०१
विश्वास-प्रस्तुतिः
स वै स्रु᳘चः स᳘म्मार्ष्टि॥
तद्यत्स्रु᳘चः सम्मा᳘र्ष्टि य᳘था वै᳘ देवा᳘नां च᳘रणं तद्वा ऽअ᳘नु मनु᳘ष्याणां त᳘स्माद्यदा᳘ मनु᳘ष्याणां परिवे᳘षणमु᳘पकॢप्तं भवति॥
मूलम् - श्रीधरादि
स वै स्रु᳘चः स᳘म्मार्ष्टि॥
तद्यत्स्रु᳘चः सम्मा᳘र्ष्टि य᳘था वै᳘ देवा᳘नां च᳘रणं तद्वा ऽअ᳘नु मनु᳘ष्याणां त᳘स्माद्यदा᳘ मनु᳘ष्याणां परिवे᳘षणमु᳘पकॢप्तं भवति॥
मूलम् - Weber
स वै स्रु᳘चः स᳘म्मार्ष्टि॥
तद्यत्स्रु᳘चः सम्मा᳘र्ष्टि य᳘था वै᳘ देवा᳘नां च᳘रणं तद्वा अ᳘नु मनुॗष्याणां त᳘स्माद्यदा᳘मनुॗष्याणाम् परिवे᳘षणमु᳘पकॢप्तम् भवति॥
मूलम् - विस्वरम्
अथ द्रव्यसंस्काराः ।
स वै स्रुचः सम्मार्ष्टि । तद्यत् स्रुचः सम्मार्ष्टि- यथा वै देवानां चरणं तद्वा अनु मनुष्याणाम् । तस्माद् यदा मनुष्याणां परिवेषणमुपक्लृप्तं भवति ॥ १ ॥
सायणः
यस्य निःश्वसितं वेदा यो वेदेभ्यो ऽखिलं जगत् ॥ निर्ममे, तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥ १ ॥
प्रोक्षणीरासादयेति प्रैषमन्त्रानुसारेण प्रथमं प्रोक्षणीनामासादनमुक्तम् । इध्माबर्हिषोरुपसादनमपि 1 विशेषवक्तव्याभावात् सिद्धमित्यभिप्रेत्य क्रमप्राप्तं स्रुक्सम्मार्जनं 2 विधत्ते- स वा इति । यथा वा इत्यादि । ‘यत्’ खलु देवानां वर्त्तनम्, तदनुसार्येव मनुष्यवर्त्तनम्; तत्कार्यत्वात् । मनुष्याणां च भोज्यान्नसूपशाकादौ पक्वे सति भोजनस्थाने शोधिते, तत्परिवेषणसाधनानि दर्व्यादीनि पात्राणि- अद्भिः प्रक्षालनेन शोध्यन्ते । अतो मानुषव्यवहारनिदानत्वाद् देवव्यवहारस्य देवानामन्ने हविषि पक्वे वेद्यां च संस्कृतायां तत्परिवेषणसाधनानां स्रुचां सम्मार्जनं युक्तमिति “यत् स्रुच”- इत्येवमन्तस्य वाक्यसन्दर्भस्याभिप्रेतो ऽर्थः ॥ १ ॥
Eggeling
- He (the Āgnīdhra) now brushes the spoons 3 (with the grass-ends). The reason why he brushes
the spoons is that the course 4 pursued among the gods is in accordance with that pursued among men. Now, when the serving up of food is at hand among men,–
०२
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ पा᳘त्राणि नि᳘र्णेनिजति॥
तै᳘र्निर्णि᳘ज्य प᳘रिवेविषत्येवं वा᳘ ऽएष᳘ देवा᳘नां यज्ञो᳘ भवति य᳘च्छृता᳘नि हवी᳘ᳫं᳘षि कॢप्ता व्वे᳘दिस्ते᳘षामेता᳘न्येव पा᳘त्राणि यत्स्रु᳘चः॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ पा᳘त्राणि नि᳘र्णेनिजति॥
तै᳘र्निर्णि᳘ज्य प᳘रिवेविषत्येवं वा᳘ ऽएष᳘ देवा᳘नां यज्ञो᳘ भवति य᳘च्छृता᳘नि हवी᳘ᳫं᳘षि कॢप्ता व्वे᳘दिस्ते᳘षामेता᳘न्येव पा᳘त्राणि यत्स्रु᳘चः॥
मूलम् - Weber
अ᳘थ पा᳘त्राणि नि᳘र्णेनिजति॥
तै᳘र्निर्णित्य प᳘रिवेविषत्येवं वा᳘ एष᳘ देवा᳘नां यज्ञो᳘ भवति य᳘छूता᳘नि हवीं᳘षि कॢप्तावे᳘दिस्ते᳘षामेता᳘न्येव पा᳘त्राणि यत्स्रु᳘चः॥
मूलम् - विस्वरम्
अथ पात्राणि निर्णेनिजति । तैर्निर्णिज्य परिवेविषति । एवं वा एष देवानां यज्ञो भवति यच्छृतानि हवींषि, क्लृप्ता वेदिः, तेषामेतान्येव पात्राणि- यत्स्रुचः ॥ २ ॥
सायणः
अथेति । निर्णेनिजतीति । “अदभ्यस्तात्” (पा० सू० ७ । १ । ४)- इति झस्यादादेशः । “परिवेविषति”- इत्यत्राप्येवम् ॥ २ ॥
Eggeling
- They rinse the vessels, and having rinsed them, they serve up the food with them: in the same way is treated the sacrifice to the gods, that is to say, the cooked oblations and the prepared altar; and those vessels of theirs, the sacrificial spoons.
०३
विश्वास-प्रस्तुतिः
स य᳘त्सम्मा᳘र्ष्टि॥
नि᳘र्णेनेक्त्ये᳘वैना ऽएतन्नि᳘र्णिक्ताभिः प्र᳘चराणी᳘ति तद्वै᳘ द्वये᳘नैव᳘ देवे᳘भ्यो निर्णे᳘निजत्ये᳘केन मनु᳘ष्येभ्यो ऽद्भि᳘श्च ब्र᳘ह्मणा च देवे᳘भ्य ऽआ᳘पो हि᳘ कुशा ब्र᳘ह्म य᳘जुरे᳘केनैव᳘ मनु᳘ष्येभ्यो ऽद्भि᳘रे᳘वैव᳘म्वेतन्ना᳘ना भवति॥
मूलम् - श्रीधरादि
स य᳘त्सम्मा᳘र्ष्टि॥
नि᳘र्णेनेक्त्ये᳘वैना ऽएतन्नि᳘र्णिक्ताभिः प्र᳘चराणी᳘ति तद्वै᳘ द्वये᳘नैव᳘ देवे᳘भ्यो निर्णे᳘निजत्ये᳘केन मनु᳘ष्येभ्यो ऽद्भि᳘श्च ब्र᳘ह्मणा च देवे᳘भ्य ऽआ᳘पो हि᳘ कुशा ब्र᳘ह्म य᳘जुरे᳘केनैव᳘ मनु᳘ष्येभ्यो ऽद्भि᳘रे᳘वैव᳘म्वेतन्ना᳘ना भवति॥
मूलम् - Weber
स य᳘त्सम्मा᳘र्ष्टि॥
नि᳘र्णेनेक्त्येॗवैना एतन्नि᳘र्णिक्ताभिः प्र᳘चराणी᳘ति तॗद्वै द्वये᳘नैव᳘ देवे᳘भ्यो निर्णे᳘निजत्ये᳘केन मनुॗष्येभ्यो ऽद्भि᳘श्च ब्र᳘ह्मणा च देवे᳘भ्य आ᳘पो हि᳘ कुशा ब्र᳘ह्म य᳘जुरे᳘केनैव᳘ मनुॗष्येभ्यो ऽद्भि᳘रेॗवैव᳘म्वेतन्ना᳘ना भवति॥
मूलम् - विस्वरम्
स यत्सम्मार्ष्टि- निर्णेनेक्त्येवैना एतत्- निर्णिक्ताभिः प्रचराणीति । तद्वै द्वयेनैव देवेभ्यो निर्णेनिजति, एकेन मनुष्येभ्यः । अद्भिश्च ब्रह्मणा च देवेभ्यः । आपो हि कुशाः, ब्रह्म यजुः । एकेनैव मनुष्येभ्यः- अद्भिरेव । एवम्वेतन्नाना भवति ॥ ३ ॥
सायणः
ननु 1 मानुषपात्रवद् देवपात्राणां स्रुचामप्यद्भिः प्रक्षालनेन भवितव्यम्, किमनेन सम्मार्जनेनेत्याह- स यदिति । ‘निर्णिक्ताभिः’ प्रक्षालिताभिः स्रुग्भिः प्रचराणीत्यनेनाभिप्रायेण सम्मार्जनेन प्रक्षालनमेव करोतीत्यर्थः । देवपात्रस्य शोधने मानुषपात्राद् विशेषमाह- तद्वा इति । द्वयेनैकेनेति सामान्योक्तं विवृणोति- अद्भिश्च ब्रह्मणा चेति । आपो हि कुशा इति । अपां यज्ञियांशपरिणामरूपा हि कुशाः; तथैव हि प्रागाम्नातम् 5- “ता उपर्युपर्यतिपुप्लुविरे ऽत इमे दर्भास्ता हैता अनापूयिता आपः”- इति । अतः कुशैः सम्मार्जनाद् यज्ञियाभिरद्भिरेव प्रक्षालनं कृतवान् भवतीत्यर्थः । एवम्वेतदिति । द्वयेनैकेनेत्येवं साधनभेदकृतं दैवमानुषपात्रसंस्काराणां नानात्वं भवतीत्यर्थः ॥ ३ ॥
Eggeling
- Now, when he brushes (the spoons), he in reality rinses them, thinking, ‘with these rinsed ones I will proceed.’ He thereby rinses them with two substances for the gods, and with one for men; viz. with water and the brahman (spirit of worship) for the gods,–for the water is (represented by) the sacrificial grass 6, and the brahman (by) the sacrificial formula;–and with one for men, that is with water alone: and thus this takes place separately 7.
०४
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ स्रुवमा᳘दत्ते॥
तं प्र᳘तपति प्र᳘त्युष्टᳫँ᳭र᳘क्षः प्र᳘त्युष्टा ऽअ᳘रातयो नि᳘ष्टप्तᳫँ᳭र᳘क्षो नि᳘ष्टप्ता ऽअ᳘रातय ऽइ᳘ति वा॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ स्रुवमा᳘दत्ते॥
तं प्र᳘तपति प्र᳘त्युष्टᳫँ᳭र᳘क्षः प्र᳘त्युष्टा ऽअ᳘रातयो नि᳘ष्टप्तᳫँ᳭र᳘क्षो नि᳘ष्टप्ता ऽअ᳘रातय ऽइ᳘ति वा॥
मूलम् - Weber
अ᳘थ स्रुवमा᳘दत्ते॥
तम् प्र᳘तपति प्र᳘त्युष्टं र᳘क्षः प्र᳘त्युष्टा अ᳘रातयो नि᳘ष्टप्तं र᳘क्षो नि᳘ष्टप्ता अ᳘रातय इ᳘ति वा॥
मूलम् - विस्वरम्
अथ स्रुवमादत्ते । तं प्रतपति- “प्रत्युष्टँ रक्षः प्रत्युष्टा अरातयो निष्टप्तँ रक्षो निष्टप्ता अरातयः”- (१ अ० २९ मं०) इति वा ॥ ४ ॥
Eggeling
- He, in the first place, takes the dipping-spoon
(sruva, masc.) and makes it hot (on the Gārhapatya fire), with either of the texts (Vāj. S. I, 29), ‘Scorched is the Rakshas, scorched are the enemies!’ or, ‘Burnt out is the Rakshas, burnt out are the enemies!’
०५
विश्वास-प्रस्तुतिः
देवा᳘ ह वै᳘ यज्ञं᳘ तन्वानाः᳘॥
(स्ते) ते ऽसुररक्षसे᳘भ्य ऽआसङ्गा᳘द्बिभया᳘ञ्चक्रुस्त᳘द्यज्ञमुखा᳘दे᳘वैत᳘न्नाष्ट्रा र᳘क्षाᳫंस्यतो᳘पहन्ति॥ [अर्धप्रपाठकः]
मूलम् - श्रीधरादि
देवा᳘ ह वै᳘ यज्ञं᳘ तन्वानाः᳘॥
(स्ते) ते ऽसुररक्षसे᳘भ्य ऽआसङ्गा᳘द्बिभया᳘ञ्चक्रुस्त᳘द्यज्ञमुखा᳘दे᳘वैत᳘न्नाष्ट्रा र᳘क्षाᳫंस्यतो᳘पहन्ति॥ [अर्धप्रपाठकः]
मूलम् - Weber
देवा᳘ ह वै᳘ यज्ञं᳘ तन्वानाः॥
ते ऽसुररक्षसेभ्य आसंगा᳘द्बिभयां᳘चक्रुस्त᳘द्यज्ञमुखा᳘देॗवैत᳘न्नाष्ट्रा र᳘क्षांस्यतो᳘ ऽपहन्ति॥
मूलम् - विस्वरम्
देवा ह वै यज्ञं तन्वानाः । ते ऽसुररक्षसेभ्य आसङ्गाद् बिभयाञ्चक्रुः, तद्यज्ञमुखादेवैतन्नाष्ट्रा रक्षांस्यतो ऽपहन्ति ॥ ५ ॥
सायणः
देवा इति । ‘देवा ह वा-’ इत्यादिकं समन्त्रकस्य प्रतपनस्य प्रयोजनप्रतिपादकम् । तच्च निर्वापप्रकरणे 8 प्रागेव व्याख्यातम् ॥ ५॥
Eggeling
- For when the gods were performing sacrifice they were afraid of a disturbance on the part of the Asuras and Rakshas. Hence by this means he, from the very opening of the sacrifice, expels from here the evil spirits, the Rakshas 9.
