०८

पूर्णमदः पूर्णमिदम् पूर्णात्पूर्णमुदच्यते॥
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यत ओम् खम् ब्रह्म खम् पुराणं वायुरं खमिति ह स्माह कौरव्यायणीपुत्रो वेदोऽयम् ब्राह्मणा विदुर्वेदैनेन यद्वेदितव्यम्॥
त्रयाः प्राजापत्याः॥
प्रजापतौ पितरि ब्रह्मचर्यमूषुर्देवा मनुष्या असुराः॥
उषित्वा ब्रह्मचर्यं देवा ऊचुः॥
ब्रवीतु नो भवानिति तेभ्यो हैतदक्षरमुवाच द इति व्यज्ञासिष्टा३ इति व्यज्ञासिष्मेति होचुर्दाम्यतेति न आत्थेत्योमिति होवाच व्यज्ञासिष्टेति॥
अथ हैनम् मनुष्या ऊचुः॥
ब्रवीतु नो भवानिति तेभ्यो हैतदेवाक्षरमुवाच द इति व्यज्ञासिष्टा३ इति व्यज्ञासिष्मेति होचुर्दत्तेति न आत्थेत्योमिति होवाच व्यज्ञासिष्टेति॥
अथ हैनमसुरा ऊचुः॥
ब्रवीतु नो भवानिति तेभ्यो हैतदेवाक्षरमुवाच द इति व्यज्ञासिष्टा३ इति व्यज्ञासिष्मेति होचुर्दयध्वमिति न आत्थेत्योमिति होवाच व्यज्ञासिष्टेति तदेतदेवैषा दैवी वागनुवदति स्तनयित्नुर्ददद इति दाम्यत दत्त दयध्वमिति तदेतत्त्रयं शिक्षेद्दमं दानं दयामिति॥
वायुरनिलममृतम् भस्मान्तं शरीरम्॥
ओ३ं क्रतो स्मर क्लिबे स्मराग्ने नय सुपथा राये अस्मान्विश्वानि देव वयुनानि विद्वान् युयोध्यस्मज्जुहुराणमेनो भूयिष्ठां ते नमौक्तिं विधेमेति॥
एष प्रजापतिर्यद्धृदयम्॥
एतद्ब्रह्मैतत्सर्वं तदेतत्त्र्यक्षरं हृदयमिति हृ इत्येकमक्षरमभिहरन्त्यस्मै स्वाश्चान्ये च य एवं वेद द इत्येकमक्षरं ददन्त्यस्मै स्वाश्चान्ये च य एवं वेद यमित्येकमक्षरमेति स्वर्गं लोकं य एवं वेद॥
तद्वै तदेतदेव तदास॥
सत्यमेव स यो हैवमेतन्महद्यक्षम् प्रथमजं वेद सत्यम् ब्रह्मेति जयतीमांलोकान्जित इन्न्वसावसद्य एवमेतन्महद्यक्षम् प्रथमजं वेद सत्यम् ब्रह्मेति सत्यं ह्येव ब्रह्म॥
आप एवेदमग्र आसुः॥
ता आपः सत्यमसृजन्त सत्यम् ब्रह्म प्रजापतिम् प्रजापतिर्देवान्॥
ते देवाः सत्यमित्युपासते॥
तदेतत्त्र्यक्षरं सत्यमिति स इत्येकमक्षरं तीत्येकमक्षरममित्येकमक्षरम् प्रथमोत्तमे अक्षरे सत्यम् मध्यतोऽनृतं तदेतदनृतं सत्येन परिगृहीतं सत्यभूयमेव भवति नैवंविद्वांसमनृतं हिनस्ति॥
तद्यत्तत्सत्यम्॥
असौ स आदित्यो य एष एतस्मिन्मण्डले पुरुषो यश्चायं दक्षिणेऽक्षन्पुरुषस्तावेतावन्योऽन्यस्मिन्प्रतिष्ठितौ रश्मिभिर्वा एषोऽस्मिन्प्रतिष्ठितः प्राणैरयममुष्मिन्स यदोत्क्रमिष्यन्भवति शुद्धमेवैतन्मण्डलम् पश्यति नैनमेते रश्मयः प्रत्यायन्ति॥
य एष एतस्मिन्मण्डले पुरुषः॥
तस्य भूरिति शिर एकं शिर एकमेतदक्षरम् भुव इति बाहू द्वौ बाहू द्वे एते अक्षरे स्वरिति प्रतिष्ठा द्वे प्रतिष्ठे द्वे एते अक्षरे तस्योपनिषदहरिति हन्ति पाप्मानं जहाति च य एवं वेद॥
अथ योऽयं दक्षिणेऽक्षन्पुरुषः॥
