श्वेतकेतुर्ह वा आरुणेयः॥
पञ्चालानाम् परिषदमाजगाम स आजगाम जैवलम् प्रवाहणम् परिचारयमाणं तमुदीक्ष्याभ्युवाद कुमारा३ इति स भो३ इति प्रतिशुश्रावानुशिष्टो न्वसि पित्रेत्योमिति होवाच॥
वेत्थ यथेमाः प्रजाः॥
प्रयत्यो विप्रतिपद्यान्ता३ इति नेति होवाच वेत्थ यथेमं लोकम् पुनरापद्यान्ता३ इति नेति हैवोवाच वेत्थ यथासौ लोक एवम् बहुभिः पुनः पुनः प्रयद्भिर्न सम्पूर्यता३ इति नेति हैवोवाच॥
वेत्थ यतिथ्यामाहुत्यां हुतायाम्॥
आपः पुरुषवाचो भूत्वा समुत्थाय वदन्ती३ इति नेति हैवोवाच वेत्थो देवयानस्य वा पथः प्रतिपदम् पितृयाणस्य वा यत्कृत्वा देवयानं वा पन्थानम् प्रतिपद्यते पितृयाणं वा॥
अपि हि न ऋषेर्वचः श्रुतम्॥
द्वे सृती अशृणवम् पितॄणामहं देवानामुत मर्त्यानां॥
ताभ्यामिदं विश्वमेजत्समेति यदन्तरा पितरम् मातरं चेति नाहमत एकं चन वेदेति होवाच॥
अथ हैनं वसत्योपमन्त्रयां चक्रे॥
अनादृत्य वसतिं कुमारः प्रदुद्राव स आजगाम पितरं तं होवाचेति वाव किल नो भवान्पुरानुशिष्टानवोच इति कथं सुमेध इति पञ्च मा प्रश्नान्राजन्यबन्धुरप्राक्षीत्ततो नैकं चन वेदेति होवाच कतमे त इतीम इति ह प्रतीकान्युदाजहार॥
स होवाच॥
तथा नस्त्वं तात जानीथा यथा यदहं किं च वेद सर्वमहं तत्तुभ्यमवोचम् प्रेहि तु तत्र प्रतीत्य ब्रह्मचर्यं वत्स्याव इति भवानेव गछत्विति॥
स आजगाम गौतमो॥
यत्र प्रवाहणस्य जैवलेरास तस्मा आसनमाहार्योदकमाहारयां चकाराथ हास्मा अर्घं चकार॥
स होवाच॥
वरम् भवते गौतमाय दद्म इति स होवाच प्रतिज्ञातो म एष वरो यां तु कुमारस्यान्ते वाचमभाषथास्ताम् मे ब्रूहीति॥
स होवाच॥
दैवेषु वै गौतम तद्वरेषु मानुषाणाम् ब्रूहीति॥
स होवाच॥
विज्ञायते हास्ति हिरण्यस्यापात्तं गो अश्वानां दासीनाम् प्रवराणाम् परिधानानाम् मा नो भवान्बहोरनन्तस्यापर्यन्तस्याभ्यवदान्यो भूदिति स वै गौतम तीर्थेनेछासा इत्युपैम्यहम् भवन्तीमिति वाचा ह स्मैव पूर्व उपयन्ति॥
स होपायनकीर्ता उवाच॥
तथा नस्त्वं गौतम मापराधास्तव च पितामहा यथेयं विद्येतः पूर्वं न कस्मिंश्चन ब्राह्मण उवास तां त्वहं तुभ्यं वक्ष्यामि को हि त्वैवम् ब्रुवन्तमर्हति प्रत्याख्यातुमिति॥
असौ वै लोकोऽग्निर्गौतम॥
तस्यादित्य एव समिद्रश्मयो धूमोऽहरर्चिश्चन्द्रमा अङ्गारा नक्षत्राणि विष्फुलिङ्गास्तस्मिन्नेतस्मिन्नग्नौ देवाः श्रद्धां जुह्वति तस्या आहुतेः सोमो राजा सम्भवति॥
पर्जन्यो वा अग्निर्गौतम॥
तस्य संवत्सर एव समिदभ्राणि धूमो विद्युदर्चिरशनिरङ्गारा ह्रादुनयो विष्फुलिङ्गास्तस्मिन्नेतस्मिन्नग्नौ देवाः सोमं जुह्वति तस्या आहुतेर्वृष्टिः सम्भवति॥
