । यद्वा त्वदिति निपातश्चार्थे; (निरु. १ । ३ । ५) जिनाति च, यथा च ‘कामयते’- इति योज्यम् । तदेतद्राज्ञः सामर्थ्यम्, एतेनैव वीर्येण जनितम्; ‘यद्’ वीर्यं जुह्वां भूयोग्रहणेन भोक्तुर्न्निष्पन्नमित्यर्थः । जुहूपभृद्धृतयोराज्ययोर्जुह्वैव होमः कर्त्तव्य इति विधत्ते- स यदिति ॥ १४ ॥

Eggeling
  1. For when, in taking four times (butter with the sruva) in the juhū, he takes more butter, he thereby, in making the eater more limited, smaller, imparts vigour and strength to him. And when, in taking eight times in the upabhr̥t, he takes less butter, he thereby, in making that which (or, him who) is to be eaten more unlimited, more abundant, makes it (or, him) vigourless and weaker. And thus a king who has established himself among a numberless people, subdues them even from a single dwelling,

and takes possession of whatever he likes 13: with that very same energy (the Adhvaryu acts) when he takes a greater quantity of butter in the juhū. Now what he takes in the juhū, that he offers with the juhū; and what he takes in the upabhr̥t, that also he offers with the juhū.

१५

विश्वास-प्रस्तुतिः

त᳘दाहुः॥
क᳘स्मा ऽउ त᳘र्ह्युपभृ᳘ति गृह्णीयाद्य᳘दुपभृ᳘ता न᳘ जुहोती᳘ति स य᳘द्धोपभृ᳘ता जुहुयात्पृ᳘थग्घै᳘वेमाः᳘ प्रजाः᳘ स्यु᳘र्न्नै᳘वात्ता स्या᳘न्ना᳘द्यः स्याद᳘थ यत्त᳘ज्जु᳘ह्वैव᳘ समानी᳘य जुहो᳘ति त᳘स्मादिमा व्वि᳘शः क्षत्त्रियाय बलि᳘ᳫँ᳘हरन्त्य᳘थ य᳘दुपभृ᳘ति गृह्णा᳘ति त᳘स्मादु क्षत्त्रि᳘यस्यैव व्व᳘शे सति व्वै᳘श्यं पश᳘व ऽउ᳘पतिष्ठन्ते᳘ ऽथ यत्त᳘ज्जु᳘ह्वैव᳘ समानी᳘य जुहो᳘ति त᳘स्माद्य᳘दोत᳘ क्षत्रि᳘यः काम᳘यते᳘ ऽथाह व्वै᳘श्यम᳘पि य᳘त्ते परो नि᳘हितं तदा᳘हरे᳘ति तं᳘ जिना᳘ति त्वद्य᳘था त्वत्काम᳘यते त᳘था सचत ऽएते᳘नो ह त᳘द्वी᳘र्येण॥

मूलम् - श्रीधरादि

त᳘दाहुः॥
क᳘स्मा ऽउ त᳘र्ह्युपभृ᳘ति गृह्णीयाद्य᳘दुपभृ᳘ता न᳘ जुहोती᳘ति स य᳘द्धोपभृ᳘ता जुहुयात्पृ᳘थग्घै᳘वेमाः᳘ प्रजाः᳘ स्यु᳘र्न्नै᳘वात्ता स्या᳘न्ना᳘द्यः स्याद᳘थ यत्त᳘ज्जु᳘ह्वैव᳘ समानी᳘य जुहो᳘ति त᳘स्मादिमा व्वि᳘शः क्षत्त्रियाय बलि᳘ᳫँ᳘हरन्त्य᳘थ य᳘दुपभृ᳘ति गृह्णा᳘ति त᳘स्मादु क्षत्त्रि᳘यस्यैव व्व᳘शे सति व्वै᳘श्यं पश᳘व ऽउ᳘पतिष्ठन्ते᳘ ऽथ यत्त᳘ज्जु᳘ह्वैव᳘ समानी᳘य जुहो᳘ति त᳘स्माद्य᳘दोत᳘ क्षत्रि᳘यः काम᳘यते᳘ ऽथाह व्वै᳘श्यम᳘पि य᳘त्ते परो नि᳘हितं तदा᳘हरे᳘ति तं᳘ जिना᳘ति त्वद्य᳘था त्वत्काम᳘यते त᳘था सचत ऽएते᳘नो ह त᳘द्वी᳘र्येण॥