०६
विश्वास-प्रस्तुतिः
स वा ऽइत्य᳘ग्रैरन्तरतः स᳘म्मार्ष्टि॥
(र्ष्ट्य᳘) अ᳘निशितोऽसि सपत्नक्षिदि᳘ति यथा᳘नुपरतो य᳘जमानस्य सप᳘त्नान्क्षिणुया᳘देव᳘मेत᳘दाह व्वाजि᳘नन्त्वा व्वाजेध्या᳘यै स᳘म्मार्ज्मी᳘ति यज्ञि᳘यन्त्वा यज्ञा᳘य स᳘म्मार्ज्मी᳘त्ये᳘वैत᳘दाहैते᳘नैव स᳘र्व्वाः स्रु᳘चः स᳘म्मार्ष्टि व्वाजि᳘नीन्त्वे᳘ति स्रु᳘चं तूष्णीं᳘ प्राशित्रह᳘रणम्॥
मूलम् - श्रीधरादि
स वा ऽइत्य᳘ग्रैरन्तरतः स᳘म्मार्ष्टि॥
(र्ष्ट्य᳘) अ᳘निशितोऽसि सपत्नक्षिदि᳘ति यथा᳘नुपरतो य᳘जमानस्य सप᳘त्नान्क्षिणुया᳘देव᳘मेत᳘दाह व्वाजि᳘नन्त्वा व्वाजेध्या᳘यै स᳘म्मार्ज्मी᳘ति यज्ञि᳘यन्त्वा यज्ञा᳘य स᳘म्मार्ज्मी᳘त्ये᳘वैत᳘दाहैते᳘नैव स᳘र्व्वाः स्रु᳘चः स᳘म्मार्ष्टि व्वाजि᳘नीन्त्वे᳘ति स्रु᳘चं तूष्णीं᳘ प्राशित्रह᳘रणम्॥
मूलम् - Weber
स वा इत्य᳘ग्रैरन्तरतः स᳘म्मार्ष्टि॥
अ᳘निशितो ऽसि सपत्नक्षिदि᳘ति यथा᳘नुपरतो य᳘जमानस्य सप᳘त्नान्क्षिणुया᳘देव᳘मेत᳘दाह वाजि᳘नं त्वा वाजेध्या᳘यै स᳘म्मार्ज्मी᳘ति यज्ञि᳘यं त्वा यज्ञा᳘य स᳘म्मार्ज्मी᳘त्येॗवैत᳘दाहैते᳘नैव स᳘र्वाः स्रु᳘चः स᳘म्मार्ष्टि वाजि᳘नीं त्वे᳘ति स्रु᳘चं तूष्णी᳘म् प्राशित्रह᳘रणं॥
मूलम् - विस्वरम्
स वा इत्यग्रैरन्तरतः सम्मार्ष्टि- “अनिशितो ऽसि सपत्नक्षित्"- (१ अ० २९ मं०) इति । यथा ऽनुपरतो यजमानस्य सपत्नान् क्षिणुयाद्, एवमेतदाह- “वाजिनन्त्वा वाजेध्यायै सम्मार्ज्मि”- (१ अ० २९ मं०) इति । यज्ञियन्त्वा यज्ञाय सम्मार्ज्मीत्येवैतदाह । एतेनैव सर्वाः स्रुचः सम्मार्ष्टि । वाजिनीन्त्वोत स्रुचम् । तूष्णीं प्राशित्रहरणम् ॥ ६॥
सायणः
अथ तस्य प्रतप्तस्य स्रुवस्य समन्त्रकं सम्मार्जनं विधत्ते- स वा इतीति । स्रुवस्यान्तरतो बिलमध्ये वेदाग्रैरिति प्राक् सम्मार्ष्टि । सम्मार्जनप्रकाराभिनयार्थ ‘इति’- शब्दः । स च प्रकारः कात्यायनेन सूत्रितः “वेदाग्रैरन्तरतः प्राक् सम्मार्ष्टी” ति (श्रौ० सू० २ । १८८) । मन्त्रस्य प्रयोजनमाह- यथेति । यथा खल्वयं स्रुवः ‘अनुपरतः’ उपरतिमप्राप्तः सन् यजमानस्य शत्रून् ‘क्षिणुयात्’ हिंस्यात् । “रि क्षिहिंसायाम्”- (स्वा० प० ३०) इति धातुः । एवमेवैतन्मन्त्रवाक्यमाह- सपत्नानिति । सपत्नान् क्षिणोतीति ‘सपत्नक्षित्’- इति मन्त्रपदस्याभिप्राय इति भावः । मन्त्रशेषमनूद्य व्याचष्टे- वाजिनं त्वेति । ‘वाजः’ हविर्लक्षणमन्नम्, तदेव यज्ञस्तदर्हत्वेन; तद्वन्तं त्वां ‘वाजेध्यायै’ वाजस्यान्नस्येन्धनं दीपनम्, भूयःकरणमनेन क्रियत इति ‘वाजेध्या’ यज्ञः तस्यै सम्मार्ज्मीति मन्त्रशेषस्यार्थः । तदेतदाह- यज्ञियन्त्वेति । यज्ञमर्हतीति यज्ञियः । “यज्ञर्त्विग्भ्याम्”- (पा० सू० ५ । १ । ७१)- इति घः । जुह्वादीनां स्रुचां सम्मार्जनं विधत्ते- एतेनैवेति । अनिशितो ऽसीति यो ऽयं स्रुक्सम्मार्जनमन्त्रः, ‘एतेनैव’ अनिशितासीति स्त्रीलिङ्गत्वेन विपरिणमितेनेत्यर्थः । अत एव सूत्रकृतोक्तम्- “अनिशितेति स्रुचः”- (श्रौ० सू० २। १९०) इति । स्रुचः स्त्रीत्वेन तत्प्रकाशनाय वाजिनं त्वेत्यस्यापि पुल्ँलिङ्गशब्दस्य स्थाने वाजिनीं त्वेति स्त्रीलिङ्गतया प्रयोक्तव्यमित्याह- वाजिनीं त्वेति । सम्मार्जनक्रियापेक्षया ‘स्रुचम्’ इति द्वितीया । जुह्वादिवत् समन्त्रकसंमार्जनस्य प्रसक्तस्य निवृत्त्यर्थमाह- तूष्णीमिति । प्राशित्राख्यो यो भागः, स ह्रियत अनेनेति ‘प्राशित्रहरणं 10’ गोकर्णाकृति पात्रम्, तत् तूष्णीं सम्मार्ष्टीत्यर्थः । तदुक्तं कात्यायनेनापि- “तूष्णीं प्राशित्रहरणम्"-(श्रौ० सू० २ । १९१) इति । आपस्तम्बस्तु समन्त्रकपक्षमप्यसूत्रयत् 11- “प्राशित्रहरणं तूष्णीं वा”- (आप० श्रौ० सू० २ । ४ । ८ ।) इति ॥ ६ ॥
Eggeling
- He brushes it thus inside with the (grass-)tops (cut off from the grass in tying the veda), with the text (Vāj. S. I, 29), ‘Not sharp 12 art thou, (but yet) a destroyer of the enemies!’ he says this in order that it may unceasingly destroy the enemies of the sacrificer. Further, ‘Thee, the food-abounding (masc.), I cleanse for the kindling of food 13!’–’thee that art suitable for the sacrifice, I cleanse for the sacrifice,’ he thereby says. In the same way he brushes all the spoons, saying, ‘Thee, the food-abounding (fem.) . . .,’ in the case of the offering-spoon (sruc, fem.). The prāśitraharaṇa 14 (he brushes) silently.
०७
विश्वास-प्रस्तुतिः
स वा ऽइत्य᳘ग्रैरन्तरतः᳘ सम्मार्ष्टी᳘ति॥
मू᳘लैर्बाह्यत ऽइ᳘तीव वा᳘ ऽअयं᳘ प्राण ऽइ᳘तीवोदानः᳘ प्राणोदाना᳘वे᳘वैत᳘द्दधाति त᳘स्मादि᳘तीवेमा᳘नि लो᳘मानी᳘तीवेमा᳘नि॥
मूलम् - श्रीधरादि
स वा ऽइत्य᳘ग्रैरन्तरतः᳘ सम्मार्ष्टी᳘ति॥
मू᳘लैर्बाह्यत ऽइ᳘तीव वा᳘ ऽअयं᳘ प्राण ऽइ᳘तीवोदानः᳘ प्राणोदाना᳘वे᳘वैत᳘द्दधाति त᳘स्मादि᳘तीवेमा᳘नि लो᳘मानी᳘तीवेमा᳘नि॥
मूलम् - Weber
स वा इत्य᳘ग्रैरन्तरतः᳘ सम्मार्ष्टी᳘ति 15 ॥
मू᳘लैर्बाह्यत इ᳘तीव वा᳘ अय᳘म् प्राण इ᳘तीवोदानः᳘ प्राणोदाना᳘वेॗवैत᳘द्दधाति त᳘स्मादि᳘तीवेमा᳘नि लो᳘मानी᳘तीवेमा᳘नि॥
मूलम् - विस्वरम्
स वा इत्यग्रैरन्तरतः सम्मार्ष्टि इति मूलैर्बाह्यतः । इतीव वा अयं प्राणः, इतीवोदानः । प्राणोदानावेवैतद्दधाति । तस्मादितीवेमानि लोमानि, इतीवेमानि ॥ ७ ॥
सायणः
स्रुचां सम्मार्जनप्रकारमभिनयेन दर्शयति- स वा इति । अनेन प्रकारेण ‘प्रागपवर्गं’ वेदाग्रैर्बिलमध्ये सम्मार्जनम् । ‘इति’ अनेन प्रकारेण ‘प्रत्यपवर्गम्’ आत्माभिमुखम् ‘बाह्यतः’ पृष्ठभागे वेदाग्रमूलैः सम्मार्जनं कार्यमित्यर्थः । तथैव सूत्रितम्- “वेदाग्रैरन्तरतः प्राक् सम्मार्ष्ट्यनिशित इति विपर्यस्य बर्हिर्मूलैः” इति (श्रौ० सू० २ । १८८) । यदेतदन्तरतो बाह्यतश्च द्विविधं सम्मार्जनम्, तत् प्राणोदानात्मना प्रशंसति- इतीवेति । ‘इति’- शब्दो ऽत्राप्यभिनयार्थः । ’ ‘अयम्’ प्राणवृत्त्यात्मको वायुः, ‘इतीव’ अनेनैव खलु प्रकारेण प्राक् सञ्चरति । उदानशब्दस्यापानवृत्त्यभिधायकत्वं प्राक् 10 प्रतिपादितम् । अपानवृत्त्यात्मको वायुः ‘इतीव’ अनेन प्रकारेण प्रत्यक् सञ्चरति । अतः प्राक्-प्रत्यक्-सम्मार्जनाभ्यां स्रुक्षु प्राणापानावेव स्थापयतीत्यर्थः । तस्मादित्यादि । यस्मात् स्रुचामुपरिभागस्य सम्मार्जन प्राचीनम्, पृष्ठभागस्य च प्रतीचीनम्, ‘तस्मात्’ अरत्नेरुपरिभागस्य लोमानि ‘इतीव’ एवमेव प्राचीनानि भवन्ति । पृष्ठभागस्य च लोमानि ‘इतीव’ इत्थं प्रतीचीनानि भवन्तीत्यर्थः । अयमर्थस्तैत्तिरीयके विस्पष्टमाम्नायते- “तस्मादरत्नौ प्राञ्च्युपरिष्टाल्लोमानि प्रत्यञ्च्यधस्तात्"- (तै० ब्रा० ३ । ३ । १ । ४) इति ॥ ७ ॥
Eggeling
- Inside he brushes with the (grass-)tops thus (viz. from the handle to the top, or in a forward, eastward direction from himself); outside with the lower (grass-)ends thus (viz. in the opposite or backward direction, towards himself) 16: for thus (viz. in the former way) goes the out-breathing, and thus (in the opposite way) the in-breathing. Thereby he obtains out-breathing and in-breathing (for the sacrificer): hence these hairs (on the upper side of the elbow) point that way, and these (on the lower side) point that way 17.
०८
विश्वास-प्रस्तुतिः
स वै᳘ सम्मृ᳘ज्य सम्मृज्य प्रत᳘प्य प्रतप्य प्र᳘यच्छति॥
य᳘थावम᳘र्शं निर्णिज्या᳘नवमर्शमुत्तमं᳘ परिक्षाल᳘येदेवं तत्त᳘स्मात्प्रत᳘प्य प्रतप्य प्र᳘यच्छति॥
मूलम् - श्रीधरादि
स वै᳘ सम्मृ᳘ज्य सम्मृज्य प्रत᳘प्य प्रतप्य प्र᳘यच्छति॥
य᳘थावम᳘र्शं निर्णिज्या᳘नवमर्शमुत्तमं᳘ परिक्षाल᳘येदेवं तत्त᳘स्मात्प्रत᳘प्य प्रतप्य प्र᳘यच्छति॥
मूलम् - Weber
स वै᳘ सम्मृ᳘ज्यसम्मृज्य प्रत᳘प्य प्रतप्य प्र᳘यछति॥
य᳘थावम᳘र्शं निर्णिज्या᳘नवमर्शमुत्तम᳘म् परिक्षाल᳘येदेवं तत्त᳘स्मात्प्रत᳘प्य प्रतप्य प्र᳘यछति॥
मूलम् - विस्वरम्
स वै सम्मृज्य- सम्मृज्य, प्रतप्य-प्रतप्य प्रयच्छति । यथावमर्शं निर्णिज्यानवमर्शमुत्तमं परिक्षालयेत्- एवं तत् । तस्मात् प्रतप्य-प्रतप्य प्रयच्छति ॥ ८ ॥
सायणः
संमार्जनानन्तरं प्रतपनपुरस्सरं प्रदानं विधत्ते 18- स वा इति । ‘सः’ खल्वाग्नीध्रस्तत्तत्सम्मार्गानन्तरमेव 19 सम्मृष्टं पात्रं पुनरग्नौ प्रतप्याध्वर्यवे दद्यादित्यर्थः । तदेतत्पुनः प्रतपनं लौकिकदृष्टान्तेनोपपादयति- यथेति । यथा खलु कांस्यादिकं लौकिकं पात्रमवमृश्यावमृश्य निर्णिज्य प्रक्षाल्य, ‘उत्तमम्’ चरमं क्रियाविशेषणमेतत् । अन्ततः ‘अनवमर्शम्’ अवमर्शनमकृत्वैव केवलमुदकेनैव ‘परितः’ अन्तरतो बाह्यतश्च सर्वतः क्षालयेत्, एवं तत्सम्मार्जनानन्तरं पुनः 20 प्रतपनमित्यर्थः ॥ ८ ॥
Eggeling
- Each time he has brushed and heated (a spoon), he hands it (to the Adhvaryu). Just as, after having rinsed (the eating vessels) while touching them, one would finally rinse them without touching them, so here: for this reason he hands over each (spoon) after heating it 21.
०९
विश्वास-प्रस्तुतिः
स वै᳘ स्रुव᳘मेवा᳘ग्रे स᳘म्मार्ष्टि॥
(र्ष्ट्य᳘) अथे᳘तराः स्रु᳘चो यो᳘षा वै स्रुग्वृ᳘षा स्रुवस्त᳘स्माद्यद्य᳘पि बह्व्य इव स्त्रि᳘यः सार्द्धं य᳘न्ति य᳘ ऽएव तास्व᳘पि कुमारक᳘ ऽइव पु᳘मान्भ᳘वति स᳘ ऽएव त᳘त्र प्रथम᳘ ऽएत्यनू᳘च्य ऽइ᳘तरास्त᳘स्मात्स्रुव᳘मेवा᳘ग्रे स᳘म्मार्ष्ट्यथे᳘तराः स्रु᳘चः॥
मूलम् - श्रीधरादि
स वै᳘ स्रुव᳘मेवा᳘ग्रे स᳘म्मार्ष्टि॥
(र्ष्ट्य᳘) अथे᳘तराः स्रु᳘चो यो᳘षा वै स्रुग्वृ᳘षा स्रुवस्त᳘स्माद्यद्य᳘पि बह्व्य इव स्त्रि᳘यः सार्द्धं य᳘न्ति य᳘ ऽएव तास्व᳘पि कुमारक᳘ ऽइव पु᳘मान्भ᳘वति स᳘ ऽएव त᳘त्र प्रथम᳘ ऽएत्यनू᳘च्य ऽइ᳘तरास्त᳘स्मात्स्रुव᳘मेवा᳘ग्रे स᳘म्मार्ष्ट्यथे᳘तराः स्रु᳘चः॥
मूलम् - Weber
स वै᳘ स्रुव᳘मेवा᳘ग्रे स᳘म्मार्ष्टि॥
अथे᳘तराः स्रु᳘चो यो᳘षा वै स्रुग्वृ᳘षा स्रुवस्त᳘स्माद्यद्य᳘पि बह्व्य इव स्त्रि᳘यः सार्धं य᳘न्ति य᳘ एव तास्व᳘पि कुमारक᳘ इव पु᳘मान्भ᳘वति स᳘ एव त᳘त्र प्रथम᳘ एत्यनूच्य᳘ इ᳘तरास्त᳘स्मात्स्रुव᳘मेवा᳘ग्रे स᳘म्मार्ष्ट्यथे᳘तराः स्रु᳘चः॥
मूलम् - विस्वरम्
स वै स्रुवमेवाग्रे सम्मार्ष्टि, अथेतराः स्रुचः । योषा वै स्रुग्, वृषा स्रुवः- तस्मात् । यद्यपि बह्व्य इव स्त्रियः सार्द्धं यन्ति, य एव तास्वपि कुमारक इव पुमान् भवति- स एव तत्र प्रथम एति, अनूच्य इतराः । तस्मात् स्रुवमेवाग्रे सम्मार्ष्टि, अथेतराः स्रुचः ॥ ९ ॥
सायणः
स्रुवसम्मार्जनस्य प्राथम्यं स्रुक्सम्मार्जनस्य तदानन्तर्यञ्च प्रागुक्तं लौकिकदृष्टान्तेन प्रशंसितुमनुवदति- स वा इति । योषा वा इत्यादि । स्रुक् स्त्रीलिङ्गत्वाद् योषित्; स्रुवस्तु पुल्ँलिङ्गत्वात् सेचनसमर्थः पुमान् । यस्मादेवम् ‘वृष्णः’ स्रुवस्य सम्मार्जने प्राथम्यम्, ‘तस्मात्’ एव कारणात् बह्व्यो ऽपि स्त्रियः सम्भूय गच्छन्त्यो बालमपि पुमांसं पुरस्कृत्य तस्य पश्चात् प्रयन्ति । तस्माद् दृष्टानुसारेण स्रुवस्य प्रथमं सम्मार्जनं 18 युक्तम्, पश्चाच्च स्रुचामित्येतद् युक्तमित्यर्थः ॥ ९ ॥
Eggeling
- The dipping-spoon (sruva, masc.) he brushes first, and then the other spoons (sruc, fem.). The offering-spoon (sruc), namely, is female, and the dipping-spoon is male, so that, although in this way several women meet together, the one that is, as it were, the only male youth among them, goes there first, and the others after him. This is the reason why he brushes the dipping-spoon first, and afterwards the other (offering-)spoons.