अयं वै लोकोऽग्निर्गौतम॥
तस्य पृथिव्येव समिद्वायुर्धूमो रात्रिरर्चिर्दिशोऽङ्गारा अवान्तरदिशो विष्फुलिङ्गास्तस्मिन्नेतस्मिन्नग्नौ देवा वृष्टिं जुह्वति तस्या आहुतेरन्नं सम्भवति॥
पुरुषो वा अग्निर्गौतम॥
तस्य व्यात्तमेव समित्प्राणो धूमो वागर्चिश्चक्षुरङ्गाराः श्रोत्रं विष्फुलिङ्गास्तस्मिन्नेतस्मिन्नग्नौ देवा अन्नं जुह्वति तस्या आहुते रेतः सम्भवति॥
योषा वा अग्निर्गौतम॥
तस्या उपस्थ एव समिल्लोमानि धूमो योनिरर्चिर्यदन्तः करोति तेऽङ्गारा अभिनन्दा विस्՚फुलिङ्गास्तस्मिन्नेतस्मिन्नग्नौ देवा रेतो जुह्वति तस्या आहुतेः पुरुषः सम्भवति स जायते स जीवति यावज्जीवत्यथ यदा म्रियतेऽथैनमग्नये हरन्ति॥
तस्याग्निरेवाग्निर्भवति॥
समित्समिद्धूमो धूमोऽर्चिरर्चिरङ्गारा विष्फुलिङ्गा विष्फुलिङ्गास्तस्मिन्नेतस्मिन्नग्नौ देवाः पुरुषं जुह्वति तस्या आहुतेः पुरुषो भास्वरवर्णः सम्भवति॥
ते य एवमेतद्विदुः॥
ये चामी अरण्ये श्रद्धां सत्यमुपासते तेऽर्चिरभिसम्भवन्त्यर्चिषोऽहरह्नु आपूर्यमाणपक्षमापूर्यमाणपक्षाद्यान्षण्मासानुदङ्ङादित्य एति मासेभ्यो देवलोकं देवलोकादादित्यमादित्याद्वैद्युतं तान्वैद्युतात्पुरुषो मानस एत्य ब्रह्मलोकान्गमयति ते तेषु ब्रह्मलोकेषु पराः परावतो वसन्ति तेषामिह न पुनरावृत्तिरस्ति॥
अथ ये यज्ञेन दानेन तपसा लोकं जयन्ति ते धूममभिसम्भवन्ति धूमाद्रात्रिं रात्रेरपक्षीयमाणपक्षमपक्षीयमाणपक्षाद्यान्षण्मासान्दक्षिणादित्य एति मासेभ्यः पितृलोकम् पितृलोकाच्चन्द्रं ते चन्द्रम् प्राप्यान्नम् भवन्ति तांस्तत्र देवा यथा सोमं राजानमाप्यायस्वापक्षीयस्वेत्येवमेनांस्तत्र भक्षयन्ति तेषां यदा तत्पर्यवैत्यथेममेवाकाशमभिनिष्पद्यन्त आकाशाद्वायुं वायोर्वृष्टिं वृष्टेः पृथिवीं ते पृथिवीम् प्राप्यान्नम् भवन्ति त एवमेवानुपरिवर्तन्तेऽथ य एतौ पन्थानौ न विदुस्ते कीटाः पतङ्गा यदिदं दन्दशूकम्॥
यो ह वै ज्येष्ठं च श्रेष्ठं च वेद॥
ज्येष्ठश्च श्रेष्ठश्च स्वानाम् भवति प्राणो वै ज्येष्ठश्च श्रेष्ठश्च ज्येष्ठश्च श्रेष्ठश्च स्वानाम् भवत्यपि च येषाम् बुभूषति य एवं वेद॥
यो ह वै वसिष्ठां वेद॥
वसिष्ठः स्वानाम् भवति वाग्वै वसिष्ठा वसिष्ठः स्वानाम् भवति य एवं वेद॥
यो ह वै प्रतिष्ठां वेद॥
प्रतितिष्ठति समे प्रतितिष्ठति दुर्गे चक्षुर्वै प्रतिष्ठा चक्षुषा हि समे च दुर्गे च प्रतितिष्ठति प्रतितिष्ठति समे प्रतितिष्ठति दुर्गे य एवं वेद॥
यो ह वै सम्पदं वेद॥