मूलम् - Weber

त᳘दाहुः॥
क᳘स्मा उ त᳘र्ह्युपभृ᳘ति गृह्णीयाद्य᳘दुपभृ᳘ता न᳘ जुहोती᳘ति स य᳘द्धोपभृता जुहुयात्पृ᳘थग्घैॗवेमाः᳘ प्रजाः᳘ स्युॗर्नैॗवात्ता स्याॗन्नाद्यः᳘ स्याद᳘थ यत्त᳘ज्जुॗह्वैव᳘ समानीय जुहो᳘ति त᳘स्मादिमा वि᳘शः क्षत्रि᳘यस्यैव व᳘शे सति वै᳘श्यम् पश᳘व उ᳘पतिष्टन्ते᳘ ऽथ यत्त᳘ज्जुॗह्वैव समानी᳘य जुहो᳘ति तस्माद्यॗदोत᳘ क्सत्रि᳘यः काम᳘यते᳘ ऽथाह वै᳘श्य म᳘यि य᳘त्ते परो नि᳘हितं तदा᳘हरे᳘ति तं᳘ जिना᳘ति त्वद्य᳘था त्वत्काम᳘यते त᳘था सचत एते᳘नो हत᳘द्वीॗर्येण॥

मूलम् - विस्वरम्

तदाहुः- कस्मा उ तर्ह्युपभृति गृह्णीयात् यदुपभृता न जुहोतीति । स यद्धोपभृता जुहुयात्- पृथग्घैवेमाः प्रजाः स्युः- नैवात्ता स्यात्, नाद्यः स्यात् । अथ यत्तज्जुह्वैव समानीय जुहोति- तस्मादिमा विशः क्षत्त्रियाय बलिं हरन्ति । अथ यदुपभृति गृह्णाति- तस्मादु क्षत्रियस्यैव वशे सति वैश्यं पशव उपतिष्ठन्ते । अथ यत्तज्जुह्वैव समानीय जुहोति- तस्माद्यदोत क्षत्त्रियः कामयते- अथाह वैश्यम्- ’अपि यत्ते परो निहितम्, तदाहरेति‘ तं जिनाति । त्वद्यथा त्वत्कामयते तथा सचते- एतेनो ह तद्वीर्येण ॥ १५ ॥

सायणः

उपभृतो होमसाधनत्वाभावे तत्राज्यग्रहणं किमर्थमित्याक्षिपति- तदाहुरिति । उपभृति ग्रहणं समर्थयिष्यस्तावत्तस्या होमसाधनत्वे दोषमाह- स यद्धोपभृतेति । होमसाधनत्वे जुहूवदुपभृतो ऽपि स्वातन्त्र्यादन्नस्थानीयाः ‘इमाः‘ सर्वाः प्रजाः राज्ञः सकाशात् ‘पृथक्‘ स्वतन्त्रा एव भवेयुः; तथा च राजा नैवात्ता स्यात्, राज्यमपि नैव भोग्यं भवेदित्यर्थः । औपभृतमाज्यं जुह्वामानीय, तयैव होमे तु नोक्तदोष इत्याह- अथ यदिति । होमाभावे चोपभृति कस्माद् ग्रहणमित्यस्योत्तरमाह- अथ यदिति । यस्मादेव होमाय जुहूमपेक्षमाणायामुपभृत्याज्यं गृह्यते, तस्मादेव कारणात् ‘क्षत्त्रियस्य वशे’ रक्षार्थं क्षत्त्रियाधीनत्वे सत्येव, वैश्यं ‘पशवः’ गवाद्याः ‘उपतिष्ठन्ते‘ उपभृति ग्रहणाद्वैश्यस्य धनसमृद्धिर्भवतीत्यर्थः ।

