०७

जनकं ह वैदेहं याज्ञवल्क्यो जगाम॥
समेनेन वदिष्य इत्यथ ह यज्जनकश्च वैदेहो याज्ञवल्क्यश्चाग्निहोत्रे समूदतुस्तस्मै ह याज्ञवल्क्यो वरं ददौ स ह कामप्रश्नमेव वव्रे तं हास्मै ददौ तं ह सम्राडेव पूर्वः पप्रछ॥
याज्ञवल्क्य किञ्ज्योतिरयम् पुरुष इति॥
आदित्यज्योतिः सम्राडिति होवाचादित्येनैवायं ज्योतिषास्ते पल्ययते कर्म कुरुते उइपर्येतीत्येवमेवैतद्याज्ञवल्क्य॥
अस्तमित आदित्ये याज्ञवल्क्य॥
किञ्ज्योतिरेवायम् पुरुष इति चन्द्रज्योतिः सम्राडिति होवाच चन्द्रेणैवायं ज्योतिषास्ते पल्ययते कर्म कुरुते विपर्येतीत्येवमेवैतद्याज्ञवल्क्य॥
अस्तमित आदित्ये याज्ञवल्क्य॥
चन्द्रमस्यस्तमिते किञ्ज्योतिरेवायम् पुरुष इत्यग्निज्योतिः सम्राडिति होवाचाग्निनैवायं ज्योतिषास्ते पल्ययते कर्म कुरुते विपर्येतीत्येवमेवैतद्याज्ञवल्क्य॥
अस्तमित आदित्ये याज्ञवल्क्य॥
चन्द्रमस्यस्तमिते शान्तेऽग्नौ किञ्ज्योतिरेवायम् पुरुष इति वाग्ज्योतिः सम्राडिति होवाच वाचैवायं ज्योतिषास्ते पल्ययते कर्म कुरुते विपर्येतीति तस्माद्वै सम्राडपि यत्र स्वः पाणिर्न विनिर्ज्ञायतेऽथ यत्र वागुच्चरत्युपैव तत्र ण्येतीत्येवमेवैतद्याज्ञवल्क्य॥
अस्तमित आदित्ये याज्ञवल्क्य॥
चन्द्रमस्यस्तमिते शान्तेऽग्नौ शान्तायां वाचि किञ्ज्योतिरेवायम् पुरुष इत्यात्मज्योतिः सम्राडिति होवाचात्मनैवायं ज्योतिषास्ते पल्ययते कर्म कुरुते विपर्येतीति॥
कतम आत्मेति॥
योऽयं विज्ञानमयः पुरुषः प्राणेषु हृद्यन्तर्ज्योतिः स समानः सन्नुभौ लोकौ सञ्चरति ध्यायतीव लेलायतीव सधीः स्वप्नो भूत्वेमं लोकमतिक्रामति॥
स वा अयम् पुरुषो जायमानः॥
शरीरमभिसम्पद्यमानः पाप्मभिः संसृज्यते स उत्क्रामन्म्रियमाणः पाप्मनो॥
विजहाति मृत्यो रूपाणि॥
तस्य वा एतस्य पुरुषस्य॥
द्वे एव स्थाने भवत इदं च परलोकस्थानं च सन्ध्यं तृतीयं स्वप्नस्थानं तस्मिन्त्सन्ध्ये स्थाने तिष्ठन्नुभे स्थाने पश्यतीदं च परलोकस्थानं च॥
अथ यथाक्रमोऽयम् परलोकस्थाने भवति॥
तमाक्रममाक्रम्योभयान्पाप्मन आनन्दांश्च पश्यति स यत्रायम् प्रस्वपित्यस्य लोकस्य सर्वावतो मात्रामपादाय स्वयं विहत्य स्वयं निर्माय स्वेन भासा स्वेन ज्योतिषा प्रस्वपित्यत्रायम् पुरुषः स्वयञ्ज्योतिर्भवति॥
न तत्र रथा न रथयोगा न पन्थानो भवन्ति॥
अथ रथान्रथयोगान्पथः सृजते न तत्रानन्दा मुदः प्रमुदो भवन्त्यथानन्दान्मुदः प्रमुदः सृजते न तत्र वेशान्ताः स्रवन्त्यः पुष्करिण्यो भवन्त्यथ वेशान्ताः स्रवन्तीः पुष्करिणीः सृजते स हि कर्ता॥
तदप्येते श्लोकाः॥
स्वप्नेन शारीरमभिप्रहत्यासुप्तः सुप्तानभिचाकशीति॥
शुक्रमादाय पुनरैति स्थानं हिरण्मयः पौरुष एकहंसः॥
प्राणेन रक्षन्नपरं कुलायम् बहिष्कुलायादमृतश्चरित्वा॥
स ईयते अमृतो यत्रकामं हिरण्मयः पौरुष एकहंसः॥