सं हास्मै पद्यते यं कामं कामयते श्रोत्रं वै सम्पछ्रोत्रे हीमे सर्वे वेदा अभिसम्पन्नाः सं हास्मै पद्यते यं कामं कामयते य एवं वेद॥
यो ह वा आयतनं वेद॥
आयतनं स्वानाम् भवत्यायतनं जनानाम् मनो वा आयतनमायतनं स्वानाम् भवत्यायतनं जनानां य एवं वेद॥
यो ह वै प्रजातिं वेद॥
प्रजायते प्रजया पशुभी रेतो वै प्रजातिः प्रजायते प्रजया पशुभिर्य एवं वेद॥
ते हेमे प्राणाः॥
अहंश्रेयसे विवदमाना ब्रह्म जग्मुः को नो वसिष्ठ इति यस्मिन्व उत्क्रान्त इदं शरीरम् पापीयो मन्यते स वो वसिष्ठ इति॥
वाग्घोच्चक्राम॥
सा संवत्सरम् प्रोष्यागत्योवाच कथमशकत मदृते जीवितुमिति ते होचुर्यथा कडा अवदन्तो वाचा प्राणन्तः प्राणेन पश्यन्तश्चक्षुषा शृण्वन्तः श्रोत्रेण विद्वांसो मनसा प्रजायमाना रेतसैवमजीविष्मेति प्रविवेश ह वाक्॥
चक्षुर्होच्चक्राम॥
तत्संवत्सरम् प्रोष्यागत्योवाच कथमशकत मदृते जीवितुमिति ते होचुर्यथान्धा अपश्यन्तश्चक्षुषा प्राणन्तः प्राणेन वदन्तो वाचा शृण्वन्तः श्रोत्रेण विद्वांसो मनसा प्रजायमाना रेतसैवमजीविष्मेति प्रविवेश ह चक्षुः॥
श्रोत्रं होच्चक्राम॥
तत्संवत्सरम् प्रोष्यागत्योवाच कथमशकत मदृते जीवितुमिति ते होचुर्यथा बधिरा अशृण्वन्तः श्रोत्रेण प्राणन्तः प्राणेन वदन्तो वाचा पश्यन्तश्चक्षुषा विद्वांसो मनसा प्रजायमाना रेतसैवमजीविष्मेति प्रविवेश ह श्रोत्रम्॥
मनो होच्चक्राम॥
तत्संवत्सरम् प्रोष्यागत्योवाच कथमशकत मदृते जीवितुमिति ते होचुर्यथा मुग्धा अविद्वांसो मनसा प्राणन्तः प्राणेन वदन्तो वाचा पश्यन्तश्चक्षुषा शृण्वन्तः श्रोत्रेण प्रजायमाना रेतसैवमजीविष्मेति प्रविवेश ह मनः॥
रेतो होच्चक्राम॥
तत्संवत्सरम् प्रोष्यागत्योवाच कथमशकत मदृते जीवितुमिति ते होचुर्यथा क्लीबा अप्रजायमाना रेतसा प्राणन्तः प्राणेन वदन्तो वाचा पश्यन्तश्चक्षुषा शृण्वन्तः श्रोत्रेण विद्वांसो मनसैवमजीविष्मेति प्रविवेश ह रेतः॥
अथ ह प्राण उत्क्रमिष्यन्॥
यथा महासुहयः सैन्धवः पड्वीशशङ्कून्त्संवृहेदेवं हैवेमात्प्राणान्त्संववर्ह ते होचुर्मा भगव उत्क्रमीर्न वै शक्ष्यामस्त्वदृते जीवितुमिति तस्य वै मे बलिं कुरुतेति तथेति॥
सा ह वागुवाच॥
यद्वा अहं वसिष्ठास्मि त्वं तद्वसिष्ठोऽसीति चक्षुर्यद्वा अहम् प्रतिष्ठास्मि त्वं तत्प्रतिष्ठोऽसीति श्रोत्रं यद्वा अहं सम्पदस्मि त्वं तत्सम्पदसीति मनो यद्वा अहमायतनमस्मि त्वं तदायतनमसीति रेतो यद्वा अहम् प्रजातिरस्मि त्वं तत्प्रजातिरसीति तस्यो मे किमन्नं किं वास इति यदिदं किं चा श्वभ्य आ क्रिमिभ्य आ कीटपतङ्गेभ्यस्तत्तेऽन्नमापो वास इति न ह वा अस्यानन्नं जग्धम् भवति नानन्नम् प्रतिगृहीतं य एवमेतदनस्यान्नं वेद॥