अथ यदित्यादि । यस्मादौपभृतमाज्यं समानीय जुह्वैव जुहोति, नोपभृता; तस्माद्यद्रैव स क्षत्रियः कामयते ‘अथ‘ अनन्तरमेतं वैश्यं ब्रूते । कथमिति ? हे वैश्य ! ‘ते’ तव ‘परः‘ परस्तादन्यत्र गोप्यस्थाने निहितं ‘यत्‘ धनमस्ति, तदाहरेति । एवमुक्त्वा ‘तं‘ वैश्यं ‘जिनाति‘ धनापहारेण हीनं करोति । अन्यत् पूर्ववत् । एतेनो ह तद्वीर्येणेति । औपभृताज्यस्य जुहूसमानयनजनितवीर्येणेत्यर्थः ॥ १५ ॥

Eggeling
  1. And in reference to this point they say: ‘Wherefore then is he to take it in the upabhr̥t, if he does not offer it with the upabhr̥t?’ Now, if he were to offer it with the upabhr̥t, those subjects (of the king) would assuredly become separated from him, nor would there be either an eater or what is to be eaten. When, on the other hand, he pours (the butter) together and thus offers it with the juhū, thereby the people pay tribute to the Kshatriya. Hence by what he takes in the upabhr̥t, the Vaiśya (man of the people), under the rule of the Kshatriya, becomes possessed of cattle; and when he pours (the butter) together and offers it with the juhū, thereby the Kshatriya, whenever he likes, says, ‘Hallo Vaiśya, just bring to me what thou hast stored away!’ Thus he both subdues him and obtains possession of anything he wishes by dint of this very energy.

१६

विश्वास-प्रस्तुतिः

ता᳘नि वा᳘ ऽएता᳘नि॥
च्छ᳘न्दोभ्य ऽआ᳘ज्यानि गृह्यन्ते सं य᳘च्चतु᳘र्जुह्वां᳘ गृह्णा᳘ति गायत्र्यै त᳘द्गृह्णात्य᳘थ य᳘दष्टौ कृ᳘त्व ऽउपभृ᳘ति गृह्णा᳘ति त्रिष्टुब्जगती᳘भ्यां त᳘द्गृह्णात्यथ य᳘च्चतु᳘र्ध्रुवा᳘यां गृह्णा᳘त्यनुष्टु᳘भे त᳘द्गृह्णाति व्वाग्वा᳘ ऽअनुष्टु᳘ब्वा᳘चो वा ऽइदᳫंस᳘र्व्वं प्र᳘भवति त᳘स्मादु ध्रुवा᳘या ऽएव स᳘र्व्वो यज्ञः प्र᳘भवतीयं व्वा᳘ ऽअनुष्टुबस्यै वा᳘ इद ᳫँ᳭ स᳘र्व्वं प्र᳘भवति त᳘स्मादु ध्रुवा᳘या ऽएव स᳘र्व्वो यज्ञः प्र᳘भवति॥