स्वप्नान्त उच्चावचमीयमानो रूपाणि देवः कुरुते बहूनिउतेव स्त्रीभिः सह मोदमानो जक्षदुतेवापि भयानि पश्यन्॥
आराममस्य पश्यन्ति॥
न तं कश्चन पश्यतीति तं नायतम् बोधयेदित्याहुर्दुर्भिषज्यं हास्मै भवति यमेष न प्रतिपद्यते॥
अथो खल्वाहुः॥
जागरितदेश एवास्यैष यानि ह्येव जाग्रत्पश्यति तानि सुप्त इत्यत्रायम् पुरुषः स्वयञ्ज्योतिर्भवतीत्येवमेवैतद्याज्ञवल्क्य सोऽहम् भगवते सहस्रं ददाम्यत ऊर्ध्वं विमोक्षायैव ब्रूहीति॥
स वा एष एतस्मिन्त्स्वप्नान्ते॥
रत्वा चरित्वा दृष्ट्वैव पुण्यं च पापं च पुनः प्रतिन्यायम् प्रतियोन्याद्रवति बुद्धान्तायैव स यदत्र किञ्चित्पश्यत्यनन्वागतस्तेन भवत्यसङ्गो ह्ययम् पुरुष इत्येवमेवैतद्याज्ञवल्क्य सोऽहम् भगवते सहस्रं ददाम्यत ऊर्ध्वं विमोक्षायैव ब्रूहीति॥
तद्यथा महामत्स्यः॥
उभे कूले अनुसञ्चरति पूर्वं चापरं चैवमेवायम् पुरुष एता उभावन्तावनुसञ्चरति स्वप्नान्तं च बुद्धान्तं च॥
तद्यथास्मिन्नाकाशे॥
श्येनो वा सुपर्णो वा विपरिपत्य श्रान्तः संहत्य पक्षौ सल्लयायैव ध्रियत एवमेवायम् पुरुष एतस्मा अन्ताय धावति यत्र सुप्तो न कं चन कामं कामयते न कं चन स्वप्नम् पश्यति॥
ता वा अस्यैता॥
हिता नाम नाड्यो यथा केशः सहस्रधा भिन्नस्तावताणिम्ना तिष्ठन्ति शुक्लस्य नीलस्य पिङ्गलस्य हरितस्य लोहितस्य पूर्णा अथ यत्रैनं घ्नन्तीव जिनन्तीव हस्तीव विच्छाययति गर्तमिव पतति यदेव जाग्रद्भयम् पश्यति तदत्राविद्यया भयम् मन्यतेऽथ यत्र राजेव देव-इवाहमेवेदं सर्वमस्मीति मन्यते सोऽस्य परमो लोकोऽथ यत्र सुप्तो न कं चन कामं कामयते न कं चन स्वप्नम् पश्यति॥
तद्वा अस्यैतत्॥
आत्मकाममाप्तकाममकामं रूपं तद्यथा प्रियया स्त्रिया सम्परिष्वक्तो न बाह्यं किं चन वेद नान्तरमेवमेवायं शारीर आत्मा प्राज्ञेनात्मना सम्परिष्वक्तो न बाह्यं किं चन वेद नान्तरम्॥
तद्वा अस्यैतत्॥
अतिच्छन्दोऽपहतपाप्माभयं रूपमशोकान्तरमत्र पितापिता भवति मातामाता लोका अलोका देवा अदेवा वेदा अवेदा यज्ञा अयज्ञा अत्र स्तेनोऽस्तेनो भवति भ्रूणहाभ्रूणहा पौल्कसोऽपौल्कसश्चाण्डालो चाण्डालः श्रमणोऽश्रमणस्तापसो तापसोऽनन्वागतः पुण्येनान्वागतः पापेन तीर्णो हि तदा सर्वाञ्छोकान्हृदयस्य भवति॥
यद्वै तन्न पश्यति॥
पश्यन्वै तद्द्रष्टव्यं न पश्यति न हि द्रष्टुर्दृष्टेर्विपरिलोपो विद्यतेऽविनाशित्वान्न तु तद्द्वितीयमस्ति ततोऽन्यद्विभक्तं यत्पश्येत्॥
यद्वै तन्न जिघ्रति॥
जिघ्रन्वै तद्घ्रातव्यं न जिघ्रति न हि घ्रातुर्घ्राणाद्विपरिलोपो विद्यतेऽविनाशित्वान्न तु तद्द्वितीयमस्ति ततोऽन्यद्विभक्तं यज्जिघ्रेत्॥
यद्वै तन्न रसयति॥
विजानन्वै तद्रसं न रसयति न हि रसयितू रसाद्विपरिलोपो विद्यतेऽविनाशित्वान्न तु तद्द्वितीयमस्ति ततोऽन्यद्विभक्तं यद्रसयेत्॥
यद्वै तन्न वदति॥
