०६

जनको ह वैदेहो॥
बहुदक्षिणेन यज्ञेनेजे तत्र ह कुरुपञ्चालानाम् ब्राह्मणा अभिसमेता बभूवुस्तस्य ह जनकस्य वैदेहस्य विजिज्ञासा बभूव कः स्विदेषाम् ब्राह्मणानामनूचानतम इति॥
स ह गवां सहस्रमवरुरोध॥
दश-दश पादा एकैकस्याः शृङ्गयोराबद्धा बभूवुस्तान्होवाच ब्राह्मणा भगवन्तो यो वो ब्रह्मिष्ठः स एता गा उदजतामिति ते ह ब्राह्मणा न दधृषुः॥
अथ ह याज्ञवल्क्यः॥
स्वमेव ब्रह्मचारिणमुवाचैताः सौम्योदज सामश्रवा३ इति ता होदाचकार ते ह ब्राह्मणाश्चुक्रुधुः कथं नु नो ब्रह्मिष्ठो ब्रुवीतेति॥
अथ ह जनकस्य वैदे हस्य होताश्वलो बभूव॥
स हैनम् पप्रछ त्वं नु खलु नो याज्ञवल्क्य ब्रह्मिष्ठोऽसी३ इति स होवाच नमो वयम् ब्रह्मिष्ठाय कुर्मो गोकामा एव वयं स्म इति तं ह तत एव प्रष्टुं दध्रे होताश्वलः॥
याज्ञवल्क्येति होवाच॥
यदिदं सर्वम् मृत्युनाप्तं सर्वम् मृत्युनाभिपन्नं केन यजमानो मृत्योराप्तिमतिमुच्यत इति होत्रर्त्विजाग्निना वाचा वाग्वै यज्ञस्य होव्ता तद्येयं वाक्सोऽयमग्निः स होता सा मुक्तिः सातिमुक्तिः॥
याज्ञवल्क्येति होवाच॥
यदिदं सर्वमहोरात्राभ्यामाप्तं सर्वमहोरात्राभ्यामभिपन्नं केन यजमानोऽहोरात्रयोराप्तिमतिमुच्यत इत्यध्वर्युणर्त्विजा चक्षुषादित्येन चक्षुर्वै यज्ञस्याध्वर्युस्तद्यदिदं चक्षुः सोऽसावादित्यः सोऽध्वर्युः सा मुक्तिः सातिमुक्तिः॥
याज्ञवल्क्येति होवाच॥
यदिदं सर्वम् पूर्वपक्षापरपक्षाभ्यामाप्तं सर्वम् पूर्वपक्षापरपक्षाभ्यामभिपन्नं केन यजमानः पूर्वपक्षापरपक्षयोराप्तिमतिमुच्यत इति ब्रह्मणर्त्विजा मनसा चन्द्रेण मनो वै यज्ञस्य ब्रह्मा तद्यदिदम् मनः सोऽसौ चन्द्रः स ब्रह्मा सा मुक्तिः सातिमुक्तिः॥
याज्ञवल्क्येति होवाच॥
यदिदमन्तरिक्षमनारम्बणमिवाथ केनाक्रमेण यजमानः स्वर्गं लोकमाक्रमत इत्युद्गात्रर्त्विजा वायुना प्राणेन प्राणो वै यज्ञस्योद्गाता तद्योऽयम् प्राण स वायुः स उद्गाता सा मुक्तिः सातिमुक्तिरित्यतिमोक्षा अथ सम्पदः॥
याज्ञवल्क्येति होवाच॥
कतिभिरयमद्यर्ग्भिर्होतास्मिन्यज्ञे करिष्यतीति तिसृभिरिति कतमास्तास्तिस्र इति पुरोऽनुवाक्या च याज्या च शस्यैव तृतीया किं ताभिर्जयतीति पृथिविलोकमेव पुरोऽनुवाक्यया जयत्यन्तरिक्षलोकं याज्यया द्यौर्लोकं शस्यया॥
याज्ञवल्क्येति होवाच॥
कत्ययमद्याध्वर्युरस्मिन्यज्ञ आहुतीर्होष्यतीति तिस्र इति कतमास्तास्तिस्र इति या हुता उज्ज्वलन्ति या हुता अतिनेदन्ति या हुता अधिशेरते किं ताभिर्जयतीति या हुता उज्ज्वलन्ति देवलोकमेव ताभिर्जयति दीप्यत इव हि देवलोको या हुता अतिनेदन्ति मनुष्यलोकमेव ताभिर्जयत्यतीव हि मनुष्यलोको या हुता अधिशेरते पितृलोकमेव ताभिर्जयत्यध इव हि पितृलोकः॥
याज्ञवल्क्येति होवाच॥
कतिभिरयमद्य ब्रह्मा यज्ञं दक्षिणतो देवताभिर्गोपायिष्यतीत्येकयेति कतमा सैकेति मन एवेत्यनन्तं वै मनोऽनन्ता विश्वे देवा अनन्तमेव स तेन लोकं जयति॥
याज्ञवल्क्येति होवाच॥
कत्ययमद्योद्गातास्मिन्यज्ञे स्तोत्रिया स्तोष्यतीति तिस्र इति कतमास्तास्तिस्र इति पुरोऽनुवाक्या च याज्या च शस्यैव तृतीयाधिदेवतमथाध्यात्मं कतमास्ता या अध्यात्ममिति प्राण एव पुरोनुवाक्यापानो याज्या व्यानः शस्या किं ताभिर्जयतीति यत्किं चेदम् प्राणभृदिति ततो ह होताश्वल उपरराम॥
अथ हैनं जारत्कारव आर्तभागः पप्रछ॥
याज्ञवल्क्येति होवाच कति ग्रहाः कत्यतिग्रहा इत्यष्टौ ग्रहा अष्टावतिग्रहा ये तेऽष्टौ ग्रहा अष्टावतिग्रहाः कतमे त इति॥
प्राणो वै ग्रहः॥
सोऽपानेनातिग्रहेण गृहीतोऽपानेन हि गन्धान्जिघ्रति॥
जिह्वा वै ग्रहः॥
स रसेनातिग्रहेण गृहीतो जिह्वया हि रसान्विजानाति॥
वाग्वै ग्रहः॥
स नाम्नातिग्रहेण गृहीतो वाचा हि नामान्यभिवदति॥
चक्षुर्वै ग्रहः॥
स रूपेणातिग्रहेण गृहीतश्चक्षुषा हि रूपाणि पश्यति॥
श्रोत्रं वै ग्रहः॥
स शब्देनातिग्रहेण गृहीतः श्रोत्रेण हि शब्दाञ्छृणोति॥
मनो वै ग्रहः॥
स कामेनातिग्रहेण गृहीतो मनसा हि कामान्कामयते॥
हस्तौ वै ग्रहः॥
स कर्मणातिग्रहेण गृहीतो हस्ताभ्यां हि कर्म करोति॥
त्वग्वै ग्रहः॥
