०१

विश्वास-प्रस्तुतिः

देवा᳘श्च वा ऽअ᳘सुराश्च॥
(श्चो) उभ᳘ये प्राजापत्याः᳘ पस्पृधिरे त᳘तो देवा᳘ ऽअनु᳘व्यमिवासुर᳘थ हा᳘सुरा मेनिरे ऽस्मा᳘कमे᳘वेदं ख᳘लु भु᳘वनमि᳘ति॥

मूलम् - श्रीधरादि

देवा᳘श्च वा ऽअ᳘सुराश्च॥
(श्चो) उभ᳘ये प्राजापत्याः᳘ पस्पृधिरे त᳘तो देवा᳘ ऽअनु᳘व्यमिवासुर᳘थ हा᳘सुरा मेनिरे ऽस्मा᳘कमे᳘वेदं ख᳘लु भु᳘वनमि᳘ति॥

मूलम् - Weber

देवा᳘श्च वा अ᳘सुराश्च॥
उभ᳘ये प्राजापत्याः᳘ पस्पृधिरे ततो देवा᳘ अनुव्य᳘मिवासुर᳘थ हा᳘सुरा मेनिरे ऽस्मा᳘कमेॗवेदं ख᳘लु भु᳘वनमिति॥

मूलम् - विस्वरम्

देवाश्च वा असुराश्च- उभये प्राजापत्याः पस्पृधिरे । ततो देवा अनुव्यमिवासुः । अथ हासुरा मेनिरे अस्माकमेवेदं खलु भुवनमिति ॥ १ ॥

सायणः

इत्थं स्तम्बयजुर्हरणं 1 विधाय वेदिपरिग्रहं वक्तुमितिहासमुपन्यस्यति- देवाश्चेति । ‘पस्पृधिरे’ स्पर्द्धां कृतवन्तः। “अपस्पृधेथामानृचुरानूहुः" (पा० सू० ६. १. ३६.) इति सम्प्रसारणनिपातनस्योपलक्षणत्वमभिप्रेत्य लिट्यपि सम्प्रसारणं कृतम् । स्पर्द्धमानानां तेषां मध्ये ‘देवाः’ ‘ततः’ तेभ्यो ऽसुरेभ्यः ‘अनुव्यम्’ अनुगमनं न्यग्भूतिं 2 प्राप्ता इव बभूवुः । ‘अथ ह’ अनन्तरमेव ते ऽसुरा मन्यन्ते स्म । किमिति ? ‘इदम्’ सर्वं जगदस्माकमेवेति ॥ १ ॥

Eggeling
  1. The gods and the Asuras, both of them sprung from Prajāpati, were contending for superiority. Then the gods were worsted, and the Asuras thought: ‘To us alone assuredly belongs this world!

०२

विश्वास-प्रस्तुतिः

ते᳘ होचुः॥
(र्ह᳘) ह᳘न्तेमां᳘ पृथिवीं᳘ विभ᳘जामहै तां᳘ व्विभज्यो᳘पजीवामे᳘ति तामौ᳘क्ष्णैश्च᳘र्म्मभिः पश्चात्प्रा᳘ञ्चो व्विभ᳘जमाना ऽअ᳘भीयुः॥

मूलम् - श्रीधरादि

ते᳘ होचुः॥
(र्ह᳘) ह᳘न्तेमां᳘ पृथिवीं᳘ विभ᳘जामहै तां᳘ व्विभज्यो᳘पजीवामे᳘ति तामौ᳘क्ष्णैश्च᳘र्म्मभिः पश्चात्प्रा᳘ञ्चो व्विभ᳘जमाना ऽअ᳘भीयुः॥

मूलम् - Weber

ते᳘ होचुः॥
ह᳘न्तेमा᳘म् पृथिवीं᳘ विभ᳘जामहै तां᳘ विभज्यो᳘पजीवामे᳘ति तामौ᳘क्ष्णैश्च᳘र्मभिः पश्चात्प्राञ्चो विभ᳘जमाना अॗभीयुः॥

मूलम् - विस्वरम्

ते होचुः- हन्तेमां पृथिवीं विभजामहै, तां विभज्योपजीवामेति । तामौक्ष्णैश्चर्म्मभिः पश्चात् प्राञ्चो विभजमाना अभीयुः ॥ २ ॥

सायणः

एवमुक्त्वा किमुक्तवन्त इति तद्दर्शयति- ते हेति । ‘हन्त’ इति हर्षे । यत एवं देवा न्यग्भूताः 3, अतो निष्प्रत्यूहं वयम् ‘इमाम्’ पृथिवीं विभजामहै । विभज्य च तां यथाभागमुपजीवामेति । एवमुक्त्वा किं कृतवन्त इति तदाह- तामिति । ‘औक्ष्णैः’ उक्ष्णो ऽनडुहः सम्बन्धिभिश्चर्म्मभिः । उक्षन्- शब्दात् “तस्येदम्” (पा० सू० ४. ३. १२०) इत्यणि “षपूर्वहन्धृतराज्ञाम्” (पा० सू० ६. ४. १३५) इत्यलोपः । तैश्चर्मभिः ‘पश्चात्’ प्रतीचीं दिशमारभ्य ‘प्राञ्चः’ प्राङ्मुखा विभजमानाः ‘अभीयुः’ अभिजग्मुरित्यर्थः ॥ २ ॥

Eggeling
  1. They thereupon said: ‘Well then, let us divide this world between us; and having divided it, let us subsist thereon!’ They accordingly set about dividing it with ox-hides from west to east.

०३

विश्वास-प्रस्तुतिः

(स्त) तद्वै᳘ देवाः᳘ शुश्रुवुः॥
(र्व्वि᳘) व्वि᳘भजन्ते ह वा᳘ ऽइमाम᳘सुराः पृथिवीं प्रे᳘त त᳘देष्या᳘मो य᳘त्रेमाम᳘सुरा व्विभ᳘जन्ते के त᳘तः स्याम य᳘दस्यै न भ᳘जेमही᳘ति ते᳘ यज्ञ᳘मेव व्वि᳘ष्णुं पुरस्कृत्ये᳘युः॥

मूलम् - श्रीधरादि

(स्त) तद्वै᳘ देवाः᳘ शुश्रुवुः॥
(र्व्वि᳘) व्वि᳘भजन्ते ह वा᳘ ऽइमाम᳘सुराः पृथिवीं प्रे᳘त त᳘देष्या᳘मो य᳘त्रेमाम᳘सुरा व्विभ᳘जन्ते के त᳘तः स्याम य᳘दस्यै न भ᳘जेमही᳘ति ते᳘ यज्ञ᳘मेव व्वि᳘ष्णुं पुरस्कृत्ये᳘युः॥

मूलम् - Weber

तद्वै᳘ देवाः᳘ शुश्रुवुः॥
वि᳘भजन्ते ह वा᳘ इमाम᳘सुराः पृथिवीम् प्रे᳘त त᳘देष्या᳘मो य᳘त्रेमाम᳘सुरा विभ᳘जन्ते के त᳘तः स्याम य᳘दस्यै न भ᳘जेमही᳘ति ते᳘ यज्ञ᳘मेव वि᳘ष्णुम् पुरस्कृत्ये᳘युः॥

मूलम् - विस्वरम्

तद्वै देवाः शुश्रुवुः विभजन्ते ह वा इमामसुराः पृथिवीम्, प्रेत तदेष्यामो यत्रेमामसुरा विभजन्ते, के ततः स्याम- यदस्यै न भजेमहीति । ते यज्ञमेव विष्णुं पुरस्कृत्येयुः ॥ ३ ॥

सायणः

असुरेष्वेवं कृतवत्सु देवाः किं कृतवन्त इति तदाह- तद्वा इति । प्रेतेत्यादि । अस्माकं तूष्णीमवस्थानमनुचितम् अस्माभिरपि तद्विषये प्रयतितव्यमिति, परस्परमभिमुखीकृत्येत्यर्थः प्रतिपाद्यते- हे देवाः ! यूयं ‘प्रेत’ गच्छत, प्रोत्सहध्वमिति यावत् । यस्मिन् स्थाने ऽसुराः पृथिवीं विभजन्ते, तत् स्थानं गमिष्यामः । गत्वा च ‘यत्’ यदि ‘अस्यै’ षष्ठ्यर्थे चतुर्थी (पा. सू. २ । ३ । ६२ । वा० १५०९) ‘अस्याः’ पृथिव्याः सम्बन्धि स्थानं न प्रान्नुयामः, (‘ततः’ तर्हि वयमभागिनो भवेम; यदि तु प्राप्नुयामः तदा) भागिनः ‘स्याम’ भवेमेत्यर्थः । एवमालोच्य देवैः कृतं दर्शयति- त इति । यज्ञात्मकमेव ‘विष्णुम्’ पुरतो धारयित्वा ‘ईयुः’ गतवन्त इत्यर्थः ॥ ३ ॥

Eggeling
  1. The gods then heard of this, and said: ‘The Asuras are actually dividing this earth: come, let us go to where the Asuras are dividing it. For what would become of us, if we were to get no share in it?’ Placing Vishṇu, (in the shape of) this very sacrifice, at their head, they went (to the Asuras).

०४

विश्वास-प्रस्तुतिः

(स्ते᳘) ते᳘ होचुः॥
(र᳘) अ᳘नु नो ऽस्यां᳘ पृथिव्यामा᳘भजता᳘स्त्वेव नो᳘ ऽप्यस्यां᳘ भाग ऽइ᳘ति ते हा᳘सुरा ऽअसूय᳘न्त ऽइवोचुर्या᳘वदे᳘वैष व्वि᳘ष्णुरभिशे᳘ते ता᳘वद्वो दद्म ऽइ᳘ति॥

मूलम् - श्रीधरादि

(स्ते᳘) ते᳘ होचुः॥
(र᳘) अ᳘नु नो ऽस्यां᳘ पृथिव्यामा᳘भजता᳘स्त्वेव नो᳘ ऽप्यस्यां᳘ भाग ऽइ᳘ति ते हा᳘सुरा ऽअसूय᳘न्त ऽइवोचुर्या᳘वदे᳘वैष व्वि᳘ष्णुरभिशे᳘ते ता᳘वद्वो दद्म ऽइ᳘ति॥

मूलम् - Weber

ते᳘ होचुः॥
अ᳘नु नो ऽस्या᳘म् पृथिव्यामा᳘भजता᳘स्त्वेव नो᳘ ऽप्यस्याम् भाग इ᳘ति ते हा᳘सुरा असूय᳘न्त इवोचुर्या᳘वदेॗवैष वि᳘ष्नुरभिशे᳘ते ता᳘वद्वो दद्म इ᳘ति॥

मूलम् - विस्वरम्

ते होचुः - अनु नो ऽस्यां पृथिव्यामाभजत, अस्त्वेव नो ऽप्यस्यां भाग इति । ते हासुरा असूयन्त इवोचुः- यावदेवैष विष्णुरभिशेते, तावद्वो दद्म इति ॥ ४ ॥

सायणः

गत्वा चासुरान् प्रति किमुक्तवन्त इति, तदाह- ते हेति । ‘अस्याम्’ पृथिव्याम् ‘नः’ अस्मान् ‘अन्वाभजत’ संयोजयत । ‘नः’ अस्माकमप्यस्यां भागो भवत्विति । असुरैः कृतं प्रतिवचनं दर्शयति- ते हेति । ‘असूयन्त इव’ असूयां कुर्वन्त इव, असहमाना इति यावत् । यावन्तं देशं विष्णुर्व्याप्य वर्तते, तत्परिमाणं स्थानं युष्मभ्यं प्रयच्छाम इति ॥ ४ ॥

Eggeling
  1. They then said: ‘Let us share in this earth along with yourselves! Let a part of it be ours!’ The Asuras replied rather grudgingly: ‘As much as this Vishṇu lies upon, and no more, we give you!’

०५

विश्वास-प्रस्तुतिः

व्वामनो᳘ ह व्वि᳘ष्णुरास॥
त᳘द्देवा न᳘ जिहीडिरे महद्वै᳘ नो ऽदुर्य्ये᳘ नो यज्ञसम्मितम᳘दुरि᳘ति॥

मूलम् - श्रीधरादि

व्वामनो᳘ ह व्वि᳘ष्णुरास॥
त᳘द्देवा न᳘ जिहीडिरे महद्वै᳘ नो ऽदुर्य्ये᳘ नो यज्ञसम्मितम᳘दुरि᳘ति॥

मूलम् - Weber

वामनो᳘ ह वि᳘ष्नुरास॥
त᳘द्देवा न᳘ जिहीडिरे महद्वै᳘ नो ऽदुर्ये᳘ नो यज्ञसंमितम᳘दुरि᳘ति 4

मूलम् - विस्वरम्

वामनो ह विष्णुरास । तद्देवा न जिहीडिरे- महद्वै नो ऽदुर्ये नो यज्ञसम्मितमदुरिति ॥ ५ ॥

सायणः

असुरैरभिहिते देवास्तदङ्गीचक्रुरित्याह- वामनो हेति । विष्णुर्हि तदानीम् ‘वामनः’ खर्वो बभूव । अत एवासुरास्तेनाक्रान्तं स्थानं प्रयच्छाम इत्यब्रुवन् । अथापि ‘तत्’ असुरैरुक्तं देवाः; ‘न जिहीडिरे’ न ह्यनादृतं चक्रुः, किन्त्वाद्रियन्ते स्मेत्यर्थः । “हेडृ अनादरे” ( भ्वा० आ० २८५ ) इति धातुः । आदरणप्रकारमाह- महदिति । विष्णुर्हि यज्ञः, अतो ‘यज्ञसम्मितम्’ स्थानमस्मभ्यं दत्तवन्त इति यत्, तत् ‘नः’ अस्माकम् ‘महत्’ अधिकम् ॥ ५ ॥

Eggeling
  1. Now Vishṇu was a dwarf 5. The gods, however,

were not offended at this, but said: ‘Much indeed they gave us, who gave us what is equal in size to the sacrifice.’

०६

विश्वास-प्रस्तुतिः

ते प्रा᳘ञ्चं व्वि᳘ष्णुं निपा᳘द्य॥
च्छ᳘न्दोभिरभि᳘तः प᳘र्यगृह्णन्गायत्रे᳘ण त्वा च्छ᳘न्दसा प᳘रिगृह्णामी᳘ति दक्षिणतस्त्रै᳘ष्टुभेन त्वा च्छ᳘न्दसा प᳘रिगृह्णामी᳘ति पश्चाज्जा᳘गतेन त्वा च्छ᳘न्दसा प᳘रिगृह्णामी᳘त्युत्तरतः॥

मूलम् - श्रीधरादि

ते प्रा᳘ञ्चं व्वि᳘ष्णुं निपा᳘द्य॥
च्छ᳘न्दोभिरभि᳘तः प᳘र्यगृह्णन्गायत्रे᳘ण त्वा च्छ᳘न्दसा प᳘रिगृह्णामी᳘ति दक्षिणतस्त्रै᳘ष्टुभेन त्वा च्छ᳘न्दसा प᳘रिगृह्णामी᳘ति पश्चाज्जा᳘गतेन त्वा च्छ᳘न्दसा प᳘रिगृह्णामी᳘त्युत्तरतः॥

मूलम् - Weber

ते प्रा᳘ञ्चं वि᳘ष्णुं निपा᳘द्य 6
छ᳘न्दोभिरभि᳘तः प᳘र्यगृह्णन्गायत्रे᳘ण त्वा छ᳘न्दसा प᳘रिगृह्णामी᳘ति दक्षिणतस्त्रै᳘ष्टुभेन त्वा छ᳘न्दसा प᳘रिगृह्णामी᳘ति पश्चाज्जा᳘गतेन त्वा छ᳘न्दसा प᳘रिगृह्णामी᳘त्युत्तरतः॥

मूलम् - विस्वरम्

ते प्राञ्चं विष्णुं निपाद्य छन्दोभिराभितः पर्यगृह्णन्- “गायत्रेण त्वा छन्दसा परिगृह्णामि”- ( १ अ. २७ मं.) इति, दक्षिणतः । “त्रैष्टुभेन त्वा छन्दसा परिगृह्णामि”- (१ अ. २७ मं.) इति पश्चात् । “जागतेन त्वा छन्दसा परिगृह्णामि” (१ अ. २७ मं.) इति, उत्तरतः ॥ ६॥

सायणः

एवं विचार्य देवैः कृतं दर्शयति- इति । यज्ञात्मकम् ‘विष्णुम्’ ‘प्राञ्चम्’ प्राक्शिरसं निपात्य (द्य) दक्षिणतः, पश्चात्, उत्तरतश्च गायत्र्यादिच्छन्दोभिः सर्वतः पर्यगृह्णन् ॥ ६ ॥

Eggeling
  1. Having then laid him down eastwards, they enclosed him on all (three) sides with the metres, saying (Vāj. S. I, 27), on the south side, ‘With the Gāyatrī metre I enclose thee!’ on the west side: ‘With the Trishṭubh metre I enclose thee!’ on the north side: ‘With the Jagatī metre I enclose thee 7!’