वदन्वै तद्वक्तव्यं न वदति न हि वक्तुर्वचो विपरिलोपो विद्यतेऽविनाशित्वान्न तु तद्द्वितीयमस्ति ततोऽन्यद्विभक्तं यद्वदेत्॥
यद्वै तन्न शृणोति॥
शृण्वन्वै तछ्रोतव्यं न शृणोति न हि श्रोतुः श्रुतेर्विपरिलोपो विद्यतेऽविनाशित्वान्न तु तद्द्वितीयमस्ति ततोऽन्यद्विभक्तं यछृणुयात्॥
यद्वै तन्न मनुते॥
मन्वानो वै तन्मन्तव्यं न मनुते न हि मन्तुर्मतेर्विपरिलोपो विद्यतेऽविनाशित्वान्न तु तद्द्वितीयमस्तिततोऽन्यद्विभक्तं यन्मन्वीत॥
यद्वै तन्न स्पृशति॥
स्पृशन्वै तत्स्प्रष्टव्यं न स्पृशति न हि स्प्रष्टु स्पृष्टेर्विपरिलोपोऽविनाशित्वान्न तु तद्द्वितीयमस्ति ततोऽन्यद्विभक्तं यत्स्पृशेत्॥
यद्वै तन्न विजानाति॥
विजानन्वै तद्विज्ञेयं न विजानाति न हि विज्ञातुर्विज्ञानाद्विपरिलोपो विद्यतेऽविनाशित्वान्न तु तद्द्वितीयमस्ति ततोऽन्यद्विभक्तं यद्विजानीयात्॥
सलिल एको द्रष्टाद्वैतो भवति॥
एष ब्रह्मलोकः सम्राडिति हैनमुवाचैषास्य परमो लोक एषोऽस्य परम आनन्द एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति॥
स यो मनुष्याणां रुद्धः समृद्धो भवति॥
अन्येषामधिपतिः सर्वैर्मानुष्यकैः कामैः सम्पन्नतमः स मनुष्याणाम् परम आनन्दः॥
अथ ये शतम् मनुष्याणामानन्दाः॥
स एकः पितॄणां जितलोकानामानन्दः॥
अथ ये शतम् पितॄणां जितलोकानामानन्दाः॥
स एकः कर्मदेवानामानन्दो ये कर्मणा देवत्वमभिसम्पद्यन्ते॥
अथ ये शतं कर्मदेवानामानन्दाः॥
स एक आजानदेवानामानन्दो यश्च श्रोत्रियोऽवृजिनोऽकामहतः॥
अथ ये शतमाजानदेवानामानन्दाः॥
स एको देवलोक आनन्दो यश्च श्रोत्रियोऽवृजिनोऽकामहतः॥
अथ ये शतं देवलोक आनन्दाः॥
स एको गन्धर्वलोक आनन्दो यश्च श्रोत्रियोऽवृजिनोऽकामहतः॥
अथ ये शतं गन्धर्वलोक आनन्दाः॥
स एकः प्रजापतिलोक आनन्दाः॥
स एको ब्रह्मलोक आनन्दो यश्च श्रोत्रियोऽवृजिनोऽकामहत एष ब्रह्मलोकः सम्राडिति हैनमनुशशासैतदमृतं सोऽहम् भगवते सहस्रं ददाम्यत ऊर्ध्वं विमोक्षायैव ब्रूहीति॥
स वा एष एतस्मिन्त्सम्प्रसादे॥
रत्वा चरित्वा दृष्ट्वैव पुण्यं च पापं च पुनः प्रतिन्यायम् प्रतियोन्याद्रवति बुद्धान्तायैव स यदत्र किञ्चित्पश्यत्यनन्वागतस्तेन भवत्यसङ्गो ह्ययम् पुरुष इत्येवमेवैतद्याज्ञवल्क्य सोऽहम् भगवते सहस्रं ददाम्यत ऊर्ध्वं विमोक्षायैव ब्रूहीति॥
अत्र ह याज्ञवल्क्यो बिभयां चकार॥
मेधावी राजा सर्वेभ्यो मान्तेभ्य उदरौत्सीदिति स यत्राणिमानं न्येति जरया वोपतपता वाणिमानं निगछति यथाम्रं वोदुम्बरं वा पिप्पलं वा बन्धनात्प्रमुच्येतैवमेवायं शारीर आत्मैभ्योऽङ्गेभ्यः सम्प्रमुच्य पुनः प्रतिन्यायम् प्रतियोन्याद्रवति प्राणायैव॥
तद्यथानः सुसमाहितम्॥
उत्सर्जद्यायादेवमेवायं शारीर आत्मा प्राज्ञेनात्मनान्वारूढ उत्सर्जद्याति॥
तद्यथा राजानमायन्तम्॥
