०५

दृप्तबालाकिर्हानूचानो गार्ग्य आस॥
स होवाचाजातशत्रुं काश्यम् ब्रह्म ते ब्रवाणीति स होवाचाजातशत्रुः सहस्रमेतस्यां वाचि दद्मो जनको जनक इति वै जना धावन्तीति॥
स होवाच गार्ग्यो॥
य एवासावादित्ये पुरुष एतमेवाहम् ब्रह्मोपास इति स होवाचाजातशत्रुर्मा मैतस्मिन्त्संवदिष्ठा अतिष्ठाः सर्वेषाम् भूतानाम् मूर्धा राजेति वा अहमेतमुपास इति स यएतमेवमुपास्तेऽतिष्ठाः सर्वेषाम् भूतानाम् मूर्धा राजा भवति॥
स होवाच गार्ग्यो॥
य एवासौ चन्द्रे पुरुष एतमेवाहम् ब्रह्मोपास इति स होवाचाजातशत्रुर्मा मैतस्मिन्त्संवदिष्ठा बृहन्पाण्डरवासाः सोमो राजेति वा अहमेतमुपास इति स य एतमेवमुपास्तेऽहरहर्ह सुतः प्रसुतो भवति नास्यान्नं क्षीयते॥
स होवाच गार्ग्यो॥
य एवायं विद्युति पुरुष एतमेवाहम् ब्रह्मोपास इति स होवाचाजातशत्रुर्मा मैतस्मिन्त्संवदिष्ठास्तेजस्वीति वा अहमेतमुपास इति स य एतमेवमुपास्ते तेजस्वी ह भवति तेजस्विनी हास्य प्रजा भवति॥
स होवाच गार्ग्यो॥
य एवायमाकाशे पुरुष एतमेवाहम् ब्रह्मोपास इति स होवाचाजातशत्रुर्मा मैतस्मिन्त्संवदिष्ठाः पूर्णमप्रवर्तीति वा अहमेतमुपास इति स य एतमेवमुपास्ते पूर्यते प्रजया पशुभिर्नास्यास्माल्लोकात्प्रजोद्वर्तते॥
स होवाच गार्ग्यो॥
य एवायं वायौ पुरुष एतमेवाहम् ब्रह्मोपास इति स होवाचाजातशत्रुर्मा मैतस्मिन्त्संवदिष्ठा इन्द्रो वैकुण्ठोऽपराजिता सेनेति वा अहमेतमुपास इति स य एतमेवमुपास्ते जिष्णुर्हापराजिष्णुर्भवत्यन्यतस्त्यजायी॥
स होवाच गार्ग्यो॥
य एवायमग्नौ पुरुष एतमेवाहम् ब्रह्मोपास इति स होवाचाजातशत्रुर्मा मैतस्मिन्त्संवदिष्ठा विषासहिरिति वा अहमेतमुपास इति स य एतमेवमुपास्ते विषासहिर्ह भवति विषासहिर्हास्य प्रजा भवति॥
स होवाच गार्ग्यो॥
य एवायमप्सु पुरुष एतमेवाहम् ब्रह्मोपास इति स होवाचाजातशत्रुर्मा मैतस्मिन्त्संवदिष्ठाः प्रतिरूप इति वा अहमेतमुपास इति स य एतमेवमुपास्ते प्रतिरूपं हैवैनमुपगछति नाप्रतिरूपमथो प्रतिरूपोऽस्माज्जायते॥
स होवाच गार्ग्यो॥
य एवायमादर्शे पुरुष एतमेवाहम् ब्रह्मोपास इति स होवाचाजातशत्रुर्मा मैतस्मिन्त्संवदिष्ठा रोचिष्णुरिति वा अहमेतमुपास इति स य एतमेवमुपास्ते रोचिष्णुर्ह भवति रोचिष्णुर्हास्य प्रजा भवत्यथो यैः सन्निगछति सर्वांस्तानतिरोचते॥
स होवाच गार्ग्यो॥
य एवायं दिक्षु पुरुष एतमेवाहम् ब्रह्मोपास इति स होवाचाजातशत्रुर्मा मैतस्मिन्त्संवदिष्ठा द्वितीयोऽनपग इति वा अहमेतमुपास इति स य एतमेवमुपास्ते द्वितीयवान्ह भवति नास्माद्गणश्छिद्यते॥
स होवाच गार्ग्यो॥
य एवायं यन्तम् पश्चाछब्दोऽनूदैत्येतमेवाहम् ब्रह्मोपास इति स होवाचाजातशत्रुर्मा मैतस्मिन्त्संवदिष्ठा असुरिति वा अहमेतमुपास इति स य एतमेवमुपास्ते सर्वं हैवास्मिंलोक आयुरेति नैनम् पुरा कालात्प्राणो जहाति॥
स होवाच गार्ग्यो॥