१०
विश्वास-प्रस्तुतिः
स वै त᳘थैव स᳘म्मृज्यात्॥
(द्य᳘) य᳘थाग्निं नाभिव्युक्षेद्य᳘था य᳘स्मा ऽअ᳘शनमाहरिष्यन्त्स्यात्तं᳘ पात्रनिर्णे᳘जनेनाभिव्युक्षे᳘देवं तत्त᳘स्मादु त᳘थैव स᳘म्मृज्याद्य᳘थाग्निं᳘ नाभिव्युक्षेत्प्रा᳘ङिवै᳘वोत्क्र᳘म्य॥
मूलम् - श्रीधरादि
स वै त᳘थैव स᳘म्मृज्यात्॥
(द्य᳘) य᳘थाग्निं नाभिव्युक्षेद्य᳘था य᳘स्मा ऽअ᳘शनमाहरिष्यन्त्स्यात्तं᳘ पात्रनिर्णे᳘जनेनाभिव्युक्षे᳘देवं तत्त᳘स्मादु त᳘थैव स᳘म्मृज्याद्य᳘थाग्निं᳘ नाभिव्युक्षेत्प्रा᳘ङिवै᳘वोत्क्र᳘म्य॥
मूलम् - Weber
स वै त᳘थैव स᳘म्मृज्यात्॥
य᳘थाग्निं नाभिव्युक्षेद्य᳘था य᳘स्मा अ᳘शनमाहरिष्यन्त्स्यात्त᳘म् पात्रनिर्णे᳘जनेनाभिव्युक्षे᳘देवं तत्त᳘स्मादु त᳘थैव स᳘म्मृज्याद्य᳘थाग्निंॗ नाभिव्युक्षेत्प्रा᳘ङिवैॗवोत्क्र᳘म्य॥
मूलम् - विस्वरम्
स वै तथैव सम्मृज्याद् यथाग्निं नाभिव्युक्षेत् । यथा यस्मा अशनमाहरिष्यन्त्स्यात्, तं पात्रनिर्णेजनेनाभिव्युक्षेत्- एवं तत् । तस्मादु तथैव सम्मृज्याद्- यथाग्निं नाभिव्युक्षेत् । प्राडिवैवोत्क्रम्य ॥ १० ॥
सायणः
सम्मार्जने धर्मविशेषमाह- स वा इति । ‘यथा’ येन प्रकारेण सम्मार्जनसमये ‘अग्निमभि न व्युक्षेत्’ अग्नेरुपरि सम्मार्जनसाधनं कुशोदकादिकं न पतेत्, तथैव सम्मृज्यात् । तदेतल्लौकिकदृष्टान्तेनोपपादयति- यथेति- यस्य खलु भोजनार्थमन्नमाहरति, तं भुक्त्यर्थपात्रप्रक्षालनोदकेन पथाभ्युक्षेत् 22, एवमेव तदग्नेरभ्युक्षणम् । अग्नेर्होमार्थं हि हविः; स्रुक्स्रुवादीनि च पात्राणि तत्साधनानि; अतस्तत्प्रक्षालनोदकेन तस्याभ्युक्षणं तादृगेव स्यात् । न हि लोके पात्रप्रक्षालनोदकेन भोक्ता ऽभ्युक्ष्यते; अतः पात्रसम्मार्जनोदकेनाग्नेरभ्युक्षणं न कार्यमित्यर्थः । कथं तर्हि सम्मार्जनं कार्यमित्याह- प्राङिवेति । प्राङ्मुख एवाग्नेः सकाशादुत्क्रम्य 23 गत्वा- अग्नेरुपरि यथा न पतति तथा सम्मृजीतेत्यर्थः ॥ १० ॥
Eggeling
- Let him brush, them so as not to spatter anything towards the fire, as he would thereby bespatter him, to whom he will be bringing food, with the slops of the vessels: therefore let him brush them so as not to spatter anything towards the fire, that is to say, after stepping outside (the Āhavanīya fire-house) towards the east.
११
विश्वास-प्रस्तुतिः
तद्धै᳘के॥
स्रुक्सम्मा᳘र्जनान्यग्ना᳘वभ्या᳘दधति व्वेदस्याहा᳘भूवन्त्स्रु᳘च ऽएभिः स᳘ममार्ज्जिषुरिदं वै कि᳘ञ्चिद्यज्ञ᳘स्य ने᳘दिदं᳘ बहिर्द्धा᳘ यज्ञाद्भ᳘वदि᳘ति त᳘दु त᳘था न᳘ कुर्याद्य᳘था य᳘स्मा ऽअ᳘शनमाह᳘रेत्तं᳘ पात्रनिर्णे᳘जनं पाय᳘येदेवं तत्त᳘स्मादु प᳘रास्येदे᳘वैतानि॥
मूलम् - श्रीधरादि
तद्धै᳘के॥
स्रुक्सम्मा᳘र्जनान्यग्ना᳘वभ्या᳘दधति व्वेदस्याहा᳘भूवन्त्स्रु᳘च ऽएभिः स᳘ममार्ज्जिषुरिदं वै कि᳘ञ्चिद्यज्ञ᳘स्य ने᳘दिदं᳘ बहिर्द्धा᳘ यज्ञाद्भ᳘वदि᳘ति त᳘दु त᳘था न᳘ कुर्याद्य᳘था य᳘स्मा ऽअ᳘शनमाह᳘रेत्तं᳘ पात्रनिर्णे᳘जनं पाय᳘येदेवं तत्त᳘स्मादु प᳘रास्येदे᳘वैतानि॥
मूलम् - Weber
तद्धै᳘के॥
स्रुक्सम्मा᳘र्जनान्यग्ना᳘वभ्या᳘दधति 24 वेदस्याहा᳘भूवन्त्स्रु᳘च एभिः स᳘ममार्जिषुरिदं वै किं᳘चिद्यज्ञ᳘स्य ने᳘दिद᳘म् बह्मा अ᳘शनमाह᳘रेत्त᳘म् पात्रनिर्णे᳘जनम् पाय᳘येदेवं तत्त᳘स्मादु प᳘रास्येदेॗवैतानि॥
मूलम् - विस्वरम्
तद्धैके- स्रुक्सम्मार्जनान्यग्नावभ्यादधति । वेदस्याहाभूवन्- स्रुचः । एभिः सममार्जिषुः । इदं वै किञ्चिद् यज्ञस्य । नेदिदं बहिर्द्धा यज्ञाद् भवदिति । तदु तथा न कुर्यात् । यथा यस्मा अशनमाहरेत्- तं पात्रनिर्णेजनं पाययेद्- एवं तत् । तस्मादु परास्येदेवैतानि ॥ ११ ॥
सायणः
स्रुक्सम्मार्जनानां वेदाग्राणामाहवनीये प्रहरणं शाखान्तराभिमतमुपन्यस्यति- तद्धैक इति । स्रुचः सम्मृज्यन्ते एभिरिति ‘स्रुक्सम्मार्जनानि’ वेदाग्राण्यग्नावभ्यादधति । दधतामभिप्रायमाह- वेदस्येति । यज्ञसाधनो हि ‘वेदः’ वेदस्य सम्मार्जनादावुपयुक्तत्वात् । एतानि च वेदाग्राणि तस्यावयवा अभूवन् । ‘अह’- इत्यवधारणेः न केवलं वेदात्यवत्वादेव वेदाग्राणां यज्ञियत्वम्, अपि तु- एभिर्वेदाग्रैः स्रुचः ‘सनमार्जिषुः’ सम्मृष्टवन्त ऋत्विजः, अत इदं वेदाग्रजातं यज्ञसम्बन्धि किञ्चिदङ्गम् । यदि ‘चेत्’ अग्नेरन्यत्र निरस्येत्, तदा तद्यज्ञाद् ‘बहिर्धा’ बाह्यतो भवेत्; अग्नौ प्रक्षिप्तं हि यज्ञे ऽन्तर्भवति, नैवेत्थं भवेदित्यनेनाभिप्रायेणाग्नौ प्रक्षिपन्तीत्यर्थः । स्वमतं दर्शयितुमेकीयं मतं निषेधति- तदु तथेति । एतल्लौकिकदृष्टान्तेनोपपादयति- यथेति । यथा खलु भोजनायोपविष्टं भोक्तारं ततः प्रागेव पात्रप्रक्षालनोदकं पाययेत्, एवमेव तद्धोमात् प्राक् सम्मार्जनतृणानामग्नौ प्रहरणम्; अतो नैतद्युक्तमित्यर्थः । स्वमतमुपन्यस्यति- तस्मादिति । यस्मादेकीयमते- उक्तरीत्या दोषः, ‘तस्मात्’ एतानि सम्मार्जनानि तृणानि- उत्करे प्रक्षिपेदित्यर्थः । पक्षद्वयमपि कात्यायनः सूत्रयामास- “सम्मार्जनान्यपास्यति” । आहवनीये प्रारानमेकं" इति (श्रौ० सू० २ । १९२-१९३) ॥ ११ ॥
Eggeling
- Here now some throw the grass-ends used for cleaning the spoons into the (Āhavanīya) fire. ‘To the veda (grass-bunch) they assuredly belonged, and the spoons have been cleaned with them: hence it is something that belongs to the sacrifice, and (we throw it into the fire) in order that it should not become excluded from the sacrifice,’ thus (they argue). Let him, however, not do so, since he would thereby make him to whom he will offer food, drink the slops of the vessels 25. Let him therefore throw them away (on the heap of rubbish).
१२
विश्वास-प्रस्तुतिः
(न्य᳘) अ᳘थ प᳘त्नीᳫँ᳭ स᳘न्नह्यति॥
जघनार्द्धो वा᳘ ऽएष᳘ यज्ञ᳘स्य यत्प᳘त्नी प्रा᳘ङ्मे यज्ञ᳘स्ताय᳘मानो यादि᳘ति युन᳘क्त्ये᳘वैनामेत᳘द्युक्ता᳘ मे यज्ञम᳘न्वासाता ऽइ᳘ति॥
मूलम् - श्रीधरादि
(न्य᳘) अ᳘थ प᳘त्नीᳫँ᳭ स᳘न्नह्यति॥
जघनार्द्धो वा᳘ ऽएष᳘ यज्ञ᳘स्य यत्प᳘त्नी प्रा᳘ङ्मे यज्ञ᳘स्ताय᳘मानो यादि᳘ति युन᳘क्त्ये᳘वैनामेत᳘द्युक्ता᳘ मे यज्ञम᳘न्वासाता ऽइ᳘ति॥
मूलम् - Weber
अ᳘थ प᳘त्नीᳫं सं᳘नह्यति॥
जघनार्धो वा᳘ एष᳘ यज्ञ᳘स्य यत्प᳘त्नी प्रा᳘ङ्मे यज्ञ᳘स्ताय᳘मानो यादि᳘ति युन᳘क्त्येॗवैनामेत᳘द्युक्ता᳘ मे यज्ञम᳘न्वासाता इ᳘ति॥
मूलम् - विस्वरम्
अथ पत्नीं सन्नह्यति । जघनार्द्धो वा एष यज्ञस्य- यत्पत्नी । प्राङ् मे यज्ञस्तायमानो यादिति । युनक्त्येवैनामेतत्- युक्ता मे यज्ञमन्वासाता इति ॥ १२ ॥
सायणः
प्रैषक्रमप्राप्तं पत्नीसन्नहनं 22 विधत्ते- अथेति । जघनार्द्धो वा इत्यादि । गार्हपत्यानुष्ठेयेषु 23 पत्नीसंयाजादिषु पत्न्याः सम्बन्धात् सा यज्ञस्यापरार्द्धः । किं ततः । इत्याह- प्रागिति । मदीयो यज्ञः प्रागपवर्गम् ‘तायमानः’ विस्तार्यमाणो ‘यात्’ गच्छेत् । अतः परार्द्धमारभ्य यज्ञो विस्तारयितव्य इत्यनेनाभिप्रायेण पत्नी सन्नह्येदित्यर्थः । यदेतत्सन्नहनं तदेतद्रथे- पश्वादीनामिव पत्न्या यज्ञेन सार्द्धं भोजनं बन्धनमित्याह- युनक्तीति । युक्ता म इति । योक्तुरभिप्रायाविष्करणम् । युक्ता च सा मदीयं यज्ञमनुलक्ष्य यज्ञसमाप्तिपर्यन्तम् ‘आसातै’ आसीत, न ह्ययुक्तो ऽश्वादी रथे नियमेनास्त इत्यर्थः ॥ १२ ॥
Eggeling
- He (the Āgnīdhra) then girds the wife (of the
sacrificer) 26. She, the wife, truly is the hinder part of the sacrifice. ‘May the sacrifice go on increasing before me!’ thus (she thinks while) he girds her, thinking, ‘may she sit thus girt by my sacrifice!’