उग्राः प्रत्येनसः सूतग्रामण्योऽन्नैः पानैरावसथैः प्रतिकल्पन्तेऽयमायात्ययमागछतीत्येवं हैवंविदं सर्वाणि भूतानि प्रतिकल्पन्त इदम् ब्रह्मायातीदमागछतीति॥
तद्यथा राजानम् प्रयियासन्तम्॥
उग्राः प्रत्येनसः सूतग्रामण्य उपसमायन्त्येवं हैवंविदं सर्वे प्राणा उपसमायन्ति यत्रैतदूर्ध्वोछ्वासी भवति॥
स यत्रायं शारीर आत्माबल्यं नीत्य॥
सम्मोहमिव न्येत्यथैनमेते प्राणा अभिसमायन्ति स एतास्तेजोमात्राः समभ्याददानो हृदयमेवान्ववक्रामति॥
स यत्रैष चाक्षुषः॥
पुरुषः पराङ् पर्यावर्ततेऽथारूपजो भवत्येकीभवति न पश्यतीत्याहुरेकीभवति न रसयतीत्याहुरेकीभवति न वदतीत्याहुरेकीभवति न शृणोतीत्याहुरेकीभवति न मनुत इत्याहुरेकीभवति न स्पृशतीत्याहुरेकीभवति न विजानातीत्याहुः॥
तस्य हैतस्य॥
हृदयस्याग्रम् प्रद्योतते तेन प्रद्योतेनैष आत्मा निष्क्रामति चक्षुष्टो वा मूर्ध्नो वान्येभ्यो वा शरीरदेशेभ्यस्तमुत्क्रामन्तम् प्राणोऽनूत्क्रामति प्राणमनूत्क्रामन्तं सर्वे प्राणा अनूत्क्रामन्ति सञ्ज्ञानमेवान्ववक्रामति स एष ज्ञः सविज्ञानो भवति तं विद्याकर्मणी समन्वारभेते पूर्वप्रज्ञा च॥
तद्यथा तृणजलायुका॥
तृणस्यान्तं गत्वात्मानमुपसंहरत्येवमेवायम् पुरुष इदं शरीरं निहत्याविद्यां गमयित्वात्मानमुपसंहरति॥
तद्यथा पेशस्कारी॥
पेशसो॥
मात्रामपादायान्यन्नवतरं कल्याणतरं रूपं तनुत एवमेवायम् पुरुष इदं शरीरं निहत्याविद्यां गमयित्वान्यन्नवतरं रूपं तनुते पित्र्यं वा गन्धर्वं वा ब्राह्मं वा प्राजापत्यं वा दैवं वा मानुषं वान्येभ्यो वा भूतेभ्यः॥
स वा अयमात्मा॥
ब्रह्म विज्ञानमयो मनोमयो वाङ्मयः प्राणमयश्चक्षुर्मयः श्रोत्रमय आकाशमयो वायुमयस्तेजोमय आपोमयः पृथिवीमयः क्रोधमयोऽक्रोधमयो हर्षमयोऽहर्षमयो धर्ममयोऽधर्ममयः सर्वमयस्तद्यदेदम्मयोऽदोमय इति यथाकारी यथाचारी तथा भवति साधुकारी साधुर्भवति पापकारी पापो भवति पुण्यः पुण्येन कर्मणा भवति पापः पापेनेति॥
अथो खल्वाहुः॥
काममय एवायम् पुरुष इति स यथाकामो भवति तथाक्रतुर्भवति यथाक्रतुर्भवति तत्कर्म कुरुते यत्कर्म कुरुते तदभिसम्पद्यत इति॥
तदेष श्लोको भवति॥
तदेव सत्तत्सह कर्मणैति लिङ्गम् मनो यत्र निषक्तमस्य॥
प्राप्यान्तं कर्मणस्तस्य यत्किं चेह करोत्ययम्॥
तस्माल्लोकात्पुनरैत्यस्मै लोकाय कर्मण इति नु कामयमानोऽथाकामयमानो योऽकामो निष्काम आत्मकाम आप्तकामो भवति न तस्मात्प्राणा उत्क्रामन्त्यत्रैव समवनीयन्ते ब्रह्मैव सन्ब्रह्माप्येति॥
तदेष श्लोको भवति॥
यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि स्थिताः॥
अथ मर्त्योऽमृतो भवत्यत्र ब्रह्म समश्नुत इति॥
तद्यथाहिनिर्ल्वयनी॥
वल्मीके मृता प्रत्यस्ता शयीतैवमेवेदं शरीरं शेतेऽथायमनस्थिकोऽशरीरः प्राज्ञ आत्मा ब्रह्मैव लोक एव सम्राडिति होवाच याज्ञवल्क्यः सोऽहम् भगवते सहस्रं ददामीति होवाच जनको वैदेहः॥