य एवायं छायामयः पुरुष एतमेवाहम् ब्रह्मोपास इति स होवाचाजातशत्रुर्मा मैतस्मिन्त्संवदिष्ठा मृत्युरिति वा अहमेतमुपास इति स य एतमेवमुपास्ते सर्वं हैवास्मिंलोक आयुरेति नैनम् पुरा कालान्मृत्युरागछति॥
स होवाच गार्ग्यो॥
यश्चायमात्मनि पुरुष एतमेवाहम् ब्रह्मोपास इति स होवाचाजातशत्रुर्मा मैतस्मिन्त्संवदिष्ठा आत्मन्वीति वा अहमेतमुपास इति स य एतमेवमुपास्त आत्मन्वी ह भवत्यात्मन्विनी हास्य प्रजा भवति स ह तूष्णीमास गार्ग्यः॥
स होवाचाजातशत्रुः॥
एतावन्नू३इत्येतावद्धीति नैतावता विदितम् भवतीति स होवाच गार्ग्य उप त्वायानीति॥
स होवाचाजातशत्रुः॥
प्रतिलोमं वै तद्यद्ब्राह्मणः क्षत्रियमुपेयाद्ब्रह्म मे वक्ष्यतीति व्येव त्वा ज्ञपयिष्यामीति तम् पाणावादायोत्तस्थौ तौ ह पुरुषं सुप्तमाजग्मतुस्तमेतैर्नामभिरामन्त्रयां चक्रे बृहन्पाण्डरवासः सोम राजन्निति स नोत्तस्थौ तम् पाणिनापेषम् बोधयां चकार स होत्तस्थौ॥
स होवाचाजातशत्रुः॥
यत्रैष एतत्सुप्तोऽभूद्य एष विज्ञानमयः पुरुषः क्वैष तदाभूत्कुत एतदागादिति तदु ह न मेने गार्ग्यः॥
स होवाचाजातशत्रुः॥
यत्रैष एतत्सुप्तोऽभूद्य एष विज्ञानमयः पुरुषस्तदेषाम् प्राणानां विज्ञानेन विज्ञानमादाय य एषोऽन्तर्हृदय आकाशस्तस्मिञ्छेति॥
तानि यदा गृह्णाति॥
अथ हैतत्पुरुषः स्वपिति नाम तद्गृहीत एव प्राणो भवति गृहीता वाग्गृहीतं चक्षुर्गृहीतं श्रोत्रं गृहीतम् मनः॥
स यत्रैतत्स्वप्न्यया चरति॥
ते हास्य लोकास्तदुतेव महाराजो भवत्युतेव महाब्राह्मण उतेवोच्चावचं निगछति॥
स यथा महाराजो जानपदान्गृहीत्वा स्वे जनपदे यथाकामम् परिवर्तेतैवमेवैष एतत्प्राणान्गृहीत्वा स्वे शरीरे यथाकामम् परिवर्तते॥
अथ यदा सुषुप्तो भवति॥
यदा न कस्य चन वेद हिता नाम नाड्यो द्वासप्ततिः सहस्राणि हृदयात्पुरीततमभिप्रतिष्ठन्ते ताभिः प्रत्यवसृप्य पुरीतति शेते॥
स यथा कुमारो वा महाब्राह्मणो वा॥
ऽतिघ्नीमानन्दस्य गत्वा शयीतैवमेवैष एतछेते॥
स यथोर्णवाभिस्तन्तुनोच्चरेत्॥
यथाग्नेः क्षुद्रा विष्फुलिङ्गा व्युच्चरन्त्येवमेवास्मादात्मनः सर्वे प्राणाः सर्वे लोकाः सर्वे देवाः सर्वाणि भूतानि सर्व एत आत्मानो व्युच्चरन्ति तस्योपनिषत्सत्यस्य सत्यमिति प्राणा वै सत्यं तेषामेष सत्यम्॥
यो ह वै शिशुं॥
साधनं सप्रत्याधानं सस्थूणं सदामं वेद सप्त ह द्विषतो भ्रातृव्यानवरुणद्धि॥
अयं वाव शिशुर्योऽयम् मध्यमः प्राणः॥
तस्येदमेवाधानमिदम् प्रत्याधानम् प्राण स्थूणान्नं दाम तमेताः सप्ताक्षितय उपतिष्ठन्ते॥
तद्या इमा अक्षंलोहिन्यो राजयः॥
ताभिरेनं रुद्रोऽन्वायत्तोऽथ या अक्षन्नापस्ताभिः पर्जन्यो या कनीनका तयादित्यो यछुक्लं तेनाग्निर्यत्कृष्णं तेनेन्द्रोऽधरयैनं वर्तन्या पृथिव्यन्वायत्ता द्यौरुत्तरया नास्यान्नं क्षीयते य एवं वेद॥
तदेष श्लोको भवति॥
अर्वाग्बिलश्चमस ऊर्ध्वबुध्नस्तस्मिन्यशो निहितं विश्वरूपम्॥
तस्यासत ऋषयः सप्त तीरे वागष्टमी ब्रह्मणा संविदानेति॥