स स्पर्शेनातिग्रहेण गृहीतस्त्वचा हि स्पर्शान्वेदयत इत्यष्टौ ग्रहा अष्टावतिग्रहाः॥
याज्ञवल्क्येति होवाच॥
यदिदं सर्वम् मृत्योरन्नं का स्वित्सा देवता यस्या मृत्युरन्नमित्यग्निर्वै मृत्युः सोऽपामन्नमप पुनर्मृत्युं जयति॥
याज्ञवल्क्येति होवाच॥
यत्रायम् पुरुषो म्रियते किमेनं न जहातीति नामेत्यनन्तं वै नामानन्ता विश्वे देवा अनन्तमेव स तेन लोकं जयति एव स तेन लोकं जयति॥
याज्ञवल्क्येति होवाच॥
यत्रायम् पुरुषो म्रियत उदस्मात्प्राणाः क्रामन्त्याहो नेति नेति होवाच याज्ञवल्क्योऽत्रैव समवनीयन्ते स उछ्वयत्याध्मायत्याध्मातो मृतः शेते॥
याज्ञवल्क्येति होवाच॥
यत्रास्य पुरुषस्य मृतस्याग्निं वागप्येति वातम् प्राणश्चक्षुरादित्यम् मनश्चन्द्रं दिशः श्रोत्रम् पृथिवीं शरीरमाकाशमात्मौषधीर्लोमानि वनस्पतीन्केशा अप्सु लोहितं च रेतश्च निधीयते क्वायं तदा पुरुषो भवतीत्याहर सौम्य हस्तम्॥
आर्तभागेति होवाच॥
आवमेवैतद्वेदिष्यावो न नावेतत्सजन इति तौ होत्क्रस्य मन्त्रयां चक्रतुस्तौ ह यदूचतुः कर्म हैव तदूचतुरथ ह यत्प्रशशंसतुः कर्म हैव तत्प्रशशंसतुः पुण्यो वै पुण्येन कर्मणा भवति पापः पापेनेति ततो ह जारत्कारव आर्तभाग उपरराम॥
अथ हैनम् भुज्युर्लाह्यायनिः पप्रछ॥
याज्ञवल्क्येति होवाच मद्रेषु चरकाः पर्यव्रजाम ते एतञ्चलस्य काप्यस्य गृहानैम तस्यासीद्दुहिता गन्धर्वगृहीता तमपृछाम कोऽसीति सोऽब्रवीत्सुधन्वाङ्गिरस इति तं यदा लोकानामन्तानपृछामाथैतमब्रूम क्व पारिक्षिता अभवन्क्व पारिक्षिता अभवन्निति तत्त्वा पृछामि याज्ञवल्क्य क्व पारिक्षिता अभवन्निति॥
स होवाच॥
उवाच वै स तदगछन्वै ते तत्र यत्राश्वमेधयाजिनो गछन्तीति क्व न्वश्वमेधयाजिनो गछन्तीति द्वात्रिंशतं वै देवरथाह्नूयान्ययं लोकस्तं समन्तं लोकं द्विस्तावत्पृथिवी पर्येति ताम् पृथिवीं द्विस्तावत्समुद्रः पर्येति तद्यावती क्षुरस्य धारा यावद्वा मक्षिकायाः पत्रं तावानन्तरेणाकाशस्तानिन्द्रः सुपर्णो भूत्वा वायवे प्रायछत्तान्वायुरात्मनि धित्वा तत्रागमयद्यत्र पारिक्षिता अभवन्नित्येवमिव वै स वायुमेव प्रशशंस तस्माद्वायुरेव व्यष्टिर्वायुः समष्टिरप पुनर्मृत्युं जयति सर्वमायुरेति य एवं वेद ततो ह भुज्युर्लाह्यायनिरुपरराम॥
अथ हैनं कहोडः कौषीतकेयः पप्रछ॥
याज्ञवल्क्येति होवाच यत्साक्षादपरोक्षाद्ब्रह्म य आत्मा सर्वान्तरस्तम् मे व्याचक्ष्वेत्येष त आत्मा सर्वान्तरः कतमो याज्ञवल्क्य सर्वान्तरो योऽषनायापिपासे शोकम् मोहं जराम् मृत्युमत्येत्येतं वै तमात्मानं विदित्वा ब्राह्मणाः पुत्रैषणायाश्च वित्तैषणायाश्च लोकैषणायाश्च व्युत्थायाथ भिक्षाचर्यं चरन्ति या ह्येव पुत्रैषणा सा वित्तैषणा या वित्तैषणा सा लोकैषणोभे ह्येते एषणे एव भवतस्तस्मात्पण्डितः पाण्डित्यं निर्विद्य बाल्येन तिष्ठासेद्बाल्यं च पाण्डित्यं च निर्विद्याथ मुनिरमौनं च मौनं च निर्विद्याथ ब्राह्मणः स ब्राह्मणः केन स्याद्येन स्यात्तेनेदृश एव भवति य एवं वेद ततो ह कहोडः कौषीतकेय उपरराम॥
अथ हैनमुषस्तश्चाक्रायणः पप्रछ॥
याज्ञवल्क्येति होवाच यत्साक्षादपरोक्षाद्ब्रह्म य आत्मा सर्वान्तरस्तम् मे व्याचक्ष्वेत्येष त आत्मा सर्वान्तरः कतमो याज्ञवल्क्य सर्वान्तरो यः प्राणेन प्राणिति स त आत्मा सर्वान्तरो योऽपानेनापानिति स त आत्मा सर्वान्तरो यो व्यानेन व्यनिति स त आत्मा सर्वान्तरो य उदानेनोदनिति स त आत्मा सर्वान्तरो यः समानेन समनिति स त आत्मा सर्वान्तरः स होवाचोषस्तश्चाक्रायणो यथा वै ब्रूयादसौ गौरसावश्व इत्येवमेवैतद्व्यपदिष्टम् भवति यदेव साक्षादपरोक्षाद्ब्रह्म य आत्मा सर्वान्तरस्तम् मे व्याचक्ष्वेत्येष त आत्मा सर्वान्तरः कतमो याज्ञवल्क्य सर्वान्तरो न दृष्टेर्द्रष्टारम् पश्येर्न श्रुतेः श्रोतारं शृणुया न मतेर्मन्तारम् मन्वीथा न विज्ञातेर्विज्ञातारं विज्ञानीया एष त आत्मा सर्वान्तरोऽतोऽन्यदार्तं ततो होषस्तश्चाक्रायण उपरराम॥
अथ हैनं गार्गी वाचक्नवी पप्रछ॥