०७

विश्वास-प्रस्तुतिः

(स्तं) तं छ᳘न्दोभिरभि᳘तः परिगृ᳘ह्य॥
(ह्या) अग्निं᳘ पुर᳘स्तात्समाधा᳘य तेना᳘र्च्चन्तः श्रा᳘म्यन्तश्चेरुस्ते᳘नेमाᳫँ᳭स᳘र्व्वां पृथिवीᳫंस᳘मविन्दन्त तद्य᳘देनेनेमाᳫँ᳭स᳘र्व्वाᳫं सम᳘विन्दन्त त᳘स्माद्वे᳘दिर्ना᳘म त᳘स्मादाहुर्य्या᳘वती व्वे᳘दिस्ता᳘वती᳘ पृथिवी᳘त्येत᳘या᳘ हीमाᳫँ᳭स᳘र्व्वाᳫं सम᳘विन्दन्तैव᳘ᳫँ᳘ह वा᳘ ऽइमाᳫँ᳭ स᳘र्व्वाᳫं सप᳘त्नानाᳫँ᳭सं᳘वृङ्क्ते नि᳘र्भजत्यस्यै᳘ सप᳘त्नान्य᳘ ऽएव᳘मेतद्वे᳘द᳘॥

मूलम् - श्रीधरादि

(स्तं) तं छ᳘न्दोभिरभि᳘तः परिगृ᳘ह्य॥
(ह्या) अग्निं᳘ पुर᳘स्तात्समाधा᳘य तेना᳘र्च्चन्तः श्रा᳘म्यन्तश्चेरुस्ते᳘नेमाᳫँ᳭स᳘र्व्वां पृथिवीᳫंस᳘मविन्दन्त तद्य᳘देनेनेमाᳫँ᳭स᳘र्व्वाᳫं सम᳘विन्दन्त त᳘स्माद्वे᳘दिर्ना᳘म त᳘स्मादाहुर्य्या᳘वती व्वे᳘दिस्ता᳘वती᳘ पृथिवी᳘त्येत᳘या᳘ हीमाᳫँ᳭स᳘र्व्वाᳫं सम᳘विन्दन्तैव᳘ᳫँ᳘ह वा᳘ ऽइमाᳫँ᳭ स᳘र्व्वाᳫं सप᳘त्नानाᳫँ᳭सं᳘वृङ्क्ते नि᳘र्भजत्यस्यै᳘ सप᳘त्नान्य᳘ ऽएव᳘मेतद्वे᳘द᳘॥

मूलम् - Weber

तं छ᳘न्दोभिरभि᳘तः परिगृ᳘ह्य॥
अग्नि᳘म् पुर᳘स्तात्समाधा᳘य तेना᳘र्चन्तः श्रा᳘म्यन्तश्चेरुस्ते᳘नेमाᳫं स᳘र्वाम् पृथिवीᳫं स᳘मविन्दन्त तद्य᳘देनेनेमाᳫं स᳘र्वाᳫं सम᳘विन्दन्त त᳘स्माद्वे᳘दिर्ना᳘म त᳘स्मादाहुर्या᳘वती वे᳘दिस्ता᳘वती पृथिवी᳘त्येत᳘याॗ हीमाᳫं स᳘र्वाᳫं सम᳘विन्दन्तैव᳘ᳫं᳘ ह वा᳘ इमाᳫं स᳘र्वाᳫं सप᳘त्नानाᳫं स᳘म्वृङ्क्ते नि᳘र्भजत्यस्यै᳘ सप᳘त्नान्य᳘ एव᳘मेतद्वे᳘द॥

मूलम् - विस्वरम्

तं छन्दोभिरभितः परिगृह्य, अग्निं पुरस्तात् समाधाय, तेनार्चन्तः श्राम्यन्तश्चेरुः । तेनेमां सर्वां पृथिवीं समविन्दन्त । तद् यदेनेनेमां सर्वां समविन्दन्त, तस्माद्वेदिर्नाम । तस्मादाहुः- यावती वेदिः, तावती पृथिवीति- एतया हीमां सर्वां समविन्दन्त । एवं ह वा इमां सर्वां सपत्नानां संवृंक्ते । निर्भजत्यस्यै सपत्नान्- य एवमेतद्वेद ॥ ७ ॥

सायणः

तमिति । ‘तम्’ विष्णुं गायत्र्यादिभिश्छन्दोभिः सर्वतः परिगृह्य, पूर्वस्यां दिशि- आहवनीयाख्यम् ‘अग्निम्’ प्रज्वाल्य, ‘तेन’ विष्ण्वात्मकेन यज्ञेन ‘अर्चन्तः’ पूजयन्तः, ‘श्राम्यन्तः’ कर्मानुष्ठानजनितं श्रमं प्राप्नुवन्तः ‘चेरुः’ पूर्ववद् ववृतिरे । चरित्वा च ‘तेन’ यज्ञात्मकस्य विष्णोराधारभूतेन स्थानेन देवाः सर्वामेवेमां पृथिवीं सम्यगलभन्त । अतो विद्यते लभ्यते अनेनेति यज्ञस्थानस्य ‘वेदि’- नामधेयं निर्वक्ति- तद्यदिति । उक्तं वेद्याः सर्वपृथिवीलाभरूपत्वम्, इदानीं वेदिपृथिव्योस्तादात्म्यविषयामभियुक्तप्रसिद्धिमुदाहरति- तस्मादिति । यत्परिमाणविशिष्टा खलु वेदिः, तत्परिमाणैव पृथिवी कुत इत्यत आह- एतयेति । ‘हि’ यस्मात् ‘एतया’ वेद्या इमाम् सर्वां पृथिवीमलभन्त, अतस्तल्लाभहेतुत्वात् ततो ऽनन्येत्यर्थः । इत्थं पुरावृत्तमुदाहृत्य प्रकृते योजयति- एवं हेति । यथैव हि वेदिपरिग्रहाद्देवा असुरसकाशात् कृत्स्नां पृथिवीमपहृतवन्तः, एवमेवायं यजमानो ऽपि शत्रुसम्बन्धिनीं सर्वां भूमिमपहरति । तांश्च शत्रून् ‘अस्याः’ पृथिव्याः ‘निर्भजति’ निर्भक्तान् भागरहितान् करोतीत्यर्थः । तस्माद् गायत्रेणेत्याविभिर्मन्त्रैः स्फ्येन 8 वेदिं दक्षिणतः पश्चादुत्तरतश्च रेखया परिगृह्णीयादित्यर्थः 9 ॥ ७ ॥

Eggeling
  1. Having thus enclosed him on all (three) sides, and having placed Agni (the fire) on the east side, they went on worshipping and toiling with it (or him, i.e. Vishṇu, the sacrifice). By it they obtained (sam-vid) this entire earth; and because they obtained by it this entire (earth), therefore it (the sacrificial ground) is called vedi (the altar). For this reason they say, ‘As great as the altar is, so great is the earth;’ for by it (the altar) they obtained this entire (earth). And, verily, he who so understands this, wrests likewise this entire (earth) from his rivals, excludes his rivals from sharing in it.

०८

विश्वास-प्रस्तुतिः

सो ऽयं व्वि᳘ष्णुर्ग्लानः॥
(श्छ᳘) छ᳘न्दोभिरभि᳘तः प᳘रिगृहीतो ऽग्निः᳘ पुर᳘स्ता᳘न्नापक्र᳘मणमास स त᳘त ऽएवौ᳘षधीनां मूलान्यु᳘पमुम्लोच॥

मूलम् - श्रीधरादि

सो ऽयं व्वि᳘ष्णुर्ग्लानः॥
(श्छ᳘) छ᳘न्दोभिरभि᳘तः प᳘रिगृहीतो ऽग्निः᳘ पुर᳘स्ता᳘न्नापक्र᳘मणमास स त᳘त ऽएवौ᳘षधीनां मूलान्यु᳘पमुम्लोच॥

मूलम् - Weber

सो ऽयं वि᳘ष्णुर्ग्लानः॥
छ᳘न्दोभिरभि᳘तः प᳘रिगृहीतो ऽग्निः᳘पुर᳘स्ताॗन्नापक्र᳘मणमास स त᳘त एवौ᳘षधीनाम् मूलान्यु᳘पमुम्लोच॥

मूलम् - विस्वरम्

सो ऽयं विष्णुर्ग्लानः, छन्दोभिरभितः परिगृहीतः, अग्निः पुरस्तात् नापक्रमणमास । स तत एवौषधीनां मूलान्युपमुम्लोच ॥ ८ ॥

सायणः

अथ वेदेः खननं विधित्सुः प्रकृतमितिहासशेषमनुक्रामति- सो ऽयमिति । ‘सः’ यज्ञात्मको ‘विष्णुः’ दक्षिणतः पश्चादुत्तरतश्च छन्दोभिः परिगृहीतत्वात् पूर्वस्यां दिशि चाग्नेरवस्थानादितस्ततश्चलितुमशक्यत्वेन ‘ग्लानः’ श्रान्तः सन् ‘अपक्रमणम्’ अपगमनम् ‘नास’ न जगाम । “अस गतिदीप्त्यादानेषु”- (भ्वा० उ० ९११)- इत्यस्माल्लिटि रूपम् । यद्वा- अस्तेरेव लिटि च्छान्दसो भूभावा ऽभावः 8 । ग्लानस्य तस्य विष्णोरपगमनं न बभूवेत्यर्थः । स च सर्वतः परिगृहीतो विष्णुः ‘तत एव’ तस्मिन्नेव स्थाने- ओषधीनां मूलान्युपेत्य भूम्यन्तर्गतः सन् ‘मुम्लोच’ अस्तङ्गतः, अदृश्यो बभूव ॥ ८ ॥

Eggeling
  1. Thereupon this Vishṇu became tired; but being enclosed on all (three) sides by the metres, with the

fire on the east, there was no (means of) escaping: he then hid himself among the roots of plants.

०९

विश्वास-प्रस्तुतिः

ते᳘ ह देवा᳘ ऽऊचुः᳘॥
क्व नु व्वि᳘ष्णुरभू᳘त्क्व नु᳘ य᳘ज्ञो ऽभूदि᳘ति ते᳘ होचुश्छ᳘न्दोभिरभि᳘तः प᳘रिगृहीतो ऽग्निः᳘ पुर᳘स्ता᳘न्नापक्र᳘मणमस्त्य᳘त्रैवा᳘न्विच्छते᳘ति तं ख᳘नन्त ऽइवा᳘न्वीषुस्तं त्र्यङ्गुले᳘ ऽन्वविन्दंस्त᳘स्मात्त्र्यङ्गुला व्वे᳘दिः स्यात्त᳘दु हा᳘पि पा᳘ञ्चिस्त्र्यङ्गुलामेव᳘ सौम्य᳘स्याध्वर᳘स्य व्वे᳘दिं चक्रे॥

मूलम् - श्रीधरादि

ते᳘ ह देवा᳘ ऽऊचुः᳘॥
क्व नु व्वि᳘ष्णुरभू᳘त्क्व नु᳘ य᳘ज्ञो ऽभूदि᳘ति ते᳘ होचुश्छ᳘न्दोभिरभि᳘तः प᳘रिगृहीतो ऽग्निः᳘ पुर᳘स्ता᳘न्नापक्र᳘मणमस्त्य᳘त्रैवा᳘न्विच्छते᳘ति तं ख᳘नन्त ऽइवा᳘न्वीषुस्तं त्र्यङ्गुले᳘ ऽन्वविन्दंस्त᳘स्मात्त्र्यङ्गुला व्वे᳘दिः स्यात्त᳘दु हा᳘पि पा᳘ञ्चिस्त्र्यङ्गुलामेव᳘ सौम्य᳘स्याध्वर᳘स्य व्वे᳘दिं चक्रे॥

मूलम् - Weber

ते᳘ ह देवा᳘ ऊचुः॥
क्व नु वि᳘ष्णुरभूत्क्व᳘ नु᳘ यॗज्ञो ऽभूदि᳘ति ते होचुश्छ᳘न्दोभिरभि᳘तः प᳘रिगृहीतो ऽग्निः᳘ पुर᳘स्ताॗन्नापक्र᳘मणमस्त्य᳘त्रैवा᳘न्विछते᳘ति तं ख᳘नन्त इवा᳘न्वीषुस्तंत्र्य᳘ङ्गुले᳘ ऽन्वविन्दंस्त᳘म्मात्त्र्य᳘ङ्गुला वे᳘दिः स्यात्त᳘दु हा᳘पि पा᳘ञ्चिस्त्र्य᳘ङ्गुलामेव᳘ 10 सौम्य᳘स्यध्वर᳘स्य वे᳘दिं चक्रे॥

मूलम् - विस्वरम्

ते ह देवा ऊचुः- क्व नु विष्णुरभूत्, क्व नु यज्ञो ऽभूदिति । ते होचुः- छन्दोभिरभितः परिगृहीतः, अग्निः पुरस्तात्, नापक्रमणमस्ति; अत्रैवान्विच्छतेति । तं खनन्त इवान्वीपुः । तं त्र्यंगुले ऽन्वविन्दन् । तस्मात् त्र्यंगुला वेदिः स्यात् । तदु हापि पाञ्चिः त्र्यंगुलामेव सौम्यस्याध्वरस्य वेदिं चक्रे ॥ ९॥

सायणः

अनन्तरं च ते देवास्तत्र विष्णुमपश्यन्तो वितर्कितवन्तः, किमित्याह- ते ह देवा इति । विष्णुः ‘क’ कुत्राभूत् ? तदात्मको यज्ञश्च के वा ऽभूदिति । एवं वितर्क्स तैर्निणीतमर्थं दर्शयति- ते होचुरिति । अत्रैवेति । चतसृष्वपि दिक्षु परिवृतत्त्वेन गमनासम्भवात् ‘अत्रैव’ स्थाने तस्य विष्णोरन्वेषणं कुरुतेत्यर्थः । इत्थं परस्परं निश्चित्य भूमिं खनन्त इव ‘तम्’ विष्णुमन्विष्टवन्तः । अन्विष्य तं भूम्यन्तस्त्र्यङ्गुले ‘अन्वविन्दन्’ अलभन्त । यत एवम्, अत इदानीमपि यज्ञलाभाय वेदेस्त्र्यङ्गुलमात्रखननं कर्तव्यमिति विधत्ते- तस्मादिति । त्र्यङ्गुलपरिमाणेन खाता वेदिर्भवेदित्यर्थः । वेदेस्त्र्यङ्गुलखननमृषिसंवादेन द्रढयति- तदु हेति । ‘पाञ्चिः’ नाम कश्चित्, स खलु सोमयागस्यापि वेदिं त्र्यङ्गुलखातामेव कृतवान् । अतो ऽत्रापि त्र्यङ्गुलखाता वेदिर्युक्तेति भावः ॥ ९ ॥

Eggeling
  1. The gods said: ‘What has become of Vishṇu? What has become of the sacrifice?’ They said: ‘On all (three) sides he is enclosed by the metres, with Agni to the east, there is no (way of) escaping: search for him in this very place!’ By slightly digging they accordingly searched for him. They discovered him at a depth of three inches (or thumb’s breadths): therefore the altar should be three inches deep; and therefore also Pāñci 11 made the altar for the Soma-sacrifice three inches deep.