तद्विद्वांसः श्रोत्रियाः॥
अशिष्यन्त आचामन्त्यशित्वाचामन्त्येतमेव तदनमनग्नं कुर्वन्तो मन्यन्ते तस्मादेवंविदशिष्यन्नाचामेदशित्वाचामेदेतमेव तदनमनग्नं कुरुते॥
स यः कामयते॥
महत्प्राप्नुयामित्युदगयन आपूर्यमाणपक्षे पुण्याहे द्वादशाहमुपसद्व्रती भूत्वौदुम्बरे कंसे चमसे वा वा सर्वौषधम् फलानीति सम्भृत्य परिसमुह्य परिलिप्याग्निमुपसमाधायावृताज्यं संस्कृत्य पुंसा नक्षत्रेण मन्थं सन्नीय जुहोति॥
यावन्तो देवास्त्वयि जातवेदः॥
तिर्यञ्चो घ्नन्ति पुरुषस्य कामान् तेभ्योऽहम् भागधेयं जुहोमि ते मा तृप्ताः कामैस्तर्पयन्तु स्वाहा॥
या तिरश्ची निपद्यसेऽहं विधरणी इति॥
तां त्वा घृतस्य धारया यजे संराधनीमहं स्वाहा॥
प्रजापते न त्वदेतान्यन्य इति तृतीयां जुहोति॥
ज्येष्ठाय स्वाहा श्रेष्ठाय स्वाहेति॥
अग्नौ हुत्वा मन्थे संस्रवमवनयति प्राणाय स्वाहा वसिष्ठायै स्वाहेत्यग्नौ चक्षुषे स्वाहा सम्पदे स्वाहेत्यग्नौ श्रोत्राय स्वाहायतनाय स्वाहेत्यग्नौ@ मनसे स्वाहा प्रजात्यै स्वाहेत्यग्नौ@ रेतसे स्वाहेत्यग्नौ@॥
भूताय स्वाहेति॥
अग्नौ@ भविष्यते स्वाहेत्यग्नौ@ विश्वाय स्वाहेत्यग्नौ@ सर्वाय स्वाहेत्यग्नौ@॥
पृथिव्यै स्वाहेति॥
अग्नौ@ अन्तरिक्षाय स्वाहेत्यग्नौ@ दिवे स्वाहेत्यग्नौ@ दिग्भ्यः स्वाहेत्यग्नौ@ ब्रह्मणे स्वाहेत्यग्नौ@ क्षत्राय स्वाहेत्यग्नौ@॥
भूः स्वाहेति॥
अग्नौ@ भुवः स्वाहेत्यग्नौ स्वः स्वाहेत्यग्नौ@ भूर्भुवः स्वः स्वाहेत्यग्नौ@॥
अग्नये स्वाहेति॥
अग्नौ@ सोमाय स्वाहेत्यग्नौ@ तेजसे स्वाहेत्यग्नौ@ श्रियै स्वाहेत्यग्नौ@ लक्ष्म्यै स्वाहेत्यग्नौ@ सवित्रे स्वाहेत्यग्नौ@ सरस्वत्यै स्वाहेत्यग्नौ विश्वेभ्यो देवेभ्यः स्वाहेत्यग्नौ@ प्रजापतये स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति॥
अथैनमभिमृशति॥
भ्रमसि ज्वलदसि पूर्णमसि प्रस्तब्धमस्येकसभमसि हिङ्कृतमसि हिङ्क्रियमाणमस्युद्गीथमस्युद्गीयमानमसि श्रावितमसि प्रत्याश्रावितमस्यार्द्रे सन्दीप्तमसि विभूरसि प्रभूरसि ज्योतिरस्यन्नमसि निधनमसि संवर्गोऽसीति॥
अथैनमुद्यछति॥
आमोऽस्यामं हि ते मयि स हि राजेशानोऽधिपतिः स मा राजेशानोऽधिपतिं करोत्विति॥
अथैनमाचामति॥
तत्सवितुर्वरेण्यम्॥
मधु वाता ऋतायते मधु क्षरन्ति सिन्धवः माध्वीर्नः सन्त्वोषधीः॥
भूः स्वाहा॥
भर्गो देवस्य धीमहि॥
मधु नक्तमुतोषसो मधुमत्पार्थिवं रजः॥
मधु द्यौरस्तु नः पिता॥
भुवः स्वाहा॥
धियो यो नः प्रचोदयात्॥
मधुमान्नो वनस्पतिर्मधुमाम् अस्तु सूर्यः॥