याज्ञवल्क्येति होवाच यदितं सर्वमप्स्वोतं च प्रोतं च कस्मिन्न्वाप ओताश्च प्रोतश्चेति वायौ गार्गीति कस्मिन्नु वायुरोतश्च प्रोतश्चेत्याकाश एव गार्गीति कस्मिन्न्वाकाश ओतश्च प्रोतश्चेत्यन्तरिक्षलोकेषु गार्गीति कस्मिन्न्वन्तरिक्षलोका ओताश्च प्रोताश्चेति द्यौर्लोके गार्गीति कस्मिन्नु द्यौर्लोक ओतश्च प्रोतश्चेत्यादित्यलोकेषु गार्गीति कस्मिन्न्वादित्यलोका ओताश्च प्रोताश्चेति चन्द्रलोकेषु गार्गीति कस्मिन्नु चन्द्रलोका ओताश्च प्रोताश्चेति नक्षत्रलोकेषु गार्गीति कस्मिन्नु नक्षत्रलोका ओताश्च प्रोताश्चेति देवलोकेषु गार्गीति कस्मिन्नु देवलोका ओताश्च प्रोताश्चेति गन्धर्वलोकेषु गार्गीति कस्मिन्नु गन्धर्वलोका ओताश्च प्रोताश्चेति प्रजापतिलोकेषु गार्गीति कस्मिन्नु प्रजापतिलोका ओताश्च प्रोताश्चेति ब्रह्मलोकेषु गार्गीति कस्मिन्नु ब्रह्मलोका ओताश्च प्रोताश्चेति स होवाच गार्गि मातिप्राक्षीर्मा ते मूर्धा व्यपप्तदनतिप्रश्न्या वै देवता अतिपृछसि गार्गि मातिप्राक्षीरिति ततो ह गार्गी वाचक्नव्युपरराम॥
अथ हैनमुद्दालक आरुणिः पप्रछ॥
याज्ञवल्क्येति होवाच मद्रेष्ववसाम पतञ्चलस्य काप्यस्य गृहेषु यज्ञमधीयानास्तस्यासीद्भार्या गन्धर्वगृहीता तमपृछाम कोऽसीति सोऽब्रवीत्कबन्ध आथर्वण इति॥
सोऽब्रवीत्॥
पतञ्चलं काप्यं याज्ञिकांश्च वेत्थ नु त्वं काप्य तत्सूत्रं यस्मिन्नयं च लोकः परश्च लोकः सर्वाणि च भूतानि सन्दृब्धानि भवन्तीति सोऽब्रवीत्पतञ्चलः काप्यो नाहं तद्भगवन्वेदेति॥
सोऽब्रवीत्॥
पतञ्चलं काप्यं याज्ञिकांश्च वेत्थ नु त्वं काप्य तमन्तर्यामिणं य इमं च लोकम् परं च लोकं सर्वाणि च भूतान्यन्तरो यमयतीति सोऽब्रवीत्पतञ्चलः काप्यो नाहं तम् भगवन्वेदेति॥
सोऽब्रवीत्॥
पतञ्चलं काप्यं याज्ञिकांश्च यो वै तत्काप्य सूत्रं विद्यात्तं चान्तर्यामिणं स ब्रह्मवित्स लोकवित्स देववित्स वेदवित्स यज्ञवित्स भूतवित्स आत्मवित्स सर्वविदिति तेभ्योऽब्रवीत्तदहं वेद तच्चेत्त्वं याज्ञवल्क्य सूत्रमविद्वांस्तं चान्तर्यामिणम् ब्रह्मगवीरुदजसे मूर्धा ते विपतिष्यतीति॥
वेद वा अहं गौतम॥
तत्सूत्रं तं चान्तर्यामिणमिति यो वा इदं कश्च ब्रूयाद्वेद-वेदेति यथा वेत्थ तथा ब्रूहीति॥
वायुर्वै गौतम तत्सूत्रम्॥
वायुना वै गौतम सूत्रेणायं च लोकः परश्च लोकः सर्वाणि च भूतानि सन्दृब्धानि भवन्ति तस्माद्वै गौतम पुरुषम् प्रेतमाहुर्व्यस्रंसिषतास्याङ्गानीति वायुना हि गौतम सूत्रेण सन्दृब्धानि भवन्तीत्येवमेवैतद्याज्ञवल्क्यान्तर्यामिणम् ब्रूहीति॥
यः पृथिव्यां तिष्ठन्॥
पृथिव्या अन्तरो यम् पृथिवी न वेद यस्य पृथिवी शरीरं यः पृथिवीमन्तरो यमयति स त आत्मान्तर्याम्यमृतः॥
सोऽप्सु तिष्ठन्॥
अद्भ्योऽन्तरो यमापो न विदुर्यस्यापः शरीरं योऽपोऽन्तरो यमयति स त आत्मान्तर्याम्यमृतः॥
योऽग्नौ तिष्ठन्॥
अग्नेरन्तरो यमग्निर्न वेद यस्याग्निः शरीरं योऽग्निमन्तरो यमयति स त आत्मान्तर्याम्यमृतः॥
य आकाशे तिष्ठन्॥
आकाशादन्तरो यमाकाशो न वेद यस्याकाशः शरीरं य आकाशमन्तरो यमयति स त आत्मान्तर्याम्यमृतः॥
यो वायौ तिष्ठन्॥
वायोरन्तरो यं वायुर्न वेद यस्य वायुः शरीरं यो वायुमन्तरो यमयति स त आत्मान्तर्याम्यमृतः॥
य आदित्ये तिष्ठन्॥
आदित्यादन्तरो यमादित्यो न वेद यस्यादित्यः शरीरं य आदित्यमन्तरो यमयति स त आत्मान्तर्याम्यमृतः॥
यश्चन्द्रतारके तिष्ठन्॥
चन्द्रतारकादन्तरो यं चन्द्रतारकं न वेद यस्य चन्द्रतारकं शरीरं यश्चन्द्रतारकमन्तरो यमयति स त आत्मान्तर्याम्यमृतः॥
यो दिक्षु तिष्ठन्॥
दिग्भ्योऽन्तरो यं दिशो न विदुर्यस्य दिशः शरीरं यो दिशोऽन्तरो यमयति स त आत्मान्तर्याम्यमृतः॥
यो विद्युति तिष्ठन्॥
विद्युतोऽन्तरो यं विद्युन्न वेद यस्य विद्युछरीरं यो विद्युतमन्तरो यमयति स त आत्मान्तर्याम्यमृतः॥
य स्तनयित्नौ तिष्ठन्॥
स्तनयित्नोरन्तरो यं स्तनयित्नुर्न वेद यस्य स्तनयित्नुः शरीरं य स्तनयित्नुमन्तरो यमयति स त आत्मान्तर्याम्यमृत इत्यधिदेवतमथाधिलोकम्॥
यः सर्वेषु लोकेषु तिष्ठन्॥
सर्वेभ्यो लोकेभ्योऽन्तरो यं सर्वे लोका न विदुर्यस्य सर्वे लोकाः शरीरं यः सर्वांलोकानन्तरो यमयति स त आत्मान्तर्याम्यमृत इत्यु एवाधिलोकमथाधिवेदम्॥