१०

विश्वास-प्रस्तुतिः

त᳘दु त᳘थ न᳘ कुर्यात्॥
(दो᳘) ओ᳘षधीनां वै स मू᳘लान्यु᳘पाम्लोचत्त᳘स्मादो᳘षधीनामेव मू᳘लान्यु᳘च्छेत्तवै᳘ ब्रूयाद्य᳘न्न्वेवा᳘त्र व्वि᳘ष्णुमन्व᳘विन्दंस्त᳘स्माद्वे᳘दिर्ना᳘म॥

मूलम् - श्रीधरादि

त᳘दु त᳘थ न᳘ कुर्यात्॥
(दो᳘) ओ᳘षधीनां वै स मू᳘लान्यु᳘पाम्लोचत्त᳘स्मादो᳘षधीनामेव मू᳘लान्यु᳘च्छेत्तवै᳘ ब्रूयाद्य᳘न्न्वेवा᳘त्र व्वि᳘ष्णुमन्व᳘विन्दंस्त᳘स्माद्वे᳘दिर्ना᳘म॥

मूलम् - Weber

त᳘दु त᳘थ न᳘ कुर्यात्॥
ओ᳘षधीनां वै स मू᳘लान्यु᳘पांलोचत्त᳘स्मादो᳘षधीनामेव मू᳘लान्यु᳘छेत्तवै᳘ ब्रूयाद्यॗन्न्वेवा᳘त्र वि᳘ष्णुमन्व᳘विन्दंस्त᳘स्माद्वे᳘दिर्ना᳘म॥

मूलम् - विस्वरम्

तदु तथा न कुर्यात् । ओषधीनां वै स मूलान्युपाम्लोचत्- तस्मात्- ओषधीनामेव मूलान्युच्छेत्तवै ब्रूयात् । यन्न्वेवात्र विष्णुमन्वविन्दन्- तस्माद्वेदिर्नाम ॥ १० ॥

सायणः

तमिमं पक्षं निषिध्य पक्षान्तरमाह- तदु तथेति । ‘सः’ विष्णुरोषधीनां खलु मूलान्युपेत्यान्तर्हितो ऽभवत् । तस्माद् यावति देशे भूम्यामन्तरोषधीनां मूलानि प्रसरन्ति, तावत्पर्यन्तं खात्वा तन्मूलान्येवोच्छेत्तुं ब्रूयात् । “तुमर्थे सेसेनः”- (पा० सू० ३. ४. ९)- इति तवैप्रत्ययः । पूर्वं कृत्स्नपृथिवीलाभहेतुतया वेदिनाम निरुक्तम्, यज्ञात्मकस्य विष्णोर्लाभाधिकरणतयापि तन्निर्वक्ति- यन्न्वेवेति ॥ १० ॥

Eggeling
  1. This, however, one must not do. Among the roots of the plants he (Vishṇu) hid himself: therefore let him (the Adhvaryu) bid (the Āgnīdhra) to cut out the roots of the plants. And since they found (anu-vid) Vishṇu in that place, therefore it is called vedi (altar).

११

विश्वास-प्रस्तुतिः

त᳘मनुविद्यो᳘त्तरेण परिग्रहे᳘ण प᳘र्यगृह्णन्॥
(न्त्सु) सुक्ष्मा चा᳘सि शिवा᳘ चासी᳘ति दक्षिणत᳘ ऽइमा᳘मे᳘वैत᳘त्पृथिवी᳘ᳫँ᳘ संवि᳘द्य सुक्ष्मा᳘ᳫँ᳘ शिवा᳘मकुर्व्वत स्योना चा᳘सि सुष᳘दा चासी᳘ति पश्चा᳘दिमा᳘मे᳘वैत᳘त्पृथिवी᳘ᳫँ᳘ संवि᳘द्य स्योना᳘ᳫं᳘ सुष᳘दामकुर्व्वतो᳘र्ज्जस्वती चा᳘सि प᳘यस्वती चे᳘त्युत्तरत᳘ ऽइमा᳘मे᳘वैत᳘त्पृथिवी᳘ᳫँ᳘ संवि᳘द्य र᳘सवतीमुपजीवनी᳘यामकुर्व्वत॥

मूलम् - श्रीधरादि

त᳘मनुविद्यो᳘त्तरेण परिग्रहे᳘ण प᳘र्यगृह्णन्॥
(न्त्सु) सुक्ष्मा चा᳘सि शिवा᳘ चासी᳘ति दक्षिणत᳘ ऽइमा᳘मे᳘वैत᳘त्पृथिवी᳘ᳫँ᳘ संवि᳘द्य सुक्ष्मा᳘ᳫँ᳘ शिवा᳘मकुर्व्वत स्योना चा᳘सि सुष᳘दा चासी᳘ति पश्चा᳘दिमा᳘मे᳘वैत᳘त्पृथिवी᳘ᳫँ᳘ संवि᳘द्य स्योना᳘ᳫं᳘ सुष᳘दामकुर्व्वतो᳘र्ज्जस्वती चा᳘सि प᳘यस्वती चे᳘त्युत्तरत᳘ ऽइमा᳘मे᳘वैत᳘त्पृथिवी᳘ᳫँ᳘ संवि᳘द्य र᳘सवतीमुपजीवनी᳘यामकुर्व्वत॥

मूलम् - Weber

त᳘मनुविद्यो᳘त्तरेण परिग्रहे᳘ण प᳘र्यगृह्णन्॥
सुक्ष्मा चा᳘सि शिवा᳘ चासी᳘ति दक्सिणत᳘ इमा᳘मेॗवैत᳘त्पृथिवी᳘ᳫं᳘ संवि᳘द्य सुक्ष्मां᳘ शिवा᳘मकुर्वत स्योना चा᳘सि सुष᳘दा चासी᳘ति पश्चा᳘दिमा᳘मेॗवैत᳘त्पृथिवी᳘ᳫं᳘ संवि᳘द्य स्योना᳘ᳫं᳘ सुष᳘दामकुर्वतो᳘र्जस्वती चा᳘सि प᳘यस्वती चे᳘त्युत्तरत᳘ इमा᳘मेॗवैतत्पृथिवी᳘ᳫं᳘ संवि᳘द्य र᳘सवतीमुपजीवनी᳘यामकुर्वत॥

मूलम् - विस्वरम्

तमनुविद्योत्तरेण परिग्रहेण पर्यगृह्णन्- “सुक्ष्मा चासि शिवा चासि”- (१ अ. २७ मं.) इति । दक्षिणत इमामेवैतत् पृथिवीं संविद्य सुक्ष्मां शिवामकुर्वत । “स्योना चासि सुषदा चासि”- (१ अ. २७ मं.) इति । पश्चादिमामेवैतत् पृथिवीं संविद्य स्योनां सुषदामकुर्वत । “ऊर्जस्वती चासि पयस्वती च”- (१ अ. २७ मं.) इति । उत्तरत इमामेवैतत् पृथिवीं संविद्य रसवतीमुपजीवनीयामकुर्वत ॥ ११ ॥

सायणः

अथ वेदरुत्तरपरिग्रहः 12 कर्तव्य इतीतिहासमुखेन विधिमुन्नयति- तमित्यादिना । ‘तम्’ विष्णुम् ‘अनुविद्य’ लब्ध्वोत्तरपरिग्रहेण पर्यगृह्णन् । गायत्रेण त्वेत्यादिभिः प्राक् कृतः पूर्वपरिग्रहस्तदपेक्षयास्योत्तरत्वम् । तस्य स्वरूपमाह- सुक्ष्मा 13 चासीत्यादिना । ‘दक्षिणतः’ वेदेर्दक्षिणस्यां दिशि “सुक्ष्मा चासि”- इति यजुषा स्फ्येन लेखया परिगृह्णीयात् । मन्त्रतात्पर्यमाह- इमामिति । एवमुत्तरत्रापि योज्यम् । तृतीयमन्त्रे ‘ऊर्क्’- शब्देन बलकरो रसो विवक्षित इति व्याचष्टे- रसवतीमिति । पयस्वतीत्यस्य व्याख्यानम्- उपजीवनीयामिति । पयस्विनी हि गौर्लोके- उपजीव्यते ॥ ११ ॥

Eggeling
  1. When they had found him, they enclosed him with a second enclosure, saying (Vāj. S. I, 27), ‘Of good soil art thou, and auspicious art thou!’ on the south side; for when they had thus obtained this earth they made it of good soil and auspicious;–‘Pleasant art thou, and soft to sit upon!’ they said on the west side, for when they had thus obtained this earth, they made it pleasant and soft to sit upon;–‘Abounding in food and drink art thou!’ they said on the north side, for when they had thus obtained this earth, they made it abounding in food and drink.

१२

विश्वास-प्रस्तुतिः

स वै त्रिः पू᳘र्व्वं परिग्रहं᳘ परिगृह्णा᳘ति॥
त्रिरु᳘त्तरं तत्षट्कृ᳘त्वः षड्वा᳘ ऽऋत᳘वः संव्वत्सर᳘स्य संव्वत्सरो᳘ यज्ञः᳘ प्रजा᳘पतिः स या᳘वानेव᳘ यज्ञो या᳘वत्यस्य मा᳘त्रा ता᳘वन्तमे᳘वैतत्प᳘रिगृह्णाति॥

मूलम् - श्रीधरादि

स वै त्रिः पू᳘र्व्वं परिग्रहं᳘ परिगृह्णा᳘ति॥
त्रिरु᳘त्तरं तत्षट्कृ᳘त्वः षड्वा᳘ ऽऋत᳘वः संव्वत्सर᳘स्य संव्वत्सरो᳘ यज्ञः᳘ प्रजा᳘पतिः स या᳘वानेव᳘ यज्ञो या᳘वत्यस्य मा᳘त्रा ता᳘वन्तमे᳘वैतत्प᳘रिगृह्णाति॥

मूलम् - Weber

स वै त्रिः पू᳘र्वम् परिग्रह᳘म् परिगृह्णा᳘ति॥
त्रिरु᳘त्तरं तत्षट् कृ᳘त्वः षड्वा᳘ ऋत᳘वः संवत्सर᳘स्य संवत्सरो᳘ यज्ञः प्रजा᳘पतिः स या᳘वानेव᳘ यज्ञो या᳘वत्यस्य मा᳘त्रा ता᳘वतमेॗवैतत्प᳘रिगृह्णाति॥

मूलम् - विस्वरम्

स वै त्रिः पूर्वं परिग्रह परिगृह्णाति, त्रिरुत्तरम् । तत् षट्कृत्वः, षड् वा ऋतवः संवत्सरस्य । संवत्सरो यज्ञः प्रजापतिः स यावानेव यज्ञो यावत्यस्य मात्रा तावन्तमेवैतत् परिगृह्णाति ॥ १२ ॥

सायणः

पूर्वोत्तरपरिग्रहयोः संख्यां समुच्चित्य प्रशंसति- स वा इत्यादिना । षडृतुसमुदायात्मको यः संवत्सरः, तदात्मकः प्रजापतिः, संवत्सरकालभरणेन जातत्वादभेदोपचारः । आम्नास्यते ह्यग्रे बृहदारण्यके- “तमेतावन्तं कालमबिभर्यावान्त्संवत्सरस्तमेतावतः कालस्य परस्तादसृजत”- (१. २. ४) इति । यज्ञश्चा ऽऽश्रावयेत्यादिसप्तदशाक्षरसाध्यत्वात् “एष वै सप्तदशः प्रजापतिर्यज्ञमन्वायत्तः” -(तै० सं० १. ६. ११) इति श्रुतेः 14 प्रजापत्यात्मकः । एवम् ‘सः’ यज्ञः ‘यावान्’ यत्परिमाणविशिष्टः, ‘अस्य’ च यज्ञस्य ‘मात्रा’ परिमाणं च यावत्, तत्परिमाणविशिष्टमेवैतं यज्ञं षट्सङ्ख्यासंपादनेनः ‘परिगृह्णाति’ स्वीकरोतीत्यर्थः ॥ १२॥

Eggeling
  1. Threefold 15 he draws round the first line of enclosure, threefold the second: hence sixfold (the two); for six seasons there are in the year, and the year, as Prajāpati (Lord of Creation), is the sacrifice 16. As large as the sacrifice, as wide as its extent is, so wide does he thereby enclose it.

१३

विश्वास-प्रस्तुतिः

षड्भिर्व्या᳘हृतिभिः॥
पू᳘र्व्वं परिग्रहं᳘ परिगृह्णा᳘ति षड्भिरु᳘त्तरं तद्द्वा᳘दशकृ᳘त्वो द्वा᳘दश वै मा᳘साः संव्वत्सर᳘स्य संव्वत्सरो᳘ यज्ञः᳘ प्रजा᳘पतिः स या᳘वानेव᳘ यज्ञो या᳘वत्यस्य मा᳘त्रा ता᳘वन्तमे᳘वैतत्प᳘रिगृह्णाति॥

मूलम् - श्रीधरादि

षड्भिर्व्या᳘हृतिभिः॥
पू᳘र्व्वं परिग्रहं᳘ परिगृह्णा᳘ति षड्भिरु᳘त्तरं तद्द्वा᳘दशकृ᳘त्वो द्वा᳘दश वै मा᳘साः संव्वत्सर᳘स्य संव्वत्सरो᳘ यज्ञः᳘ प्रजा᳘पतिः स या᳘वानेव᳘ यज्ञो या᳘वत्यस्य मा᳘त्रा ता᳘वन्तमे᳘वैतत्प᳘रिगृह्णाति॥

मूलम् - Weber

षड्भिर्व्या᳘हृतिभिः॥
पू᳘र्वम् परिग्रह᳘ परिगृह्णा᳘ति षड्भिरुत्तरं तद्द्वा᳘दश कृत्वो द्वा᳘दश वै मा᳘साः संवत्सर᳘स्य संवत्सरो᳘ यज्ञः᳘ प्रजा᳘पतिः स या᳘वानेव᳘ यज्ञो या᳘वत्यस्य मा᳘त्रा ता᳘वतमेॗवैतत्प᳘रिगृह्णाति॥

मूलम् - विस्वरम्

षड्भिर्व्याहृतिभिः पूर्वं परिग्रहं परिगृह्णाति, षड्भिरुत्तरम् । तद् द्वादशकृत्वः । द्वादश वै मासाः संवत्सरस्य, संवत्सरो यज्ञः प्रजापतिः । स यावानेव यज्ञो यावत्यस्य मात्रा तावन्तमेवैतत् परिगृह्णाति ॥ १३ ॥

सायणः

पूर्वोत्तरपरिग्रहयोर्मन्त्रावयवसंख्यामनूद्य समुच्चित्य प्रशंसति- षड्भिरिति । व्याह्रियन्त इति- व्याहृतयो मन्त्रात्रयवाः, ते च पूर्वपरिग्रहे षट् । गायत्रेण त्वेत्यादिकास्त्वान्तास्त्रयः 14, गृह्णाम्यन्तास्त्रयः 17 उत्तरपरिग्रहे च सुक्ष्मा चासीत्येवमस्यन्ताः 18 षड् व्याहृतयः स्पष्टाः । अन्यत् पूर्ववत् ॥ १३ ॥

Eggeling
  1. With six sacred words 19 he draws around the first line of enclosure, with six the second: thus (together) twelvefold, for twelve no doubt are the months of the year; and the year, as Prajāpati, is the sacrifice. As large as the sacrifice, as wide as its extent is, so wide does he thereby enclose it.

१४

विश्वास-प्रस्तुतिः

व्याममात्री᳘ पश्चा᳘त्स्यादि᳘त्याहुः॥
(रे) एता᳘वान्वै पु᳘रुषः पु᳘रुषसम्मिता हि᳘ त्र्यरत्निः प्रा᳘ची त्रिवृद्धि᳘ यज्ञो ना᳘त्र मा᳘त्रास्ति या᳘वतीमेव᳘ स्वयं म᳘नसा म᳘न्येत ता᳘वतीं कुर्यात्॥

मूलम् - श्रीधरादि

व्याममात्री᳘ पश्चा᳘त्स्यादि᳘त्याहुः॥
(रे) एता᳘वान्वै पु᳘रुषः पु᳘रुषसम्मिता हि᳘ त्र्यरत्निः प्रा᳘ची त्रिवृद्धि᳘ यज्ञो ना᳘त्र मा᳘त्रास्ति या᳘वतीमेव᳘ स्वयं म᳘नसा म᳘न्येत ता᳘वतीं कुर्यात्॥

मूलम् - Weber

व्याममात्री᳘ पश्चा᳘त्स्यादि᳘त्याहुः॥
एता᳘वान्वै पु᳘रुषः पु᳘रुषसंमित हि त्र्यरत्निः प्रा᳘ची त्रिवृद्धि᳘ यज्ञो ना᳘त्र मा᳘त्रास्ति या᳘वतीमेव स्वयम् म᳘नसा मन्येत ता᳘वतीं कुर्यात्॥

मूलम् - विस्वरम्

व्याममात्री पश्चात् स्यादित्याहुः । एतावान् वै पुरुषः, पुरुषसम्मिता हि । त्र्यरत्निः प्राची । त्रिवृद्धि यज्ञः । नात्र मात्रास्ति, यावतीमेब स्वयं मनसा मन्येत तावतीं कुर्यात् ॥ १४ ॥

सायणः

गार्हपत्याहवनीययोर्मध्ये सा वेदिरायामतो यजमानमात्री; सा च पश्चाद् विस्तृत्या चतुररत्निः, पुरस्तात् त्र्यरत्निः कार्येति विधत्ते- व्याममात्रीति । ‘व्यामः’ प्रसारितकरद्वयान्तराललक्षणः । ‘पश्चात्’ प्रत्यग्भागे- इत्यर्थः । त्र्यरत्निः प्राचीति । त्रिभिररत्निभिर्विस्तृता प्राग्भागे वेदिः कार्येत्यर्थः । त्रिवृद्धीति । सवनत्रयादिरूपेण यज्ञस्य त्रिवृत्त्वम् । पक्षान्तरमाह- नात्रेति । ‘अत्र’ वेद्यां परिमाणं नैवास्ति । ‘यावतीम्’ यत्परिमाणविशिष्टामेव वेदिं स्वयं मनसा हविरासादनादिकार्यपर्याप्तां मन्येत, तत्परिमाणविशिष्टां वेदिं कुर्यात् । कात्यायनो ऽपीमं पक्षद्वयमसूत्रयत्- “त्र्यरत्नीं प्राचीमपरिमितां वा 14”- इति ॥ १४ ॥

Eggeling
  1. ‘Let it (the altar) measure a fathom 20 across on the west side,’ they say: that, namely, is the size of a man, and it (the altar) should be of (the) man’s size. ‘Three cubits long (should be) the

“easterly line 21,” for threefold is the sacrifice,’ (so they say, but) in this there is no (fixed) measure: let him make it as long as he thinks fit in his own mind!