अर्वाग्बिलश्चमस ऊर्ध्वबुध्न इति॥
इदं तछिर एष ह्यर्वाग्बिलश्चमस ऊर्ध्वबुध्नस्तस्मिन्यशो निहितं विश्वरूपमिति प्राणा वै यशो निहितं विश्वरूपम् प्राणानेतदाह तस्यासत ऋषयः सप्त तीर इति प्राणा वा ऋषयः प्राणानेतदाह वागष्टमी ब्रह्मणा संविदानेति वाग्घ्यष्टमी ब्रह्मणा संवित्ते॥
इमावेव गोतमभरद्वाजौ॥
अयमेव गोतमोऽयम् भरद्वाज इमावेव विश्वामित्रजमदग्नी अयमेव विश्वामित्रोऽयं जमदग्निरिमावेव वसष्ठिकश्यपावयमेव वसिष्ठोऽयं कश्यपो वागेवात्रिर्वाचा ह्यन्नमद्यतेऽत्तिर्ह वै नामैतद्यदत्रिरिति सर्वस्यात्ता भवति सर्वमस्यान्नम् भवति य एवं वेद॥
द्वे वाव ब्रह्मणो रूपे॥
मूर्तं चैवामूर्तं च मर्त्यं चामृतं च स्थितं च यच्च सच्च त्यं च॥
तदेतन्मूर्तम्॥
यदन्यद्वायोश्चान्तरिक्षाच्चैतन्मर्त्यमेतत्स्थितमेतत्सत्॥
तस्यैतस्य॥
मूर्तस्यैतस्य मर्त्यस्यैतस्य स्थितस्यैतस्य सत एष रसो य एष तपति सतो ह्येष रसः॥
अथामूर्तम्॥
वायुश्चान्तरिक्षं चैतदमृतमेतद्यदेतत्त्यम्॥
तस्यैतस्यामूर्तस्य॥
एतस्यामृतस्यैतस्य यत एतस्य त्यस्यैष रसो य एष एतस्मिन्मण्डले पुरुषस्त्यस्य ह्येष रस इत्यधिदेवतम्॥
अथाध्यात्मम्॥
इदमेव मूर्तं यदन्यत्प्राणाच्च यश्चायमन्तरात्मन्नाकाश एतन्मर्त्यमेतत्स्थितमेतत्सत्॥
तस्यैतस्य मूर्तस्य॥
एतस्य मर्त्यस्यैतस्य स्थितस्यैतस्य सत एष रसो यच्चक्षुः सतो ह्येष रसः॥
अथामूर्तम्॥
प्राणश्च यश्चायमन्तरात्मन्नाकाश एतदमृतमेतद्यदेतत्त्यम्॥
तस्यैतस्यामूर्तस्य॥
एतस्यामृतस्यैतस्य यत एतस्य त्यस्यैष रसो योऽयं दक्षिणेऽक्षन्पुरुषस्त्यस्य ह्येष रसः॥
तस्य हैतस्य पुरुषस्य रूपम्॥
यथा माहारजनं वासो यथा पाण्ड्वाविकं यथेन्द्रगोपो यथाग्न्यर्चिर्यथा पुण्डरीकं यथा सकृद्विद्युत्तं सकृद्विद्युत्तेव ह वा अस्य श्रीर्भवति य एवं वेद॥
अथात आदेशो॥
नेति नेति न ह्येतस्मादिति नेत्यन्यत्परमस्त्यथ नामधेयं सत्यस्य सत्यमिति प्राणा वै सत्यं तेषामेष सत्यम्॥
मैत्रेयीति होवाच याज्ञवल्क्यः॥
उद्यास्यन्वा अरेऽहमस्मात्स्थानादस्मि हन्त तेऽनया कात्यायन्यान्तं करवाणीति॥
स होवाच मैत्रेयी॥
यन्म इयम् भगोः सर्वा पृथिवी वित्तेन पूर्णा स्यात्कथं तेनामृता स्यामिति नेति होवाच याज्ञवल्क्यो यथैवोपकरणवतां जीवितं तथैव ते जीवितं स्यादमृतत्वस्य तु नाशास्ति वित्तेनेति॥
सा होवाच मैत्रेयी॥
येनाहं नामृता स्यां किमहं तेन कुर्यां यदेव भगवान्वेद तदेव मे ब्रूहीति॥
स होवाच याज्ञवल्क्यः॥
प्रिया वतारे नः सती प्रियम् भाषस एह्यास्व व्याख्यास्यामि ते व्याचक्षाणस्य तु मे निदिध्यासस्वेति ब्रवीतु भगवानिति॥
स होवाच याज्ञवल्क्यो॥
न वा अरे पत्युः कामाय॥
पतिः प्रियो भवत्यात्मनस्तु कामाय॥
पतिः प्रियो भवति नवा अरे जायायै कामाय॥