मूलम् - श्रीधरादि

ता᳘नि वा᳘ ऽएता᳘नि॥
च्छ᳘न्दोभ्य ऽआ᳘ज्यानि गृह्यन्ते सं य᳘च्चतु᳘र्जुह्वां᳘ गृह्णा᳘ति गायत्र्यै त᳘द्गृह्णात्य᳘थ य᳘दष्टौ कृ᳘त्व ऽउपभृ᳘ति गृह्णा᳘ति त्रिष्टुब्जगती᳘भ्यां त᳘द्गृह्णात्यथ य᳘च्चतु᳘र्ध्रुवा᳘यां गृह्णा᳘त्यनुष्टु᳘भे त᳘द्गृह्णाति व्वाग्वा᳘ ऽअनुष्टु᳘ब्वा᳘चो वा ऽइदᳫंस᳘र्व्वं प्र᳘भवति त᳘स्मादु ध्रुवा᳘या ऽएव स᳘र्व्वो यज्ञः प्र᳘भवतीयं व्वा᳘ ऽअनुष्टुबस्यै वा᳘ इद ᳫँ᳭ स᳘र्व्वं प्र᳘भवति त᳘स्मादु ध्रुवा᳘या ऽएव स᳘र्व्वो यज्ञः प्र᳘भवति॥

मूलम् - Weber

ता᳘नि वा᳘ एता᳘नि॥
छ᳘न्दोभ्य आ᳘ज्यानि गृह्यन्ते स य᳘च्चतु᳘र्जुह्वां᳘ गृह्णा᳘ति गायत्र्यै त᳘द्गृह्णात्य᳘थ य᳘दष्टौ कृ᳘त्व उपभृ᳘ति गृह्णाति त्रिष्टुब्जगती᳘भ्यां त᳘द्गृह्णात्य᳘थ य᳘च्चतु᳘र्ध्रुवा᳘यां गृह्णा᳘त्यनुष्टु᳘भे त᳘द्गृह्णाति वाग्वा᳘ अनुष्टु᳘ब्वाचो वा᳘ इदᳫं स᳘र्वम् प्र᳘भवति त᳘स्मादु ध्रुवा᳘या एव स᳘र्वा यज्ञः प्र᳘भवतीयम् वा᳘ अनुष्टु᳘बस्यै वा᳘ इदᳫं स᳘र्वम् प्र᳘भवति त᳘स्मादु ध्रुवा᳘या एव स᳘र्वो यज्ञः प्र᳘भवति॥

मूलम् - विस्वरम्

तानि वा एतानि छन्दोभ्य आज्यानि गृह्यन्ते । स यच्चतुर्जुह्वां गृह्णाति- गायत्र्यै तद् गृह्णाति । अथ यदष्टौ कृत्व उपभृति गृह्णाति- त्रिष्टुब्जगतीभ्यां तद् गृह्णाति । अथ यच्चतुर्ध्रुवायां गृह्णाति अनुष्टुभे तद् गृह्णाति । वाग् वा अनुष्टुप् । वाचो वा इदं सर्वं प्रभवति । तस्मादु ध्रुवाया एव सर्वो यज्ञः प्रभवति । इयं वा अनुष्टुप्, अस्यै वा इदं सर्वं प्रभवति । तस्मादु ध्रुवाया एव सर्वो यज्ञः प्रभवति ॥ १६ ॥