१३
विश्वास-प्रस्तुतिः
यो᳘क्त्रेण स᳘न्नह्यति॥
यो᳘क्त्रेण हि यो᳘ग्यं युञ्जन्त्य᳘स्ति वै प᳘त्न्या ऽअमेध्यं य᳘दवाची᳘नं ना᳘भरे᳘थैतदा᳘ज्यमवेक्षिष्य᳘माणा भवति त᳘दे᳘वास्या ऽएतद्यो᳘क्त्रेणान्त᳘र्दधात्य᳘थ मे᳘ध्येनै᳘वोत्तरार्द्धेना᳘ज्यम᳘वेक्षते त᳘स्मात्प᳘त्नीᳫँ᳭ स᳘न्नह्यति॥
मूलम् - श्रीधरादि
यो᳘क्त्रेण स᳘न्नह्यति॥
यो᳘क्त्रेण हि यो᳘ग्यं युञ्जन्त्य᳘स्ति वै प᳘त्न्या ऽअमेध्यं य᳘दवाची᳘नं ना᳘भरे᳘थैतदा᳘ज्यमवेक्षिष्य᳘माणा भवति त᳘दे᳘वास्या ऽएतद्यो᳘क्त्रेणान्त᳘र्दधात्य᳘थ मे᳘ध्येनै᳘वोत्तरार्द्धेना᳘ज्यम᳘वेक्षते त᳘स्मात्प᳘त्नीᳫँ᳭ स᳘न्नह्यति॥
मूलम् - Weber
यो᳘क्त्रेण सं᳘नह्यति॥
यो᳘क्त्रेण हि यो᳘ग्यं युञ्जन्त्य᳘स्ति वै प᳘त्न्या अमेध्यं य᳘दवाची᳘नं ना᳘भेर᳘थैतदा᳘ज्यमवेक्षिष्य᳘माणा भवति त᳘देॗवास्या एतद्यो᳘क्त्रेणान्त᳘र्दधात्य᳘थ मे᳘ध्येनैॗवोत्तरार्धना᳘ज्यम᳘वेक्षते त᳘स्मात्प᳘त्नीᳫं सं᳘नह्यति॥
मूलम् - विस्वरम्
योक्रेण सन्नह्यति । योक्रेण हि योग्यं युञ्जन्ति । अस्ति वै पत्न्या अमेध्यं यदवाचीनं नाभेः । अथैतदाज्यमवेक्षिष्यमाणा भवति । तदेवास्या एतद्योक्रे आन्तर्दधाति, अथ मेध्येनैवोत्तरार्द्धनाज्यमवेक्षते । तस्मात् पत्नीं सन्नह्यति ॥ १३ ॥
सायणः
एवं विहितं सन्नहनं प्रशस्य तत्साधनं विधत्ते- योक्रेणेति । रथाद्यवयवस्य युगस्य धुरि बलीवदादियोजनार्थं दाम ‘योक्त्रम्’ तेन सन्नह्येदित्यर्थः । लौकिकोदाहरणेनैतद् द्रदयति- योक्त्रेणेति । ‘योग्यम्’ योजनीयमनडुदश्वादिकमित्यर्थः । तच्च सन्नहनं नाभिप्रदेशे कार्यमित्यभिप्रेत्याह- अस्ति वा इति । ‘अयज्ञियस्य’ पत्न्या नाभेरधोभागस्य, ‘यज्ञियस्य’ उपरिभागस्य च मध्ये सन्नहनेन साङ्कर्यनिवारणाद् यज्ञियेनैवोपरिभागेन विधास्यमानमाज्यावेक्षणं 27 साधुकृतं भविष्यतीत्यर्थः ॥ १३ ॥
Eggeling
- He girds her with a cord (yoktra): for with a cord (yoktra) they yoke the draught-animal (yogya). Impure indeed is that part of woman which is below the navel; and therewith she will be facing the sacrificial butter: that part of her he thereby conceals with the cord, and only with the pure upper part of her body she then faces the sacrificial butter. This is the reason why he girds the wife 28.
१४
विश्वास-प्रस्तुतिः
स वा᳘ ऽअभिवा᳘सः सं᳘न्नह्यति॥
(त्यो᳘) ओ᳘षधयो व्वै व्वा᳘सो व्वरु᳘ण्या र᳘ज्जुस्तदो᳘षधीरे᳘वैत᳘दन्त᳘र्दधाति त᳘थो हैनामेषा᳘ व्वरु᳘ण्या र᳘ज्जुर्न्न᳘ हिनस्ति त᳘स्मादभिवा᳘सः स᳘न्नह्यति॥
मूलम् - श्रीधरादि
स वा᳘ ऽअभिवा᳘सः सं᳘न्नह्यति॥
(त्यो᳘) ओ᳘षधयो व्वै व्वा᳘सो व्वरु᳘ण्या र᳘ज्जुस्तदो᳘षधीरे᳘वैत᳘दन्त᳘र्दधाति त᳘थो हैनामेषा᳘ व्वरु᳘ण्या र᳘ज्जुर्न्न᳘ हिनस्ति त᳘स्मादभिवा᳘सः स᳘न्नह्यति॥
मूलम् - Weber
स वा᳘ अभिवा᳘सः सं᳘नह्यति॥
ओ᳘षधयो वै वा᳘सो वरुॗण्या र᳘ज्जुस्तदो᳘षधीरेॗवैत᳘दन्त᳘र्दधाति त᳘थो हैनामेषा वरुॗण्या र᳘ज्जुर्न᳘ हिनस्ति त᳘स्मादभिवा᳘सः सं᳘नह्यति॥
मूलम् - विस्वरम्
स वा अभिवासः सन्नह्यति । ओषधयो वै वासः, वरुण्या रज्जुः । तदोषधीरेवैतदन्तर्दधाति । तथो हैनामेषा वरुण्या रज्जुर्न हिनस्ति । तस्मादभिवासः सन्नह्यति ॥ १४ ॥
सायणः
परिहितस्य वासस उपरि तत्सन्नहनं कार्यमिति विधत्ते- स वा इति । योक्र- पत्नीशरीरयोर्वाससा व्यवधानं प्रशंसति- ओषधय इति । ओषधिकार्यत्वाद् वाससस्तत्तादात्म्यव्यपदेशः । वरुण्येति । वरुणसम्बन्धिनी, वरुणपाशात्मिका रज्जुः । स च वरुणपाशो निग्रहहेतुरिति तस्य व्यवधानेन केनचिद् भवितव्यमिति वासोलक्षणौषधिभिरन्तर्धानं युक्तमित्यर्थः । तस्य प्रयोजनमाह- तथो हेति ॥ १४ ॥
Eggeling
- He girds her over the garment. Now the garment represents the plants, and (the cord represents) Varuṇa’s noose 29 (rajju): hence he thereby places the plants between (her and the noose), and
thus that noose of Varuṇa does not injure her. This is the reason why he girds her over the garment.
१५
विश्वास-प्रस्तुतिः
स स᳘न्नह्यति॥
(त्य᳘) अ᳘दित्यै रा᳘स्नासी᳘तीयं वै᳘ पृथिव्य᳘दितिः᳘ सेयं᳘ देवा᳘नां पत्न्येषा वा᳘ ऽएत᳘स्य प᳘त्नी भवति त᳘दस्या ऽ एतद्रा᳘स्नामेव᳘ करो᳘ति न र᳘ज्जुᳫँ᳭ हि᳘रो वै रा᳘स्ना ता᳘मे᳘वास्या ऽएत᳘त्करोति॥
मूलम् - श्रीधरादि
स स᳘न्नह्यति॥
(त्य᳘) अ᳘दित्यै रा᳘स्नासी᳘तीयं वै᳘ पृथिव्य᳘दितिः᳘ सेयं᳘ देवा᳘नां पत्न्येषा वा᳘ ऽएत᳘स्य प᳘त्नी भवति त᳘दस्या ऽ एतद्रा᳘स्नामेव᳘ करो᳘ति न र᳘ज्जुᳫँ᳭ हि᳘रो वै रा᳘स्ना ता᳘मे᳘वास्या ऽएत᳘त्करोति॥
मूलम् - Weber
स सं᳘नह्यति॥
अ᳘दित्यै रा᳘स्नासी᳘तीयं वै᳘ पृथिव्य᳘दितिःॗ सेयं᳘ देवा᳘नाम् पत्न्येसा वा᳘ एत᳘स्य प᳘त्नी भवति त᳘दस्या एतद्रा᳘स्नामेव᳘ करो᳘ति न र᳘ज्जुᳫं हि᳘रो वै रा᳘स्ना ता᳘मेॗवास्या एतत्करोति॥
मूलम् - विस्वरम्
स सन्नहति- “अदित्यै रास्नासि” (१ अ० ३० मं०) इति । इयं वै पृथिवी- अदितिः, सेयं देवानां पत्नी । एषा वा एतस्य पत्नी भवति । तदस्या एतद्रास्नामेव करोति न रज्जुम् । हिरो वै रास्ना, तामेवास्या एतत्करोति ॥ १५ ॥
सायणः
विहितं सन्नहनमनूद्य मन्त्रं विधत्ते 27- स इति । मन्त्रं व्याचष्टे- इयं वा इति । ‘अदितिः‘ अखण्डना या देवानां पत्नी या पृथिवी ‘सा 30’ चैषापि ‘योषित’ यजमानस्य पत्नी भवति । ‘तत्‘ तस्मात् पृथिव्या इवास्याः ‘रास्नाम्‘ रशनामलङ्कारार्थं मणिमुक्तादिखचितां मेखलामेव बध्नाति; नरज्जुमिति । मन्त्रप्रयोगाभिप्रायः उक्तार्थपरतां ‘रास्ना’- शब्दस्य दर्शयति हिर इति । ‘हिर’- शब्दो मेखलापर्यायः ॥ १५ ॥
Eggeling
- He girds her, with the text (Vāj. S. I, 30), ‘A zone art thou for Aditi!’ Aditi, indeed, is this earth. She is the wife of the gods, and that one is his (the sacrificer’s) wife. It is for the latter, accordingly, that he makes it a zone instead of a noose (or string). A zone means a girdle, and he thereby makes it this for her.
१६
विश्वास-प्रस्तुतिः
स वै न᳘ ग्रन्थिं᳘ कुर्यात्॥
(द्व) व्वरु᳘ण्यो वै᳘ ग्रन्थिर्व्व᳘रुणो ह प᳘त्नीं गृह्णीयाद्य᳘द्ग्रन्थिं᳘ कुर्यात्त᳘स्मान्न᳘ ग्रन्थिं᳘ करोति॥
मूलम् - श्रीधरादि
स वै न᳘ ग्रन्थिं᳘ कुर्यात्॥
(द्व) व्वरु᳘ण्यो वै᳘ ग्रन्थिर्व्व᳘रुणो ह प᳘त्नीं गृह्णीयाद्य᳘द्ग्रन्थिं᳘ कुर्यात्त᳘स्मान्न᳘ ग्रन्थिं᳘ करोति॥
मूलम् - Weber
स वै न᳘ ग्रन्थि᳘म् कुर्यात्॥
वरुॗण्यो वै᳘ ग्रन्थिर्व᳘रुणो ह प᳘त्नीं गृह्णीयाद्य᳘द्ग्रन्थिं᳘ कुर्यात्त᳘स्मान्न᳘ ग्रन्थिं᳘ करोति॥
मूलम् - विस्वरम्
स वै न ग्रन्थिं कुर्यात् । वरुण्यो वै ग्रन्थिः । वरुणो ह पत्नीं गृह्णीयात्- यद् ग्रन्थिं कुर्यात् । तस्मान्न ग्रन्थिं करोति ॥ १६ ॥
सायणः
योक्त्रस्य सन्नहनसमये ग्रन्थिकरणं निषेधति 31- स वा इति । विपक्षे बाधमाह- वरुण्य इति । वरुणपाशो हि ग्रन्थिमान्, अतो ग्रन्थिरपि वरुणसम्बन्धी; तत्करणे वरुणः पत्नीं गृह्णीयाद् बाधेतेत्यर्थः ॥ १६ ॥
Eggeling
- Let him not make a knot 32, for the knot is Varuṇa’s (attribute); and Varuṇa would lay hold on the (sacrificer’s) wife, if he were to make a knot. For this reason he does not make a knot.
१७
विश्वास-प्रस्तुतिः
(त्यू) ऊर्ध्व᳘मेवो᳘द्गूहति॥
व्वि᳘ष्णोर्व्वे᳘ष्यो ऽसी᳘ति सा वै न᳘ पश्चात्प्राची देवा᳘नां यज्ञम᳘न्वासीतेयं वै᳘ पृथिव्य᳘दितिः᳘ सेयं᳘ देवा᳘नां प᳘त्नी सा᳘ पश्चात्प्रा᳘ची देवा᳘नां यज्ञम᳘न्वास्ते त᳘द्धेमा᳘मभ्या᳘रोहेत्सा प᳘त्नी क्षि᳘प्रे ऽमुं᳘ लोक᳘मियात्त᳘थो ह प᳘त्नी ज्यो᳘ग्जीवति त᳘दस्या᳘ ऽए᳘वैतन्निह्नुते त᳘थो हैनामियं न᳘ हिनस्ति त᳘स्मादु दक्षिणत᳘ ऽइवैवा᳘न्वासीत॥
मूलम् - श्रीधरादि
(त्यू) ऊर्ध्व᳘मेवो᳘द्गूहति॥
व्वि᳘ष्णोर्व्वे᳘ष्यो ऽसी᳘ति सा वै न᳘ पश्चात्प्राची देवा᳘नां यज्ञम᳘न्वासीतेयं वै᳘ पृथिव्य᳘दितिः᳘ सेयं᳘ देवा᳘नां प᳘त्नी सा᳘ पश्चात्प्रा᳘ची देवा᳘नां यज्ञम᳘न्वास्ते त᳘द्धेमा᳘मभ्या᳘रोहेत्सा प᳘त्नी क्षि᳘प्रे ऽमुं᳘ लोक᳘मियात्त᳘थो ह प᳘त्नी ज्यो᳘ग्जीवति त᳘दस्या᳘ ऽए᳘वैतन्निह्नुते त᳘थो हैनामियं न᳘ हिनस्ति त᳘स्मादु दक्षिणत᳘ ऽइवैवा᳘न्वासीत॥
मूलम् - Weber
ऊर्ध्व᳘मेवो᳘द्गूहति॥
वि᳘ष्णोर्वेॗष्यो ऽसी᳘ति सा वै न᳘ पश्चात्प्रा᳘ची देवा᳘नां यज्ञम᳘न्वासीतेयं वै᳘ पृथिव्य᳘दितिःॗ सेयं᳘ देवा᳘नाम् प᳘त्नी सा पश्चात्प्रा᳘ची देवा᳘नां यज्ञम᳘न्वास्ते त᳘द्धेमा᳘मभ्या᳘रोहेत्सा प᳘त्नी क्षिॗप्रे ऽमुं᳘ लोक᳘मियात्त᳘थो ह प᳘त्नी ज्यो᳘ग्जीवति त᳘दस्या᳘ एॗवैतन्नि᳘ह्नुते त᳘थो हैनामियं न᳘ हिनस्ति त᳘स्मादु दक्षिणत इवैवा᳘न्वासीत॥
मूलम् - विस्वरम्
ऊर्द्ध्वमेवोद्गूहति- ** “विष्णोर्वेष्यो ऽसि 31"** (१ अ. ३० मं.) इति । सा वै न पश्चात् प्राची देवानां यज्ञमन्वासीत । इयं वै पृथिवी- अदितिः, सेयं देवानां पत्नी । सा पश्चात् प्राची देवानां यज्ञमन्वास्ते, तद्धेमामभ्यारोहेत् । सा पत्नी क्षिप्रे ऽमुं लोकमियात् । तथो ह पत्नी ज्योग् जीवति, तदस्या एवैतन्निह्नुते । तथो हैनामियं न हिनस्ति । तस्मादु दक्षिणत इवैवान्वासीत ॥ १७ ॥
सायणः
ननु ग्रन्थिकरणाभावे योक्रं विस्रस्तं स्यादित्यत आह- ऊर्द्ध्वमिति । योक्रस्य मूलाग्रे संयोज्यैकीकृत्य ‘ऊर्द्द्वमुद्गूहेत्‘ उपरिष्टाल्लम्बयेदित्यर्थः । तथा चोक्तं सूत्रकृता- “दक्षिणं पाशमुत्तरे प्रतिमुच्योर्द्द्वमुद्गूहति”- (श्रौ० सू० २ । १९५) इति । सन्नहनसमये गार्हपत्यस्य नैर्ऋत्यां दिशि पत्न्या अन्वासनं विधित्सुः साक्षात् पश्चात् प्राङ्मुखोपवेशनं निषेधति- सा वा इति । तदुपपादयति- इयं वा इति । ‘इयम्’ हि पृथिवी देवानां पत्नी; सा गार्हपत्यस्य पश्चात् प्राङ्मुखी सर्वदोपविशति; अतः तत्रान्वासीना 31 इमामेव देवपत्नीमभ्यारोहेत् 33 । तथा च यो बाधस्तं दर्शयति- सेति । ‘क्षिप्रे‘ अल्पकाल इत्यर्थः । तथो हेति । पश्चादुपवेशनपरित्यागे सति- उक्तदोषाभावाच्चिरकालं पत्नी जीवेत् । तेन पश्चादासनपरित्यागेन ’अस्याः‘ देवपत्न्याः यदुपवेशनस्थानं तत् ‘निह्नुते‘ अपलपति, तत्स्थानवर्जनेन तां प्रीणयतीत्यर्थः । तथा चेयं पृथिव्यपि ‘एनाम्’ पत्नीम् ‘न हिनस्ति‘ न बाधते । इदानीं स्थानविशेषे तस्या उपवेशनं विधत्ते- तस्मादिति । ‘तस्मात्‘ देवपत्नीस्थानात् ‘दक्षिणतः’ दक्षिणभागे, गार्हपत्यस्य नैर्ऋत्यां दिशीत्वर्थः । अत एव सूत्रितं कात्यायनेन- “पत्नी 34 सन्नह्यति प्रत्यग् दक्षिणत उपविष्टां गार्हपत्यस्य मुञ्जयोक्रेण”- (श्रौ० सू० २ । १९४) इति ॥ १७ ॥
Eggeling
- He twists it through upwards 35, with the text (Vāj. S. I, 30), ‘The pervader 36, of Vishṇu art thou!’ Let her not sit to the west of the sacrifice, with her face towards the east. For Aditi is this earth 37, she is the wife of the gods, and she indeed sits on the west of the sacrifice of the gods, with her face turned
towards the east: and this lady would, therefore, raise herself to her (Aditi), and would speedily go to yonder world. And thus (viz. by sitting in the prescribed way) she lives for a long time, thus she propitiates her (Aditi), and thus the latter harms her not. For this reason let her sit somewhat to the south.