तदप्येते श्लोकाः॥
अणुः पन्था वितरः पुराणो मांस्पृष्टोऽनुवित्तो मयैव॥
तेन धीरा अपियन्ति ब्रह्मविद उत्क्रम्य स्वर्गं लोकमितो विमुक्ताः॥
तस्मिञ्छुक्लमुत नीलमाहुः पिङ्गलं हरितं लोहितं चएष पन्था ब्रह्मणा हानुवित्तस्तेनैति ब्रह्मवित्तैजसः पुण्यकृच्च॥
अन्धं तमः प्रविशन्ति येऽसम्भूतिमुपासते॥
ततो भूय इव ते तमो य उ सम्भूत्यां रताः॥
असुर्या नाम ते लोकाः॥
अन्धेन तमसावृताः॥
तांस्ते प्रेत्यापिगछन्त्यविद्वांसोऽबुधा जनाः॥
तदेव सन्तस्तदु तद्भवामो न चेदवेदी महती विनष्टिःये तद्विदुरमृतास्ते भवन्त्यथेतरे दुःखमेवोपयन्ति॥
आत्मानं चेद्विजानीयादयमस्मीति पुरुषः॥
किमिच्छन्कस्य कामाय शरीरमनु सञ्चरेत्॥
यस्यानुवित्तः प्रतिबुद्ध आत्मास्मिन्त्सन्देहे गहने प्रविष्टः॥
स विश्वकृत्स ह सर्वस्य कर्ता तस्य लोकः स उ लोक एव॥
यदैतमनुपश्यति॥
आत्मानं देवमञ्जसा ईशानम् भूतभव्यस्य न तदा विचिकित्सति॥
यस्मिन्पञ्च पञ्चजनाः आकाशश्च प्रतिष्ठितः॥
तमेव मन्य आत्मानं विद्वान्ब्रह्मामृतोऽमृतम्॥
यस्मादर्वाक्संवत्सरोऽहोभिः परिवर्तते॥
तद्देवा ज्योतिषां ज्योतिरायुर्ह्योपासतेऽमृतम्॥
प्राणस्य प्राणम्॥
उत चक्षुषश्चक्षुरुत श्रोत्रस्य श्रोत्रमन्नस्यान्नम् मनसो ये मनो विदुः॥
ते निचिक्युर्ब्रह्म पुराणमग्र्यम् मनसैवाप्तव्यं नेह नानास्ति किं चन॥
मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति॥
मनसैवानुद्रष्टव्यमेतदप्रमयं ध्रुवम्॥
विरजः पर आकाशात्॥
अज आत्मा महा ध्रुवः॥
तमेव धीरो विज्ञाय प्रज्ञां कुर्वीत ब्राह्मणः॥
नानुध्यायाद्बहूञ्छब्दान्वाचो विग्लापनं हि तदिति॥
स वा अयमात्मा॥
सर्वस्य वशी सर्वस्येशानः सर्वस्याधिपतिः सर्वमिदम् प्रशास्ति यदिदं किं च स न साधुना कर्मणा भूयान्नोऽएवासाधुना कनीयानेष भूताधिपतिरेष लोकेश्वर एष लोकपालः स सेतुर्विधरण एषां लोकानामसम्भेदाय॥
तमेतं वेदानुवचनेन विविदिषन्ति॥
ब्रह्मचर्येण तपसा श्रद्धया यज्ञेनानाशकेन चैतमेव विदित्वा मुनिर्भवत्येतमेव प्रव्राजिनो लोकमीप्सन्तः प्रव्रजन्ति॥
एतद्ध स्म वै तत्पूर्वे ब्राह्मणाः॥
अनूचाना विद्वांसः प्रजां न कामयन्ते किम् प्रजया करिष्यामो येषां नोऽयमात्मायं लोक इति ते ह स्म पुत्रैषणायाश्च वित्तैषणायाश्च लोकैषणायाश्च व्युत्थायाथ भिक्षाचर्यं चरन्ति या ह्येव पुत्रैषणा सा वित्तैषणा या वित्तैषणा सा लोकैषणोभे ह्येते एषणे एव भवतः॥
स एष नेति नेत्यात्मा॥
अगृह्यो न हि गृह्यतेऽशीर्यो न हि शीर्यतेऽसङ्गोऽसितो न सज्यते न व्यथत इत्यतः पापमकरवमित्यतः कल्याणमकरवमित्युभे उभे ह्येष एते तरत्यमृतः साध्वसाधुनी नैनं कृताकृते तपतो नास्य केन चन कर्मणा लोको मीयते॥
तदेतदृचाभ्युक्तम्॥
एष नित्यो महिमा ब्राह्मणस्य न कर्मणा वर्धते नो कनीयान्॥