सायणः

ध्रौवस्याज्यस्य प्रागुक्तं सर्वयज्ञसाधारण्यं द्रढयितुं जुह्वादिष्वाज्यग्रहणं प्रकारान्तरेण प्रशंसति- तानि वा इति । सामान्योक्तं विवृणोति- स यदिति । प्राथम्यसाम्यात् पादचतुष्टयोपेतत्वेन चतुःसंख्यासाम्याच्च जुह्वां ग्रहणं गायत्र्यर्थमित्यर्थः । ननु त्रिपदा गायत्री, कथमस्याश्चतुःसंख्यायोगः ? सत्यम् । अष्टाक्षरैः पादैस्त्रिपदा, षडक्षरैः पादैश्चतुष्पदापि भवति । अत एवान्यत्राम्नायते- “सैषा चतुष्पदा षड्विधा गायत्री”- इति (सा० छां० ब्रा० ५ । १२ । ५ ।) त्रिष्टुब्जगत्योर्मिलितयोः पादानामष्टसंख्या भवति । तथा चोपभृत्यष्टकृत्वो ग्रहणं ताभ्यामर्थे संपद्यते, एवमेव पादसंख्यासाम्यात् ध्रुवायां चतुर्ग्रहणमनुष्टुबर्थं भवतीत्यर्थः । अनेन ध्रुवाया अनुष्टुबर्थत्वोपजीवनेन तत्स्थस्याज्यस्य सर्वयज्ञसाधारण्यमभिप्रेत्याह- वाग् वा इति । ”अनुष्टुप् च वै सप्तदशश्च समभवता सानुष्टुप् ँ चतुरुत्तराणि छन्दाँस्यसृजत षडुत्तरान्त्स्तोमान्त्सप्तदशः”- इति सामब्राह्मणे (ताण्ड्य ० ब्रा० १० प्र० २ खण्डे) सर्वेषां छन्दसामनुष्टुप्सकाशात् सृष्टेराम्नातत्वात् सा वागात्मिका । वाचो वा इत्यादि । ‘वाचः‘ शब्दस्य सकाशात् ‘इदं‘ सर्वमर्थजातं प्रभवति । अत एव जगतः शब्दविवर्त्तत्वमाहुः-

”अनादिनिधनं 14 ब्रह्म शब्दतत्त्वं यदक्षरम् । विवर्तते ऽर्थभावेन प्रक्रिया जगतो यतः" इति ॥

तथा ऽन्यत्रापि शब्दानुवेधात्तत्कार्यत्वमर्थप्रपञ्चस्योक्तम्-

“न 15 सो ऽस्ति प्रत्ययो लोके यः शब्दानुगमादृते । अनुविद्धमिव ज्ञानं सर्वं शब्देन गम्यते”- इति ॥

यस्मादेवं वाचः सर्वजगदुत्पत्तिहेतुत्वम्, तस्मात् तत्सम्बन्धिन्या ध्रुवाया अपि सर्वयज्ञहेतुत्वं युक्तमित्यर्थः । इतो ऽपि ध्रुवायाः सर्वयज्ञहेतुत्वमित्याह- इयं वा अनुष्टुप्- इति ॥ १६ ॥

Eggeling
  1. These butter-portions, then, are taken for the metres. Now what he takes in the juhū (by ladling) four times (with the sruva), that he takes for the gāyatrī; and what he takes in the upabhr̥t (by ladling) eight times, that he takes for the trishṭubh and jagatī; and what he takes in the dhruvā (by

ladling) four times, that he takes for the anushṭubh. For the anushṭubh is speech, and from speech all this (universe) springs: hence it is from the dhruvā that the whole sacrifice originates. The anushṭubh also is this (earth), and from it all this (universe) originates: hence it is from the dhruvā that the whole sacrifice originates.

१७

विश्वास-प्रस्तुतिः

स गृह्णाति॥
धा᳘म ना᳘मासि प्रियं᳘ देवा᳘नामि᳘त्येतद्वै᳘ देवा᳘नां प्रिय᳘तमं धा᳘म यदा᳘ज्यं त᳘स्मादाह धा᳘म ना᳘मासि प्रियं᳘ देवा᳘नामित्य᳘नाधृष्टं देवय᳘जनमसी᳘ति व्व᳘ज्रो ह्या᳘ज्यं त᳘स्मादाहा᳘नाधृष्टं देवय᳘जनमसी᳘ति॥

मूलम् - श्रीधरादि

स गृह्णाति॥
धा᳘म ना᳘मासि प्रियं᳘ देवा᳘नामि᳘त्येतद्वै᳘ देवा᳘नां प्रिय᳘तमं धा᳘म यदा᳘ज्यं त᳘स्मादाह धा᳘म ना᳘मासि प्रियं᳘ देवा᳘नामित्य᳘नाधृष्टं देवय᳘जनमसी᳘ति व्व᳘ज्रो ह्या᳘ज्यं त᳘स्मादाहा᳘नाधृष्टं देवय᳘जनमसी᳘ति॥