जाया प्रिया भवत्यात्मनस्तु कामाय जाया प्रिया भवति न वा अरे पुत्राणां कामाय पुत्राः प्रिया भवन्त्यात्मनस्तु कामाय पुत्राः प्रिया भवन्ति न वा अरे वित्तस्य कामाय वित्तम् प्रियम् भवत्यात्मनस्तु कामाय वित्तम् प्रियम् भवति न वा अरे ब्रह्मणः कामाय ब्रह्म प्रियम् भवत्यात्मनस्तु कामाय ब्रह्म प्रियम् भवति न वा अरे क्षत्रस्य कामाय क्षत्रम् प्रियम् भवत्यात्मनस्तु कामाय क्षत्रम् प्रियम् भवति न वा अरे लोकानां कामाय लोकाः प्रिया भवन्त्यात्मनस्तु कामाय लोकाः प्रिया भवन्ति न वा अरे देवानां कामाय देवाः प्रिया भवन्त्यात्मनस्तु कामाय देवाः प्रिया भवन्ति न वा अरे भूतानां कामाय भूतानि प्रियाणि भवन्त्यात्मनस्तु कामाय भूतानि प्रियाणि भवन्ति न वा अरे सर्वस्य कामाय सर्वम् प्रियम् भवत्यात्मनस्तु कामाय सर्वम् प्रियम् भवत्यात्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यो मैत्रेय्यात्मनो वा अरे दर्शनेन श्रवणेन मत्या विज्ञानेनेदं सर्वं विदितम्॥
ब्रह्म तम् परादात्॥
योऽन्यत्रात्मनो ब्रह्म वेद क्षत्रं तम् परादाद्योऽन्यत्रात्मनः क्षत्रं वेद लोकास्तम् परादुर्योऽन्यत्रात्मनो लोकान्वेद देवास्तम् परादुर्योऽन्यत्रात्मनो देवान्वेद भूतानि तम् परादुर्योऽन्यत्रात्मनो भूतानि वेद सर्वं तम् परादाद्योऽन्यत्रात्मनः सर्वं वेदेदम् ब्रह्मेदं क्षत्रमिमे लोका इमे देवा इमानि भूतानीदं सर्वं यदयमात्मा॥
स यथा दुन्दुभेर्हन्यमानस्य॥
न बाह्याञ्छब्दाञ्छक्नुयाद्ग्रहणाय दुन्दुभेस्तु ग्रहणेन दुन्दुभ्याघातस्य वा शब्दो भवति गृहीतः॥
स यथा वीणायै वाद्यमानायै॥
न बाह्याञ्छब्दाञ्छक्नुयाद्ग्रहणाय वीणायै तु ग्रहणेन वीणावादस्य वा शब्दो गृहीतः॥
स यथा शङ्खस्य ध्मायमानस्य॥
न बाह्याञ्छब्दाञ्छक्नुयाद्ग्रहणाय शङ्खस्य तु ग्रहणेन शङ्खध्मस्य वा शब्दो गृहीतः॥
स यथार्द्रैधाग्नेरभ्याहितस्य॥
पृथग्धूमा विनिश्चरन्त्येवं वा अरेऽस्य महतो भूतस्य निश्वसितमेतद्यदृग्वेदो यजुर्वेदः सामवेदोऽथर्वाङ्गिरस इतिहासः पुराणं विद्या उपनिषदः श्लोकाः सूत्राण्यनुव्याख्यानानि व्याख्यानान्यस्यैवैतानि सर्वाणि निश्वसितानि॥
स यथा सर्वासामपां समुद्र एकायनम्॥
एवं सर्वेषां स्पर्शानां त्वगेकायनमेवं सर्वेषां गन्धानां नासिके एकायनमेवं सर्वेषां रसानां जिह्वैकायनमेवं सर्वेषां रूपाणां चक्षुरेकायनमेवं सर्वेषां शब्दानां श्रोत्रमेकायनमेवं सर्वेषां सङ्कल्पानाम् मन एकायनमेवं सर्वेषां वेदानां हृदयमेकायनमेवं सर्वेषां कर्मणां हस्तावेकायनमेवं सर्वेषामध्वनां पादावेकायनमेवं सर्वेषामानन्दानन्दानामुपस्थ एकायनमेवं सर्वेषां विसर्गाणाम् पायुरेकायनमेवं सर्वासां विद्यानां वागेकायनम्॥
स यथा सैन्धवखिल्यः॥
उदके प्रास्त उदकमेवानुविलीयेत नाहास्योद्ग्रहणायेव स्याद्यतो-यतस्त्वाददीत लवणमेवैवं वा अर इदम् महद्भूतमनन्तमपारं विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानुविनश्यति न प्रेत्य सञ्ज्ञास्तीत्यरे ब्रवीमीति होवाच याज्ञवल्क्यः॥
सा होवाच मैत्रेयी॥
अत्रैव मा भगवानमूमुहन्न प्रेत्य सञ्ज्ञास्तीति॥