तस्यैव स्यात्पदवित्तं विद्वित्वा न कर्मणा लिप्यते पापकेनेति तस्मादेवंविच्छ्रान्तो दान्त उपरतस्तितिक्षुः श्रद्धावित्तो भूत्वात्मन्येवात्मानम् पश्येत्सर्वमेनम् पश्यति सर्वोऽस्यात्मा भवति सर्वस्यात्मा भवति सर्वम् पाप्मानं तरति नैनम् पाप्मा तरति सर्वम् पाप्मानं तपति नैनम् पाप्मा तपति विपापो विजरो विजिघत्सोऽपिपासो ब्राह्मणो भवति य एवं वेद॥
स वा एष महानज आत्मा॥
अन्नादो वसुदानः स यो हैवमेतम् महान्तमजमात्मानमन्नादं वसुदानं वेद विन्दतेवसु॥
स वा एष महानज आत्मा॥
अजरोऽमरोऽभयोऽमृतो ब्रह्माभयं वै जनक प्राप्तोऽसीति होवाच याज्ञवल्क्यः सोऽहम् भगवते विदेहान्ददामि मां चापि सह दास्यायेति॥
स वा एष महानज आत्मा॥
अजरोऽमरोऽभयोऽमृतो ब्रह्माभयं वै ब्रह्माभयं हि वै ब्रह्म भवति य एवं वेद॥
अथ ह याज्ञवल्क्यस्य द्वे भार्ये बभूवतुः॥
मैत्रेयी च कात्यायनी च तयोर्ह मैत्रेयी ब्रह्मवादिनी बभूव स्त्रीप्रज्ञेव कात्यायनी सोऽन्यद्वृत्तमुपाकरिष्यमाणः॥
याज्ञवल्क्यो मैत्रेयीति होवाच॥
प्रव्रजिष्यन्वा अरेऽहमस्मात्स्थानादस्मि हन्त तेऽनया कात्यायन्यान्तं करवाणीति॥
सा होवाच मैत्रेयी॥
यन्नु म इयम् भगोः सर्वा पृथिवी वित्तेन पूर्णा स्यात्स्यां न्वहं तेनामृताहो३ नेति नेति होवाच याज्ञवल्क्यो यथैवोपकरणवतां जीवितं तथैव ते जीवितं स्यादमृतत्वस्य तु नाशास्ति वित्तेनेति॥
सा होवाच मैत्रेयी॥
येनाहं नामृता स्यां किमहं तेन कुर्यां यदेव भगवान्वेद तदेव मे ब्रूहीति॥
स होवाच याज्ञवल्क्यः॥
प्रिया खलु नो भवती सती प्रियमवृतद्धन्त खलु भवति तेऽहं तद्वक्ष्यामि व्याख्यास्यामि ते वाचं तु मे व्याचक्षाणस्य निदिध्यासस्वेति ब्रवीतु भगवानिति॥
स होवाच याज्ञवल्क्यो॥
न वा अरे पत्युः कामाय पतिः प्रियो भवत्यात्मनस्तु कामाय पतिः प्रियो भवति॥
देवाः प्रिया भवन्ति न वा अरे वेदानां कामाय वेदाः प्रिया भवन्त्यात्मनस्तु कामाय वेदाः प्रिया भवन्ति न वा अरे यज्ञानां कामाय यज्ञाः प्रिया भवन्त्यात्मनस्तु कामाय यज्ञाः प्रिया भवन्ति न वा अरे भूतानां कामाय भूतानि प्रियाणि भवन्त्यात्मनस्तु कामाय भूतानि प्रियाणि भवन्ति न वा अरे सर्वस्य कामाय सर्वम् प्रियम् भवत्यात्मनस्तु कामाय सर्वम् प्रियम् भवत्यात्मा न्वरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यो मैत्रेय्यात्मनि वा अरे दृष्टे श्रुते मते विज्ञात इदं सर्वं विदितम्॥
ब्रह्म तम् परादात्॥
योऽन्यत्रात्मनो देवान्वेद वेदास्तम् परादुर्योऽन्यत्रात्मनो वेदान्वेद यज्ञास्तम् परादुर्योन्यत्रात्मनो यज्ञान्वेद भूतानि तम् परादुर्योऽन्यत्रात्मनो भूतानि वेद सर्वम् तम् परादाद्योऽन्यत्रात्मनः सर्वं वेदेदम् ब्रह्मेदं क्षत्रमिमे लोका इमे देवा इमे वेदा इमे यज्ञा इमानि भूतानीदं सर्वं यदयमात्मा॥
स यथा दुन्दुभेर्हन्यमानस्य॥