१८
विश्वास-प्रस्तुतिः
(ता) अथा᳘ज्यम᳘वेक्षते॥
यो᳘षा वै प᳘त्नी रे᳘त ऽआ᳘ज्यं मिथुन᳘मे᳘वैत᳘त्प्रज᳘ननं क्रियते त᳘स्मादा᳘ज्यम᳘वेक्षते॥
मूलम् - श्रीधरादि
(ता) अथा᳘ज्यम᳘वेक्षते॥
यो᳘षा वै प᳘त्नी रे᳘त ऽआ᳘ज्यं मिथुन᳘मे᳘वैत᳘त्प्रज᳘ननं क्रियते त᳘स्मादा᳘ज्यम᳘वेक्षते॥
मूलम् - Weber
अथा᳘ज्यम᳘वेक्षते॥
योषा वै प᳘त्नी रे᳘त आ᳘ज्यम् मिथुन᳘मेॗवैत᳘त्प्रज᳘ननं क्रियते त᳘स्मादा᳘ज्यम᳘वेक्सते॥
मूलम् - विस्वरम्
अथाज्यमवेक्षते । योषा वै पत्नी, रेत आज्यम् । मिथुनमेवैतत् प्रजननं क्रियते । तस्मादाज्यमवेक्षते ॥ १८ ॥
सायणः
पत्न्या आज्यावेक्षणं विधत्ते- अथेति । रेतसः पुरुषोपभुक्ताज्यपरिणामत्वात् कारणकार्ययोरभेदोपचारात्तादात्म्यम् ॥ १८ ॥
Eggeling
- She looks down upon the sacrificial butter 38; for assuredly that wife is a woman, and the butter (represents) seed: hence a productive union is thereby brought about. For this reason she looks towards the butter.
१९
विश्वास-प्रस्तुतिः
सा᳘वेक्षते॥
(ते᳘ ऽद) अ᳘दब्धेन त्वा च᳘क्षुषा᳘वपश्यामीत्य᳘नार्त्तेन त्वा चक्षुषा᳘वपश्यामी᳘त्ये᳘वैत᳘दाहाग्ने᳘र्ज्जि᳘ह्वासी᳘ति यदा वा᳘ ऽएत᳘दग्नौ जु᳘ह्वत्य᳘थाग्ने᳘र्जिह्वा᳘ ऽइवो᳘त्तिष्ठन्ति त᳘स्मादाहाग्ने᳘र्जि᳘ह्वासी᳘ति सुहू᳘र्देवे᳘भ्य ऽइ᳘ति साधु᳘ देवे᳘भ्य ऽइ᳘त्ये᳘वैत᳘दाह धा᳘म्ने धाम्ने मे भव य᳘जुषे यजुष ऽइ᳘ति स᳘र्व्वस्मै मे यज्ञा᳘यैधी᳘त्ये᳘वैत᳘दाह॥
मूलम् - श्रीधरादि
सा᳘वेक्षते॥
(ते᳘ ऽद) अ᳘दब्धेन त्वा च᳘क्षुषा᳘वपश्यामीत्य᳘नार्त्तेन त्वा चक्षुषा᳘वपश्यामी᳘त्ये᳘वैत᳘दाहाग्ने᳘र्ज्जि᳘ह्वासी᳘ति यदा वा᳘ ऽएत᳘दग्नौ जु᳘ह्वत्य᳘थाग्ने᳘र्जिह्वा᳘ ऽइवो᳘त्तिष्ठन्ति त᳘स्मादाहाग्ने᳘र्जि᳘ह्वासी᳘ति सुहू᳘र्देवे᳘भ्य ऽइ᳘ति साधु᳘ देवे᳘भ्य ऽइ᳘त्ये᳘वैत᳘दाह धा᳘म्ने धाम्ने मे भव य᳘जुषे यजुष ऽइ᳘ति स᳘र्व्वस्मै मे यज्ञा᳘यैधी᳘त्ये᳘वैत᳘दाह॥
मूलम् - Weber
सावेक्षते᳟॥
ऽदब्धेन त्वा च᳘क्षुषावपश्यामीत्यनार्त्तेन त्वाचक्षुषा᳘वपश्यामी᳘त्येॗवैत᳘दाहाग्ने᳘र्जिॗह्वासी᳘ति यदा वा᳘एत᳘दग्नौ जु᳘ह्वत्य᳘थाग्ने᳘र्जिह्वा᳘ इवो᳘त्तिष्ठन्ति त᳘स्मादाहाग्ने᳘र्जिह्व᳘सी᳘ति सुहू᳘र्देवे᳘भ्य इ᳘ति साधु᳘ देवे᳘भ्य इ᳘त्येॗवैत᳘दाह धा᳘म्ने धाम्ने मे भव य᳘जुषे यजुष इ᳘ति स᳘र्वस्मै᳘ मे यज्ञा᳘यैधी᳘त्येॗवैतदाह॥
मूलम् - विस्वरम्
सावेक्षते- “अदब्धेन त्वा चक्षुषाव पश्यामि” (१ अ. ३० मं.) इति । अनार्त्तेन त्वां चक्षुषावपश्यामीत्येवैतदाह । “अग्नेर्जिह्वासि” (१ अ० ३० मं०) इति । यदा वा एतदग्नौ जुह्वति, अथाग्नेर्जिह्वा इवोत्तिष्ठन्ति । तस्मादाह- अग्नेर्जिह्वासि- इति । “सुहूर्देवेभ्यः” (१ अ० ३० मं०) इति । साधु देवेभ्य इत्येवैतदाह । “धाम्ने धाम्ने मे भव यजुषे यजुषे” (१ अ० ३० मं०) इति सर्वस्मै मे यज्ञायैधीत्येवैतदाह ॥ १९ ॥
सायणः
विहितमवेक्षणमनूद्य मन्त्रं विधत्ते 39- सेति । मन्त्रगतमदब्धेनेति पदं व्याचष्टे- अनार्तेनेति । आर्त्तिर्हिसा, तद्रहितेनेत्यर्थः । “अग्नेर्जिह्वासि” इति प्रतिपादितमाज्यस्य जिह्वारूपत्वमुपपादयति- यदा वा इति । जिह्वासदृशज्वालाहेतुत्वादाज्यं जिह्वेत्युच्यत इत्यर्थः । मन्त्रगतं सुहूरिति पदं व्याचष्टे- साध्विति । सुष्ठु हूयमानत्वात् ‘सुहूः‘। अनेन च होमानुगुण्येन साधुत्वं लक्ष्यत इत्यर्थः । “धाम्ने धाम्ने” इति मन्त्रशेषं व्याचष्टे- सर्वस्मा इति । ‘धाम्ने-धाम्ने‘ तत्तद्देवताशरीराय, ‘यजुषे यजुषे’ तत्तद्ग्रहणमन्त्राय च पर्याप्तं भवेति मन्त्रार्थः । अतः सर्वस्मै यज्ञाय ‘एधि’ भवेति तदर्थप्रतिपादनं ब्राह्मणेन क्रियते ॥ १९॥
Eggeling
- She looks, with the text (Vāj. S. I, 30), ‘With an unimpaired eye I look on thee;’ whereby she says, with an uninjured eye I look on thee.’–‘Agni’s tongue art thou!’ for when they offer up that (butter) in the fire, then Agni’s tongues, as it were, issue forth: therefore she says, ‘Agni’s tongue art thou!’–‘A good caller 40 of the gods,’ whereby she says, ‘well for the gods;’–‘be thou for every dainty (or, sacrificial site, dhāman), for every prayer of mine!’ whereby she says, ‘for every sacrifice of mine be thou (a good caller)!
२०
विश्वास-प्रस्तुतिः
अथा᳘ज्यमादा᳘य प्रा᳘ङुदा᳘द्रवति॥
त᳘दाहवनीये᳘ ऽधिश्रयति य᳘स्याहवनी᳘ये हवी᳘ᳫँ᳘षि श्रप᳘यन्ति स᳘र्व्वो मे यज्ञ᳘ ऽआहवनी᳘ये शृ᳘तो ऽसदित्य᳘थ य᳘दमुत्रा᳘ग्रे ऽधिश्र᳘यति प᳘त्नी᳘ᳫं᳘ ह्यवकाशयिष्यन्भ᳘वति न हि त᳘दवक᳘ल्पते य᳘त्सामि᳘ प्रत्यग्घ᳘रेत्प᳘त्नीम᳘वकाशयिष्यामीत्य᳘थ यत्प᳘त्नीं᳘ नावकाश᳘येदन्त᳘रियाद्ध यज्ञात्प᳘त्नीं त᳘थो ह यज्ञात्प᳘त्नीं᳘ नान्त᳘रेति त᳘स्मादु सार्द्ध᳘मेव᳘ विला᳘प्य प्रा᳘गुदा᳘हरत्यवका᳘श्य प᳘त्नीं य᳘स्यो प᳘त्नी न भ᳘वत्य᳘ग्र ऽएव त᳘स्याहवनीये᳘ ऽधिश्रयति तत्त᳘त ऽआ᳘दत्ते त᳘दन्तर्व्वेद्या᳘सादयति॥
मूलम् - श्रीधरादि
अथा᳘ज्यमादा᳘य प्रा᳘ङुदा᳘द्रवति॥
त᳘दाहवनीये᳘ ऽधिश्रयति य᳘स्याहवनी᳘ये हवी᳘ᳫँ᳘षि श्रप᳘यन्ति स᳘र्व्वो मे यज्ञ᳘ ऽआहवनी᳘ये शृ᳘तो ऽसदित्य᳘थ य᳘दमुत्रा᳘ग्रे ऽधिश्र᳘यति प᳘त्नी᳘ᳫं᳘ ह्यवकाशयिष्यन्भ᳘वति न हि त᳘दवक᳘ल्पते य᳘त्सामि᳘ प्रत्यग्घ᳘रेत्प᳘त्नीम᳘वकाशयिष्यामीत्य᳘थ यत्प᳘त्नीं᳘ नावकाश᳘येदन्त᳘रियाद्ध यज्ञात्प᳘त्नीं त᳘थो ह यज्ञात्प᳘त्नीं᳘ नान्त᳘रेति त᳘स्मादु सार्द्ध᳘मेव᳘ विला᳘प्य प्रा᳘गुदा᳘हरत्यवका᳘श्य प᳘त्नीं य᳘स्यो प᳘त्नी न भ᳘वत्य᳘ग्र ऽएव त᳘स्याहवनीये᳘ ऽधिश्रयति तत्त᳘त ऽआ᳘दत्ते त᳘दन्तर्व्वेद्या᳘सादयति॥
मूलम् - Weber
अथा᳘ज्यमादा᳘य प्रा᳘ङुदा᳘हरति 41 ॥
त᳘दाहवनीये᳘ ऽधिश्रयति य᳘स्याहवनी᳘ये हवींषि श्रप᳘यन्ति स᳘र्वो मे यज्ञ᳘ आहवनी᳘ये शृॗतो ऽसदित्य᳘थ य᳘दमुत्रा᳘ग्रे ऽधिश्र᳘यति प᳘त्नीᳫं ह्यवकाशयिष्यन्भ᳘वति न हि त᳘दवक᳘ल्पते य᳘त्सामि᳘ प्रत्य्ग्घ᳘रेत्प᳘त्नीम᳘वकाशयिष्यामीत्य᳘थ यत्प᳘त्नींॗ नावकाश᳘येदन्त᳘रियाद्ध यज्ञात्प᳘त्नीं त᳘थो ह यज्ञात्प᳘त्नींॗ नान्त᳘रेति त᳘स्मादु सार्ध᳘मेव᳘ विला᳘प्य प्रा᳘गुदा᳘हरत्यवका᳘श्य प᳘त्नीं य᳘स्यो प᳘त्नी न भ᳘वत्य᳘ग्र एव त᳘स्याहवनीये᳘ ऽधिश्रयति तत्त᳘त आ᳘दत्ते तदन्तर्वेद्या᳘सादयति॥
मूलम् - विस्वरम्
अथाज्यमादाय प्राङुदाद्रवति । तदाहवनीये ऽधिश्रयति, यस्याहवनीये हवींषि श्रपयन्ति- सर्वो मे यज्ञ आहवनीये शृतो ऽसदिति । अथ यदमुत्राग्रे ऽधिश्रयति, पत्नीं ह्यवकाशयिष्यन् भवति । न हि तदवकल्पते- यत्सामि प्रत्यग् हरेत्- पत्नीमवकाशयिष्यामीति । अथ यत्पत्नीं नावकाशयेत्- अन्तरियाद्ध यज्ञात्पत्नीम् । तथो ह यज्ञात्पत्नीं नान्तरेति । तस्मादु सार्द्धमेव विलाप्य प्रागुदाहरति- अवकाश्य पत्नीम् । यस्यो पत्नी न भवति, अग्र एव तस्याहवनीये ऽधिश्रयति । तत्तत आदत्ते, तदन्तर्वेद्यासादयति ॥ २० ॥
सायणः
पुरस्ताद्धरणं विधत्ते- अथति । पत्न्यवेक्षणानन्तर्य्यम् ‘अथ’- शब्दार्थः । पुनस्तस्याहवनीये ऽधिश्रयणं विधत्ते- तदिति । हविः-श्रपणं हि- आहवनीयगार्हपत्ययोर्विकल्पितम् । तत्राहवनीये श्रपणपक्षे पत्न्यवेक्षणानन्तरमेवाज्यं पुरस्ताद्धृत्वा- आहवनीये ऽधिश्रयेदित्यर्थः । एवं कुर्वतो ऽभिप्रायमाह- सर्व इति । यागसाधनत्वाद्धविरत्र ‘यज्ञ’- शब्दार्थः । आज्यपुरोडाशादिलक्षणं सर्वमपि मदीयं ‘हविः’ आहवनीये संस्कृतं भवेदित्यनेनाभिप्रायेणेत्यर्थः । अस्मिन्नपि पक्षे प्रथमतो गार्हपत्याधिश्रयणे कारणमाह- अथ यदमुत्रेति । ‘अमुत्र‘ गार्हपत्ये, ‘अग्रे‘ पशुपुरोडाशाधिश्रयणकाले ‘पत्नीमवकाशयिष्यन्‘ पत्न्यावेक्षणाद्धेतोस्तत्सन्निधानाय गार्हपत्ये ऽधिश्रयणं कर्त्तव्यमित्यर्थः । प्रथमत एवाज्यस्याहवनीये ऽधिश्रयणे दोषमाह- न हीति । पुरोडाशाधिश्रयणकाल एवा ऽऽहवनीये यद्याज्यमधिश्रयेत्; तदा गार्हपत्यसमीपे ऽन्वासीनायाः पत्न्यास्तदवेक्षणं न घटते; भिन्नदेशत्वात् । यदि च पत्नीम् ‘अवकाशयिष्यामि‘ अवेक्षयिष्यामि ‘इति‘ तदर्थं ‘सामि’ संस्कारमध्ये तत् ‘प्रत्यक्’ पश्चात् पत्न्याः समीपं हरेत्, तदा संस्कारविघातः स्यादिति तदपि न युज्यते । अथैतद्दोषपरिजिहीर्षया पत्नीं नावेक्षयेत्, तस्याः पत्न्या यज्ञादन्तरायो भवति । एतदुक्तं भवति । गार्हपत्ये हविःश्रपणपक्षे ह्याज्यमपि तत्रैवाधिश्रीयत इति तत्समीपोपविष्टायाः पत्न्यास्तदवेक्षणं घटत इति न काप्यनुपपत्तिः । आहवनीयश्रपणपक्षे प्रथमत एवाज्यस्यापि तत्रैवाधिश्रयणे हीदृग्विधो दोषः प्रसज्जेतेति । कथं तर्हि तस्मिन् पक्षे कार्यमिति चेत् उच्यते । प्रथमतो गार्हपत्ये ऽधिश्रित्य पत्न्यवेक्षणानन्तरमाहवनीयसमीपं नीत्वा तत्राधिश्रयेत् । तथा सत्युक्तदोषाभावमाह- तयो इति । तस्मादित्यादि । यस्मादेवमाहवनीये प्रथमतो ऽधिश्रयणे दोषः, ‘तस्मात्‘ पत्न्या सार्द्धं गार्हपत्ये प्रथममाज्यस्य विलापनमित्यर्थः । यस्य तु पत्न्या रजोदर्शनादिनिमित्तवशेनासन्निधानात् तदीयकर्माण्याज्यावेक्षणादीनि न क्रियन्ते, तस्योक्तदोषाभावात् प्रथमत एवाहवनीये आज्याधिश्रयणं कार्यमित्याह- यस्यो इति ॥ २० ॥
Eggeling
- Having then taken up the butter (from the
ground), he (the Āgnīdhra) carries it eastwards. In the case of one whose Āhavanīya fire is used for the cooking, he (now in the first place) puts it on the Āhavanīya, thinking, ‘My oblation shall be entirely cooked on the Āhavanīya 42!’ The reason why he first puts it thereon (viz. on the Gārhapatya) is, because he will have to make the wife look at it: for it would not be proper, if he were to take it (from the Āhavanīya) to the west in the midst of the performance, for the purpose of making the wife look at it; and if he were not to let the wife look at it at all, he would thereby exclude her from the sacrifice. And in this way, then, he does not exclude the (sacrificer’s) wife from the sacrifice: therefore he does not take it eastwards till after melting it close by the wife (on the Gārhapatya), and making her look at it. In the case of one who (through death or from other causes) has not his wife with him, he puts it from the very beginning on the Āhavanīya. He then takes it again from thence and puts it down within the altar.