मूलम् - Weber

स᳘ गृह्णाति॥
धां᳘ ना᳘मासि प्रियं᳘ देवा᳘नामि᳘त्येतुद्वै᳘ देवा᳘नाम् प्रिय᳘तमं धा᳘म यदा᳘ज्यं त᳘स्मादाह धा᳘म नामासि प्रियं᳘ देवा᳘नामित्य᳘नाधृष्टं देवय᳘जनमसी᳘ति व᳘ज्रो ह्या᳘ज्यं त᳘स्मादाहा᳘नाधृष्टं देवय᳘जनमसी᳘ति॥

मूलम् - विस्वरम्

स गृह्णाति- “धाम नामासि प्रियं देवानाम्"- (१ अ० ३१ मं०) इति । एतद्वै देवानां प्रियतमं धाम- यदाज्यम् । तस्मादाह- धाम नामासि प्रियं देवानामिति । “अनाधृष्टं देवयजनमसि” (१ अ० ३१ मं०) इति । वज्रो ह्याज्यम् । तस्मादाह- अनाधृष्टं देवयजनमसीति ॥ १७ ॥

सायणः

विहितमाज्यग्रहणमनूद्य मन्त्रं विधत्ते 16- इति । मन्त्रगतस्य धामशब्दस्य विवक्षितमर्थमाह- एतद्वा इति । धामशब्दस्तेजोवाची, (निरु० ९ । ३ । ७) तद्धेतुत्वादाज्यमपि धामेत्युच्यत इत्यर्थः । मन्त्रशेषमनूद्य तत्रानाधृष्टपदस्य तात्पर्यगम्यमर्थमाह- अनाधृष्टमिति । ‘हि’ यस्मात् ‘आज्यं वज्रः’ ”घृतं खलु वै देवा वज्रं कृत्वा सोममघ्नन्”- इति श्रुतेः 17 । वज्रश्च धर्षितुमशक्यत्वात् ‘अनाधृष्टः’ अतस्तदात्मकत्वादाज्यमप्यनाधृष्टमित्यर्थः ॥ १७ ॥

Eggeling
  1. He takes (butter with the sruva), with the text (Vāj. S. I, 31), ‘Verily, thou art the favourite resort (or, dainty) of the gods!’ He thereby makes that butter the most favourite resort of the gods: for this reason he says, ‘verily, thou art the favourite resort of the gods!’–‘An unassailable means of worship!’ the butter is indeed a thunderbolt: therefore he says, ‘an unassailable means of worship!’

१८

विश्वास-प्रस्तुतिः

स᳘ ऽएते᳘न य᳘जुषा॥
सकृ᳘ज्जुह्वां᳘ गृह्णा᳘ति त्रि᳘स्तूष्णी᳘मेते᳘नैव य᳘जुषा सकृ᳘दुपभृ᳘ति गृह्णा᳘ति सप्तकृ᳘त्वस्तूष्णी᳘मेते᳘नैव य᳘जुषा सकृ᳘द्ध्रुवा᳘यां गृह्णाति त्रि᳘स्तूष्णीं त᳘दाहुस्त्रि᳘स्त्रिरेव य᳘जुषा गृह्णीयात्त्रिवृद्धि᳘ यज्ञ इ᳘ति त᳘दु नु᳘ सकृ᳘त्सकृदेवा᳘त्रो᳘ ह्येव त्रि᳘र्गृहीत᳘ᳫँ᳘ सम्प᳘द्यते॥