यः सर्वेषु वेदेषु तिष्ठन्॥
सर्वेभ्यो वेदेभ्योऽन्तरो इत्यु एवाधिवेदमथाधियज्ञम्॥
सर्वेषु यज्ञेषु तिष्ठन्॥
सर्वेभ्यो यज्ञेभ्योऽन्तरो इत्यु एवाधियज्ञमथाधिभूतम्॥
यः सर्वेषु भूतेषु तिष्ठन्॥
सर्वेभ्यो भूतेभ्योऽन्तरो यं सर्वाणि भूतानि न विदुर्यस्य सर्वाणि भूतानि शरीरं यः सर्वाणि भूतान्यन्तरो यमयति स त आत्मान्तर्याम्यमृत इत्यु एवाधिभूतमथाध्यात्मम्॥
यः प्राणे तिष्ठन्॥
प्राणादन्तरो यम् प्राणो न वेद यस्य प्राणः शरीरं यः प्राणमन्तरो यमयति स त आत्मान्तर्याम्यमृतः॥
यो वाचि तिष्ठन्॥
वाचोऽन्तरो यम् प्राणो न वेद यस्य प्राणः शरीरं यः प्राणमन्तरो यमयति स त आत्मान्तर्याम्यमृतः॥
यश्चक्षुषि तिष्ठन्॥
चक्षुषोऽन्तरो यम् प्राणो न वेद यस्य प्राणः शरीरं यः प्राणमन्तरो यमयति स त आत्मान्तर्याम्यमृतः॥
यः श्रोत्रे तिष्ठन्॥
श्रोत्रादन्तरो यम् प्राणो न वेद यस्य प्राणः शरीरं यः प्राणमन्तरो यमयति स त आत्मान्तर्याम्यमृतः॥
यो मनसि तिष्ठन्॥
मनसोऽन्तरो यम् प्राणो न वेद यस्य प्राणः शरीरं यः प्राणमन्तरो यमयति स त आत्मान्तर्याम्यमृतः॥
यस्त्वचि तिष्ठन्॥
त्वचोऽन्तरो यम् प्राणो न वेद यस्य प्राणः शरीरं यः प्राणमन्तरो यमयति स त आत्मान्तर्याम्यमृतः॥
यस्तेजसि तिष्ठन्॥
तेजसोऽन्तरो यम् प्राणो न वेद यस्य प्राणः शरीरं यः प्राणमन्तरो यमयति स त आत्मान्तर्याम्यमृतः॥
यस्तमसि तिष्ठन्॥
तमसोऽन्तरो यम् प्राणो न वेद यस्य प्राणः शरीरं यः प्राणमन्तरो यमयति स त आत्मान्तर्याम्यमृतः॥
यो रेतसि तिष्ठन्॥
रेतसोऽन्तरो यम् प्राणो न वेद यस्य प्राणः शरीरं यः प्राणमन्तरो यमयति स त आत्मान्तर्याम्यमृतः॥
य आत्मनि तिष्ठन्॥
आत्मनोऽन्तरो यम् प्राणो न वेद यस्य प्राणः शरीरं यः प्राणमन्तरो यमयति स त आत्मान्तर्याम्यमृतः॥
अदृष्टो द्रष्टाश्रुतः श्रोता॥
अमतो मन्ताविज्ञातो विज्ञाता नान्योऽस्ति द्रष्टा नान्योऽस्ति श्रोता नान्योऽस्ति मन्ता नान्योऽस्ति विज्ञातैष त आत्मान्तर्याम्यमृतोऽतोऽन्यदार्तं ततो होद्दालक आरुणिरुपरराम॥
अथ ह वाचक्नव्युवाच॥
ब्राह्मणा भगवन्तो हन्ताहमिमं याज्ञवल्क्यं द्वौ प्रश्नौ प्रक्ष्यामि तौ चेन्मे विवक्ष्यति न वै जातु युष्माकमिमं कश्चिद्ब्रह्मोद्यं जेतेति तौ चेन्मे न विवक्ष्यति मूर्धास्य विपतिष्यतीति पृछ गार्गीति॥
सा होवाच॥
अहं वै त्वा याज्ञवल्क्य यथा काश्यो वा वैदेहो ओग्रपुत्र उद्यं धनुरधिज्यं कृत्वा द्वौ वाणवन्तौ सपत्नाधिव्याधिनौ हस्ते कृत्वोपोत्तिष्ठेदेवमेवाहं त्वा द्वाभ्याम् प्रश्नाभ्यामुपोदस्थां तौ मे ब्रूहीति पृछ गार्गीति॥
सा होवाच॥
यदूर्ध्वं याज्ञवल्क्य दिवो यदवाक्पृथिव्या यदन्तरा द्यावापृथिवी इमे यद्भूतं च भवच्च भविष्यच्चेत्याचक्षते कस्मिंस्तदोतं च प्रोतं चेति॥
स होवाच॥
यदूर्ध्वं गार्गी दिवो यदवाक्पृथिव्या यदन्तरा द्यावापृथिवी इमे यद्भूतं च भवच्च भविष्यच्चेत्याचक्षत आकाशे तदोतं च प्रोतं चेति॥
सा होवाच॥
नमस्ते याज्ञवल्क्य यो म एतं व्यवोचोऽपरस्मै धारयस्वेति पृछ गार्गीति॥
सा होवाच॥
यदूर्ध्वं याज्ञवल्क्य दिवो यदवाक्पृथिव्या यदन्तरा द्यावापृथिवी इमे यद्भूतं च भवच्च भविष्यच्चेत्याचक्षते कस्मिन्नेव तदोतं च प्रोतं चेति॥
स होवाच॥
यदूर्ध्वं गार्गी दिवो यदवाक्पृथिव्या यदन्तरा द्यावापृथिवी इमे यद्भूतं च भवच्च भविष्यच्चेत्याचक्षत आकाश एव तदोतं च प्रोतं चेति कस्मिन्न्वाकाश ओतश्च प्रोतश्चेति॥
स होवाच॥
एतद्वै तदक्षरं गार्गी ब्राह्मणा अभिवदन्त्यस्थूलमनण्वह्रस्वमदीर्घमलोहितमस्नेहमछायमतमोऽवाय्वनाकाशमसङ्गमस्पर्शमगन्धमरसमचक्षुष्कमश्रोत्रमवागमनोऽतेजस्कमप्राणममुखमनामागोत्रमजरममरमभयममृतमरजोऽशब्दमविवृतमसंवृतमपूर्वमनपरमनन्तरमबाह्यं न तदश्नोति कं चन न तदश्नोति कश्चन॥
एतस्य वा अक्षरस्य॥