२१
विश्वास-प्रस्तुतिः
त᳘दाहुः᳘॥
(र्ना) नान्तर्व्वेद्या᳘सादयेद᳘तो वै᳘ देवा᳘नां प᳘त्नीः सं᳘याजयन्त्य᳘वसभा ऽअ᳘ह देवा᳘नां प᳘त्नीः करो᳘ति परःपु᳘ᳫँ᳘सो हास्य प᳘त्नी भवती᳘ति त᳘दु होवाच या᳘ज्ञवल्क्यो य᳘थादिष्टं प᳘त्न्या ऽअस्तु कस्तदा᳘द्रियेत य᳘त्परःपुᳫँ᳭सा᳘ वा प᳘त्नी स्याद्य᳘था वा यज्ञो व्वे᳘दिर्य्यज्ञ ऽआ᳘ज्यं यज्ञा᳘द्यज्ञं नि᳘र्मिमा ऽइ᳘ति त᳘स्मादन्तर्व्वे᳘द्येवा᳘सादयेत्॥
मूलम् - श्रीधरादि
त᳘दाहुः᳘॥
(र्ना) नान्तर्व्वेद्या᳘सादयेद᳘तो वै᳘ देवा᳘नां प᳘त्नीः सं᳘याजयन्त्य᳘वसभा ऽअ᳘ह देवा᳘नां प᳘त्नीः करो᳘ति परःपु᳘ᳫँ᳘सो हास्य प᳘त्नी भवती᳘ति त᳘दु होवाच या᳘ज्ञवल्क्यो य᳘थादिष्टं प᳘त्न्या ऽअस्तु कस्तदा᳘द्रियेत य᳘त्परःपुᳫँ᳭सा᳘ वा प᳘त्नी स्याद्य᳘था वा यज्ञो व्वे᳘दिर्य्यज्ञ ऽआ᳘ज्यं यज्ञा᳘द्यज्ञं नि᳘र्मिमा ऽइ᳘ति त᳘स्मादन्तर्व्वे᳘द्येवा᳘सादयेत्॥
मूलम् - Weber
त᳘दाहुः᳟᳟॥
नान्तर्वेद्या᳘सादयेद᳘तो वै᳘ देवा᳘नाम् प᳘त्नीः स᳘म्याजयन्त्य᳘वसभा अ᳘ह देवा᳘नाम् प᳘त्नीः करो᳘ति परःपु᳘ᳫं᳘सो हास्य प᳘त्नी भवती᳘ति त᳘दु होवाच या᳘ज्ञवल्क्यो यथादिष्टम् प᳘त्न्या अस्तु कस्तदा᳘द्रियेत य᳘त्परःपुंसा᳘ वा प᳘त्नी स्याद्य᳘था वा यज्ञो वे᳘दिर्यज्ञ आ᳘ज्यं यज्ञा᳘द्यज्ञ नि᳘र्मिमा इ᳘ति त᳘स्मादन्तर्वे᳘द्येवा᳘सादयेत्॥
मूलम् - विस्वरम्
तदाहुः- नान्तर्वेद्यासादयेत्- अतो वै देवानां पत्नीः संयाजयन्ति, अवसभा अह देवानां पत्नीः करोति, परः पुंसा-उ-हास्य पत्नी भवतीति तदु होवाच याज्ञवल्क्यः- यथादिष्टं पत्न्या अस्तु । कस्तदाद्रियेत- यत्परःपुंसा वा पत्नी स्यात् । यथा वा यज्ञो वेदिः, यज्ञ आज्यम्- यज्ञाद्यज्ञं निर्मिमा इति । तस्मादन्तर्वेद्येवासादयेत् ॥ २१ ॥
सायणः
तस्याज्यस्यान्तर्वेद्यासादनं केषाञ्चिन्मतेन निषेधति- तदाहुरिति । निषेधाभिप्रायमाह- अत इति । ‘अतः‘ अस्मादेव खल्वाज्याद् देवपत्नीनां यागः, अतस्तत्सम्बद्धस्याज्यस्यान्तर्वेद्यासादने सति तदैव देवपत्नीः ‘अवसमाः‘ अवगतजनसमूहाः करोति; यष्टव्यदेवसंघस्य वेद्यामवस्थानात् । ‘अह’ इति निपातो विनिग्रहे । अस्तु तथात्वं देवपत्नीनां किं तत इत्यत आह- पर इति । देवपत्नीनां सभाप्रापणात् । ‘अस्य’ यजमानस्य पत्न्यपि ‘परःपुंसा‘ भवति । ‘परस्’- इत्ययं सकारान्तः, परस्तादित्यर्थे । स्वपुरुषादन्यत्र राजवीथ्यादौ पुरुषसमूहं प्राप्ता ‘परःपुंसा’- इत्युच्यते । अचतुरादिसूत्रे (पा० सू० ५ । ४ । ७७)- स्त्रीपुंसेति निपातितत्वात् परःपुंसेत्युपपदान्तरे ऽपि समासान्तो ऽच्प्रत्ययो द्रष्टव्यः । ‘इति’- शब्द एकीयमतसमाप्त्यर्थः । याज्ञवल्क्यमतेनान्तर्वेद्यासादनमेव निगमयति- तदिति । ‘यथादिष्टम्‘ यथादेशनं यथाशास्त्रम्, ‘पत्न्याः‘ संबन्धि कार्यम्, ‘अस्तु’ भवतु; अतः पत्नीसंयाजार्थमन्तर्वेद्यनासादनमिति न युक्तम् । पत्न्यपि ‘परःपुंसा वा’ भवतु, प्रयता ‘यथा तथा वा’ भवतु, तयापि किं प्रयोजनम् अतः परःपुंसेत्येतदपि दूषणं को वा आद्रियेतेत्यर्थः । एवमुक्तदूषणं निरस्य वेद्यासादनपक्षमुपपादयति- यज्ञो वेदिरिति । वेदिराज्यं चोभयमपि यज्ञसाधनत्वात् ‘यज्ञः‘ तथा च वेद्यासादने वेदिरूपाद् यज्ञादाज्यरूपं यज्ञं ‘निर्मिमे‘ निर्मितवान् भवतीत्यनेनाभिप्रायेण तत्रैवासादयेदित्यर्थः । ‘तस्मात्’- इति उक्तार्थनिगमनम् ॥ २१ ॥
Eggeling
- Here now they say,–‘He must not place it within the altar; for from that (butter) they make the oblation to the wives of the gods 43: he therefore excludes the wives of the gods from the company (of
their husbands) 44, and thereby his (the sacrificer’s) wife becomes dissatisfied with her own husband.’ Yājñavalkya, however, said in reference to this point, ‘Let it be so as it has been prescribed for the wife! who would care whether his wife may consort with other men 45?’ ‘As the altar is (part of the) sacrifice, and the butter is (part of the) sacrifice, I will build up the sacrifice from out of the sacrifice!’ thus thinking, let him place it within the altar.
२२
विश्वास-प्रस्तुतिः
(त्प्रो᳘) प्रो᳘क्षणीषु पवि᳘त्रे भवतः॥
(स्ते) ते त᳘त ऽआ᳘दत्ते ता᳘भ्यामा᳘ज्यमु᳘त्पुनात्ये᳘को वा᳘ ऽउत्प᳘वनस्य ब᳘न्धुर्मे᳘ध्यमे᳘वैत᳘त्करोति॥
मूलम् - श्रीधरादि
(त्प्रो᳘) प्रो᳘क्षणीषु पवि᳘त्रे भवतः॥
(स्ते) ते त᳘त ऽआ᳘दत्ते ता᳘भ्यामा᳘ज्यमु᳘त्पुनात्ये᳘को वा᳘ ऽउत्प᳘वनस्य ब᳘न्धुर्मे᳘ध्यमे᳘वैत᳘त्करोति॥
मूलम् - Weber
प्रो᳘क्षणीषु पवि᳘त्रे भवतः॥
ते त᳘त आ᳘दत्ते ता᳘भ्यामा᳘ज्यमु᳘त्पुनात्ये᳘को वा᳘ उत्प᳘वनस्य ब᳘न्धुर्मे᳘ध्यमेॗवैत᳘त्करोति॥
मूलम् - विस्वरम्
प्रोक्षणीषु पवित्रे भवतः । ते तत आदत्ते ताभ्यामाज्यमुत्पुनाति । एको वा उत्पवनस्य बन्धुः- मेध्यमेवैतत्करोति ॥ २२॥
सायणः
तस्याज्यस्योत्पवनं विधत्ते [^१_९८]- प्रोक्षणीष्विति । प्रोक्षण्युत्पवनं याभ्यां पवित्राभ्यां कृतम्, ते तत आदाय ताभ्यामेवाज्यस्योत्पवनं कार्यमित्यर्थः । उत्पवनविधिस्तावकं “वृत्रो ह वा इदं सर्वम्” इत्यादिकं प्रागाम्नातं 46 ब्राह्मणम्, आज्यस्योत्पवनस्यापि समानमित्यत आह- एको वा इत्यादि । उत्पवनसंस्कारेण पर्यवसितमर्थमाह- मेध्यमिति ॥ २२ ॥
[^१_९८] : “सवितुस्त्वेत्याज्यमुत्पुनाति"- (श्रौ० सू० २. २००)
Eggeling
- The two strainers are lying in the sprinkling water. He takes them from thence and purifies (ut-pū) the butter with them. Now one of them is related to the wind (that blows) upwards (utpavana) 47, so that he thereby makes it (the butter) sacrificially pure.
२३
विश्वास-प्रस्तुतिः
स ऽउ᳘त्पुनाति॥
सवितु᳘स्त्वा प्रसव ऽउ᳘त्पुनाम्य᳘च्छिद्रेण पवि᳘त्रेण सूर्यस्य रश्मि᳘भिरि᳘ति᳘ सो ऽसा᳘वेव ब᳘न्धुः॥ [शतम् २००]
मूलम् - श्रीधरादि
स ऽउ᳘त्पुनाति॥
सवितु᳘स्त्वा प्रसव ऽउ᳘त्पुनाम्य᳘च्छिद्रेण पवि᳘त्रेण सूर्यस्य रश्मि᳘भिरि᳘ति᳘ सो ऽसा᳘वेव ब᳘न्धुः॥ [शतम् २००]
मूलम् - Weber
स उ᳘त्पुनाति॥
सवितु᳘स्त्वा प्रसव उ᳘त्पुनाम्य᳘छिद्रेण पवि᳘त्रेण सू᳘र्यस्य रश्मि᳘भिरि᳘ति᳘ सो सा᳘वेव ब᳘न्धुः॥
मूलम् - विस्वरम्
स उत्पुनाति- “सवितुस्त्वा प्रसव उत्पुनाम्यच्छिद्रेण पवित्रेण सूर्यस्य रश्मिभिः” (१ अ० ३१ मं०) इति । सो ऽसावेव बन्धुः ॥ २३ ॥
सायणः
विहितमुत्पवनमनूद्य मन्त्रं विधत्ते- स उत्पुनातीति । आज्यस्यैकत्वात् ‘त्वा’- इत्येकवचनान्ततैव प्रोक्षप्युत्पवनमन्त्रतो ऽस्य विशेषः; अतस्तन्मन्त्रव्याख्यानरूपं “सविता वै देवानां प्रसविता" इत्यादिकं ब्राह्मणमत्रातिदिशति 48- सो ऽसाविति ॥ २३ ॥
Eggeling
- He clarifies it, with the text (Vāj. S. ‘By the impulse of Savitr̥ I purify thee with a flawless purifier (strainer), with the rays of the sun!’ The meaning (of this formula) is the same (as before).