तस्य भूरिति शिर एकं शिर एकमेतदक्षरम् भुव इति बाहू द्वौ बाहू द्वे एते अक्षरे स्वरिति प्रतिष्ठा द्वे प्रतिष्ठे द्वे एते अक्षरे तस्योपनिषदहमिति हन्ति पाप्मानं जहाति च य एवं वेद॥
विद्युद्ब्रह्मेत्याहुः॥
विदानाद्विद्युद्विद्यत्येनं सर्वस्मात्पाप्मनो य एवं वेद विद्युद्ब्रह्मेति विद्युद्ध्येव ब्रह्म॥
मनोमयोऽयम् पुरुषो॥
भाःसत्यस्तस्मिन्नन्तर्हृदये यथा व्रीहिर्वा यवो वैवमयमन्तरात्मन्पुरुषः स एष सर्वस्य वशी सर्वस्येशानः सर्वस्याधिपतिः सर्वमिदम् प्रशास्ति यदिदं किं च य एवं वेद॥
वाचं धेनुमुपासीत॥
तस्याश्चत्वार स्तनाः स्वाहाकारो वषट्कारो हन्तकारः स्वधाकारस्तस्यै द्वौ स्तनौ देवा उपजीवन्ति स्वाहाकारं च वषट्कारं च हन्तकारम् मनुष्याः स्वधाकारम् पितरस्तस्याः प्राण ऋषभो मनो वत्सः॥
अयमग्निर्वैश्वानरो॥
योऽयमन्तः पुरुषे येनेदमन्नम् पच्यते यदिदमद्यते तस्यैष घोषो भवति यमेतत्कर्णावपिधाय शृणोति स यदोत्क्रमिष्यन्भवति नैतं घोषं शृणोति॥
एतद्वै परमं तपो॥
यद्व्याहितस्तप्यते परमं हैव लोकं जयति य एवं वेदैतद्वै परमं तपो यम् प्रेतमरण्यं हरन्ति परमं हैव लोकं जयति य एवं वेदैतद्वै परमं तपो यम् प्रेतमग्नावभ्यादधति परमं हैव लोकं जयति य एवं वेद॥
यदा वै पुरुषो॥
अस्माल्लोकात्प्रैति स वायुमागछति तस्मै स तत्र विजिहीते यथा रथचक्रस्य खं तेन स ऊर्ध्व आक्रमते स आदित्यमागछति तस्मै स तत्र विजिहीते यथाडम्बरस्य खं तेन स ऊर्ध्व आक्रमते स चन्द्रमसमागछति तस्मै स तत्र विजिहीते यथा दुन्दुभेः खं तेन स ऊर्ध्व आक्रमते स लोकमागछत्यशोकमहिमं तस्मिन्वसति शश्वतीः समाः॥
अन्नम् ब्रह्मेत्येक आहुः॥
तन्न तथा पूयति वा अन्नमृते प्राणात्प्राणो ब्रह्मेत्येक आहुस्तन्न तथा शुष्यति वै प्राण ऋतेऽन्नादेते ह त्वेव देवते एकधाभूयम् भूत्वा परमतां गछतः॥
तद्ध स्माह प्रातृदः पितरम्॥
किं स्विदेवैवं विदुषे साधु कुर्यात्किमेवास्मा असाधु कुर्यादिति स ह स्माह पाणिना मा प्रातृद कस्त्वेनयोरेकधाभूयम् भूत्वा परमतां गछतीति॥
तस्मा उ हैतदुवाच॥
वीत्यन्नं वै व्यन्ने हीमानि सर्वाणि भूतानि विष्टानि रमिति प्राणो वै रम् प्राणे हीमानि सर्वाणि भूतानि रतानि सर्वाणि ह वा अस्मिन्भूतानि विशन्ते सर्वाणि भूतानि रमन्ते य एवं वेद॥
उक्थम्॥
प्राणो वा उक्थम् प्राणो हीदं सर्वमुत्थापयत्युद्धास्मा उक्थविद्वीरस्तिष्ठत्युक्थस्य सायुज्यं सलोकतां जयति य एवं वेद॥
प्राणो वै यजुः प्राणो हीमानि सर्वाणि भूतानि युज्यन्ते युज्यन्ते हास्मै सर्वाणि भूतानि श्रैष्ठ्याय यजुषः सायुज्यं सलोकतां जयति य एवं वेद॥
साम॥
प्राणो वै साम प्राणो हीमानि सर्वाणि भूतानि सम्यञ्चि हास्मिन्त्सर्वाणि भूतानि श्रैष्ठ्याय कल्पन्ते साम्नः सायुज्यं सलोकतां जयति य एवं वेद॥
क्षत्रम्॥