माध्वीर्गावो भुवन्तु नः॥
स्वः स्वाहेति सर्वां च सावित्रीमन्वाह सर्वाश्च मधुमतीः सर्वाश्च व्याहृतीरहमेवेदं सर्वम् भूयासम् भूर्भुवः स्वः स्वाहेत्यन्तत आचम्य प्रक्षाल्य प्राणी जघनेनाग्निम् प्राक्शिराः संविशति॥
प्रातरादित्यमुपतिष्ठते॥
दिशामेकपुण्डरीकमस्यहम् मनुष्याणामेकपुण्डरीकम् भूयासमिति यथेतमेत्य जघनेनाग्निमासीनो वंशं जपति॥
तं हैतमुद्दालक आरुणिः॥
वाजसनेयाय याज्ञवल्क्यायान्तेवासिन उक्त्वोवाचापि य एनं शुष्के स्थाणौ निषिञ्चेज्जायेरञ्छाखाः प्ररोहेयुः पलाशानीति॥
एतमु हैव वाजसनेयो याज्ञवल्क्यो॥
मधुकाय पैङ्ग्यायान्तेवासिन उक्त्वोवाचापि य एनं शुष्के स्थाणौ निषिञ्चेज्जायेरञ्छाखाः प्ररोहेयुः पलाशानीति॥
एतमु हैव मधुकः पैङ्ग्यः॥
चूडाय भागवित्तयेऽन्तेवासिन उक्त्वोवाचापि य एनं शुष्के स्थाणौ निषिञ्चेज्जायेरञ्छाखाः प्ररोहेयुः पलाशानीति॥
एतमु हैव चूडो भागवित्तिः॥
जानकय आयस्थूणायान्तेवासिन उक्त्वोवाचापि य एनं शुष्के स्थाणौ निषिञ्चेज्जायेरञ्छाखाः प्ररोहेयुः पलाशानीति॥
एतमु हैव जानकिरायस्थूणः॥
सत्यकामाय जाबालायान्तेवासिन उक्त्वोवाचापि य एनं शुष्के स्थाणौ निषिञ्चेज्जायेरञ्छाखाः प्ररोहेयुः पलाशानीति॥
एतमु हैव सत्यकामो जाबालो॥
अन्तेवासिभ्य उक्त्वोवाचापि य एनं शुष्के स्थाणौ निषिञ्चेज्जायेरञ्छाखाः प्ररोहेयुः पलाशानीति तमेतं नापुत्राय वानन्तेवासिने वा ब्रूयात्॥
चतुरौदुम्बरो भवति॥
औदुम्बरश्चमस औदुम्बर स्रुव औदुम्बर इध्म औदुम्बर्या उपमन्थन्यौ॥
दश ग्राम्याणि धान्यानि भवन्ति॥
व्रीहियवास्तिलमाषा अणुप्रियङ्गवो गोधूमाश्च मसूराश्च खल्वाश्च खलकुलाश्च तान्त्सार्धम् पिष्ट्वा दध्ना मधुना घृतेनोपसिञ्चत्याज्यस्य जुहोति॥
एषां वै भूतानाम् पृथिवी रसः॥
पृथिव्या आपोऽपामोषधय ओषधीनाम् पुष्पाणि पुष्पाणाम् फलानि फलानाम् पुरुषः पुरुषस्य रेतः॥
स ह प्रजापतिरीक्षां चक्रे॥
हन्तास्मै प्रतिष्ठां कल्पयानीति स स्त्रियं ससृजे तां सृष्ट्वाध उपास्त तस्मात्स्त्रियमध उपासीत श्रीर्ह्येषा स एतम् प्राञ्चं ग्रावाणमात्मन एव समुदपारयत्तेनैनामभ्यसृजत्॥
तस्या वेदिरुपस्थो॥
लोमानि बर्हिश्चर्माधिषवणे समिद्धो मध्यतस्तौ मुष्कौ स यावान्ह वै वाजपेयेन यजमानस्य लोको भवति तावानस्य लोको भवति य एवं विद्वानधोपहासं चरत्या स स्त्रीणां सुकृतं वृङ्क्तेऽथ य इदमविद्वानधोपहासं चरत्यास्य स्त्रियः सुकृतं वृञ्जते॥
एतद्ध स्म वै तद्विद्वानुद्दालक आरुणिराह॥
एतद्ध स्म वै तद्विद्वान्नाको मौद्गल्य आहैतद्ध स्म वै तद्विद्वान्कुमारहारित आह बहवो॥