२४
विश्वास-प्रस्तुतिः
(र) अथा᳘ज्यलिप्ताभ्यां पवि᳘त्राभ्याम्॥
(म्प्रो᳘) प्रो᳘क्षणीरु᳘त्पुनाति सवितु᳘र्व्वः प्रसव ऽउ᳘त्पुनाम्य᳘च्छ्रिद्रेण पवि᳘त्रेण सू᳘र्यस्य रश्मि᳘भिरि᳘ति सो ऽसा᳘वेव ब᳘न्धुः॥
मूलम् - श्रीधरादि
(र) अथा᳘ज्यलिप्ताभ्यां पवि᳘त्राभ्याम्॥
(म्प्रो᳘) प्रो᳘क्षणीरु᳘त्पुनाति सवितु᳘र्व्वः प्रसव ऽउ᳘त्पुनाम्य᳘च्छ्रिद्रेण पवि᳘त्रेण सू᳘र्यस्य रश्मि᳘भिरि᳘ति सो ऽसा᳘वेव ब᳘न्धुः॥
मूलम् - Weber
अथा᳘ज्यलिप्ताभ्याम् पवित्राभ्यम्॥
प्रो᳘क्षणीरु᳘त्पुनाति सवितु᳘र्वः प्रसव उ᳘त्पु …
मूलम् - विस्वरम्
अथाज्यलिप्ताभ्यां पवित्राभ्यां प्रोक्षणीरुत्पुनाति- “सवितुर्वः प्रसव उत्पुनाम्यच्छिद्रेण पवित्रेण सूर्यस्य रश्मिभिः" (१ अ० ३१ मं०) इति । सो ऽसावेव बन्धुः ॥ २४ ॥
सायणः
आज्योत्पवनानन्तरं ताभ्यामेव लेपसहिताभ्यां पवित्राभ्यां पुनः प्रोक्षण्युत्पवनं विधत्ते 48- अथेति । प्रागाम्नातमेव मन्त्रं 49 पठित्वा तद्ब्राह्मणमप्यतिदिशति- सवितुर्व इति ॥ २४ ॥
Eggeling
- He then purifies the sprinkling water with the strainers covered with butter, with the text (Vāj. S. I, 31),
‘By the impulse of Savitr̥ I purify you (O waters) with a flawless purifier, with the rays of the sun!’ The meaning is the same (as before).
२५
विश्वास-प्रस्तुतिः
(स्त) तद्यदा᳘ज्यलिप्ताभ्यां पवि᳘त्राभ्याम्॥
(म्प्रो᳘) प्रो᳘क्षणीरुत्पुना᳘ति त᳘दप्सु प᳘यो दधाति त᳘दिद᳘मप्सु प᳘यो हित᳘मिदᳫँ᳭ हि᳘ यदा व्व᳘र्षत्यथौ᳘षधयो जायन्त ऽओ᳘षधीर्ज्ज᳘ग्ध्वापः᳘ पीत्वा त᳘त ऽएष र᳘सः स᳘म्भवति त᳘स्मादु र᳘सस्यो चैव᳘ सर्व्वत्वा᳘य॥
मूलम् - श्रीधरादि
(स्त) तद्यदा᳘ज्यलिप्ताभ्यां पवि᳘त्राभ्याम्॥
(म्प्रो᳘) प्रो᳘क्षणीरुत्पुना᳘ति त᳘दप्सु प᳘यो दधाति त᳘दिद᳘मप्सु प᳘यो हित᳘मिदᳫँ᳭ हि᳘ यदा व्व᳘र्षत्यथौ᳘षधयो जायन्त ऽओ᳘षधीर्ज्ज᳘ग्ध्वापः᳘ पीत्वा त᳘त ऽएष र᳘सः स᳘म्भवति त᳘स्मादु र᳘सस्यो चैव᳘ सर्व्वत्वा᳘य॥
मूलम् - Weber
ब᳘न्धुःतद्यदा᳘ज्यलिप्ताभ्याम् पवि᳘त्राभ्याम्॥
प्रो᳘क्षनीरुत्पुनाति त᳘दप्सु प᳘यो दधाति त᳘दिद᳘मप्सु प᳘यो हित᳘मिदᳫं हि यदा व᳘र्षत्यथौ᳘षधयो जायन्त ओ᳘षधीर्जॗग्ध्वापः᳘ पीत्वा त᳘त एष र᳘सः स᳘म्भवति त᳘स्मादु र᳘सस्यो चैव᳘ सर्वत्वाय॥
मूलम् - विस्वरम्
तद्यदाज्यलिप्ताभ्यां पवित्राभ्यां प्रोक्षणीरुत्पुनाति, तदप्सु पयो दधाति । तदिदमप्सु पयो हितम् । इदं हि यदा वर्षति, अथौषधयो जायन्ते; ओषधीर्जग्ध्वापः पीत्वा तत एष रसः सम्भवति । तस्मादु रसस्य चैव सर्वत्वाय ॥ २५ ॥
सायणः
आज्यलेपसहिताभ्यां पवित्राभ्यां प्रोक्षण्युत्पवनमुपपादयति- तद्यादिति । ‘तत्‘ तत्र ‘यत्‘ इदमाज्यलिप्ताभ्यां पवित्राभ्यामपामुत्पवनम्, तेन पय एवासु ‘दधाति‘ स्थापयति संयोजयति; आज्यस्य पयः-कार्यत्वात् । अप्सु हि परम्परया तत्कार्यत्वात् पयः प्रतिष्ठितम् । एतदेव पारंपर्येणोपपादयति- इदं हीति । ‘जग्ध्वा‘ भक्षयित्वा । “अदो जग्धिर्ल्यप्ति किति" (पा० सू० २ । ४ । ३६)- इत्यदेर्जग्धादेशः । तस्मादिति । यस्मादेवं गव्यं पयः परम्परयोदकरसपरिणामरूपम्, ‘तस्मात्‘ कारणात् तत्कार्यस्याज्यस्यापां च यदुत्पवने संसर्जनम्, तद्रसस्यैव ‘सर्वत्वाय‘ सम्पूर्णत्वाय कार्त्स्न्याय भवतीत्यर्थः ॥ २५ ॥
Eggeling
- The reason why he purifies the sprinkling water with the strainers covered with butter is, that he thereby puts milk into the water, and that the milk thereby (becomes) beneficial 50 in the water, for, when it rains, plants are thereby produced; and on eating the plants and drinking the water, vital fluid (serum) results therefrom: and thus (he does this) in order to supply the vital fluid (of the sacrificer).
२६
विश्वास-प्रस्तुतिः
(याथा᳘) अथा᳘ज्यम᳘वेक्षते॥
तद्धै᳘के य᳘जमानम᳘वख्यापयन्ति त᳘दु होवाच या᳘ज्ञवल्क्यः कथन्नु न᳘ स्वय᳘मध्वर्य᳘वो भ᳘वन्ति कथ᳘ᳫं᳘ स्वयं ना᳘न्वाहुर्य्य᳘त्र भू᳘यस्य ऽइवाशि᳘षः क्रिय᳘न्ते कथं न्वेषाम᳘त्रैव᳘ श्रद्धा᳘ भवती᳘ति यां वै कां᳘ च यज्ञ᳘ ऽऋत्वि᳘ज ऽआशि᳘षमाशा᳘सते य᳘जमानस्यैव सा त᳘स्मादध्वर्यु᳘रेवा᳘वेक्षेत॥
मूलम् - श्रीधरादि
(याथा᳘) अथा᳘ज्यम᳘वेक्षते॥
तद्धै᳘के य᳘जमानम᳘वख्यापयन्ति त᳘दु होवाच या᳘ज्ञवल्क्यः कथन्नु न᳘ स्वय᳘मध्वर्य᳘वो भ᳘वन्ति कथ᳘ᳫं᳘ स्वयं ना᳘न्वाहुर्य्य᳘त्र भू᳘यस्य ऽइवाशि᳘षः क्रिय᳘न्ते कथं न्वेषाम᳘त्रैव᳘ श्रद्धा᳘ भवती᳘ति यां वै कां᳘ च यज्ञ᳘ ऽऋत्वि᳘ज ऽआशि᳘षमाशा᳘सते य᳘जमानस्यैव सा त᳘स्मादध्वर्यु᳘रेवा᳘वेक्षेत॥
मूलम् - Weber
अथा᳘ज्यम᳘वेक्षते॥
तद्धै᳘के य᳘जमानम᳘वख्यापयन्ति त᳘दु होवाच या᳘ज्ञवक्ल्यः कथं नु न᳘ स्वय᳘मध्वर्य᳘वो भ᳘वन्ति कथ᳘ᳫं᳘ स्वयं ना᳘न्वाहुर्य᳘त्र भू᳘यस्य इवाशि᳘षः क्रिय᳘न्ते कथं न्वेषाम᳘त्रैव᳘ श्रद्धा᳘ भवती᳘ति यां वै कां᳘ च यज्ञ᳘ ऋत्वि᳘ज आशि᳘षमाशा᳘सते य᳘जमानस्यैव सा त᳘स्मादध्वर्यु᳘रेवा᳘वेक्षेत 51 ॥
मूलम् - विस्वरम्
अथाज्यमवेक्षते । तद्धैके यजमानमवख्यापयन्ति । तदु होवाच याज्ञवल्क्यः- कथं नु न स्वयमध्वर्यवो भवन्ति, कथं स्वयं नान्वाहुः, यत्र भूयस्य इवाशिषः क्रियन्ते । कथं न्वेषामत्रैव श्रद्धा भवतीति । यां वै कां च यज्ञ ऋत्विज आशिषमाशासते- यजमानस्यैव सा । तस्मादध्वर्युरेवावेक्षेत ॥२६॥
सायणः
अध्वर्योराज्यावेक्षणं विधत्ते 52- अथेति । एकीयमतमुपन्यस्य निरस्यति- तद्धैक इति । ‘अवख्यापयन्ति‘ ख्यातिरत्र पश्यतिकर्मा; (निघ. ३ । ११ । १ । ५ । निरु. ३ भा. ४ । ११२ ।) अवेक्षयन्तीत्यर्थः । याज्ञवल्क्यस्य मतमुपन्यस्यति- तदिति । य एवं यजमानमवेक्षयन्ति, ते स्वकीये यज्ञे ‘कथम्‘ कस्मादेव ‘स्वयम्‘ यजमाना एव सन्तो ऽध्वर्यवो न भवन्ति ? कथं वा स्वयमेव होतारो भूत्वा याज्यानुवाक्यादीनि नानुब्रूयुः ? तेषामाध्वर्यवादिकरणे हेतुमाह- यत्रेति । ‘यत्र‘ खल्वाध्वर्यवादौ तत्करणमन्त्रैर्बहुतरा इव ‘आशिषः‘ फलप्रार्थनाः क्रियन्ते, तादृक्फलप्रतिपादकमन्त्रविशिष्टमाध्वर्यवादिकं कस्मान्न कुर्युः ? तत्परित्यज्य ‘एषाम्‘ एकेषां शाखिनामत्रैवावेक्षणं यजमानेनैव कर्त्तव्यमिति कस्मात् कारणाच्छ्रद्धा जातेत्यर्थः । एवं यजमानावेक्षणादि प्रहस्याध्वर्युणैव तदवेक्षणं कार्यमिति प्रतिपादयति- यां वा इति । दक्षिणाभिः परिक्रीतत्वादृत्विग्भिर्यत्फलमाशास्यते, तद् यजमानस्यैवेति न तेन पृथगाशासनं कार्यम् । अतो ऽध्वर्युरेवाज्यमवेक्षेतेत्यर्थः ॥ २६ ॥
Eggeling
- He then looks down on the butter. Here now some make the sacrificer look down. Yājñavalkya, however, said in reference to this point,–‘Why do not (the sacrificers) themselves become (act as) Adhvaryu priests? and why do not they (the sacrificers) themselves recite when far higher blessings are prayed for 53? How can these (people) possibly have faith in this 54? Whatever blessing the officiating priests invoke during the sacrifice that is for the benefit of the sacrificer alone.’ The Adhvaryu should accordingly look down on it.
२७
विश्वास-प्रस्तुतिः
सो᳘ ऽवेक्षते॥
सत्यं वै च᳘क्षुः सत्यᳫँ᳭ हि वै च᳘क्षुस्त᳘स्माद्य᳘दिदा᳘नीं द्वौ᳘ व्विव᳘दमानावेया᳘तामह᳘मदर्शमह᳘मश्रौषमि᳘ति य᳘ ऽएव᳘ ब्रूया᳘दह᳘मदर्शमि᳘ति त᳘स्मा ऽएव श्र᳘द्दध्याम त᳘त्सत्ये᳘नै᳘वैतत्स᳘मर्द्धयति॥
मूलम् - श्रीधरादि
सो᳘ ऽवेक्षते॥
सत्यं वै च᳘क्षुः सत्यᳫँ᳭ हि वै च᳘क्षुस्त᳘स्माद्य᳘दिदा᳘नीं द्वौ᳘ व्विव᳘दमानावेया᳘तामह᳘मदर्शमह᳘मश्रौषमि᳘ति य᳘ ऽएव᳘ ब्रूया᳘दह᳘मदर्शमि᳘ति त᳘स्मा ऽएव श्र᳘द्दध्याम त᳘त्सत्ये᳘नै᳘वैतत्स᳘मर्द्धयति॥
मूलम् - Weber
सो᳘ ऽवेक्षते॥
सत्यमृ वै च᳘क्षुः सत्यᳫं हि वै च᳘क्षुस्त᳘स्माद्य᳘दिदानीं द्वौ᳘ विव᳘दमानावेया᳘तामह᳘मदर्शमह᳘मश्रौषमि᳘ति य᳘ एव᳘ ब्रूया᳘दह᳘मदर्शमि᳘ति त᳘स्मा एव श्र᳘द्दध्याम त᳘त्सत्ये᳘नैॗवैतत्स᳘मर्धयति॥
मूलम् - विस्वरम्
सो ऽवेक्षते । सत्यं वै चक्षुः । सत्यं हि वै चक्षुस्तस्मात्- यदिदानीं द्वौ विवदमानावेयाताम्- ‘अहमदर्शम्‘ ‘अहमश्रौषम्‘ इति, य एव ब्रूयात् ‘अहमदर्शम्‘ इति- तस्मा एव श्रद्दध्याम । तत्सत्येनैवैतत्समर्द्धयति ॥ २७ ॥
सायणः
तदवेक्षणमनूद्य प्रशंसति- स इति । अवेक्षणस्य करणं हि चक्षुः; तच्च यथाभूतमेव वस्तु विषयीकरोतीति ‘सत्यम्‘ । एतदेव लोकव्यवहारेण संवादयन् द्रढयति- तस्मादिति । यस्मादेवं चक्षुः सत्यम्, तस्मादेव कारणात्- विवदमानयोर्मध्ये यश्चक्षुषा दृष्टवानस्मीति वदति, तद्वचनमेव श्रद्धार्हम्, न त्वितरस्यं श्रुतवानस्मीति वचनमित्यर्थः ॥ २७॥
Eggeling
- He looks down on it. The eye assuredly is the truth, for the eye is indeed the truth. If, therefore, two persons were to come disputing with each other and saying, ‘I have seen it!’ ‘I have heard it!’ we should believe him who said, ‘I have seen it!’ and not the other: hence he thereby causes it (the butter) to increase by means of the truth.