मूलम् - श्रीधरादि

स᳘ ऽएते᳘न य᳘जुषा॥
सकृ᳘ज्जुह्वां᳘ गृह्णा᳘ति त्रि᳘स्तूष्णी᳘मेते᳘नैव य᳘जुषा सकृ᳘दुपभृ᳘ति गृह्णा᳘ति सप्तकृ᳘त्वस्तूष्णी᳘मेते᳘नैव य᳘जुषा सकृ᳘द्ध्रुवा᳘यां गृह्णाति त्रि᳘स्तूष्णीं त᳘दाहुस्त्रि᳘स्त्रिरेव य᳘जुषा गृह्णीयात्त्रिवृद्धि᳘ यज्ञ इ᳘ति त᳘दु नु᳘ सकृ᳘त्सकृदेवा᳘त्रो᳘ ह्येव त्रि᳘र्गृहीत᳘ᳫँ᳘ सम्प᳘द्यते॥

मूलम् - Weber

स᳘ एते᳘न य᳘जुषा॥
सकृ᳘ज्जुह्वां᳘ गृह्णाति त्रि᳘स्तूष्णी᳘मेते᳘नैव य᳘जुषा सकृ᳘दुपभृ᳘ति गृह्णा᳘ति सप्त कृ᳘त्वस्तूष्णी᳘मेते᳘नैव य᳘जुषा सकृ᳘द्ध्रुवा᳘यां गृह्णाति त्रि᳘स्तूस्णीं त᳘दाहुस्त्रि᳘स्त्रिरेव य᳘जुषा गृह्णीयात्रिवृद्धि᳘ यज्ञ इ᳘ति त᳘दु नु᳘ सकृ᳘त्सकृदेवा᳘त्रोॗ ह्येव त्रि᳘र्गृहीत᳘ᳫं᳘ सम्प᳘द्यते॥

मूलम् - विस्वरम्

स एतेन यजुषा सकृज्जुह्वां गृह्णाति, त्रिस्तूष्णीम् । एतेनैव यजुषा सकृदुपभृति गृह्णाति, सप्तकृत्वस्तूष्णीम् । एतेनैव यजुषा सकृद् ध्रुवायां गृह्णाति, त्रिस्तूष्णीम् । तदाहुः- त्रिस्त्रिरेव यजुषा गृह्णीयात्- त्रिवृद्धि यज्ञ इति । तदु नु सकृत्सकृदेव अत्रो ह्येव त्रिर्गृहीतं संपद्यते 16 ॥ १८ ॥

सायणः

अनेन मन्त्रेण ग्रहणे विशेषमाह- स एतेनेति । पक्षान्तरमाह- तदाहुरिति । ‘तत्’ तत्र ग्रहणविषये ब्रह्मवादिनः ‘आहुः’ अनेन मन्त्रेण जुह्वादिषु ‘त्रिस्त्रिः’ गृह्णीयात् 16 । तथा च समन्त्रकग्रहणस्य प्रत्येकं त्रिरावृत्तत्वाद् यज्ञस्य त्रिवृत्त्वं सिध्यतीति तेषामाशयः । सकृत्त्वपक्षं निगमयति- तदु न्विति । सर्वास्वपि स्रुक्षु सकृत्सकृदेव मन्त्रेण गृह्णीयात् । अत्र सकृद्ग्रहणपक्षे ऽपि हि ग्रहणस्य त्रित्वसंख्या समाहारेण सम्पद्यत इत्यर्थः ॥ १८ ॥ ५ (३. २.)

इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनशतपथभाष्ये तृतीयाध्याये द्वितीयं ब्राह्मणम् ॥ २ ॥

Eggeling
  1. Once he puts (butter with the sruva) into the juhū with this formula, three times silently. With the same formula he puts (butter) once into the upabhr̥t, seven times silently. With the same formula he puts once (butter) into the dhruvā, three times silently. Now, as to this, they say, ‘Thrice he should take with the formula in each case, for threefold is the sacrifice.’ Nevertheless (it is done) only once with each (spoon), for it is just in this way that the taking thrice (with a formula) is accomplished.