मर्या ब्राह्मणायना निरिन्द्रिया विसुकृतोऽस्माल्लोकात्प्रयन्ति य इदमविद्वांसोऽधोपहासं चरन्तीति॥
बहु वा इदं सुप्तस्य वा जाग्रतो वा रेत स्कन्दति॥
तदभिमृशेदनु वा मन्त्रयेत यन्मेऽद्य रेतः पृथिवीमस्कान्त्सीद्यदोषधीरप्यसरद्यदपः॥
इदमहं तद्रेत आददे पुनर्मामैत्विन्द्रियम् पुनस्तेज पुनर्भगः॥
पुनरग्नयो धिष्ण्या यथास्थानं कल्पन्तामित्यनामिकाङ्गुष्ठाभ्यामादायान्तरेण स्तनौ वा भ्रुवौ वा निमृञ्ज्यात्॥
अथ यद्युदक आत्मानम् पश्येत्॥
तदभिमन्त्रयेत मयि तेज इन्द्रियं यशो द्रविणं सुकृतमिति॥
श्रीर्ह वा एषा स्त्रीणाम्॥
यन्मलोद्वासास्तस्मान्मलोद्वाससं यशस्विनीमभिक्रम्योपमन्त्रयेत सा चेदस्मै न दद्यात्काममेनामपक्रीणीयात्सा चेदस्मै नैव दद्यात्काममेनां यष्ट्या वा पाणिना वोपहत्यातिक्रामेदिन्द्रियेण ते यशसा यश आदद इत्ययशा एव भवति॥
स यामिच्छेत्॥
कामयेत मेति तस्यामर्थं निष्ठाप्य मुखेन मुखं सन्धायोपस्थमस्या अभिमृश्य जपेदङ्गात्सम्भवसि हृदयादधि जायसे॥
स त्वमङ्गकषायोऽसि दिग्धविद्धामिव मादयेति॥
अथ यामिच्छेत्॥
न गर्भं दधीतेति तस्यामर्थं निष्ठाप्य मुखेन मुखं सन्धायाभिप्राण्यापान्यादिन्द्रियेण ते रेतसा रेत आदद इत्यरेता एव भवति॥
अथ यामिच्छेत्॥
गर्भं दधीतेति तस्यामर्थं निष्ठाप्य मुखेन मुखं सन्धायापान्याभिप्राण्यादिन्द्रियेण ते रेतसा रेत आदधामीति गर्भिण्येव भवति॥
अथ यस्य जायायै जारः स्यात्॥
तं चेद्द्विष्यादामपात्रेऽग्निमुपसमाधाय प्रतिलोमं शरबर्हि स्तीर्त्वा तस्मिन्नेतास्तिस्रः शरभृष्ठीः प्रतिलोमाः सर्पिषात्त्का जुहुयान्मम समिद्धेऽहौषीराशापराकाशौ त आददेऽसाविति नाम गृह्णाति मम समिद्धेऽहौषीः पुत्रपशूंस्त आददेऽसाविति नाम गृह्णाति मम समिद्धेऽहौषीः प्राणापानौ त आददेऽसाविति नाम गृह्णाति स वा एष निरिन्द्रियो विसुकृदस्माल्लोकात्प्रैति यमेवंविद्ब्राह्मणः शपति तस्मादेवंविच्छ्रोत्रियस्य जायाया उपहासं नेछेदुत ह्येवंवित्परो भवति॥
अथ यस्य जायामार्तवं विन्देत्॥
त्र्यहं कंसे न पिबेदहतवासा नैनां वृषलो न वृषल्युपहन्यात्त्रिरात्रान्त आप्लूय व्रीहीनवघातयेत्॥
स य इछेत्॥
पुत्रो मे गौरो जायेत वेदमनुब्रुवीत सर्वमायुरियादिति क्षीरौदनम् पाचयित्वा सर्पिष्मन्तमश्नीयातामीश्वरौ जनयितवै॥
अथ य इछेत्॥
पुत्रो मे कपिलः पिङ्गलो जायेत द्वौ वेदावनुब्रुवीत सर्वमायुरियादिति दध्योदनम् पाचयित्वा सर्पिष्मन्तमश्नीयातामीश्वरौ जनयितवै॥
अथ य इछेत्॥
पुत्रो मे श्यामो लोहिताक्षो जायेत त्रीन्वेदाननुब्रुवीत सर्वमायुरियादित्युदौदनम् पाचयित्वा सर्पिष्मन्तमश्नीयातामीश्वरौ जनयितवै॥