२८
विश्वास-प्रस्तुतिः
सो᳘ ऽवेक्षते॥
ते᳘जो ऽसि शुक्र᳘मस्यमृ᳘तमसी᳘ति स᳘ ऽएष᳘ सत्य᳘ ऽएव म᳘न्त्रस्ते᳘जो᳘ ह्येत᳘च्छु᳘क्र᳘ᳫं᳘ ह्येत᳘दमृ᳘त᳘ᳫं᳘ ह्येतत्त᳘त्सत्ये᳘नै᳘वैतत्स᳘मर्द्धयति॥
मूलम् - श्रीधरादि
सो᳘ ऽवेक्षते॥
ते᳘जो ऽसि शुक्र᳘मस्यमृ᳘तमसी᳘ति स᳘ ऽएष᳘ सत्य᳘ ऽएव म᳘न्त्रस्ते᳘जो᳘ ह्येत᳘च्छु᳘क्र᳘ᳫं᳘ ह्येत᳘दमृ᳘त᳘ᳫं᳘ ह्येतत्त᳘त्सत्ये᳘नै᳘वैतत्स᳘मर्द्धयति॥
मूलम् - Weber
सो᳘ ऽवेक्षते॥
ते᳘जो ऽसि शुक्र᳘मस्यमृ᳘तमसी᳘ति स᳘ एष᳘ सत्य᳘ एव म᳘न्त्रस्ते᳘जाॗ ह्येत᳘छुॗक्रᳫं ह्येत᳘दमृॗतᳫं ह्येतत्त᳘त्सत्ये᳘नैॗवैतत्स᳘मर्धयति॥
मूलम् - विस्वरम्
सो ऽवेक्षते- “तेजो ऽसि शुक्रमस्यमृतमसि”- (१ अ० ३१ मं०) इति । स एष सत्य एव मन्त्रः ।- तेजो ह्येतत्, शुक्रं ह्येतद्, अमृतं ह्येतत्, तत्सत्येनैवैतत्समर्द्धयति ॥ २८ ॥
सायणः
विहितमवेक्षणमनूद्य मन्त्रं विधत्ते- स इति । यो ऽयं “तेजो ऽसी" ति मन्त्रः, ‘स एषः‘ ‘सत्यः‘ यथार्थ एव । कुत इत्यत आह- तेजो हीति । ‘हि‘ यस्मात् ‘एतत्‘ आज्यम् ‘तेजः‘ तद्धेतुत्वात्, तथा ‘शुक्रम्’ निर्मलम्, ‘अमृतं‘ यागादिद्वारा- अमरणसाधनम्; यद्वा- अमृतवत्पुष्टिकरम् । ‘एवम्‘ आज्यस्यैवंरूपत्वात्, विद्यमानार्थप्रकाशकत्वान्मत्रः सत्य इत्यर्थः ॥ २८ ॥ ४ । (३. १) ॥
इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनशतपथभाष्ये प्रथमकाण्डे तृतीयाध्याये प्रथमं ब्राह्मणम् ॥
Eggeling
- He looks down on it, with the text (Vāj. S. I, 31), ‘Lustrous art thou! resplendent art thou! immortal (or, ambrosia) art thou!’ That prayer is indeed true, for that (butter) is lustrous, it is resplendent, it is immortal: hence he thereby causes it to increase by that (prayer) which is true.
-
“बाहुमात्र्यः स्रुचः पाणिमात्रपुष्करास्त्वग्बिला हंसमुखप्रसेका मूलदण्डाः" का. श्रौ. सू. १ । ३ । ३७ । स्रुचस्तिस्रः- जुहूपभृद्ध्रुवाः । तत्र “पालाशीजुहूः" इति । “आश्वत्थी उपभृत्” का. श्रौ. सू. १ । ३ । ३४ । ३५ । “ध्रुवा तु वैकंकती भवति” का. श्रौ. सू. १ । ३ । ३१ । इति । ↩︎
-
67:2 Besides the Agnihotra-havaṇī, or milk ladle used at the morning and evening oblations (see p. 11, note 2; and II, 3, I, 17), three different sruc or offering-spoons are used, viz. the juhū, upabhr̥t, and dhruvā. They are made each of a different kind of wood, of an arm’s length (or, according to others, a cubit long), with a bowl of the shape and size of the hand, and a hole cut through the bark and front side of the bowl and fitted with a spout some eight or nine inches long, and shaped like a goose’s bill. The sruva or dipping-spoon, on the other hand, chiefly used for ladling the clarified butter (or milk) from the butter vessel into the offering-spoons, is of khadira wood (Acacia Catechu), a cubit long, with a round bowl measuring a thumb’s joint across, and without a spout. In our text the term sruc is used both in the general sense of ‘spoon’ and in the narrower one of ‘offering-spoon,’ as distinguished from the sruva or ‘dipping-spoon.’ ↩︎
-
68:1 The brushing of the spoons is here compared with the rinsing of vessels preparatory to their being used for serving up the food. At the same time, we shall see further on (I, 8, 3, 26-27) that the two principal offering-spoons, the juhū and upabhr̥t, are looked upon as yoke-fellows, they being the two horses that are supposed to convey the sacrifice (and consequently the sacrificer himself) to the world of the gods; hence this process of cleaning also corresponds to the rubbing down of the horses preparatory to the setting out of the sacrificer on his progress to the world of the gods. ↩︎
-
इहैव ब्राह्मणे पूर्वं १ का. १ प्र. ३ ब्रा. ५ कंडिकाद्वयं । इति । ↩︎ ↩︎
-
68:2 See I, 1, 3, 5. ↩︎
-
68:3 It is doubtful to me whether this last passage merely refers to the several spoons, or whether it refers to the symbolical meaning of the wiping with sacrificial grass and the accompanying formula. In the latter case it might mean: ‘and thus that (act) becomes different (i.e. has a different significance).’ ↩︎
-
“खादिरः स्रुवः“ इति- “अरत्निमात्रः स्रुचो ऽङ्गुष्ठपर्ववृत्तपुष्करः” इति च का. श्रौ. सू. १ । ३ । ३२ । ३८ । ↩︎ ↩︎
-
69:1 Cf. I, 1, 2, 3, and note. ↩︎
-
“प्राशित्रहरणं वारणं प्रादेशमात्रम् आदर्शाकृति (र्क्तुलं) चमसाकृति (चतुरस्रं) वा भवति” का. श्रौ. सु. १ । ३। ३६ । ४० । ४१ । ↩︎ ↩︎
-
तन्मन्त्रश्च तत्रैव- “रूपं वर्णम्पशूनां मानिर्मृक्षं वाजि सपत्नसाहं सम्मार्ज्मि” इति । ↩︎
-
69:2 A-niśita, ’not sharpened,’ from śā (śo), ’to sharpen’ (thus also Mahīdh.). If, however, anuparata, ‘unceasing,’ in the text is intended by the author to explain aniśita, he would seem to identify the root śā with sā. (so), ’to bring to an end, to finish.’ The spoon is sharpened by the wiping, cf. Taitt. Br. III, 3, 1, 1. ↩︎
-
69:3 Vājedhyāyai, ‘for the lighting (brightening) of the sacrifice (by means of the butter which is poured into the fire), the sacrifice being the food of the gods,’ Mahīdh. The St. Petersburg Dictionary suggests vājetyāyai, ’thee, the courser, I wipe for the race!’ Cf. p. 68, note 1. ↩︎
-
69:4 The prāśitraharaṇa is a pan of khadira wood, either square or round (? oval, of the shape of a cow’s ear, Sāy.; of the shape of a mirror, Katy.), used for holding the Brahman’s portion (prāśitra) of the sacrificial cake. According to Katy. II, 6, 49, the śr̥tāvadānam (cake-cutter) and (purodāśa-)pātrī (cake-dish) also have to be cleaned on this occasion. ↩︎
-
॰रतः सं᳘मा॰ B prima manu. ॰रतः᳘ संमा॰ B sec. manu. C. M. See पा॰ ८.१.६३. ॰दा᳘य प्रा᳘ङुदा᳘द्रवति M. ॰दा᳘हरति coni. ॰त्प᳘त्नीॗ नान्त᳘रेति M apogr. ↩︎
-
70:1 While brushing the spoons he stands east of the Āhavanīya fire-house, looking toward east. The way of brushing, prescribed by the Black Yajus (Taitt. Br. III, 3, I, 3-4; comm. on Taitt. S. I, 1, 10), seems to be more complicated. ↩︎
-
70:2 Viz. the former (‘aratner uparibhāgasya lomāni’), according to Sāyaṇa, point in a forward direction (away from the body), and the latter (‘pr̥shṭḥabhāgasya lomāni’) in a backward direction. The Taitt. Br. III, 3, 1, 4 has ‘on the elbow (aratnau) the hairs above (point) forward, those below backward,’ which Sāyaṇa (Taitt. S. I, 1, 1, 10) explains by ’the short hairs above the wrist (? maṇibandhād ūrdhvam) are forward-pointed (prāṅmukha), but those below are backward-pointed (pratyañc).’ ↩︎
-
‘सम्मार्जनानन्तर’- इति पा । ↩︎
-
“पुनः पुनः” इति क्वचित् पा. । ↩︎
-
70:3 That is to say, the heating of the spoons corresponds to the usual final rinsing of household vessels with water without touching them. Sāyaṇa. ↩︎
-
॰द्भवेदिति Sây. ↩︎
-
71:1 The Black Yajus (Taitt. Br. III, 3, 2, 1) prescribes that the grass-ends, after the brushing, should be thrown into the fire, and not on the heap of rubbish, as some do; or at all events they should not be thrown on the utkara, without their having been previously washed with water, as they would otherwise bring ill-luck to the cattle. ↩︎
-
72:1 The mistress of the house is seated south-west of the Gārhapatya fire [with bent (or raised) knees and her face turned towards north-east]. The Āgnīdhra then girds her round the waist, outside the garment, with a triple cord of reed-grass (muñja). Katy. II, 7, 1; and Sāyaṇa on our passage. ↩︎
-
72:2 According to Taitt. Br. III, 3, 3, 2-3 the symbolical meaning of this act is, that it represents the vratopanayana, or initiation of the wife into the sacred rite. The girding of the wife would thus possess a significance similar to that of the ordinary upanayana, or investiture of the youth with the sacred cord. ↩︎
-
72:3 The noose (pāśa) is one of the chief attributes of God Varuṇa, the symbol of his supreme power and his abhorrence of sin. Thus we read in Atharva-veda IV, 16, 4 seq.: ‘And if one were to flee far beyond the sky, one would not escape from king Varuṇa. From heaven his spies issue forth to this (world), and with their thousand eyes survey the earth. King Varuṇa sees all that happens between heaven and earth and beyond them: the very twinklings of the eyes of men are numbered by him. . . . May all those baleful nooses of thine, O Varuṇa, that are thrown sevenfold and three-fold, ensnare him who speaks untruth, and pass by him who speaks the truth!’ ↩︎
-
‘सैवैषापि‘ इति क्वचित् पा. । ↩︎
-
73:1 Taitt. Br. III, 3, 3, 4, on the contrary, prescribes a knot (granthiṁ grathnāti), as the symbol which is to secure all blessings for her. ↩︎
-
“मष्यारोहत” इति पा. । ↩︎
-
’अनेकपत्नीके सर्वासाम्’ इति याज्ञिकदेवः । ↩︎
-
73:2 He winds the cord round her waist from left to right (pradakshiṇam), and having fixed the southern end by twice twisting round the northern one, he draws the southern end through the encircling cord upwards (so as to hang down, uparishṭāl lambayet, Sāyaṇa. Katy. II, 7, 1, &c., Scholl.). ↩︎
-
73:3 Veshya = vyāpaka, Mahīdh.; ‘perhaps a headband,’ St. Petersb. Dict. It is apparently an etymological play on the name of Vishṇu (? the all-pervading sun). The formula, according to Mahīdhara, is addressed to the southern end of the cord which is drawn through the girdle (? the pervading ray of Vishṇu). ↩︎
-
73:4 Aditi is the earth and therefore the altar, which represents the earth: hence Aditi, in the shape of the altar, looks towards the east. ↩︎
-
74:1 He takes the pot containing the clarified butter from the fire, with the text (Vāj. S. I, 30): ‘For juice thee!’ [see I, 2, 2, 6,] puts it down on the ground before the sacrificer’s wife and bids her look down on it. Katy. II, 7, 4. ↩︎
-
आज्यावेक्षणात्प्रागाज्योद्वासनं कार्यं विहितं तत्र मन्त्रः वा. सं. १ । ३० । ३ । “ऊर्जेत्वेत्याज्यमुद्वास्य पत्नीमवेक्षयत्यदब्धेनेति" श्रौ० सू० २. १९७ । ↩︎
-
74:2 Suhūḥ. The Kāṇva recension and Taitt. S. I, 1, 10, 3 have subhūḥ, ‘well-being, good,’ which reading seems also to be presupposed by our author’s explanation ‘well (or good) for the gods.’ The Black Yajus assigns this entire mantra to the Adhvaryu, when he has taken the butter from the Āhavanīya, and puts it down north of the altar. In other respects also it differs considerably from the order followed by our author. ↩︎
-
॰दा᳘य प्रा᳘ङुदा᳘द्रवति M. ॰दा᳘हरति coni. ॰त्प᳘त्नीॗ नान्त᳘रेति M apogr. ↩︎
-
75:1 According to the ritual of the Black Yajus, the butter, after the sacrificer’s wife has looked at it, is again heated on the Gārhapatya fire, in order to remove the impurity which has thereby been imparted to it. ↩︎
-
75:2 The patnīsaṁyājas are four oblations of butter to Soma, Tvashṭr̥, the wives of the gods, and Agni Gr̥hapati respectively, made at the end of these sacrifices. See I, 9, 2, 1. It would seem that, according to the ritual of the Black Yajus, the butter is not put on the altar, but on a line drawn with the wooden sword north of the altar. See p. 74, note 2. ↩︎
-
76:1 Avasabhāḥ karoti–avagatajanasamūhāḥ karoti, Sāy.; the gods are supposed to be assembled around the altar (cf. I, 3, 3, 8): hence by placing the butter, from which the oblations to the wives of the gods are to be made, within the altar, the Adhvaryu would separate the wives from their husbands. ↩︎
-
76:2 I am not quite certain as to whether this last scornful remark is really to be assigned to Yājñavalkya. The Kāṇva text has,–Yājñavalkya, however, said, ‘Let him place it within the altar!’ thus he said. ‘Let it be so as it has been prescribed for the wife,’ thus (thinking) let him place it, whether or not she consort with other men. ↩︎
-
इहैव ब्राह्मणे पूर्वं १ कां. १ प्र. ३ ब्रा. ४ कं. इत्यत्र द्रष्टव्यम् । ↩︎
-
76:3 Probably the same as ud-āna (breathing upwards or inspiration), which one of the strainers is said to represent in I, 1, 3, 2. See also I, 1, 3, 6; Taitt. Br. III, 3, 4, 4. The St. Petersburg Dictionary proposes the meaning ‘an implement for cleaning’ for utpavana in this passage. ↩︎
-
इहैव ब्राह्मणे पूर्वं १ कां. १ प्र. ३ ब्रा. ६ कं. इत्यत्र द्रष्टव्यम् । ↩︎ ↩︎
-
पूर्वे १ कां. १ प्र. ३ ब्रा. ६ कं. । ↩︎
-
77:1 A play on the word hitam, which means both ‘put, placed,’ and ‘beneficial, salutary.’ ↩︎
-
रसस्यो वैव I.B prima m. ↩︎
-
“आज्यमवेक्षते तेजो ऽसीति यजमानो वा” (श्रौ. सू. २. २०१)। ↩︎
-
77:2 The Kāṇva text has as follows,–Here now some make the sacrificer eye it, arguing, ‘whatever blessing (resides therein) that he should himself pray for.’ Yājñavalkya, however, said in reference to this point, ‘Why then does not he himself become Adhvaryu? and why does he not recite (the solemn prayers of the Hotr̥ priest), and that when they pray for higher blessing? Whatever blessing the priests invoke at the sacrifice, that they invoke for the sacrificer alone;’ thus he said. The Adhvaryu, therefore, should look down on it. ↩︎
-
77:3 Teshāṁ śākhinām atraivāvekshaṇaṁ yajamānenaiva kartavyam iti kasmāt kāraṇāt śraddhā jātā, evam taṁ śraddhām prahasya, Sāy. The Kāṇva text omits this derisive remark. ↩︎