  1. “खादिरः स्रुवो भवति, पर्णमयी जुहूर्भवति, आश्वत्थी उपभृत्, वैकङ्कती ध्रुवा भवति, एतद्वै स्रुचां रूपम्” (तै० सं० ३. ५. ७.) ↩︎

  2. 78:1 The sacrifice is the representation of the sacrificer himself; and hence its dimensions are to be those of a man, viz. the altar (vedi) on its western side is to measure a fathom, or space between the extreme ends of the outstretched arms (? of the sacrificer), which is supposed to be equal to the size of a man; see I, 2, 5, 14. Originally these measurements were no doubt relative to the size of the sacrificer; but it is doubtful whether this was still the case at the time of our author. ↩︎

  3. 78:2 For a description of these spoons, see p. 67, note 2. The juhū is supposed to represent the right, and the upabhr̥t the left arm, and the dhruvā the trunk. ↩︎

  4. आध्यात्मिकभावेनेत्यर्थः; छां० उप. १ । २ द्रष्टव्यम् । ↩︎

  5. इदं व्याख्यानमाधिदैविकम्; छां. उप. १ । ३ द्रष्टव्यम् । ↩︎

  6. ॰भृ᳘ति चतु᳘र्ध्रुवा᳘याम् coni. ↩︎

  7. ‘अवशिष्टकृत्स्नयागार्थं च‘ इति पाठान्तरम् । ↩︎

  8. ‘आज्यस्वरूपसम्बन्धिनैव रूपेण‘ इति क्वचित्पाठः । ↩︎

  9. 79:1 He takes butter in the juhū and upabhr̥t by four or eight ladlings with the dipping-spoon. As we learn further on, the quantity taken in the juhū, by ladling four times, should exceed that in the upabhr̥t, although the latter requires eight ladlings. Cf. Katy. II, 7, 13. ↩︎

  10. 80:1 On the prayājas, or oblations of clarified butter introductory to, and the anuyājas, oblations of the same material made subsequently to, the chief sacrifice, see I, 5, 3, 1 seq., and I, 8, 2, 1 seq. ↩︎ ↩︎

  11. 80:2 Repetition of one and the same sacrificial act on the same day is to be avoided, as far as possible. The repetition in the present case would consist in his announcing the butter-oblations to the several deities in the same way as he has done in regard to the rice-portions. See I, 1, 2, 17-18. ↩︎

  12. 80:3 On the frequent symbolical employment of the metres in the ritual, as the embodiment of supreme harmony and the efficacy of prayer, see Weber, Ind. Stud. VIII, 8 seq. The three principal Vedic metres are the gāyatrī (three times eight syllables), the trishṭubh (four times eleven syllables), and the jagatī (four times twelve syllables); and three anuyājas there are at these sacrifices, viz. to the barhis or sacrificial grass, to Narāśaṁsa and Agni Svishṭakr̥t respectively. In the present instance (see par. 16) the trishṭubh and jagatī metres are taken together as one, and as a fourth is added the anushṭubh (four times eight syllables). ↩︎

  13. 82:1 Tasmād uta rājāpārāṁ viśam prāvasāyāpy ekaveśmanaiva (‘by one who has a single dwelling, i.e. by himself,’ Sāyaṇa) jināti tvad yathā tvat kāmayate tathā sacate. The MS. of the Kāṇva text has: ‘Tasmāt kshatriyo rājotāpārād viśam prāvasāya jināti tvad yathā tva(t) kāmayate tat karoti.’ ↩︎

  14. हरिकारिकेयम् । ↩︎

  15. इदं वाक्यपदीये । ↩︎

  16. “स्रुवेणाज्यग्रहणञ्चतुर्जुह्वां धामनामेति सकृन्मन्त्रः । अष्टा उपभृत्यल्पीयो ऽनुयाजाश्चेत् । ध्रुवायां च जुहूवत् ।” का. श्रौ. सू. २ । ७ । ९ । १० । १५ । ↩︎ ↩︎ ↩︎

  17. उपरिष्टादिहैव ४ । १ । ४ । ८ । ↩︎