१५

विश्वास-प्रस्तुतिः

(द) अभि᳘तो ऽग्निम᳘ᳫँ᳘ सा ऽउ᳘न्नयति॥
यो᳘षा वै व्वे᳘दिर्व्वृ᳘षाग्निः᳘ परिगृ᳘ह्य वै यो᳘षा व्वृ᳘षाण᳘ᳫँ᳘ शेते मिथुन᳘मे᳘वैत᳘त्प्रज᳘ननं क्रियते त᳘स्मादभि᳘तो ऽग्निम᳘ᳫँ᳘ सा ऽउ᳘न्नयति॥

मूलम् - श्रीधरादि

(द) अभि᳘तो ऽग्निम᳘ᳫँ᳘ सा ऽउ᳘न्नयति॥
यो᳘षा वै व्वे᳘दिर्व्वृ᳘षाग्निः᳘ परिगृ᳘ह्य वै यो᳘षा व्वृ᳘षाण᳘ᳫँ᳘ शेते मिथुन᳘मे᳘वैत᳘त्प्रज᳘ननं क्रियते त᳘स्मादभि᳘तो ऽग्निम᳘ᳫँ᳘ सा ऽउ᳘न्नयति॥

मूलम् - Weber

अभि᳘तो ऽग्निम᳘ᳫं᳘सा उ᳘न्नयति॥
यो᳘षा वै वे᳘दिर्वृषाग्निः᳘ परिगृ᳘ह्य वै यो᳘षा वृ᳘षाणं शेते मिथुन᳘मेॗवैतत्प्रजननं क्रियते त᳘स्मादभि᳘तो ऽग्निम᳘ᳫं᳘सा उ᳘न्नयति॥

मूलम् - विस्वरम्

अभितो ऽग्निमंसावुन्नयति । योषा वै वेदिः, वृषाग्निः । परिगृह्य वै योषा वृषाणं शेते । मिथुनमेवैतत्प्रजननं क्रियते । तस्मादभितो ऽग्निमंसा उन्नयति ॥ १५ ॥

सायणः

वेद्यंसयोराहवनीयस्य स्पर्शं विधत्ते- अभित इति । ‘अग्निमभितः’ आहवनीयस्य दक्षिणोत्तरपार्श्वयोर्वेद्यंसौ ‘उन्नयति’ ऊर्ध्वं प्रापयति । तदेतत् 22 प्रशंसति- योषा वा इति । लोके हि योषित् पुमांसमंसाभ्यां परिष्वज्य शेते; अतो वेदेरप्यंसाभ्यामग्नेः परिष्वङ्गो युक्त इति भावः ॥ १५ ॥

Eggeling
  1. The two shoulders (of the altar) he carries along both sides of the (Āhavanīya) fire. For the altar (vedi, fem.) is female and the fire (agni, masc.) is male; and the woman lies embracing the man: thereby a copulation productive of offspring is obtained. For this reason he carries the two shoulders (of the altar) along both sides of the fire.

१६

विश्वास-प्रस्तुतिः

सा वै᳘ पश्चाद्व᳘रीयसी स्यात्॥
(न्म᳘) म᳘ध्ये स᳘ᳫं᳘ ह्वारिता पु᳘नः पुर᳘स्तादु᳘र्व्येव᳘मिव हि यो᳘षां प्रश᳘ᳫँ᳘सन्ति पृथु᳘श्रोणिर्व्वि᳘मृष्टान्तराᳫँ᳭सा म᳘ध्ये संग्राह्ये᳘ति जु᳘ष्टामे᳘वैनामेत᳘द्देवे᳘भ्यः करोति॥

मूलम् - श्रीधरादि

सा वै᳘ पश्चाद्व᳘रीयसी स्यात्॥
(न्म᳘) म᳘ध्ये स᳘ᳫं᳘ ह्वारिता पु᳘नः पुर᳘स्तादु᳘र्व्येव᳘मिव हि यो᳘षां प्रश᳘ᳫँ᳘सन्ति पृथु᳘श्रोणिर्व्वि᳘मृष्टान्तराᳫँ᳭सा म᳘ध्ये संग्राह्ये᳘ति जु᳘ष्टामे᳘वैनामेत᳘द्देवे᳘भ्यः करोति॥

मूलम् - Weber

सा वै᳘ पश्चाद्व᳘रीयसी स्यात्॥
म᳘ध्ये स᳘ᳫं᳘ह्वारिता पु᳘नः पुर᳘स्तादुॗर्व्येव᳘मिव हि यो᳘षाम् प्रश᳘ᳫं᳘सन्ति पृथु᳘श्रोणिर्वि᳘मृष्टान्तरांसा म᳘ध्ये संग्राःये᳘ति जु᳘ष्टामेॗवैनामेत᳘द्देवे᳘भ्यः करोति॥

मूलम् - विस्वरम्

सा वै पश्चाद्वरीयसी स्यात्, मध्ये संह्रारिता, पुनः पुरस्तादुर्वी । एवमिव हि योषां प्रशंसन्ति- पृथुश्रोणिः, विमृष्टान्तरांसा, मध्ये संग्राह्येति । जुष्टामेवैनामेतद्देवेभ्यः करोति ॥ १६ ॥

सायणः

“योषा वै”- इति सिद्धवदुक्तं स्त्रीत्वं लौकिकस्त्रीसामान्येनोपपाद्य प्रशंसति- सा वा इति । ‘वरीयसी’ उरुतरा, विस्तीर्णतरा । उक्तं हि “व्याममात्री पश्चात् स्यादिति 22” । मध्ये प्रत्यग्भागानन्तरभाविनि मध्यदेशे ‘संह्रारिता’ सङ्कुचिता । ‘पुरः’ पूर्वभागे ‘उर्वी’ विस्तीर्णा । त्र्यरत्निः प्राचीति विधानात् । एवं वेदिस्वरूपमभिधाय तत्साम्यं स्त्रियां योजयति एवमिति । विमृष्टान्तरांसेति । श्रोणितो विमृष्टं न्यूनमन्तरमवकाशो ययोस्तौ ‘विमृष्टान्तरौ’ तथाविधावंसौ यस्याः सा तथोक्ता । संग्राह्येति । मध्यदेशे हस्तन संग्रहीतुं शक्या, कृशोदरीति यावत् । एवम् ‘एनाम्’ प्रशस्तयोषिदाकारां वेदिं कुर्वन् देवेभ्यः प्रियां करोति ॥ १६ ॥

Eggeling
  1. It (the altar) should be broader on the west side, contracted in the middle, and broad again on the east side; for thus shaped they praise a woman: ‘broad about the hips, somewhat narrower between the shoulders, and contracted in the middle (or, about the waist).’ Thereby he makes it (the altar) pleasing to the gods.

१७

विश्वास-प्रस्तुतिः

सा वै प्रा᳘क्प्रवणा स्यात्॥
(त्प्रा᳘) प्रा᳘ची हि᳘ देवा᳘नां दिग᳘थो ऽउ᳘दक्प्रवणो᳘दीची हि᳘ मनु᳘ष्याणां दि᳘ग्दक्षिणतः पु᳘रीषं प्रत्यु᳘दूहत्येषा वै दि᳘क्पितॄणाᳫँ᳭सा य᳘द्दक्षिणा᳘प्रवणा स्या᳘त्क्षिप्रे᳘ ह य᳘जमानो ऽमुं᳘ लोक᳘मियात्त᳘थो ह य᳘जमानो ज्यो᳘ग्जीवति त᳘स्माद्दक्षिणतः पु᳘रीषं प्रत्यु᳘दूहति पु᳘रीषवतीं कुर्व्वीत पश᳘वो वै पु᳘रीषं पशु᳘मतीमे᳘वैनामेत᳘त्कुरुते॥

मूलम् - श्रीधरादि

सा वै प्रा᳘क्प्रवणा स्यात्॥
(त्प्रा᳘) प्रा᳘ची हि᳘ देवा᳘नां दिग᳘थो ऽउ᳘दक्प्रवणो᳘दीची हि᳘ मनु᳘ष्याणां दि᳘ग्दक्षिणतः पु᳘रीषं प्रत्यु᳘दूहत्येषा वै दि᳘क्पितॄणाᳫँ᳭सा य᳘द्दक्षिणा᳘प्रवणा स्या᳘त्क्षिप्रे᳘ ह य᳘जमानो ऽमुं᳘ लोक᳘मियात्त᳘थो ह य᳘जमानो ज्यो᳘ग्जीवति त᳘स्माद्दक्षिणतः पु᳘रीषं प्रत्यु᳘दूहति पु᳘रीषवतीं कुर्व्वीत पश᳘वो वै पु᳘रीषं पशु᳘मतीमे᳘वैनामेत᳘त्कुरुते॥

मूलम् - Weber

सा वै प्रा᳘क्प्रवणा स्यात्॥
प्रा᳘ची हि᳘ देवा᳘नां दिग᳘थो उ᳘दक्प्रवणो᳘दीची हि᳘ मनुॗष्याणां दि᳘ग्दक्षिणतः पु᳘रीषम् प्रत्यु᳘दूहत्येषा वै दि᳘क्पितॄणाᳫं सा य᳘द्दक्षिणा᳘प्रवणा स्या᳘त् क्षिप्रे᳘ ह य᳘जमानो ऽमुं᳘ लोक᳘मियात्त᳘थो ह य᳘जमानो ज्यो᳘ग्जीवति त᳘स्माद्दक्षिणतः पु᳘रीषम् प्रत्यु᳘दूहति पु᳘रीषवतीं कुर्वीत पश᳘वो वै पु᳘रीषम् पश्रुम᳘तीमेॗवैनामेत᳘त्कुरुते॥

मूलम् - विस्वरम्

सा वै प्राक्प्रवणा स्यात्- प्राची हि देवानां दिक् । अथो उदक्प्रवणा- उदीची हि मनुष्याणां दिक् । दक्षिणतः पुरीषं प्रत्युदूहति- एषा वै दिक् पितृणाम् । सा यद्दक्षिणाप्रवणा स्यात्- क्षिप्रे ह यजमानो ऽमुं लोकमियात् । तथो ह यजमानो ज्योग् जीवति । तस्माद्दक्षिणतः पुरीषं प्रत्युदूहति । पुरीषवतीं कुर्वीत- पशवो वै पुरीषं, पशुमतीमेवैनामेतत् कुरुते ॥ १७ ॥

सायणः

अथ सा वेदिः प्राक्प्रवणोदक्प्रवणा वा कार्येति विधत्ते- सा वा इति । ‘प्राक्’ प्राच्यां दिशि ‘प्रवणम्’ निम्नं यस्याः सा तथोक्ता । प्राच्या दिशो देवसम्बन्धित्वम्; दिग्विभजनसमये देवैरात्मीयतया स्वीकारात् । श्रूयते हि तैत्तिरीयके- “देवमनुष्या दिशो व्यभजन्त प्राचीं देवाः 23”- (६. १. १. १. ) इति, इमां प्रसिद्धिं द्योतयितुमत्र ‘हि’- शब्दः । ‘अथो’- इति पक्षान्तरं द्योत्यते । अत एव कात्यायनो ऽपि पक्षद्वयमसूत्रयत्- “प्राक्प्रवणामुदग् वा”- (श्रौ० सू० २. १५०) इति । आपस्तम्बस्तु प्रागुदगुक्तोपजीवनेन विकल्पमसूत्रयत्- “प्राक्प्रवणां प्रागुदक्प्रवणां वा”- (आ० श्रौ० सू० २. २. ९.) इति । उदीच्या मनुष्यसम्बन्धः; शान्तरूपत्वात् । अत एवान्यत्राम्नायते- “एषा वै देवमनुष्याणा ँ शान्ता दिग्”- (तै० ब्रा० २. १. ३. ५.) इति । वेदेर्दक्षिणभागस्य पांसुभिरौन्नत्यकरणं विधत्ते- दक्षिणत** इति । ‘पुरीषम्’ खातं पांसुं ‘प्रत्युदूहति’ प्रतिक्षिपति । विहितमर्थमुपपादयितुं विपक्षे बाधमुपन्यस्यति- एषा वा इति । ‘एषा’ दक्षिणा दिक् पितॄणां स्वभूता । तथा च ‘सा’ वेदिर्यदि ‘दक्षिणप्रवणा स्यात्’ दक्षिणतो निम्ना भवेत्, तदा तत्रासिक्तोदकवद् यजमानो ऽपि दक्षिणतो ऽवस्थितं पितृलोकम् ‘क्षिप्रे’ क्षिप्रम् ‘इयात्’ प्राप्नुयात् । प्राचीमप्रवणायां तु वेद्यां नैष दोष इत्याह- तथो हेति । तथा सति ‘सः’ यजमानः ‘ज्योक्’ चिरं जीवेत् । खाता वेदिर्नाद्भिः श्लक्ष्णीकरणीया, किन्तु पांसुलैव कार्येति विधत्ते- पुरीषवतीमिति । तत् प्रशंसति- पशवो वा इति । पशुप्राप्तिहेतुत्वात् पुरीषस्य पशुत्वम् । ‘पुरीषैः’ पांसुभिः युक्तां वेदिं कुर्वन् पशुभिर्युक्तामेवैनां कुरुत इत्यर्थः ॥ १७ ॥

Eggeling
  1. It should be sloping towards east, for the east is the quarter of the gods; and also sloping towards north, for the north is the quarter of men. To the south side he sweeps the rubbish (loose soil), for that is the quarter of the deceased ancestors. If it (the altar) were sloping towards south, the sacrificer would speedily go to yonder world; and thus (by making the altar in the prescribed way) the sacrificer lives for a long time: for this reason he sweeps the loose soil to the south side. Let

him then cover it (the altar) over with (fresh) rubbish: for rubbish means cattle, and well-stocked with cattle he thereby makes it 24.