प्रशासने गार्गी द्यावापृथिवी विधृते तिष्ठत एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठत एतस्य वा अक्षरस्य प्रशासने गार्ग्यहोरात्राण्यर्धमासा मासा ऋतवः संवत्सरा विधृतास्तिष्ठन्त्येतस्य वा अक्षरस्य प्रशासने गार्गि प्राच्योऽन्या नद्यः स्यन्दन्ते श्वेतेभ्यः पर्वतेभ्यः प्रतीच्योऽन्या यां यां च दिशमेतस्य वा अक्षरस्य प्रशासने गार्गि ददतम् मनुष्याः प्रशंसन्ति यजमानं देवा दर्व्यम् पितरोऽन्वायत्ताः॥
यो वा एतदक्षरमविदित्वा गार्गि॥
अस्मिंलोके जुहोति ददाति तपस्यत्यपि बहूनि वर्षसहस्राण्यन्तवानेवास्य स लोको भवति यो वा एतदक्षरमविदित्वा गार्ग्यस्माल्लोकात्प्रैति स कृपणोऽथ य एतदक्षरं गार्गि विदित्वास्माल्लोकात्प्रैति स ब्राह्मणः॥
तद्वा एतदक्षरं गार्गि॥
अदृष्टं द्रष्ट्रश्रुतम् मन्त्र!विज्ञातं विज्ञातृ नान्यदस्ति द्रष्टृ नान्यदस्ति श्रोतृ नान्यदस्ति मन्तृ नान्यदस्ति विज्ञात्रेतद्वै तदक्षरं गार्गि यस्मिन्नाकाश ओतश्च प्रोतश्चेति॥
सा होवाच॥
ब्राह्मणा भगवन्तस्तदेव बहु मन्यध्वं यदस्मान्नमस्कारेण मुच्याध्वै न वै जातु युष्माकमिमं कश्चिद्ब्रह्मोद्यं जेतेति ततो ह वाचक्नव्युपरराम॥
अथ हैनं विदग्धः शाकल्यः पप्रछ॥
कति देवा याज्ञवल्क्येति स हैतयैव निविदा प्रतिपेदे यावन्तो वैश्वदेवस्य निविद्युच्यन्ते त्रयश्च त्री च शता त्रयश्च त्री च सहस्रेत्योमिति होवाच॥
कत्येव देवा याज्ञवल्क्येति॥
त्रयस्त्रिंशदित्योमिति होवाच कत्येव देवा याज्ञवल्क्येति षडित्योमिति होवाच कत्येव देवा याज्ञवल्क्येति त्रय इत्योमिति होवाच कत्येव देवा याज्ञवल्क्येति द्वावित्योमिति होवाच कत्येव देवा याज्ञवल्क्येत्यध्यर्ध इत्योमिति होवाच कत्येव देवा याज्ञवल्क्येत्येक इत्योमिति होवाच कतमे ते त्रयश्च त्री च शता त्रयश्च त्री च सहस्रेति॥
स होवाच॥
महिमान एवैषामेते त्रयस्त्रिंशत्त्वेव देवा इति कतमे ते त्रयस्त्रिंशदित्यष्टौ वसव एकादश रुद्रा द्वादशादित्यास्त एकत्रिंशदिन्द्रश्चैव प्रजापतिश्च त्रयस्त्रिंशाविति॥
कतमे वसव इति॥
अग्निश्च पृथिवी च वायुश्चान्तरिक्षं चादित्यश्च द्यौश्च नक्षत्राणि चैते वसव एतेषु हीदं सर्वं वसु हितमेते हीदं सर्वं वासयन्ते तद्यदिदं सर्वं वासयन्ते तस्माद्वसव इति॥
कतमे रुद्रा इति॥
दशेमे पुरुषे प्राणा आत्मैकादशस्ते यदास्मान्मर्त्याछरीरादुत्क्रामन्त्यथ रोदयन्ति तद्यद्रोदयन्ति तस्माद्रुद्रा इति॥
कतम आदित्या इति॥
द्वादश मासाः संवत्सरस्यैत आदित्या एते हीदं सर्वमाददाना यन्ति तद्यदिदं सर्वमाददाना यन्ति तस्मादादित्या इति॥
कतम इन्द्रः कतमः प्रजापतिरिति॥
स्तनयित्नुरेवेन्द्रो यज्ञः प्रजापतिरिति कतम स्तनयित्नुरित्यशनिरिति कतमो यज्ञ इति पशव इति॥
कतमे षडिति॥
अग्निश्च पृथिवी च वायुश्चान्तरिक्षं चादित्यश्च द्यौश्चैते ह्येवेदं सर्वं षडिति॥
कतमे ते त्रयो देवा इतीम एव त्रयो लोका एषु हीमे सर्वे देवा इति कतमौ द्वौ देवावित्यन्नं चैव प्राणश्चेति कतमोऽध्यर्ध इति योऽयम् पवत इति॥
तदाहुः॥
यदयमेक एव पवतेऽथ कथमध्यर्ध इति यदस्मिन्निदं सर्वमध्यार्ध्नोत्तेनाध्यर्ध इति कतम एको देव इति स ब्रह्म त्यदित्याचक्षते॥
पृथिव्येव यस्यायतनम्॥
चक्षुर्लोको मनोज्योतिर्यो वै तम् पुरुषं विद्यात्सर्वस्यात्मनः परायणं स वै वेदिता स्याद्याज्ञवल्क्य वेद वा अहं तम् पुरुषं सर्वस्यात्मनः परायणं यमात्थ य एवायं शारीरः पुरुषः स एष वदैव शाकल्य तस्य का देवतेति स्त्रिय इति होवाच॥
रूपाण्येव यस्यायतनम्॥
चक्षुर्लोको मनोज्योतिर्यो वै तम् पुरुषं विद्यात्सर्वस्यात्मनः परायणं स वै वेदिता स्याद्याज्ञवल्क्य वेद वा अहं तम् पुरुषं सर्वस्यात्मनः परायणं यमात्थ य एवासावादित्ये पुरुषः स एष वदैव शाकल्य तस्य का देवतेति चक्षुरिति होवाच॥
आकाश एव यस्यायतनम्॥
चक्षुर्लोको मनोज्योतिर्यो वै तम् पुरुषं विद्यात्सर्वस्यात्मनः परायणं स वै वेदिता स्याद्याज्ञवल्क्य वेद वा अहं तम् पुरुषं सर्वस्यात्मनः परायणं यमात्थ॥
य एवायं वायौ पुरुषः स एष वदैव शाकल्य तस्य का देवतेति प्राण इति होवाच॥
काम एव यस्यायतनम्॥
चक्षुर्लोको मनोज्योतिर्यो वै तम् पुरुषं विद्यात्सर्वस्यात्मनः परायणं स वै वेदिता स्याद्याज्ञवल्क्य वेद वा अहं तम् पुरुषं सर्वस्यात्मनः परायणं यमात्थ॥