न बाह्याञ्छब्दाञ्छक्नुयाद्ग्रहणाय दुन्दुभेस्तु ग्रहणेन दुन्दुभ्याघातस्य वा शब्दो भवति गृहीतः॥
स यथा वीणायै वाद्यमानायै॥
न बाह्याञ्छब्दाञ्छक्नुयाद्ग्रहणाय वीणायै तु ग्रहणेन वीणावादस्य वा शब्दो गृहीतः॥
स यथा शङ्खस्य ध्मायमानस्य॥
न बाह्याञ्छब्दाञ्छक्नुयाद्ग्रहणाय शङ्खस्य तु ग्रहणेन शङ्खध्मस्य वा शब्दो गृहीतः॥
स यथार्द्रैधाग्नेरभ्याहितस्य॥
सूत्राण्यनुव्याख्यानानि व्याख्यानानि दत्तं हुतमाशितम् पायितमयं च लोकः परश्च लोकः सर्वाणि च भूतान्यस्यैवैतानि सर्वाणि निश्वसितानि॥
स यथा सर्वासामपां समुद्र एकायनम्॥
एवं सर्वेषां स्पर्शानां त्वगेकायनमेवं सर्वेषां गन्धानां नासिके एकायनमेवं सर्वेषां रसानां जिह्वैकायनमेवं सर्वेषां रूपाणां चक्षुरेकायनमेवं सर्वेषां शब्दानां श्रोत्रमेकायनमेवं सर्वेषां सङ्कल्पानाम् मन एकायनमेवं सर्वेषां वेदानां हृदयमेकायनमेवं सर्वेषां कर्मणां हस्तावेकायनमेवं सर्वेषामध्वनां पादावेकायनमेवं सर्वेषामानन्दानन्दानामुपस्थ एकायनमेवं सर्वेषां विसर्गाणाम् पायुरेकायनमेवं सर्वासां विद्यानां वागेकायनम्॥
स यथा सैन्धवघनो॥
अनन्तरोऽबाह्यः कृत्स्नो रसघन एव स्यादेवं वा अर इदम् महद्भूतमनन्तमपारं कृत्स्नः प्रज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानुविनश्यति न प्रेत्य सञ्ज्ञास्तीत्यरे ब्रवीमीति होवाच याज्ञवल्क्यः॥
सा होवाच मैत्रेयी॥
अत्रैव मा भगवान्मोहान्तमापीपदन्न वा अहमिदं विजानामि न प्रेत्य सञ्ज्ञास्तीति॥
स होवाच याज्ञवल्क्यो॥
न वा अरेऽहम् मोहम् ब्रवीम्यविनाशी वा अरे यमात्मानुच्छित्तिधर्मा मात्रासंसर्गस्त्वस्य भवति॥
यद्वै तन्न पश्यति॥
पश्यन्वै तद्द्रष्टव्यं न पश्यति न हि द्रष्टुर्दृष्टेर्विपरिलोपो विद्यतेऽविनाशित्वान्न तु तद्द्वितीयमस्ति ततोऽन्यद्विभक्तं यत्पश्येत्॥
यद्वै तन्न जिघ्रति॥
जिघ्रन्वै तद्घ्रातव्यं न जिघ्रति न हि घ्रातुर्घ्राणाद्विपरिलोपो विद्यतेऽविनाशित्वान्न तु तद्द्वितीयमस्ति ततोऽन्यद्विभक्तं यज्जिघ्रेत्॥
यद्वै तन्न रसयति॥
विजानन्वै तद्रसं न रसयति न हि रसयितू रसाद्विपरिलोपो विद्यतेऽविनाशित्वान्न तु तद्द्वितीयमस्ति ततोऽन्यद्विभक्तं यद्रसयेत्॥
यद्वै तन्न वदति॥
वदन्वै तद्वक्तव्यं न वदति न हि वक्तुर्वचो विपरिलोपो विद्यतेऽविनाशित्वान्न तु तद्द्वितीयमस्ति ततोऽन्यद्विभक्तं यद्वदेत्॥
यद्वै तन्न शृणोति॥
शृण्वन्वै तछ्रोतव्यं न शृणोति न हि श्रोतुः श्रुतेर्विपरिलोपो विद्यतेऽविनाशित्वान्न तु तद्द्वितीयमस्ति ततोऽन्यद्विभक्तं यछृणुयात्॥
यद्वै तन्न मनुते॥
मन्वानो वै तन्मन्तव्यं न मनुते न हि मन्तुर्मतेर्विपरिलोपो विद्यतेऽविनाशित्वान्न तु तद्द्वितीयमस्तिततोऽन्यद्विभक्तं यन्मन्वीत॥
यद्वै तन्न स्पृशति॥
यद्वै तन्न विजानाति॥