१८

विश्वास-प्रस्तुतिः

तां प्र᳘तिमार्ष्टि॥
देवा᳘ ह वै᳘ संग्राम᳘ᳫँ᳘सन्निधास्य᳘न्तस्ते᳘ होचुर्ह᳘न्त य᳘दस्यै᳘ पृथिव्या ऽअ᳘नामृतं देवय᳘जनं त᳘च्चन्द्र᳘मसि निद᳘धामहै स य᳘दि न ऽइतो᳘ऽसुरा ज᳘येयुस्त᳘त ऽएवा᳘र्च्चन्तः श्रा᳘म्यन्तः पु᳘नरभि᳘भवेमे᳘ति स य᳘दस्यै᳘ पृथिव्या ऽअ᳘नामृतं देवय᳘जनमा᳘सीत्त᳘च्चन्द्र᳘मसि᳘ न्यदधत त᳘देत᳘च्चन्द्र᳘मसि कृष्णं त᳘स्मादाहुश्चन्द्र᳘मस्यस्यै᳘ पृथिव्यै᳘ देवय᳘जनमित्य᳘पि ह वा᳘ ऽअस्यैत᳘स्मिन्देवय᳘जन ऽइष्टं᳘ भवति त᳘स्माद्वै प्र᳘तिमार्ष्टि॥

मूलम् - श्रीधरादि

तां प्र᳘तिमार्ष्टि॥
देवा᳘ ह वै᳘ संग्राम᳘ᳫँ᳘सन्निधास्य᳘न्तस्ते᳘ होचुर्ह᳘न्त य᳘दस्यै᳘ पृथिव्या ऽअ᳘नामृतं देवय᳘जनं त᳘च्चन्द्र᳘मसि निद᳘धामहै स य᳘दि न ऽइतो᳘ऽसुरा ज᳘येयुस्त᳘त ऽएवा᳘र्च्चन्तः श्रा᳘म्यन्तः पु᳘नरभि᳘भवेमे᳘ति स य᳘दस्यै᳘ पृथिव्या ऽअ᳘नामृतं देवय᳘जनमा᳘सीत्त᳘च्चन्द्र᳘मसि᳘ न्यदधत त᳘देत᳘च्चन्द्र᳘मसि कृष्णं त᳘स्मादाहुश्चन्द्र᳘मस्यस्यै᳘ पृथिव्यै᳘ देवय᳘जनमित्य᳘पि ह वा᳘ ऽअस्यैत᳘स्मिन्देवय᳘जन ऽइष्टं᳘ भवति त᳘स्माद्वै प्र᳘तिमार्ष्टि॥

मूलम् - Weber

ताम् प्र᳘तिमार्ष्टि॥
देवा᳘ ह वै᳘ संग्राम᳘ᳫं᳘ संनिधास्य᳘न्त स्ते᳘ होचुर्ह᳘न्त य᳘दस्यै᳘ पृथिव्या अ᳘नामृतं देवय᳘जनं त᳘च्चन्द्र᳘मसि निद᳘धामहै स य᳘दि न इतो᳘ ऽसुरा ज᳘येयुस्त᳘त एवा᳘र्चन्तः श्रा᳘म्यन्तः पु᳘नरभि᳘भवेमे᳘ति स य᳘दस्यै᳘ पृथिव्या अ᳘नामृतं देवय᳘जनमा᳘सीत्त᳘च्चन्द्र᳘मसि न्य᳘दधत त᳘देत᳘च्चन्द्र᳘मसि कृष्णं त᳘स्मादाहुश्चन्द्र᳘मस्यस्यै᳘ पृथिव्यै देवय᳘जनमित्य᳘पि ह वा᳘ अस्यैत᳘स्मिन्देवय᳘जन इष्टम् भवति त᳘स्माद्वै प्र᳘तिमार्ष्टि॥

मूलम् - विस्वरम्

तां प्रतिमार्ष्टि । देवा ह वै संग्रामं सन्निधास्यन्तस्ते होचुः- हन्त यदस्यै पृथिव्या अनामृतं देवयजनं तच्चन्द्रमसि निदधामहै । स यदि न इतो ऽसुरा जयेयुः, तत एवार्चन्तः श्राम्यन्तः पुनरभिभवेमेति । स यदस्यै पृथिव्या अनामृतं देवयजनमासीत्तच्चन्द्रमसि न्यदधत । तदेतच्चन्द्रमसि कृष्णम् । तस्मादाहुः- चन्द्रमस्यस्यै पृथिव्यै देवयजनमिति । अपि ह वा अस्यैतस्मिन् देवयजन इष्टं भवति । तस्माद्वै प्रतिमार्ष्टि ॥ १८ ॥

सायणः

“पुरा क्रूरस्य” इति मन्त्रेण यद्वेदेर्मार्जनम्, तद् विधत्ते 23- तामिति । एतत्प्रशंसार्थमितिहासमाह- देवा हेति । पुरा खलु देवा असुरैः सह योत्स्यमाना एवमवोचन् । किमिति- अस्याः पृथिव्याः सम्बन्धि । ‘अनामृतम्’ आ समन्तान्मृतम्, सर्वदा नश्वरम् ‘आमृतम्’ तद्विपरीतम् ‘अनामृतम्’ सर्वदा बाधविधुरम् । ईदृग्विधं यद् ‘देवयजनम्’ देवयागाधिकरणभूतं स्थानम्, तत् ‘चन्द्रमसि’ चन्द्रमण्डलमध्ये निक्षिपाम । ‘सः’ इति व्यत्ययेनैकवचनम् 25 । ते ऽसुरा यदि ‘नः’ अस्मान्, ‘इतः’ अस्मात् स्थानात्- जयेयुः तदा वयमेतत् स्थानं परित्यज्य- ‘तत एव’ चन्द्रमसि निहिते तस्मिन् स्थान एव, पुनर्यज्ञं कुर्वाणास्तेन यज्ञेनासुरान् पुनरभिभवेमेति । ईदृग्विधोपायजनितहर्षद्योतको ‘हन्त’- शब्दः । एवं विचार्य तथैव देवैः कृतमिति दर्शयति- स यदिति । व्यत्ययेन पुल्ँलिङ्गता 26 । तद्यदस्याः पृथिव्याः सम्बन्धीत्यर्थः । ‘न्यदधत’ निहितवन्तो निक्षिप्तवन्तः। ‘तत्’ निहितं देवयजनम्, ‘एतद्’ इदानीं चन्द्रमसि कृष्णवर्णं सत् कलङ्कात्मतया दृश्यते । उक्ते ऽर्थे लोकप्रसिद्धिमुदाहरति- तस्मादिति । यस्मादेवं पृथिव्या अनामृतं देवयजनं चन्द्रमसि निक्षिप्तम्, तस्मादेव कारणादस्याः पृथिव्याः सम्बन्ध्युदीरितलक्षणं देवयजनं चन्द्रमसि विद्यत इत्यभिज्ञाः कथयन्तीत्यर्थः । यदीदृग्विधं देवयजनम्, एतस्मिन्नेव “पुरा क्रूरस्य”- इति मन्त्रेण प्रतिमार्जनं कुर्वतः ‘अस्य’ यजमानस्यापि यज्ञेनेष्टं भवतीत्यर्थः ॥ १८ ॥

Eggeling
  1. He (the Āgnīdhra) smooths it down (from east to west). The gods, namely, when they were preparing for the contest, said to one another: ‘Come, let us remove to the moon for safety what imperishable place of worship there is on this earth; so that if the Asuras, on vanquishing us, should drive us away from here, we may afterwards, by praising and mortifying, prevail again!’ They accordingly removed to the moon what imperishable place of worship there was on this earth. That now is the black (spots) in the moon: hence they say, ‘In the moon is the place of worship for this earth.’ It is in this place of worship also that his sacrifice is performed: for that reason he smooths (the altar) down 27.

१९

विश्वास-प्रस्तुतिः

स प्र᳘तिमार्ष्टि॥
पुरा᳘ क्रूर᳘स्य व्विसृ᳘पो व्विरप्शिन्नि᳘ति संग्रामो वै᳘ क्रूर᳘ᳫँ᳘ संग्रामे हि᳘ क्रूरं᳘ क्रिय᳘ते हतः पु᳘रुषो हतो᳘ ऽश्वः शेते पुरा᳘ ह्येत᳘त्संग्रामान्न्य᳘दधत त᳘स्मादाह पुरा᳘ क्रूर᳘स्य व्विसृ᳘पो व्विरप्शिन्नि᳘त्युदादा᳘य पृथिवीं᳘ जीव᳘दानुमि᳘त्युदादा᳘य हि य᳘दस्यै᳘ पृथिव्यै᳘ जीवमा᳘सीत्त᳘च्चन्द्र᳘मसि न्य᳘दधत त᳘स्मादाहोदादा᳘य पृथिवीं᳘ जीव᳘दानुमि᳘ति यामै᳘रयᳫं श्चन्द्र᳘मसि स्वधा᳘भिरि᳘ति यां᳘ चन्द्र᳘मसि ब्र᳘ह्मणा᳘दधुरि᳘त्ये᳘वैत᳘दाह ता᳘मु धी᳘रासो ऽअनुदि᳘श्य यजन्त ऽइ᳘त्येते᳘नो ह ता᳘मनुदि᳘श्य यजन्ते᳘ ऽपि ह वा᳘ ऽअस्यैत᳘स्मिन्देवय᳘जन ऽइष्टं᳘ भवति य᳘ ऽएव᳘मेतद्वेद᳘॥

मूलम् - श्रीधरादि

स प्र᳘तिमार्ष्टि॥
पुरा᳘ क्रूर᳘स्य व्विसृ᳘पो व्विरप्शिन्नि᳘ति संग्रामो वै᳘ क्रूर᳘ᳫँ᳘ संग्रामे हि᳘ क्रूरं᳘ क्रिय᳘ते हतः पु᳘रुषो हतो᳘ ऽश्वः शेते पुरा᳘ ह्येत᳘त्संग्रामान्न्य᳘दधत त᳘स्मादाह पुरा᳘ क्रूर᳘स्य व्विसृ᳘पो व्विरप्शिन्नि᳘त्युदादा᳘य पृथिवीं᳘ जीव᳘दानुमि᳘त्युदादा᳘य हि य᳘दस्यै᳘ पृथिव्यै᳘ जीवमा᳘सीत्त᳘च्चन्द्र᳘मसि न्य᳘दधत त᳘स्मादाहोदादा᳘य पृथिवीं᳘ जीव᳘दानुमि᳘ति यामै᳘रयᳫं श्चन्द्र᳘मसि स्वधा᳘भिरि᳘ति यां᳘ चन्द्र᳘मसि ब्र᳘ह्मणा᳘दधुरि᳘त्ये᳘वैत᳘दाह ता᳘मु धी᳘रासो ऽअनुदि᳘श्य यजन्त ऽइ᳘त्येते᳘नो ह ता᳘मनुदि᳘श्य यजन्ते᳘ ऽपि ह वा᳘ ऽअस्यैत᳘स्मिन्देवय᳘जन ऽइष्टं᳘ भवति य᳘ ऽएव᳘मेतद्वेद᳘॥

मूलम् - Weber

स प्र᳘तिमार्ष्टि॥
पुरा᳘ क्रूर᳘स्य विसृ᳘पो विरप्शिन्नि᳘ति संग्रामो वै᳘ क्रूर᳘ᳫं᳘ संग्रामे हि᳘ क्रूरं᳘ क्रिय᳘ते हतः पु᳘रुषो हतो᳘ ऽश्वः शेते पुराॗ ह्येत᳘त्संग्रामान्न्य᳘दधत त᳘स्मादाह पुरा᳘ क्रूर᳘स्य विसृ᳘पो विरप्शिन्नि᳘त्युदादा᳘य पृथिवीं᳘ जीव᳘दानुमि᳘त्युदादा᳘य हि य᳘दस्यै᳘ पृथिव्यै᳘ जीवमा᳘सीत्त᳘च्चन्द्र᳘मसि न्य᳘दधत त᳘स्मादाहोदादा᳘य पृथिवीं᳘ जीव᳘दानुमि᳘ति यामै᳘रयँश्चन्द्र᳘मसि स्वधा᳘भिरि᳘ति यां᳘ चन्द्र᳘मसि ब्र᳘ह्मणा᳘दधुरि᳘त्येॗवैत᳘दाह ता᳘मु धी᳘रासो अनुदि᳘श्य यजन्त इ᳘त्येते᳘नो ह ता᳘मनुदि᳘श्य यजन्ते᳘ ऽपि ह वा᳘ अस्यैता᳘स्मिन्देवय᳘जन इष्ट᳘म् भवति य᳘ एव᳘मेतद्वे᳘द॥

मूलम् - विस्वरम्

स प्रतिमार्ष्टि- “पुरा क्रूरस्य विसृपो विरप्शिन्”- (१ अ० २८ मं०) इति । संग्रामो वै क्रूरम् । संग्रामे हि क्रूरं क्रियते- हतः पुरुषः, हतो ऽश्वः शेते । पुरा ह्येतत्संग्रामान्न्यदधत । तस्मादाह- पुरा क्रूरस्य विसृपो विरप्शिन्निति । “उदादाय पृथिवीं जीवदानुम्”- (१ अ० २८ मं०) इति । उदादाय हि यदस्यै पृथिव्यै जीवमासीत्, तच्चन्द्रमसि न्यदधत । तस्मादाह- उदादाय पृथिवीं जीवदानुमिति । “यामैरयँश्चन्द्रमसि स्वधाभिः”- (१ अ० २८ मं०) इति । यां चन्द्रमसि ब्रह्मणादधुरित्येवैतदाह- “तामु धीरासो ऽअनुदिश्य यजन्ते”- (१ अ० २८ मं०) इति । एतेनो ह तामनुदिश्य यजन्ते । अपि ह वा अस्यैतस्मिन् देवयजन इष्टं भवति- य एवमेतद्वेद ॥ १९ ॥

सायणः

विहितं प्रतिमार्जनमनूद्य मन्त्रं विधत्ते- इति । मन्त्रगतक्रूरपदस्यार्थमाह- संग्रामो वै क्रूरमिति । कथं संग्रामस्य क्रूरशब्दाभिधेयतेत्याशङ्क्योपपादयति- संग्रामे हीति । क्रूरकरणमपि कथं संग्रामे विद्यत इत्यत आह- हतः पुरुष इति । पुरुषाश्वादेश्चतुरङ्गबलस्य तत्र हननलक्षणात् क्रूरकरणात् तदधिकरणभूतः संग्रामो ऽप्यत्र क्रूरशब्देन प्रतिपाद्यत इत्यर्थः । पदार्थमुक्त्वा वाक्यार्थमुपपादयति- पुरा हीति । ‘क्रूरस्य’ संग्रामस्य ‘विसृपः’ विसर्पणादागमनात्पुरेति मन्त्रवाक्यार्थ इत्यभिप्रायः । मन्त्रस्य द्वितीयं भागमनूद्य ‘जीवदानु’- पदस्य विवक्षितमर्थं दर्शयन् व्याचष्टे- उदादायेति । अस्याः पृथिव्याः ‘जीवम्’- जीवनरूपं जीवात्मभूतं वा यदनामृतं देवयजनमासीत्, तदित्यर्थः । तथा च ‘जीवदानुम्’ जीवनप्रदां जीवभूतां पृथिवीमिति मन्त्रपदाभिप्रायो वर्णितो भवति । वैयाकरणास्तु “जीवे रदानुक् 28” इति जीरदानुपदं 29 व्युत्पादयन्ति । तथैव तैत्तिरीयकैराम्नातम् 30 । मन्त्रस्य भागान्तरमनूद्य व्याचष्टे- यामिति । ‘ब्रह्मणा’ मन्त्रेण । एतच्च स्वधाभिरित्यस्य व्याख्यानम् । मन्त्रस्यान्तिमं भागमनूद्य व्याचष्टे- तामिति । ‘एतेन’ इदानीन्तनेन देवयजनेन, ‘ताम्’ चन्द्रमस्यवस्थिताम्, अनामृतां पृथिवीम् ‘अनुदिश्य’ तदेवमिति तादात्म्येनानुसन्धायेत्यर्थः । एतद्वेदनं प्रशंसति- अपि हेति ॥१९॥

Eggeling
  1. He smooths it down, with the text (Vāj. S. I, 28): ‘Before the bloody (battle) with its rushings hither and thither 31, O mighty one!’ the bloody one no doubt is the battle, for in battle

bloody deeds are done, and slain lie man and horse; and before that battle they removed it (the altar to the moon); therefore he says, ‘Before the bloody (battle) with its rushings hither and thither, O mighty one!’–’lifting up the life-bestowing earth,’ for after lifting up what was living on this earth, they removed it to the moon; therefore he says, ’lifting up the life-bestowing earth; which they raised to the moon by prayers,’ ‘which they placed in the moon by worship,’ he thereby says,–’that (earth) the wise still point out and worship,’ to that they accordingly address their worship; and the offering of him also who so understands this, is performed in that place of worship.