प्राणो वै क्षत्रम् प्राणो हि वै क्षत्रं त्रायते हैनम् प्राणः क्षणितोः प्र क्षत्रमात्रमाप्नोति क्षत्रस्य सायुज्यं सलोकतां जयति य एवं वेद॥
भूमिरन्तरिक्षं द्यौरिति॥
अष्टावक्षराण्यष्टा\क्षरं ह वा एकं गायत्र्यै पदमेतदु हास्या एतत्स यावदेषु लोकेषु तावद्ध जयति योऽस्या एतदेवम् पदं वेद॥
ऋचो यजूंषि सामानीति॥
अष्टावक्षराण्यष्टाक्षरं ह वा एकं गायत्र्यै पदमेतदु हैवास्या एतत्स यावतीयं त्रयी विद्या तावद्ध जयति योऽस्या एतदेवम् पदं वेद॥
प्राणोऽपानो व्यान इति॥
अष्टावक्षराण्यष्टाक्षरं ह वा एकं गायत्रै पदमेतदु हैवास्या एतत्स यावदिदम् प्राणि तावद्ध जयति योऽस्या एतदेवम् पदं वेद॥
अथास्या एतदेव॥
तुरीयं दर्शतम् पदम् परोरजा य एष तपति यद्वै चतुर्थं तत्तुरीयं दर्शतम् पदमिति ददृश इव ह्येष परोरजा इति सर्वमु ह्येष रज उपर्युपरि तपत्येवं हैव श्रिया यशसा तपति योऽस्या एतदेवम् पदं वेद॥
सैषा गायत्र्येतस्मिंस्तुरीये॥
दर्शते पदे परोरजसि प्रतिष्ठिता तद्वै तत्सत्ये प्रतिष्ठिता चक्षुर्वै सत्यं चक्षुर्हि वै सत्यं तस्माद्यदिदानीं द्वौ विवदमानावेयातामहमद्राक्षमहमश्रौषमिति य एव ब्रूयादहमद्राक्षमिति तस्मा एव श्रद्दध्यात्॥
तद्वै तत्सत्यम् बले प्रतिष्ठितम्॥
प्राणो वै बलं तत्प्राणे प्रतिष्ठितं तस्मादाहुर्बलं सत्यादोजीय इत्येवम्वेषा गायत्र्यध्यात्मम् प्रतिष्ठिता॥
सा हैषा गयांस्तत्रे॥
प्राणा वै गयास्तत्प्राणांस्तत्रेतद्यद्गयांस्तत्रे तस्माद्गायत्री नाम स यामेवामूमन्वाहैषैव सा स यस्मा अन्वाह तस्य प्राणांस्त्रायते॥
तां हैके॥
सावित्रीमनुष्टुभमन्वाहुर्वागनुष्टुबेतद्वाचमनुब्रूम इति न तथा कुर्याद्गायत्रीमेवानुब्रूयाद्यदि ह वा अपि बह्विव प्रतिगृह्णाति न हैव तद्गायत्र्या एकं चन पदम् प्रति॥
स य इमांस्त्रींलोकान्॥
पूर्णान्प्रतिगृह्णीयात्सोऽस्या एतत्प्रथमम् पदमाप्नुयादथ यावतीयं त्रयी विद्या यस्तावत्प्रतिगृह्णीयात्सोऽस्या एतद्द्वितीयम् पदमाप्नुयादथ यावदिदम् प्राणि यस्तावत्प्रतिगृह्णीयात्सोऽस्या एतत्तृतीयम् पदमाप्नुयादथास्या एतदेव तुरीयं दर्शतम् पदम् परोरजा य एष तपति नैव केन चनाप्यं कुत उ एतावत्प्रतिगृह्णीयात्॥
तस्या उपस्थानम्॥
गायत्र्यस्येकपदी द्विपदी त्रिपदी चतुष्पद्यपदसि न हि पद्यसे नमस्ते तुरीयाय दर्शताय पदाय परोरजसेऽसावदो मा प्रापदिति यं द्विष्यादसावस्मै कामो मा समर्धीति वा न हैवास्मै स कामः समृध्यते यस्मा एवमुपतिष्ठतेऽहमदः प्रापमिति वा॥
एतद्ध वै तज्जनको वैदेहो॥
बुडिलमाश्वतराश्विमुवाच यन्नु हो तद्गायत्रीविदब्रूथा अथ कथं हस्ती भूतो वहसीति मुखं ह्यस्याः सम्राण्न विदां चकरेति होवाच॥
तस्या अग्निरेव मुखम्॥
यदि ह वा अपि बह्विवाग्नावभ्यादधति सर्वमेव तत्सन्दहत्येवं हैवैवंविद्यद्यपि बह्विव पापं करोति सर्वमेव तत्सम्प्साय शुद्धः पूतोऽजरोऽमृतः सम्भवति॥