य एवासौ चन्द्रे पुरुषः स एष वदैव शाकल्य तस्य का देवतेति मन इति होवाच॥
तेज एव यस्यायतनम्॥
चक्षुर्लोको मनोज्योतिर्यो वै तम् पुरुषं विद्यात्सर्वस्यात्मनः परायणं स वै वेदिता स्याद्याज्ञवल्क्य वेद वा अहं तम् पुरुषं सर्वस्यात्मनः परायणं यमात्थ॥
य एवायमग्नौ पुरुषः स एष वदैव शाकल्य तस्य का देवतेति वागिति होवाच॥
तम एव यस्यायतनम्॥
चक्षुर्लोको मनोज्योतिर्यो वै तम् पुरुषं विद्यात्सर्वस्यात्मनः परायणं स वै वेदिता स्याद्याज्ञवल्क्य वेद वा अहं तम् पुरुषं सर्वस्यात्मनः परायणं यमात्थ॥
य एवायं छायामयः पुरुषः स एष वदैव शाकल्य तस्य का देवतेति मृत्युरिति होवाच॥
आप एव यस्यायतनम्॥
चक्षुर्लोको मनोज्योतिर्यो वै तम् पुरुषं विद्यात्सर्वस्यात्मनः परायणं स वै वेदिता स्याद्याज्ञवल्क्य वेद वा अहं तम् पुरुषं सर्वस्यात्मनः परायणं यमात्थ॥
य एवायमप्सु पुरुषः स एष वदैव शाकल्य तस्य का देवतेति वरुण इति होवाच॥
रेत एव यस्यायतनम्॥
चक्षुर्लोको मनोज्योतिर्यो वै तम् पुरुषं विद्यात्सर्वस्यात्मनः परायणं स वै वेदिता स्याद्याज्ञवल्क्य वेद वा अहं तम् पुरुषं सर्वस्यात्मनः परायणं यमात्थ॥
य एवायम् पुत्रमयः पुरुषः स एष वदैव शाकल्य तस्य का देवतेति प्रजापतिरिति होवाच॥
शाकल्येति होवाच याज्ञवल्क्यः॥
त्वां स्विदिमे ब्राह्मणा अङ्गारावक्षयणमक्रता३ इति॥
याज्ञवल्क्येति होवाच शाकल्यो॥
यदिदं कुरुपञ्चालानाम् ब्राह्मणानत्यवादीः किम् ब्रह्म विद्वानिति दिशो वेद सदेवाः सप्रतिष्ठा इति यद्दिशो वेत्थ सदेवाः सप्रतितिष्ठाः॥
किन्देवतोऽस्याम् प्राच्यां दिश्यसीति॥
आदित्यदेवत इति स आदित्यः कस्मिन्प्रतिष्ठित इति चक्षुषीति कस्मिन्नु चक्षुः प्रतिष्ठितम् भवतीति रूपेष्विति चक्षुषा हि रूपाणि पश्यति कस्मिन्नु रूपाणि प्रतिष्ठितानि भवन्तीति हृदय इति हृदयेन हि रूपाणि जानाति हृदये ह्येव रूपाणि प्रतिष्ठितानि भवन्तीत्येवमेवैतद्याज्ञवल्क्य॥
किन्देवतोऽस्यां दक्षिणायां दिश्यसीति॥
यमदेवत इति स यमः कस्मिन्प्रतिष्ठित इति दक्षिणायामिति कस्मिन्नु दक्षिणा प्रतिष्ठिता भवतीति श्रद्धायामिति यदा ह्येव श्रद्धत्तेऽथ दक्षिणां ददाति श्रद्धायां ह्येव दक्षिणा प्रतिष्ठिता भवतीति कस्मिन्नु श्रद्धा प्रतिष्ठिता भवतीति हृदय इति हृदयेन हि श्रद्धत्ते हृदये ह्येव श्रद्धा प्रतिष्ठिता भवतीत्येवमेवैतद्याज्ञवल्क्य॥
किन्देवतोऽस्याम् प्रतीच्यां दिश्यसीति॥
वरुणदेवत इति स वरुणः कस्मिन्प्रतिष्ठित इत्यप्स्विति कस्मिन्न्वापः प्रतिष्ठिता भवन्तीति रेतसीति कस्मिन्नु रेतः प्रतिष्ठितम् भवतीति हृदय इति तस्मादपि प्रतिरूपं जातमाहुर्हृदयादिव सृप्तो हृदयादिव निर्मित इति हृदये ह्येव रेतः प्रतिष्ठितम् भवतीत्येवमेवैतद्याज्ञवल्क्य॥
किन्देवतोऽस्यामुदीच्यां दिश्यसीति॥
सोमदेवत इति स सोमः कस्मिन्प्रतिष्ठित इति दीक्षायामिति कस्मिन्नु दीक्षा प्रतिष्ठिता भवतीति सत्य इति तस्मादपि दीक्षितमाहुः सत्यं वदेति सत्ये ह्येव दीक्षा प्रतिष्ठिता भवतीति कस्मिन्नु सत्यम् प्रतिष्ठितम् भवतीति हृदय इति हृदयेन हि सत्यं जानाति हृदये ह्येव सत्यम् प्रतिष्ठितम् भवतीत्येवमेवैतद्याज्ञवल्क्य॥
किन्देवतोऽस्यां ध्रुवाया+ दिश्यसीति॥
अग्निदेवत इति सोऽग्निः कस्मिन्प्रतिष्ठित इति वाचीति कस्मिन्नु वाक्प्रतिष्ठिता भवतीति मनसीति कस्मिन्नु मनः प्रतिष्ठितम् भवतीति हृदय इति कस्मिन्नु हृदयम् प्रतिष्ठितम् भवतीति॥
अहल्लिकेति होवाच याज्ञवल्क्यो॥
यत्रैतदन्यत्रास्मन्मन्यासै यत्रैतदन्यत्रास्मत्स्याछ्वानो वैनदद्युर्वयांसि वैनद्विमथ्नीरन्निति॥
कस्मिन्नु त्वं चात्मा च प्रतिष्ठितौ स्थ इति॥
प्राण इति कस्मिन्नु प्राणः प्रतिष्ठित इत्यपान इति कस्मिन्न्वपानः प्रतिष्ठित इति व्यान इति कस्मिन्नु व्यानः प्रतिष्ठित इत्युदान इति कस्मिन्नूदानः प्रतिष्ठित इति समान इति॥
स एष तेति नेत्यास्मा॥