२०

विश्वास-प्रस्तुतिः

(दा᳘) अ᳘थाह प्रो᳘क्षणीरा᳘साद᳘ये᳘ति॥
व्व᳘ज्रो वै स्फ्यो᳘ ब्राह्मण᳘श्चेमं᳘ पुरा᳘ यज्ञ᳘म᳘भ्यजूगुपतां व्व᳘ज्रो वा ऽआ᳘पस्तद्व᳘ज्रमे᳘वैत᳘दभि᳘गुप्त्या ऽआ᳘सादयति स वा᳘ ऽउप᳘र्युपर्येव प्रो᳘क्षणीषु धार्य᳘माणास्व᳘थ स्फ्यमु᳘द्यच्छत्य᳘थ यन्नि᳘हित ऽएव स्फ्ये प्रो᳘क्षणीरासाद᳘येद्व᳘ज्रो ह स᳘मृच्छेयातां त᳘थो ह व्व᳘ज्रौ न स᳘मृच्छेते त᳘स्मादुप᳘र्युपर्य्येव प्रो᳘क्षणीषु धार्य्य᳘माणास्व᳘थ स्फ्यमु᳘द्यच्छति॥

मूलम् - श्रीधरादि

(दा᳘) अ᳘थाह प्रो᳘क्षणीरा᳘साद᳘ये᳘ति॥
व्व᳘ज्रो वै स्फ्यो᳘ ब्राह्मण᳘श्चेमं᳘ पुरा᳘ यज्ञ᳘म᳘भ्यजूगुपतां व्व᳘ज्रो वा ऽआ᳘पस्तद्व᳘ज्रमे᳘वैत᳘दभि᳘गुप्त्या ऽआ᳘सादयति स वा᳘ ऽउप᳘र्युपर्येव प्रो᳘क्षणीषु धार्य᳘माणास्व᳘थ स्फ्यमु᳘द्यच्छत्य᳘थ यन्नि᳘हित ऽएव स्फ्ये प्रो᳘क्षणीरासाद᳘येद्व᳘ज्रो ह स᳘मृच्छेयातां त᳘थो ह व्व᳘ज्रौ न स᳘मृच्छेते त᳘स्मादुप᳘र्युपर्य्येव प्रो᳘क्षणीषु धार्य्य᳘माणास्व᳘थ स्फ्यमु᳘द्यच्छति॥

मूलम् - Weber

अ᳘थाह प्रो᳘क्षणीरासाद᳘ये᳘ति॥
व᳘ज्रो 32 वै स्फ्यो᳘ ब्राह्मण᳘श्चेम᳘म् पुरा᳘ यज्ञ᳘मभ्य᳘जूगुपतां व᳘ज्रो वा आ᳘पस्तद्व᳘ज्रमेॗवैत᳘दभि᳘गुप्त्या आ᳘सादयति स वा᳘ उप᳘र्युपर्येव प्रो᳘क्षणीषु धार्य᳘माणास्व᳘थ स्फ्यमु᳘द्यछत्य᳘थ यन्नि᳘हित एव स्फ्यो प्रो᳘क्षणीरासाद᳘येद्व᳘ज्रो ह स᳘मृछेयातां त᳘थो ह व᳘ज्रो न समृछेते त᳘स्मादुप᳘र्युपर्येव प्रो᳘क्षनीषु धार्य᳘माणास्व᳘थ स्फ्यमु᳘द्यछति॥

मूलम् - विस्वरम्

अथाह- “प्रोक्षणीरासादय”- (१ अ० २८ मं०) इति । वज्रो वै स्फ्यः, ब्राह्मणश्च; इमं पुरा यज्ञमभ्यजूगुपताम् । वज्रो वा आपः । तद् वज्रमेवैतदभिगुप्त्यै- आसादयति । स वा उपर्युपर्येव प्रोक्षणीषु धार्यमाणास्वथ स्फ्यमुद्यच्छति । अथ यन्निहित एव स्फ्ये प्रोक्षणीरासादयेद्- वज्रौ ह समृच्छेयाताम् । तयो ह वज्रौ न समृच्छेते । तस्मादुपर्युपर्येव प्रोक्षणीषु धार्यमाणास्वथ स्फ्यमुद्यच्छति ॥ २० ॥

सायणः

वेदिकरणानन्तरं कर्त्तव्यं विधत्ते- अथेति । प्रोक्षणीरासादयेत्यादिकं संप्रैषं ब्रूयादित्यर्थः 28 । प्रोक्षत्याभिरिति ‘प्रोक्षण्यः’ आपः; तासामासादनं यज्ञरक्षार्थमिति व्याचष्टे- वज्रो वा इति । स्फ्यस्तावद् वज्रः; तदंशपरिणामरूपत्वात् । तथैव प्रागाम्नातम्- “तस्य स्फ्यस्तृतीयं वा यावद् वा”- इति । (का० १ प्र० २ ब्रा० २ कं० १ ।) ब्राह्मणो ऽपि वज्रात्मकः; तद्वन्मन्त्रसामर्थ्येन रक्षसां हन्तृत्वात् । तौ खलु पुरेमं यज्ञम् ‘अभ्यजूगुपताम्’ अभितो ऽरक्षिष्टाम् । “गुपू रक्षणे” (भ्वा० प० ३९५) इत्यस्माल्लुङि, “गुपेश्छन्दसि”- (पा० सू० ३. १. ५०) इति चङि रूपम् । तत्र हि “आयादय आर्धधातुके वा” (पा० सू० ३. १. ३१)- इत्याय-प्रत्ययो विकल्प्यते । वज्रो वा इत्यादि । “तस्माद् येनैता यन्ति निम्नं कुर्वन्ति” इत्यपां वज्रत्वं प्रागेव (का० १ प्र० १ ब्रा० २ कं० १७ ।) श्रुत्या प्रतिपादितम् । वज्ररूपाणां तासामासादनं यज्ञस्यामितो रक्षायै सम्पद्यत इत्यर्थः । प्रोक्षणीनामासादनसमये- आग्नीध्रकर्तृकं स्फ्यस्योद्यमनं 29 विधत्ते- स वा इति । “उपर्यध्यधसः सामीप्ये”- (पा० सू० ८. १. ७)- इत्युपरिशब्दस्य द्विर्वचनम् । ‘उपर्युपरि’ समीपे- उपरि देशे । आसाद्यमानासु ‘प्रोक्षणीषु’ ‘धार्यमाणासु’ सतीषु ‘अथ’ अनन्तरमासादनसमकालमेववाग्नीध्रः स्फ्यम् ‘उद्यच्छति’ धारयति । विपक्षे बाधमाह- अथ यदिति । उद्यमनमकृत्वा पूर्वं वेदिमध्ये निहितस्य स्फ्यस्योपरि सादने स्फ्याब्लक्षणौ ‘वज्रौ’ सङ्गतौ भवेताम् । तथा च वज्रद्वयसंगमाद् यजमानस्य बाधः स्यादित्याशयः । “समो गम्यृच्छिभ्याम्”- (पा० सू० १. ३. २९)- इत्यात्मनेपदम् । अस्य दोषस्याभावं स्वपक्षे दर्शयति- तथो हेति । ‘तथो’ तथा च स्फ्यस्य वेदेः सकाशादुद्यमने सतीत्यर्थः । ‘तस्मादिति’ प्रतिपादितार्थनिगमनम् ॥ २० ॥

Eggeling
  1. He now says (to the Āgnīdhra; Vāj. S. I, 28), ‘Put the sprinkling-water down (on the altar)!’ That thunderbolt, the wooden sword, and the priest (brāhmaṇa) have hitherto defended that sacrifice. Now the water also is a thunderbolt: that thunderbolt he thereby lays down for its defence. While the sprinkling-water is being held close above the wooden sword, he takes up the latter. If he were to set the sprinkling-water down, while the wooden sword is still lying, the two thunderbolts would come into collision with each other; but in this way the two thunderbolts do not come into collision with each other: for that reason he takes up the wooden sword, while the sprinkling-water is being held close above it.

२१

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थैतां व्वा᳘चं व्वदति॥
प्रो᳘क्षणीरा᳘सादयेध्मं᳘ बर्हिरु᳘पसादय स्रु᳘चः स᳘म्मृड्ढि प᳘त्नीᳫँ᳭स᳘न्नह्या᳘ज्येनोदेही᳘ति संप्रैष᳘ ऽए᳘वैष स य᳘दि काम᳘येत ब्रूया᳘देतद्य᳘द्यु काम᳘येता᳘पि ना᳘द्रियेत स्वय᳘मु᳘ ह्ये᳘वैतद्वे᳘देदम᳘तः क᳘र्म कर्त्त᳘व्यमिति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थैतां व्वा᳘चं व्वदति॥
प्रो᳘क्षणीरा᳘सादयेध्मं᳘ बर्हिरु᳘पसादय स्रु᳘चः स᳘म्मृड्ढि प᳘त्नीᳫँ᳭स᳘न्नह्या᳘ज्येनोदेही᳘ति संप्रैष᳘ ऽए᳘वैष स य᳘दि काम᳘येत ब्रूया᳘देतद्य᳘द्यु काम᳘येता᳘पि ना᳘द्रियेत स्वय᳘मु᳘ ह्ये᳘वैतद्वे᳘देदम᳘तः क᳘र्म कर्त्त᳘व्यमिति॥

मूलम् - Weber

अ᳘थैतां वा᳘चं वदति॥
प्रो᳘क्षणीरा᳘सादयेध्म᳘म् बर्हिरु᳘पसादय स्रु᳘चः स᳘म्मृड्ढि प᳘त्नीᳫं सं᳘नह्या᳘ज्येनोदेही᳘ति संप्रैष᳘ एॗवैष स य᳘दि काम᳘येत ब्रूया᳘देतद्य᳘द्यु काम᳘येता᳘पि ना᳘द्रियेत स्वय᳘मुॗ ह्येॗवैतद्वे᳘देदम᳘तः क᳘र्म कर्त᳘व्यमिति॥

मूलम् - विस्वरम्

अथैतां वाचं वदति- प्रोक्षणीरासादय, (१ अ. २८ मं.) इध्मं बर्हिरुपसादय, स्रुचः सम्मृड्ढि, पत्नीं सन्नह्याज्येनोदेहि; इति । संप्रैष एवैषः । स यदि कामयेत- ब्रूयादेतत् । यद्यु कामयेत- अपि नाद्रियेत । स्वयमु ह्येवैतद् वेद- इदमतः कर्म कर्त्तव्यमिति ॥ २१ ॥

सायणः

प्रतीकग्रहणेन विहितं 33 सम्प्रैषमन्त्रं साकल्येनानुवदति- अथैतामिति । हे आग्नीध्र 34 ! प्रोक्षणार्था अप आसादय । अग्निसमिन्धनार्थम् ‘इध्मम्’ वेदिस्तरणार्थम् ‘बर्हिः’ च, आहवनीयसमीपे- आसादय । जुह्वाद्याः ‘स्रुचः’ सम्मार्जनसंस्कारेण संस्कुरु । यजमानस्य या पत्नी, तां योक्त्रेण ‘सन्नह्य’ यत् प्रागग्नावधिश्रितमाज्यम्, तेन ‘उदेहि’ आगच्छेति संप्रैषमन्त्रार्थः । एवमेष मन्त्रः परप्रत्यायनार्थप्रयुक्तत्वात् सम्प्रैष एव; न तु मन्त्रान्तरवद्दृष्टैकप्रयोजन इत्याह- सम्प्रैष इति । स यदीत्यादि । प्रोक्षण्यासादनादिकमाग्नीध्रेण कारयितुं यदि कामयेत, तदा ‘एतत्’ सम्प्रैषवाक्यं ब्रूयात्; यदि च तथा न कामयेत,- स्वयमेव कुर्यामित्येवमेव कामयेत, तदा ‘तत्’ सम्प्रैषवचनं नाद्रियेतापि, तद्विषयमादरमपि न कुर्यात् । तत्रोपपत्तिमाह- स्वयमिति । ‘अतः’ अस्मात् कर्मणो ऽनन्तरमिदं कर्म कर्त्तव्यमिति ‘हि’ यस्मात् स्वयमेवैतद्वेद, तस्मात्परं प्रत्यज्ञातज्ञापनार्थः सम्प्रैषो निरर्थक इत्यर्थः ॥ २१ ॥

Eggeling
  1. He pronounces this (entire) speech:–‘Put the sprinkling-water down (on the altar)! put fuel and barhis (sacrificial grass) beside it! wipe the ladles! gird the (sacrificer’s) wife! come hither with the clarified butter!’ This is a direction (given to

the Āgnīdhra); he (the Adhvaryu) may pronounce it, if he choose; or, if he so choose, he may omit it: for he (the Āgnīdhra) himself knows that this work has now to be done.

२२

विश्वास-प्रस्तुतिः

(त्य) अथो᳘दञ्चᳫंस्फ्यं प्र᳘हरति॥
(त्य) अमु᳘ष्मै त्वा व्व᳘ज्रं प्र᳘हरामी᳘ति य᳘द्यभिच᳘रेद्व᳘ज्रो वै स्फ्य᳘स्तृणुते᳘ है᳘वैनेन॥

मूलम् - श्रीधरादि

(त्य) अथो᳘दञ्चᳫंस्फ्यं प्र᳘हरति॥
(त्य) अमु᳘ष्मै त्वा व्व᳘ज्रं प्र᳘हरामी᳘ति य᳘द्यभिच᳘रेद्व᳘ज्रो वै स्फ्य᳘स्तृणुते᳘ है᳘वैनेन॥

मूलम् - Weber

अथो᳘दञ्चᳫं स्फ्यम् प्र᳘हरति॥
अमु᳘ष्मै त्वा व᳘ज्रम् प्र᳘हरामी᳘ति 35 य᳘द्यभिच᳘रेद्व᳘ज्रो वै स्फ्य᳘ स्तृणुते᳘ हैॗवैनेन॥

मूलम् - विस्वरम्

अथोदञ्चं स्फ्यं प्रहरति- अमुष्मै त्वा वज्रं प्रहरामीति- यद्यभिचरेद् । वज्रो वै स्फ्यः, तृणुते हैवैनेन ॥ २२ ॥

सायणः

“द्विषतो वधः”- इति मन्त्रेण स्फ्यस्य बहिर्वेद्युदङ् निरसनं विधत्ते 36- अथेति । अभिचरतो विशेषमाह- अमुष्मा इति । अस्मिन् मन्त्रे ‘अमुष्मै’ इति शत्रोर्नाम चतुर्थ्या निर्द्दिशेदित्यर्थः ॥ २२ ॥

Eggeling
  1. He then flings the wooden sword northwards (on the heap of rubbish). If he wishes to exorcise 37, (he does so), with the text, ‘I fling thee as a thunderbolt for so and so!’ and as a thunderbolt the wooden sword accordingly strikes down (the enemy).

२३

विश्वास-प्रस्तुतिः

(ना᳘) अ᳘थ पाणी ऽअ᳘वनेनिक्ते॥
य᳘द्ध्यस्यै क्रूरम᳘भूत्तद्ध्यस्या ऽएतद᳘हार्षीत्त᳘स्मात्पाणी ऽअ᳘वनेनिक्ते॥

मूलम् - श्रीधरादि

(ना᳘) अ᳘थ पाणी ऽअ᳘वनेनिक्ते॥
य᳘द्ध्यस्यै क्रूरम᳘भूत्तद्ध्यस्या ऽएतद᳘हार्षीत्त᳘स्मात्पाणी ऽअ᳘वनेनिक्ते॥

मूलम् - Weber

अ᳘थ पाणी अ᳘वनेनिक्ते॥
यद्ध्य᳘स्यै क्रूरम᳘भूत्तद्ध्यस्या 38 एतद᳘हार्षीत्त᳘स्मात्पाणी अ᳘वनेनिक्ते॥

मूलम् - विस्वरम्

अथ पाणी अवनेनिक्ते । यद्ध्यस्यै क्रूरमभूत्- तद्ध्यस्या एतदहार्षीत् । तस्मात् पाणी अवनैनिक्ते ॥ ३ ॥

सायणः

हस्तप्रक्षालनं विधत्ते 36- अथेति । ‘अवनेनिक्ते’ शोधयति, प्रक्षालयेदित्यर्थः । “णिजिर् शौचपोषणयोः” (जु० उ० ११)- इति धातुः । “णिजां त्रयाणाम्”- (पा० सू० ७. ४. ७५)- इत्यभ्यासस्य गुणः । अवनेजनस्य प्रयोजनमाह- यद्धीति । यत् ‘खलु अस्याः’ वेदेः खननादिकं ‘क्रूरम्’ कर्मा ऽभूत्, तदनेन स्फ्यस्योदङ्मिरसनेन ‘अस्याः’ वेदेः ‘अहार्षीत्’ निरास्यत् । ‘तस्मात्’ पाण्योः क्रूरकर्मसंश्लेषादवनेजनेन शुद्धिः कार्येत्यर्थः ॥ २३ ॥

Eggeling
  1. He then washes his hands 39; for what there was bloody (or injured) on it (the altar) that he thereby removes from it: that is why he washes his hands.