अथ य इछेत्॥
दुहिता मे पण्डिता जायेत सर्वमायुरियादिति तिलौदनम् पाचयित्वा सर्पिष्मन्तमश्नीयातामीश्वरौ जनयितवै॥
अथ य इछेत्॥
पुत्रो मे पण्डितो विजिगीथः समितिङ्गमः शूश्रूषितां वाचम् भाषिता जायेत सर्वान्वेदाननुब्रुवीत सर्वमायुरियादिति मांसौदनम् पाचयित्वा सर्पिष्मन्तमश्नीयातामीश्वरौ जनयितवा औक्ष्णेन वार्षभेण वा॥
अथाभिप्रातरेव॥
स्थालीपाकावृताज्यं चेष्टित्वा स्थालीपाकस्योपघातं जुहोत्यग्नये स्वाहानुमतये स्वाहा देवाय सवित्रे सत्यप्रसवाय स्वाहेति हुत्वोद्धृत्य प्राश्नाति प्राश्येतरस्याः प्रयछति प्रक्षाल्य पाणी उदपात्रम् पूरयित्वा तेनैनां त्रिरभ्युक्षत्युतिष्ठातो विश्वावसोऽन्यामिच्छ प्रफर्व्यम्॥
सं जायाम् प्रत्या सहेति॥
अथैनामभिपद्यते॥
अमोऽहमस्मि सा त्वं सा त्वमस्यमो अहं सामाहमस्मि ऋक्त्वं द्यौरहम् पृथिवी त्वम्॥
तावेहि संरभावहै सह रेतो दधावहै॥
पुंसे पुत्राय वित्तय इति॥
अथास्या ऊरू विहापयति॥
विजिहीथां द्यावापृथिवी इति तस्यामर्थं निष्ठाप्य मुखेन मुखं सन्धाय त्रिरेनामनुलोमामनुमार्ष्टि विष्णुर्योनिं कल्पयतु त्वष्टा रूपाणि पिंशतु॥
आसिञ्चतु प्रजापतिर्धाता गर्भं दधातु ते॥
गर्भं धेहि सिनीवालि गर्भं धेहि पृथुष्टुके॥
गर्भं ते अश्विनौ देवावाधत्ताम् पुष्करस्रजौ॥
हिरण्ययी अरणी॥
याभ्यां निर्मन्थतामश्विनौ देवौ॥
तं ते गर्भं दधामहे दशमे मासि सूतवे॥
यथाग्निगर्भा पृथिवी यथा द्यौरिन्द्रेण गर्भिणी वायुर्दिशां यथा गर्भ एवं गर्भं दधामि तेऽसाविति नाम गृह्णाति॥
सोष्यन्तीमद्भिरभ्युक्षति॥
यथा वातः पुष्करिणीं समीङ्गयति सर्वतः॥
एवा ते गर्भ एजतु सहावैतु जरायुणा॥
इन्द्रस्यायं व्रजः कृतः सार्गडः सपरिश्रयः॥
तमिन्द्र निर्जहि गर्भेण सावरं सहेति॥
जातेऽग्निमुपसमाधाय॥
अङ्क आधाय कंसे पृषदाज्यमानीय पृषदाज्यस्योपघातं जुहोत्यस्मिन्त्सहस्रम् पुष्यासमेधमानः स्वगृहे अस्योपसद्याम् मा छैत्सीत्प्रजया च पशुभिश्च स्वाहा मयि प्राणांस्त्वयि मनसा जुहोमि स्वाहा॥
यत्कर्मणात्यरीरिचम्॥
यद्वा न्यूनमिहाकरम् अग्निष्टत्स्विष्टकृद्विद्वान्त्स्विष्टं सुहुतं करोतु स्वाहेति॥
अथास्यायुष्यं करोति॥
दक्षिणं कर्णमभिनिधाय वाग्वागिति त्रिरथास्य नामधेयं करोति वेदोऽसीति तदस्यैतद्गुह्यमेव नाम स्यादथ दधि मधु घृतं संसृज्यानन्तर्हितेन जातरूपेण प्राशयति भूस्त्वयि दधामि भुवस्त्वयि दधामि भूर्भुवः स्वः सर्वं त्वयि दधामीति॥
अथैनमभिमृशति॥
अश्मा भव परशुर्भव हिरण्यमस्रुतम् भव आत्मा वै पुत्रनामासि स जीव शरदः शतमिति॥
अथास्य मातरमभिमन्त्रयते॥