विजानन्वै तद्विज्ञेयं न विजानाति न हि विज्ञातुर्विज्ञानाद्विपरिलोपो विद्यतेऽविनाशित्वान्न तु तद्द्वितीयमस्ति ततोऽन्यद्विभक्तं यद्विजानीयात्॥
यत्र वा अन्यदिव स्यात्॥
तत्रान्योऽन्यत्पश्येदन्योऽन्यज्जिघ्रेदन्योऽन्यद्रसयेदन्योऽन्यदभिवदेदन्योऽन्यछृणुयादन्योऽन्यन्मन्वीतान्योऽन्यत्स्पृशेदन्योऽन्यद्विजानीयात्॥
यत्र त्वस्य सर्वमात्मैवाभूत्॥
तत्केन कम् पश्येत्तत्केन कं जिघ्रेत्तत्केन कं रसयेत्तत्केन कमभिवदेत्तत्केन कं शृणुयात्तत्केन कम् मन्वीत तत्केन कं स्पृशेत्तत्केन कं विजानीयाद्येनेदं सर्वं विजानाति तं केन विजानीयाद्विज्ञातारमरे केन विजानीयादित्युक्तानुशासनासि मैत्रय्येतावदरे खल्वमृतत्वमिति होक्त्वा याज्ञवल्क्यः प्रवव्राज॥
अथ वंशः॥
तदिदं वयं शौर्पणाय्याछौर्पणाय्यो गौतमाद्गौतमो वात्स्याद्वात्स्यो वात्स्याच्च पाराशर्याच्च पाराशर्यः साङ्कृत्याच्च भारद्वाजाच्च भारद्वाज औदवाहेश्च शाण्डिल्याच्च शाण्डिल्यो वैजवापाच्च गौतमाच्च गौतमो वैजवापायनाच्च वैष्टपुरेयाच्च वैष्टपुरेयः शाण्डिल्याच्च रौहिणायनाच्च रौहिणायनाच्च रौहिणायनः शौनाकाच्च जैवन्तायनाच्च रैभ्याच्च रैभ्यः पौतिमाष्यायणाच्च कौण्डिन्यायनाच्च कौण्डिन्यायनः कौण्डिन्याभ्यां कौण्डिन्या और्णवाभेभ्य और्णवाभाः कौण्डिन्यात्कौण्डिन्यः कौण्डिन्यात्कौण्डिन्यः कौण्डिन्याच्चाग्निवेश्याच्च॥
आग्निवेश्यः सैतवात्॥
सैतवः पाराशर्यात्पाराशर्यो जातूकर्ण्याज्जातूकर्ण्यो भारद्वाजाद्भारद्वाजो भारद्वाजाच्चासुरायणाच्च गौतमाच्च गौतमो भारद्वाजाद्भारद्वाजो वलाकाकौशिकाद्वलाकाकौशिकः काषायणात्काषायणः॥
सौकरायणात्सौकरायणस्त्रैवणेस्त्रैवणिरौपजन्घनेरौपजन्घनिः सायकायनात्सायकायनः कौशिकायनेः कौशिकायनिर्घृतकौशिकाद्घृतकौशिकः पाराशर्यायणात्पाराशर्यायणः पाराशर्यात्पाराशर्यो जातूकर्ण्याज्जातूकर्ण्यो भारद्वाजाद्भारद्वाजो भारद्वाजाच्चासुरायणाच्च यास्काच्चासुरायणस्त्रैवणेस्त्रैवणिरौपजन्घनेरौपजन्घनिरासुरेरासुरिर्भारद्वाजाद्भार्द्वाज आत्रेयात्॥
आत्रेयो माण्टेः॥
माण्टिर्गौतमाद्गौतमो गौतमाद्गौतमो वात्स्याद्वात्स्यः शाण्डिल्याछाण्डिल्यः कैशोर्यात्काप्यात्कैशोर्यः काप्यः कुमारहारितात्कुमारहारितो गालवाद्गालवो विदर्भीकौण्डिन्याद्विदर्भीकौण्डिन्यो वत्सनपातो बाभ्रवाद्वत्सनपाद्बाभ्रवः पथः सौभरात्पन्थाः सौभरोऽयास्यादाङ्गिरसादयास्य आङ्गिरस आभूतेस्त्वाष्ट्रादाभूतिस्त्वाष्ट्रो विश्वरूपात्त्वाष्ट्राद्विश्वरूपस्त्वाष्ट्रोऽश्विभ्यामश्विनौ दधीच आथर्वणाद्दध्यङ्ङाथर्वणोऽथर्वणो दैवादथर्वा दैवो मृत्योः प्राध्वंसनान्मृत्युः प्राध्वंसनः प्रध्वंसनात्प्रध्वंसन एकर्षेरेकर्षिर्विप्रजित्तेर्विप्रजित्तिर्व्यष्टेर्व्यष्टिः सनारुः सनारुः सनातनात्सनातनः सनगात्सनगः परमेष्ठिनः परमेष्ठी ब्रह्मणो ब्रह्म स्वयम्भु ब्रह्मणे नमः॥