२४

विश्वास-प्रस्तुतिः

स ये हा᳘ग्र ऽईजिरे॥
ते᳘ ह स्मावम᳘र्शं यजन्ते ते पा᳘पीयाᳫं᳘स आसुर᳘थ ये᳘ नेजिरे ते श्रे᳘याᳫंस ऽआसुस्ततो᳘ऽश्रद्धा मनु᳘ष्यान्विवेद ये᳘ य᳘जन्ते पा᳘पीया᳘ᳫँ᳘सस्ते᳘ भवन्ति य᳘ ऽउ न य᳘जन्ते श्रे᳘याᳫँ᳭सस्ते᳘ भवन्ती᳘ति त᳘त ऽइतो᳘ देवा᳘न्हविर्न᳘ जगामेतः᳘ प्रदानाद्धि᳘ देवा᳘ उपजी᳘वन्ति॥

मूलम् - श्रीधरादि

स ये हा᳘ग्र ऽईजिरे॥
ते᳘ ह स्मावम᳘र्शं यजन्ते ते पा᳘पीयाᳫं᳘स आसुर᳘थ ये᳘ नेजिरे ते श्रे᳘याᳫंस ऽआसुस्ततो᳘ऽश्रद्धा मनु᳘ष्यान्विवेद ये᳘ य᳘जन्ते पा᳘पीया᳘ᳫँ᳘सस्ते᳘ भवन्ति य᳘ ऽउ न य᳘जन्ते श्रे᳘याᳫँ᳭सस्ते᳘ भवन्ती᳘ति त᳘त ऽइतो᳘ देवा᳘न्हविर्न᳘ जगामेतः᳘ प्रदानाद्धि᳘ देवा᳘ उपजी᳘वन्ति॥

मूलम् - Weber

स ये हा᳘ग्र ईजिरे᳟॥
ते᳘ ह स्मावम᳘र्श यजन्ते ते पा᳘पीयांस आसुर᳘थ येॗ नेजिरे ते श्रे᳘यांस आसुस्ततो᳘ ऽश्रद्धा मनुष्यान्विवेद ये य᳘जन्ते पा᳘पीयांसस्ते᳘ भवन्ति य᳘ उ न य᳘जन्ते श्रे᳘यांसस्ते᳘ भवन्ती᳘ति त᳘त इतो᳘ देवा᳘न्हविर्न᳘ जगामेतः᳘ प्रदानाद्धि᳘ देवा᳘ उपजी᳘वन्ति॥

मूलम् - विस्वरम्

स ये हाग्र ईजिरे, ते ह स्मावमर्शं यजन्ते, ते पापीयांस आसुः । अथ ये नेजिरे ते श्रेयांस आसुः । ततो ऽश्रद्धा मनुष्यान् विवेद- ये यजन्ते पापीयांसस्ते भवन्तिः, य उ न यजन्ते श्रेयांसस्ते भवन्तीति । तत इतो देवान् हविर्न जगाम- इतः प्रदानाद्धि देवा उपजीवन्ति ॥ २४ ॥

सायणः

शृतानां हविषां यागात् प्राग् निर्मिताया वेदेश्च बहिस्तरणात् पूर्वं स्पर्शनिषेधं विधित्सुस्तत्सिद्ध्यर्थमितिहासमाचष्टे- स ये हेति । पूर्ववद् बहुवचनस्थाने स इत्येकवचनम् 36, ते ‘ये’ प्रसिद्धा यजमानाः ‘अग्रे’ पुरा ह ‘ईजिरे’ इष्टवन्तः, ‘ते’ खलु यागसमये शृतानि हवींषि क्लृप्तां वेदिं च ‘अवमर्शम्’ अवमृश्य संस्पृश्य यजन्ते; ‘ते’ च तेनावमर्शजनितेन दोषेण ‘पापीयांसः’ पापिष्ठा निकृष्टा बभूवुः । यागमकुर्वाणास्त्ववमर्शजनितदोषविरहात्- श्रेष्ठा एव बभूवुः । ‘ततः’ अनन्तरमेवावमर्शनस्य दोषहेतुत्वमजानानान् ‘मनुष्यान्’ ‘अश्रद्धा’ यागविषया ऽरुचिः ‘विवेद’ प्राप्नोति । तामेवाश्रद्धां दर्शयति- य इति । यागस्यानर्थहेतुतामज्ञासिषुरित्यर्थः । तत इत्यादि । ‘ततः’ अश्रद्धाप्राप्त्यनन्तरं केनचिदपि यागस्याननुष्ठानात् ‘इतः’ अस्माद् भूलोकाद् देवान् प्रति चरुपुरोडाशादिकम् ‘हविः’ न जगाम । ननु मागमद्धविः; अमृतोपजीविनां देवानामनेन किं प्रयोजनमित्यत आह- इतः प्रदानाद्धीति । ‘इतः’ अस्माद् लोकात् प्रदीयमानं यद्धविः, तस्मादित्यर्थः । “कृत्यल्युटो बहुलम्”- (पा० सू ३. ३. ११३)- इति प्रपूर्वाद् ददातेः कर्मणि ल्युट् ॥ २४ ॥

Eggeling
  1. Now those who made offerings in former times, touched (the altar and oblations) at this particular time, while they were sacrificing. They became more sinful. Those who washed (their hands) became righteous. Then unbelief took hold of men: ‘Those who sacrifice become more sinful, and those who sacrifice not become righteous,’ they said. No sacrificial food then came to the gods from this world: for the gods subsist on what is offered up from this world 40.

२५

विश्वास-प्रस्तुतिः

ते᳘ ह देवा᳘ ऽऊचुः॥
(र्बृ᳘) बृ᳘हस्प᳘तिमाङ्गिरसम᳘श्रद्धा वै᳘ मनु᳘ष्यानविदत्ते᳘भ्यो व्वि᳘धेहि यज्ञमि᳘ति स हे᳘त्योवाच बृ᳘हस्प᳘तिराङ्गिरसः᳘ कथा न᳘ यजध्व ऽइ᳘ति ते᳘ होचुः किंकाम्या᳘ यजेमहि ये य᳘जन्ते पा᳘पीयाᳫँ᳭सस्ते᳘ भवन्ति य᳘ ऽउ न य᳘जन्ते श्रे᳘याᳫँ᳭सस्ते᳘ भवन्ती᳘ति॥

मूलम् - श्रीधरादि

ते᳘ ह देवा᳘ ऽऊचुः॥
(र्बृ᳘) बृ᳘हस्प᳘तिमाङ्गिरसम᳘श्रद्धा वै᳘ मनु᳘ष्यानविदत्ते᳘भ्यो व्वि᳘धेहि यज्ञमि᳘ति स हे᳘त्योवाच बृ᳘हस्प᳘तिराङ्गिरसः᳘ कथा न᳘ यजध्व ऽइ᳘ति ते᳘ होचुः किंकाम्या᳘ यजेमहि ये य᳘जन्ते पा᳘पीयाᳫँ᳭सस्ते᳘ भवन्ति य᳘ ऽउ न य᳘जन्ते श्रे᳘याᳫँ᳭सस्ते᳘ भवन्ती᳘ति॥

मूलम् - Weber

ते᳘ ह देवा᳘ ऊचुः॥
बृ᳘हस्प᳘तिमाङ्गिरसम᳘श्रद्धाॗ वै मनुॗष्यानबिदत्ते᳘भ्यो वि᳘धेहि यज्ञमि᳘ति स हे᳘त्योवाच बृ᳘हस्प᳘तिराङ्गिरसः᳘ कथा न᳘ यजध्व इ᳘ति ते᳘ होचुः किं काम्या᳘ यजेमहि ये य᳘जन्ते पा᳘पीयांसस्ते᳘ भवन्ति य᳘ उ न य᳘जन्ते श्रे᳘यांसस्ते᳘ भवन्ती᳘ति॥

मूलम् - विस्वरम्

ते ह देवा ऊचुर्बृहस्पतिमाङ्गिरसम्- अश्रद्धा वै मनुष्यानविदत्, तेभ्यो विधेहि यज्ञामिति । स हेत्योवाच बृहस्पतिराङ्गिरसः- कथा न यजध्व इति । ते होचुः- किंकाम्या यजेमहि, ये यजन्ते पापीयांसस्ते भवन्ति, य उ न यजन्ते- श्रेयांसस्ते भवन्तीति ॥ २५ ॥

सायणः

तत्रेतिहासमाह- ते हेति । हविरागमनाभावेन निराहाराः ‘ते’ देवा अङ्गिरसः पुत्रं बृहस्पतिमुक्तवन्तः । किमिति, ‘अश्रद्धा’ यागविषया मनुष्यान् ‘प्राप्नोति’ । तत्तान्निरस्य 41 तेभ्यो ‘यज्ञम्’ ‘विधेहि’ यजध्वमिति विधिं कुर्या इत्यर्थः । स च बृहस्पतिरागत्योक्तवान्- हे मनुष्याः ! ‘कथा’ कथं- कस्माद्धेतोर्न यजध्वे- इति । “था हेतौ च च्छन्दसि” (पा० सू० ५. ३. ३६)- इति था- प्रत्ययः । एवं पृष्टैस्तैरुक्तं यागाननुष्ठानकारणमुपन्यस्यति- किङ्काम्या- इति । किं कामनया ? कस्य फलस्येच्छयेत्यर्थः ॥ २५ ॥

Eggeling
  1. The gods thereupon said to Br̥haspati Āṅgirasa, ‘Verily, unbelief has come upon men; ordain thou the sacrifice to them!’ Br̥haspati Āṅgirasa then went and said, ‘How comes it that you do not sacrifice?’ They replied, ‘From a desire for what

should we sacrifice, since those who sacrifice become more sinful, and those who sacrifice not become righteous?’

२६

विश्वास-प्रस्तुतिः

स होवाच॥
बृ᳘हस्प᳘तिराङ्गिरसो यद्वै᳘ शुश्रुम᳘ देवा᳘नां परिषूतं त᳘देष᳘ यज्ञो᳘ भवति य᳘च्छृता᳘नि हवी᳘ᳫं᳘षि कॢप्ता व्वे᳘दिस्ते᳘नावम᳘र्शमचारिष्ट त᳘स्मात्पा᳘पीयाᳫँ᳭ सो ऽभूत तेना᳘नवमर्शं यजध्वं तथा श्रे᳘याᳫँ᳭ सो भविष्यथेत्याकि᳘यत ऽइत्या᳘ बर्हि᳘षस्त᳘रणादि᳘ति बर्हि᳘षा ह वै ख᳘ल्वेषा᳘ शाम्यति स य᳘दि पुरा᳘ बर्हि᳘षस्त᳘रणात्कि᳘ञ्चिदाप᳘द्येत बर्हि᳘रेव त᳘त्स्तृणन्न᳘पास्येद᳘थ यदा᳘ बर्हि᳘स्तृणन्त्य᳘पि प᳘दाभि᳘तिष्ठन्ति स यो᳘ हैवं᳘ व्विद्वान᳘नवमर्शं य᳘जते श्रे᳘यान्हैव᳘ भवति तस्माद᳘नवमर्शमेव᳘ यजेत॥

मूलम् - श्रीधरादि

स होवाच॥
बृ᳘हस्प᳘तिराङ्गिरसो यद्वै᳘ शुश्रुम᳘ देवा᳘नां परिषूतं त᳘देष᳘ यज्ञो᳘ भवति य᳘च्छृता᳘नि हवी᳘ᳫं᳘षि कॢप्ता व्वे᳘दिस्ते᳘नावम᳘र्शमचारिष्ट त᳘स्मात्पा᳘पीयाᳫँ᳭ सो ऽभूत तेना᳘नवमर्शं यजध्वं तथा श्रे᳘याᳫँ᳭ सो भविष्यथेत्याकि᳘यत ऽइत्या᳘ बर्हि᳘षस्त᳘रणादि᳘ति बर्हि᳘षा ह वै ख᳘ल्वेषा᳘ शाम्यति स य᳘दि पुरा᳘ बर्हि᳘षस्त᳘रणात्कि᳘ञ्चिदाप᳘द्येत बर्हि᳘रेव त᳘त्स्तृणन्न᳘पास्येद᳘थ यदा᳘ बर्हि᳘स्तृणन्त्य᳘पि प᳘दाभि᳘तिष्ठन्ति स यो᳘ हैवं᳘ व्विद्वान᳘नवमर्शं य᳘जते श्रे᳘यान्हैव᳘ भवति तस्माद᳘नवमर्शमेव᳘ यजेत॥

मूलम् - Weber

स होवाच॥
बृ᳘हस्प᳘तिराङ्गिरसो यद्वै᳘ शुश्रुम᳘ देवा᳘नाम् परिषूतं त᳘देष᳘ यज्ञो᳘ भवति य᳘छूता᳘नि हवीं᳘षि कॢप्ता वे᳘दिस्ते᳘नावम᳘र्शमचारिष्ट त᳘स्मात्पा᳘पीयांसो ऽभूत् तेना᳘नवमर्श यजध्वं त᳘था श्रे᳘यांसो भविष्यथेत्या कि᳘यत इत्या᳘ बर्हि᳘ष स्त᳘रणादि᳘ति बर्हि᳘षा ह वै ख᳘ल्वेषा᳘ शाम्यति स य᳘दि पुरा᳘ बर्हि᳘ह्ष स्त᳘रणात्किं᳘चिदापद्येत बर्हि᳘रेव त᳘त्स्तृणन्न᳘पास्येद᳘थ यदा᳘ बर्हि᳘ स्तृणन्त्य᳘पि प᳘दाभि᳘तिष्ठन्ति स यो᳘ हैवं᳘ विद्वान᳘नवमर्शं य᳘जते श्रे᳘यान्हैव᳘ भवति तस्माद᳘नवमर्शमेव᳘ यजेत॥

मूलम् - विस्वरम्

स होवाच बृहस्पतिराङ्गिरसः- यद्वै शुश्रुम देवानां परिषूतं तदेष यज्ञो भवति । यच्छृतानि हवींषि, क्लृप्ता वेदिस्तेनावमर्शमचारिष्ट तस्मात्पापीयांसो ऽभूत । तेनानवमर्शं यजध्वम्, तथा श्रेयांसो भविष्यथेति । आकियत इति । आ बर्हिषस्तरणादिति । बर्हिषा ह वै खल्वेषा शाम्यति । स यदि पुरा बर्हिषस्तरणात् किञ्चिदापद्येत, बर्हिरेव तत् स्तृणन्नपास्येत् । अथ यदा बर्हिस्तृणन्ति- अपि पदाभितिष्ठन्ति । स यो हैव विद्वाननवमर्शं यतते, श्रेयान् हैव भवति । तस्मादनवमर्शमेव यजेत ॥ २६ ॥

सायणः

एवं यागानुष्ठानत्यागकारणमुक्तवत्सु तेषु बृहस्पतिरयथानुष्ठानजनितमेव तत् पापीयस्त्वम्, न तु सम्यग्यागानुष्ठानजमिति बोधयंस्तेषां विपर्यस्ततां 42 निरस्यति- स होवाचेति । यद्वै शुश्रुमेति । ‘यत्’ खलु वस्तु देवानामर्थम् ‘परिषूतम्’ परिगृहीतं शुश्रुम, ‘तत्’ एतदात्मक एष यज्ञः; तत्साध्यत्वात् । सामान्योक्तं विशिनष्टि- यच्छृतानीति । ‘शृतानि’ पक्वानि पुरोडाशादीनि ‘हवींषि’ पूर्वपरिग्रहादिभिः ‘क्लृप्ता’ निर्मिता वेदिरिति यदस्ति, एतत्साध्यो हि देवार्थो यज्ञः, ‘तेन’ एवेदृग्विधेन यज्ञेन हे मनुष्याः ! यूयम् ‘अवमर्शम्’ अवमृश्य यागात् प्राक् पक्वानि हवींषि, बर्हिस्तरणात् 43 पूर्वं वेदिं च संस्पृश्य, ‘अचारिष्ट’ आचरणं कृतवन्तः; यागसाधनस्य च मनुष्यसंस्पर्शो न युक्तः; अतस्तस्मादेवावमर्शनात् हे मनुष्याः ! यूयं पापीयांसो ऽभूत, न तु यागात् । अतो ऽवमर्शं परित्यज्य तेन यज्ञेन यजध्वम् । तथा च श्रैष्ठ्यं वो भविष्यतीति बृहस्पतिना बोधिते ऽवमर्शनपरित्यागस्यावधिं पृच्छति- आ कियत इति । कियत्कालपर्यन्तमेवावमर्शनपरित्याग इत्यर्थः । तस्योत्तरमाह- बर्हिष इति । बर्हिःस्तरणपर्यन्तम्, संस्कृतां वेदिं न 44 स्पृशेदित्यर्थः । एतच्च हविषामप्युपलक्षणम्; अतः पक्वानि हवींष्यपि यागात् पूर्वं न स्प्रष्टव्यानीति द्रष्टव्यम् । अत एव सूत्रितं कात्यायनेन- “प्राक् स्तरणाद् वेदिं नावमृशेत्” “शृतानि च हवींष्याप्रचरणात्”- (श्रौ० सू० २. १७९-१८०) इति । युक्तं चैतदित्याह- बर्हिषेति । बर्हिषः स्तरणात् पूर्वमशान्ता सती सा वेदिः स्तीर्यमाणेन ‘बर्हिषा’ खलु शान्ता भवति । अतो ऽशान्तायाः स्पृष्टौ प्रागुक्तो दोषो युज्यत इत्यर्थः । स यदीत्यादि । बर्हिषः स्तरणात् पूर्वं यदि वेदिमध्ये ‘किञ्चित्’ तृणादिकमापद्येत, तदा तन्निरासार्थमपि न स्पृशेत् । किन्तु ‘बर्हिः 45 स्तृणन्’ स्तरणसमये बर्हिषः स्तरणं कुर्वन्नेव ‘तत्’ तृणादिकं निरस्येत् 46 । स्तरणप्रभृति वेदिस्पर्शो न दोषायेत्यभिप्रेत्याह- अथेति । ‘यदा’ यस्मिन् काले बर्हिर्मुष्टिं स्तृणन्त्यध्वर्यवः, तदानीम् ‘पदा’ पादेनाप्यभितिष्ठन्ति; अतस्तस्मिन् समये स्पर्शो न दुष्यतीति भावः । एवमितिहासमुखेन प्रतिपादितमर्थमिदानीमप्यनुष्ठेयत्वेन विधत्ते- स य इति । ‘एवं विद्वान्’ उक्तमितिहासं जानन्नित्यर्थः ॥ २६ ॥ ३ ॥ (२. ५.)

वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन् ॥ पुमर्थांश्चतुरो देयाद् विद्यातीर्थमहेश्वरः ॥ १ ॥

इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरहरिहरमहाराजसाम्राज्यधुरन्धरेण सायणाचार्येण विरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनशतपथब्राह्मणभाष्ये प्रथमकाण्डे द्वितीयाध्याये पञ्चमं ब्राह्मणं द्वितीयाध्यायश्च समाप्तः ॥ २ ॥

Eggeling
  1. Br̥haspati Āṅgirasa then said, ‘What we have heard of as produced 47 for the gods that is this sacrifice, that is to say, the cooked oblations and the prepared altar; therewith you have performed while touching: that is why you have become more sinful. Sacrifice therefore without touching, for thus you will become righteous!’ ‘How long?’ they asked. ‘Till the spreading of the sacrificial grass (on the altar),’ he said. By the sacrificial grass, namely, it (the altar) becomes appeased. If, therefore, before the spreading of the sacrificial grass anything were to fall on it, let him only remove it at the time when he spreads the sacrificial grass; for when they spread the sacrificial grass, then they also step on it with the foot. He who knowing this sacrifices without touching, becomes indeed righteous: let him therefore sacrifice, without touching (the altar and oblations).

  1. “यजुर्मन्त्रको दर्भः ‘स्तम्बयजुः’ । तच्च स्तम्बरूपं स्फ्येन भित्त्वोत्करदेशे हरेत्” -इति तै० ब्रा० ३. २. ९. सा० भा० । ( तै० सं० १. १. ९.) । “यजुषा मन्त्रेण हरणीयः पांसुसहितः स्तम्बः ‘स्तम्बयजुः’ तस्य हरणम्” इति तै० सं० २. ६. ४. सा० भा० । तत्रैव “वेदिस्थानात्सतृणस्य पांसोर्मन्त्रेणान्यत्र हरणम्” इत्यपि । ↩︎

  2. ‘न्यक्कृतिम्’ -इति पा० । ↩︎

  3. ‘न्यक्कृता’ इति पा० । ↩︎

  4. ॰म᳘नुरि᳘ति M. ↩︎

  5. 59:1 This legend is given in Muir’s Original Sanskrit Texts, IV, p. 122, where it is pointed out that we have here the germ of the Dwarf Incarnation of Vishṇu; and in A. Kuhn’s treatise, ‘Ueber Entwickelungsstufen der Mythenbildung,’ p. 128, where the following remarks are made on the story: ‘Here also we meet with the same struggle between light and darkness: the gods of light are vanquished and obtain from the Asuras, who divide the earth between themselves, only as much room as is covered by Vishṇu, who measures the atmosphere with his three steps. He represents (though I cannot prove it in this place) the sun-light, which, on shrinking into dwarf’s size in the evening, is the only means of preservation that is left to the gods, who cover him with metres, i.e. with sacred hymns (probably in order to defend him from the powers of darkness), and in the end kindle Agni in the east–the dawn–and thereby once more obtain possession of the earth.’ Compare also the corresponding legend in Taitt. Br. III, 2, 9, 7, where the gods are granted by the Asuras as much as they can enclose; and by the Vasus being placed in the south, the Rudras in the west, the Ādityas in the north, and Agni in the east, they obtain the whole of the earth. ↩︎

  6. निपात्य Sây. ↩︎

  7. 60:1 In the actual performance of the sacrifice this represents the pūrva-parigraha, or first enclosing of the altar by a single line being drawn with the wooden sword on each of the three sides (viz. S.W. to S.E.; S.W. to N.W.; N.W. to N.E.) whilst muttering the respective texts. Before doing so he has, however, to ask and receive the permission of the Brahman, mutatis mutandis, in the usual way (cf. p. 7 note): the same forms have to be gone through at the marking of the second and third enclosures. Katy. II, 6, 25 seq. On the ritualistic application of the metres, see note on I, 3, 2, 9. ↩︎

  8. ”पूर्वं परिग्रहं परिगृह्णाति दक्षिणतः पश्चादुत्तरतश्च स्फ्येन गायत्रेणेति प्रतिमन्त्रम्” (श्रौ० सू० २. १६७ ) । ↩︎ ↩︎

  9. एष एव पूर्वपरिग्रह उच्यते । ↩︎

  10. पा᳘ञ्चिस्त्र्यङ्गुला᳘मेव᳘ M apograph. ↩︎

  11. 61:1 This teacher is mentioned again, Śat. Br. II, 1, 4, 27, along with two others, viz. Āsuri and Mādhuki, but nothing further is known of him. According to the Black Yajus the altar is made four (not three) aṅgulas deep. ↩︎

  12. “उत्तरं परिग्रहं परिगृह्णाति सुक्ष्मास्योनोर्जस्वतीति प्रतिमन्त्रं पूर्ववत्” (श्रौ० सू० २. १७२) अस्मात् प्राक् लेखादिका वेदिसंस्काराः प्रोक्ताः कात्यायनेन । ↩︎

  13. शोभना क्ष्मा- सुक्ष्मेति महीधरः । ↩︎

  14. तत्रैव “आश्रावयेति चतुरक्षरमस्तु श्रौषडिति चतुरक्षरं यजेति द्व्यक्षरं ये यजामह इति पंचाक्षरं द्व्यक्षरो वषट्कारः” इति च तै० सं० १ । ६ । ११ । ↩︎ ↩︎ ↩︎

  15. 62:1 Viz. each enclosing line consists of three divisions corresponding to the three sides (S., W., N.) of the altar. ↩︎

  16. 62:2 Prajāpati (Lord of Creation) is here, as elsewhere, identified with the year (probably as the representative of the eternal process of regeneration) and consequently with the annual cycle of sacrificial performance, or the sacrifice itself. Cf. Śat. Br. I, 5, 2, 16; X, 4, 3, 1. ↩︎

  17. ‘छन्दसा परिगृह्णामि’ इति त्रिवारम् । ↩︎

  18. ‘असि’ शब्दान्ताः । ↩︎

  19. 62:3 According to Sāyaṇa, because each of the three mantras, ‘gāyatreṇa (traishṭubhena, jāgatena resp.) tvā chandasā pari gr̥hṇāmi,’ consists of two parts, the first ending with tvā, the second with gr̥hṇāmi, which makes together six. Similarly with the second triad of mantras. In the former case the Taittirīya text (Taitt. S. I, 1, 9, 3), ‘The Vasus may enclose thee with the Gāyatrī metre, the Rudras with the Trishṭubh metre, the Ādityas with the Jagatī metre!’ would furnish a more natural explanation of the six sacred words. ↩︎

  20. 62:4 Vyāma, the space between the extreme ends of the outstretched arms. It is doubtful whether it is here intended for a fixed measure, or whether it is a relative one, depending on the size of the respective sacrificer. The size of a man was supposed to be equal to the extent of his outstretched arms. ↩︎

  21. 63:1 I.e. a line drawn from the middle of the western side through the centre of the altar to the Āhavanīya fire. The same line prolongated from the western side of the altar westwards to the Gārhapatya would measure eight (eleven or twelve) steps (prakrama or vikrama, of two feet or pada each) from fire to fire. See I, 7, 3, 23-25. ↩︎

  22. ‘तदेव’ इति पा० । ↩︎ ↩︎

  23. “दक्षिणा पितरः प्रतीचीं मनुष्य उदीची ँ रुद्राः" इति तच्छेषः । ↩︎ ↩︎

  24. 64:1 Purīsha, rubbish; ‘sandy or gravel-like soil,’ Sāy. on Taitt. Br. III, 2, 9, 12; purīsha also means ‘fæces, manure,’ in which sense it is probably taken symbolically for ‘cattle.’ The Taitt. Br. better: ‘well supplied with cattle he thereby makes him (the sacrificer).’ ↩︎

  25. पा० सू० ३ । १ । ८५ । ↩︎

  26. पा० सू० ३ । १ । ८५ । तथा च कारिका- “सुप्तिङ्ङुपग्रहलिङ्गनराणां कालहलच्स्वरकर्तृयङां च । व्यत्ययमिच्छति शास्त्रकृदेषां सो ऽपि च सिध्यति बाहुलकेन” इति । ↩︎

  27. 64:2 ? By stroking along the altar he shifts it to the moon. ↩︎

  28. तदेवं जीवं ददातीति विग्रहो ऽत्रास्य ब्राह्मणकारस्येष्टः । “आस्रेमाणंजीरदानुरिति वर्णलोपात्”- इति पा० सू० ६ । १ । ६६ । वा० । ↩︎ ↩︎

  29. ‘जीवदानु’ इति क्वचित्पाठः । ↩︎ ↩︎

  30. ‘अभिन्नो घर्मो जीरदानु’ इत्यादि तै० सं० १. ५. १०. ४ द्रष्टव्या । तत्र च भाष्ये ऽप्येवमाह सायणः- “जीरं जीवनं पुरोडाशद्वारेण यज्ञस्य ददातीति जीरदानुः” । इह तु जीवदानुशब्द एवमर्थकः । ↩︎

  31. 64:3 The interpretation of purā krūrasya visr̥paḥ here given by the author, and also by Mahīdhara on Vāj. S. I, 28, is more than doubtful. Sāyaṇa on Taitt. S. I, 1, 9 is probably more correct in taking purā visr̥paḥ (abl. or gerund) krūrasya to mean ‘before the sneaking away of the cruel enemy (Araru, lying fettered on the heap of rubbish)’–he supplies: ’thou, O altar, containest merely the divine oblations, but since his removal thou containest everything.’ Cf. also Weber, Ind. Streifen, II, p. 463. ↩︎

  32. वज्रो ह I. ↩︎

  33. ‘विवक्षितं’- इति पा० । ↩︎

  34. यच्चात्र सायणाचार्यः “हे आग्नीध्र ! प्रोक्षणार्था अप आसादय” “प्रोक्षण्यासादनादिकमाग्नीध्रेण कारयितुं यदि कामयेत “इत्येवं व्याख्याकरणेन प्रैषकरणमध्वर्योः प्रैषार्थकरणं चाग्नीधः प्रत्यपादि । तत्कातीयसूत्रभाष्यविसंवाद्येव । तथा च सूत्रं “यथाप्रेषितमन्यः पराधिकारात्”- “स्वयं वा ऽविरोधात्”- “ सम्प्रैषावचनाच्च " २ । ६ । २७, २८, २९ । अत्रायं भाष्यसारांशः- “यथाप्रेषितमन्यः करोति । अन्यशब्दो ऽग्नीद्विषयः पराधिकारात् । सामर्थ्यादेव च परप्राप्तौ परशब्दो जघन्यविषयः । परं हि जघन्यं निकृष्टमधिकृत्य प्रैषः प्रवर्तते । अपिच निकृष्टेनोत्कृष्टस्य प्रेषणं विरुध्यते । तस्मादध्वर्युः प्रैषे ऽग्नीच्च प्रैषार्थे । एवं प्राप्ते उच्यते । स्वयं वा ऽध्वर्युः प्रैषार्थङ्करोति सामर्थ्यादग्नीत्प्रेषयति । प्रैषार्थस्य प्राधान्यात् अन्तरंग प्रैषार्थो बहिरंगम्प्रैषः । प्रैषार्थेन व्यवहितत्वात् । ततश्च यदन्तरङ्गं प्रधानं च तदध्वर्युः करोति । बहिरंगं गुणभूतं चाग्नीध्रादिः इति न्याय्यम् । ननु च विरुध्यत एतदुक्तम् । नहि निकृष्ट उत्कृष्टं प्रेषयितुमलमित्यत आह- अविरोधात् स्यादयं विरोधो यद्ययं प्रैषः स्यात् । अध्येषणा त्वेषा अग्नीदध्वर्युमधीच्छति । प्रेषणाध्येषणयोः को विशेष इति चेन्निकृष्टविषयम्प्रेषणमुत्कृष्टविषयमध्येषणमिति । न च संप्रैषवचनमस्ति । यथा ऽन्यत्राग्नीदग्नीन्विहरेति । किं तर्ह्यध्येषणमिति । ततश्च न विरोधः । तस्मादध्वर्युः प्रैषार्थे ऽग्नीच्च प्रैष इति । तथा च लिंगं “प्रैषवचनं हि प्रकृत्याम्नायते” “स यदि कामयेत ब्रूयादेतद्यद्यु कामयेतापि नाद्रियेत- स्वयमु ह्येवैतद्वेदेदमतः कर्मेति” । अध्वर्युम्प्रैषार्थस्य कर्तारं दर्शयति । सूत्रकारानुप्रवृत्तेश्चायमेवार्थो ऽवसीयत इति कर्कोपाध्यायपादाः । विस्तरस्तु तद्भाष्य एव विलोकनीयः । इति ॥ ↩︎

  35. प्रह᳘रामी᳘ति M apogr. ↩︎

  36. “द्विषतो वध इति स्फ्यमुदच्चं प्रहरति”- (श्रौ० सू० २. १८३) “द्विषतो वधो ऽसि” (१ अ० २८ मं०) इति मन्त्रभागो ब्राह्मणे तु न व्याख्यातः । ↩︎ ↩︎ ↩︎

  37. 66:1 Otherwise he uses the text (Vāj. S. I, 28): ‘A killer of the enemy art thou!’ Kāty. II, 6, 42. ↩︎

  38. अस्याः क्रूरमभूत्तद्व्यस्या एतद्॰ Sây. ↩︎

  39. 66:2 He does so (on the utkara) and then lays down the wooden sword west of the praṇītā water. Kāty. II, 6, 43. ↩︎

  40. 66:3 Men, on the other hand, subsist on what is bestowed on them from yonder world. Taitt. S. III, 2, 9, 7; Taitt. Br. II, 2, 7, 3. ↩︎

  41. तदिति पदं क्वचिन्नास्ति । ↩︎

  42. ‘विपर्ययग्रस्तताम्’- इति पा० । ↩︎

  43. एवंविधस्थानेषु सविसर्गनिर्विसर्गपाठौ सर्वत्र ज्ञेयौ । इति । ↩︎

  44. ‘नावमृशेद्’ इति पा० । ↩︎

  45. ‘बर्हिषः स्तरणसमये’ इति पा० । ↩︎

  46. “आपन्न त्तृणन्निरस्येत्” इति । (श्रौ० सू० २. १८२.) । ↩︎

  47. 67:1 Parishūtam, which Sāyaṇa interprets by parigr̥hītam, ‘hedged round’ [? ‘set apart’]. The Kāṇva MS. reads parishutam. ↩︎