इडासि मैत्रावरुणी वीरे वीरमजीजनथाः॥
सा त्वं वीरवती भव यास्मान्वीरवतोऽकरदिति॥
अथैनम् मात्रे प्रदाय स्तनम् प्रयछति॥
यस्ते स्तनः शशयो यो मयोभूर्यो रत्नधा वसुविद्यः सुदत्रः॥
येन विश्वा पुष्यसि वार्याणि सरस्वति तमिह धातवे करिति॥
तं वा एतमाहुः॥
अतिपिता बताभूरतिपितामहो बताभूः परमाम् बत काष्ठाम् प्राप श्रिया यशसा ब्रह्मवर्चसेन य एवंविदो ब्राह्मणस्य पुत्रो जायत इति॥
अथ वंशः॥
तदिदं वयम् भारद्वाजीपुत्राद्भारद्वाजीपुत्रो वात्सीमाण्डवीपुत्राद्वात्सीमाण्डवीपुत्रः पाराशरीपुत्रात्पाराशरीपुत्रो गार्गीपुत्राद्गार्गीपुत्रः पाराशरीकौण्डिनीपुत्रात्पाराशरीकौण्डिनीपुत्रो गार्गीपुत्राद्गार्गीपुत्रो गार्गीपुत्राद्गार्गीपुत्रो बाडेयीपुत्राद्बाडेयीपुत्रो मौषिकीपुत्रान्मौषिकीपुत्रो हारिकर्णीपुत्राद्धारिकर्णीपुत्रो भारद्वाजीपुत्राद्भारद्वाजीपुत्रः पैङ्गीपुत्रात्पैङ्गीपुत्रः शौनकीपुत्राछौनकीपुत्रः॥
काश्यपीबालाक्यामाठरीपुत्रात्काश्यपीबालाक्यामाठरीपुत्रः कौत्सीपुत्रात्कौत्सीपुत्रो बौधीपुत्राद्बौधीपुत्रो शालङ्कायनीपुत्राछालन्कायनीपुत्रो वार्षगणीपुत्राद्वार्षगणीपुत्रो गौतमीपुत्राद्गौतमीपुत्र आत्रेयीपुत्रादात्रेयीपुत्रो गौतमीपुत्राद्गौतमीपुत्रो वात्सीपुत्राद्वात्सीपुत्रो भारद्वाजीपुत्राद्भारद्वाजीपुत्रः पाराशरीपुत्रात्पाराशरीपुत्रो वार्कारुणीपुत्राद्वार्कारुणीपुत्र आर्तभागीपुत्रादार्तभागीपुत्रः शौङ्गीपुत्राछौङ्गीपुत्रः साङ्कृतीपुत्रात्साङ्कृतीपुत्रः॥
आलम्बीपुत्रात्॥
आलम्बीपुत्र आलम्बायनीपुत्रादालम्बायनीपुत्रो जायन्तीपुत्राज्जायन्तीपुत्रो माण्डूकायनीपुत्रान्माण्डूकायनीपुत्रो माण्डूकीपुत्रान्माण्डूकीपुत्रः शाण्डिलीपुत्राछाण्डिलीपुत्रो राथीतरीपुत्राद्राथीतरीपुत्रः क्रौञ्चिकीपुत्राभ्यां क्रौञ्चिकीपुत्रौ वैदभृतीपुत्राद्वैदभृतीपुत्रो भालुकीपुत्राद्भालुकीपुत्रः प्राचीनयोगीपुत्रात्प्राचीनयोगीपुत्रः साञ्जीवीपुत्रात्साञ्जीवीपुत्रः कार्शकेयीपुत्रात्कार्शकेयीपुत्रः॥
प्राश्नीपुत्रात्॥
आसुरिवासिनः प्राश्नीपुत्र आसुरायणादासुरायण आसुरेरासुरिर्याज्ञवल्क्याद्याज्ञवल्क्य उद्दालकादुद्दालकोऽरुणादरुण उपवेशेरुपवेशिः कुश्रेः कुश्रिर्वाजश्रवसो वाजश्रवा जिह्वावतो बाध्योगाज्जिह्वाया बाध्योगोऽसिताद्वार्षगणादसितो वार्षगणो हरितात्कश्यपाद्धरितः कश्यपः शिल्पात्कश्यपाछिल्पः कश्यपः कश्यपान्नैध्रुवेः कश्यपो नैध्रुविर्वाचो वागम्भिण्या अम्भिण्यादित्यादादित्यानीमानि शुक्लानि यजूंषि वाजसनेयेन याज्ञवल्क्येनाख्यायन्ते॥