अगृह्यो न हि गृह्यतेऽशीर्यो न हि शीर्यतेऽसङ्गोऽसितो न सज्यते न व्यथत इत्येतान्यष्टावायतनान्यष्टौ लोका अष्टौ पुरुषाः स यस्तान्पुरुषान्व्युदुह्य प्रत्युह्यात्यक्रामीत्तं त्वौपनिषदम् पुरुषम् पृछामि तं चेन्मे न विवक्ष्यसि मूर्धा ते विपतिष्यतीति तं ह शाकल्यो न मेने तस्य ह मूर्धा विपपात तस्य हाप्यन्यन्मन्यमानाः परिमोषिणोऽस्थीन्यपजह्रुः॥
अथ ह याज्ञवल्क्य उवाच॥
ब्राह्मणा भगवन्तो यो वः कामयते स मा पृछतु सर्वे वा मा पृछत यो वः कामयते तं वः पृछानि सर्वान्वा वः पृछानीति तेह ब्राह्मणा न दधृषुः॥
तान्हैतैः श्लोकैः पप्रछ॥
यथा वृक्षो वनस्पतिस्तथैव पुरुषोऽमृषा॥
तस्य पर्णानि लोमानि त्वगस्योत्पाटिका बहिः॥
त्वच एवास्य रुधिरम् प्रस्यन्दि त्वच उत्पटः॥
तस्मात्तदातुन्नात्प्रैति रसो वृक्षादिवाहतात्॥
मांसान्यस्य शकराणि किनाटं स्नाव तत्स्थिरम्॥
अस्थीन्यन्तरतो दारूणि मज्जा मज्जोपमा कृता॥
यद्वृक्षो वृक्णो रोहति मूलान्नवतरः पुनः॥
मर्त्यः स्विन्मृत्युना वृक्णः कस्मान्मूलात्प्ररोहति॥
रेतस इति मा वोचत जीवतस्तत्प्रजायते॥
जात एव न जायते को न्वेनं जनयेत्पुनः॥
धानारुह उ वै वृक्षोऽन्यतः प्रेत्य सम्भवः॥
यत्समूलमुद्वृहेयुर्वृक्षं न पुनराभवेत्मर्त्यः स्विन्मृत्युना वृक्णः कस्मान्मूलात्प्ररोहति विज्ञानमानन्दम् ब्रह्म रातेर्दातुः परायणम्॥
तिष्ठमानस्य तद्विद इति॥
जनको ह वैदेह आसां चक्रे॥
अथ ह याज्ञवल्क्य आवव्राज स होवाच जनको वैदेहो याज्ञवल्क्य किमर्थमचारीः पशूनिच्छन्नण्वन्तानित्युभयमेव सम्राडिति होवाच यत्ते कश्चिदब्रवीत्तछृणवामेति॥
अब्रवीन्म उदङ्कः शौल्वायनः॥
प्राणो वै ब्रह्मेति यथा मातृमान्पितृमानाचार्यवान्ब्रूयात्तथा तछौल्वायनोऽब्रवीत्प्राणो वै ब्रह्मेत्यप्राणतो हि किं स्यादित्यब्रवीत्तु ते तस्यायतनम् प्रतिष्ठां न मेऽब्रवीदित्येकपाद्वा एतत्सम्राडिति॥
स वै नो ब्रूहि याज्ञवल्क्य॥
स एवायतनमाकाशः प्रतिष्ठा प्रियमित्येनदुपासीत का प्रियता याज्ञवल्क्य प्राण एव सम्राडिति होवाच प्राणस्य वै सम्राट्कामायायाज्यं याजयत्यप्रतिगृह्यस्य प्रतिगृह्णात्यपि तत्र वधाशङ्गा भवति यां दिशमेति प्राणस्यैव सम्राट्कामाय प्राणो वै सम्राट् परमम् ब्रह्म नैनम् प्राणो जहाति सर्वाण्येनम् भूतान्यभिक्षरन्ति॥
देवो भूत्वा देवानप्येति॥
य एवं विद्वानेतदुपास्ते हस्त्यृषभं सहस्रं ददामीति होवाच जनको वैदेहः स होवाच याज्ञवल्क्यः पिता मेऽमन्यत नाननुशिष्य हरेतेति क एव ते किमब्रवीदिति॥
अब्रवीन्मे जित्वा शैलिनो॥
वाग्वै ब्रह्मेति यथा मातृमान्पितृमानाचार्यवान्ब्रूयात्तथा तछैलिनोऽब्रवीद्वाग्वै ब्रह्मेत्यववदतो हि किं स्यादब्रवीत्तु ते तस्यायतनम् प्रतिष्ठां न मेऽब्रवीदित्येकपाद्वा एतत्सम्राडिति॥
स वै नो ब्रूहि याज्ञवल्क्य॥
वागेवायतनमाकाशः प्रतिष्ठा प्रज्ञेत्येनदुपासीत का प्रज्ञता याज्ञवल्क्य वागेव सम्राडिति होवाच वाचा वै सम्राड्बन्धुः प्रज्ञायत ऋग्वेदो यजुर्वेदः सामवेदोऽथर्वाङ्गिरस इतिहासः पुराणं विद्या उपनिषदः श्लोकाः सूत्राण्यनुव्याख्यानानि व्याख्यानानि वाचैव सम्राट् प्रज्ञायन्ते वाग्वै सम्राट् परमम् ब्रह्म नैनं वाग्जहाति सर्वाण्येनम् भूतान्यभिक्षरन्ति॥
देवो भूत्वा देवानप्येति॥
य एवं विद्वानेतदुपास्ते हस्त्यृषभं सहस्रं ददामीति होवाच जनको वैदेहः स होवाच याज्ञवल्क्यः पिता मेऽमन्यत नाननुशिष्य हरेतेति क एव ते किमब्रवीदिति॥
अब्रवीन्मे वर्कुवार्ष्णः॥
चक्षुर्वै ब्रह्मेति यथा मातृमान्पितृमानाचार्यवान्ब्रूयात्तथा तद्वार्ष्णोऽब्रवीच्चक्षुर्वै ब्रह्मेत्यपश्यतो हि किं स्यादब्रवीत्तु ते तस्यायतनम् प्रतिष्ठां न मेऽब्रवीदित्येकपाद्वा एतत्सम्राडिति॥
स वै नो ब्रूहि याज्ञवल्क्य॥
चक्षुरेवायतनमाकाशः प्रतिष्ठा सत्यमित्येनदुपासीत का सत्यता याज्ञवल्क्य चक्षुरेव सम्राडिति होवाच चक्षुषा वै सम्राट् पश्यन्तमाहुरद्राक्षीरिति स आहाद्राक्षमिति तत्सत्यम् भवति चक्षुर्वै सम्राट् परमम् ब्रह्म नैनं चक्षुर्जहाति सर्वाण्येनम् भूतान्यभिक्षरन्ति॥
देवो भूत्वा देवानप्येति य एवं विद्वानेतदुपास्ते हस्त्यृ॥
अब्रवीन्मे गर्दभीविपीतो भारद्वाजः॥
श्रोत्रं वै ब्रह्मेति यथा मातृमान्पितृमानाचार्यवान्ब्रूयात्तथा तद्भारद्वाजोऽब्रवीछ्रोत्रं वै ब्रह्मेत्यशृण्वतो हि किं स्यादित्यब्रवीत्तु ते तस्यायतनम् प्रतिष्ठां न मेऽब्रवीदित्येकपाद्वा एतत्सम्राडिति॥
स वै नो ब्रूहि याज्ञवल्क्य॥
श्रोत्रमेवायतनमाकाशः प्रतिष्ठानन्त इत्येनदुपासीत कानन्तता याज्ञवल्क्य दिश एव सम्राडिति होवाच तस्माद्वै सम्राड्यां कां च दिशं गछति नैवास्या अन्तं गछत्यनन्ता हि दिशः श्रोत्रं हि दिशः श्रोत्रं वै सम्राट् परमम् ब्रह्म नैनं श्रोत्रं जहाति सर्वाण्येनम् भूतान्यभिक्षरन्ति॥
देवो भूत्वा देवानप्येति॥
य एवं विद्वानेतदुपास्ते हस्त्यृषभं सहस्रं ददामीति होवाच जनको वैदेहः स होवाच याज्ञवल्क्यः पिता मेऽमन्यत नाननुशिष्य हरेतेति क एव ते किमब्रवीदिति॥
अब्रवीन्मे सत्यकामो जावालो॥
मनो वै ब्रह्मेति यथा मातृमान्पितृमानाचार्यवान्ब्रूयात्तथा तत्सत्यकामोऽब्रवीन्मनो वै ब्रह्मेत्यमनसो हि किं स्यादित्यब्रवीत्तु ते तस्यायतनम् प्रतिष्ठां न मेऽब्रवीदित्येकपाद्वा एतत्सम्राडिति॥
स वै नो ब्रूहि याज्ञवल्क्य॥
मन एवायतनमाकाशः प्रतिष्ठानन्द इत्येनदुपासीत कानन्दता याज्ञवल्क्य मन एव सम्राडिति होवाच मनसा वै सम्राट् स्त्रियमभिहर्यति तस्याम् प्रतिरूपः पुत्रो जायते स आनन्दो मनो वै सम्राट् परमम् ब्रह्म नैनम् मनो जहाति सर्वाण्येनम् भूतान्यभिक्षरन्ति॥
देवो भूत्वा देवानप्येति॥
य एवं विद्वानेतदुपास्ते हस्त्यृषभं सहस्रं ददामीति होवाच जनको वैदेहः स होवाच याज्ञवल्क्यः पिता मेऽमन्यत नाननुशिष्य हरेतेति क एव ते किमब्रवीदिति॥
अब्रवीन्मे विदग्धः शाकल्यो॥
हृदयं वै ब्रह्मेति यथा मातृमान्पितृमानाचार्यवान्ब्रूयात्तथा तछाकल्योऽब्रवीद्धृदयं वै ब्रह्मेत्यहृदयस्य हि किं स्यादित्यब्रवीत्तु ते तस्यायतनम् प्रतिष्ठां न मेऽब्रवीदित्येकपाद्वा एतत्सम्राडिति॥
स वै नो ब्रूहि याज्ञवल्क्य॥
हृदयमेवायतनमाकाशः प्रतिष्ठा स्थितिरित्येनदुपासीत का स्थितिता याज्ञवल्क्य हृदयमेव सम्राडिति होवाच हृदयं वै सम्राट् सर्वेषाम् भूतानाम् प्रतिष्ठा हृदयेन हि सर्वाणि भूतानि प्रतितिष्ठन्ति हृदयं वै सम्राट् परमम् ब्रह्म नैनं हृदयं जहाति सर्वाण्येनम् भूतान्यभिक्षरन्ति॥
देवो भूत्वा देवानप्येति॥
य एवं विद्वानेतदुपास्ते हस्त्यृषभं सहस्रं ददामीति होवाच जनको वैदेहः स होवाच याज्ञवल्क्यः पिता मेऽमन्यत नाननुशिष्य हरेतेति॥
अथ ह जनको वैदेहः कूर्चादुपावसर्पन्नुवाच॥
नमस्ते याज्ञवल्क्यानु मा शाधीति स होवाच यथा वै सम्राण्महान्तमध्वानमेष्यन्रथं वा नावं वा समाददीतैवमेवैताभिरुपनिषद्भिः समाहितात्मास्येवं वृन्दारक आढ्यः सन्नधीतवेद उक्तोपनिषत्क इतो विमुच्यमानः क्व गमिष्यसीति नाहं तद्भगवन्वेद यत्र गमिष्यामीत्यथ वै तेऽहं तद्वक्ष्यामि यत्र गमिष्यसीति ब्रवीतु भगवानिति॥
स होवाच॥
इन्धो वै नामैष योऽयं दक्षिणेऽक्षन्पुरुषस्तं वा एतमिन्धं सन्तमिन्द्र इत्याचक्षते परोऽक्षेणेव परोऽक्षप्रिया इव हि देवाः प्रत्यक्षद्विषः॥
अथैतद्वामेऽक्षिणि पुरुषरूपम्॥
एषास्य पत्नी विराट् तयोरेष संस्तावो य एषोऽन्तर्हृदय आकाशोऽथैनयोरेतदन्नं य एषोऽन्तर्हृदये लोहितपिण्डोऽथैनयोरेतत्प्रावरणं यदेतदन्तर्हृदये जालकमिवाथैनयोरेषा सृतिः सती सञ्चरणी यैषा हृदयादूर्ध्वां नाड्युच्चरति॥
ता वा अस्यैताः॥
हिता नाम नाड्यो यथा केशः सहस्रधा भिन्न एताभिर्वा एतमास्रवदास्रवति तस्मादेष प्रविविक्ताहारतर इव भवत्यस्माछारीरादात्मनः॥
तस्या वा एतस्य पुरुषस्य॥
प्राची दिक्प्राञ्चः प्राणा दक्षिणा दिग्दक्षिणाः प्राणाः प्रतीची दिक्प्रत्यञ्चः प्राणा उदीची दिगुदञ्चः प्राणा ऊ ऊर्ध्वा दिगूर्ध्वाः प्राणा अवाची दिगवाञ्चः प्राणा सर्वा दिशः सर्वे प्राणाः॥
स एष नेति नेत्यात्मा॥
अगृह्यो न हि गृह्यतेऽशीर्यो न हि शीर्यतेऽसङ्गोऽसितो न सज्यते न व्यथतेऽभयं वै जनक प्राप्तोऽसीति होवाच याज्ञवल्क्यः स होवाच जनको वैदेहो नमस्ते याज्ञवल्क्याभयं त्वागछताद्यो नो भगवन्नभयं वेदयस इमे विदेहा अयमहमस्मीति॥