स होवाच याज्ञवल्क्यो॥
न वा अरे हम् मोहम् ब्रवीम्यलं वा अर इदं विज्ञानाय॥
यत्र हि द्वैतमिव भवति॥
तदितर इतरम् पश्यति तदितर इतरं जिघ्रति तदितर इतरमभिवदति तदितर इतरं शृणोति तदितर इतरम् मनुते तदितर इतरं विजानाति॥
यत्र त्वस्य सर्वमात्मैवाभूत्॥
तत्केन कम् पश्येत्तत्केन कं जिघ्रेत्तत्केन कमभिवदेत्तत्केन कं शृणुयात्तत्केन कम् मन्वीत तत्केन कं विजानीयाद्येनेदं सर्वं विजानाति तं केन विजानीयाद्विज्ञातारमरे केन विजानीयादिति॥
इयम् पृथिवी॥
सर्वेषाम् भूतानाम् मध्वस्यै पृथिव्यै सर्वाणि भूतानि मधु यश्चायमस्याम् पृथिव्यां तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं शारीरस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मेदममृतमिदम् ब्रह्मेदं सर्वम्॥
इमा आपः॥
सर्वेषाम् भूतानाम् मध्वासामपां सर्वाणि भूतानि मधु यश्चायमास्वप्सु तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं रैतसस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मेदममृतमिदम् ब्रह्मेदं सर्वम्॥
अयमग्निः॥
सर्वेषाम् भूतानाम् मध्वस्याग्नेः सर्वाणि भूतानि मधु यश्चायमस्मिन्नग्नौ तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं वाङ्मयस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मेदममृतमिदम् ब्रह्मेदं सर्वम्॥
अयमाकाशः॥
सर्वेषाम् भूतानाम् मध्वस्याकाशस्य सर्वाणि भूतानि मधु यश्चायमस्मिन्नाकाशे तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं हृद्याकाशस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मेदममृतमिदम् ब्रह्मेदं सर्वम्॥
अयं वायुः॥
सर्वेषाम् भूतानाम् मध्वस्य वायोः सर्वाणि भूतानि मधु यश्चायमस्मिन्वायौ तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मम् प्राणस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मेदममृतमिदम् ब्रह्मेदं सर्वम्॥
अयमादित्यः॥
सर्वेषाम् भूतानाम् मध्वस्यादित्यस्य सर्वाणि भूतानि मधु यश्चायमस्मिन्नादित्ये तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं चक्षुषस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मेदममृतमिदम् ब्रह्मेदं सर्वम्॥
अयं चन्द्रः॥
सर्वेषाम् भूतानाम् मध्वस्य चन्द्रस्य सर्वाणि भूतानि मधु यश्चायमस्मिंश्चन्द्रे तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मम् मानसस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मेदममृतमिदम् ब्रह्मेदं सर्वम्॥
इमा दिशः॥
सर्वेषाम् भूतानाम् मध्वासां दिशां सर्वाणि भूतानि मधु यश्चायमासु दिक्षु तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं श्रौत्रः प्रातिश्रुत्कस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मेदममृतमिदम् ब्रह्मेदं सर्वम्॥
इयं विद्युत्॥
सर्वेषाम् भूतानाम् मध्वस्यै विद्युतः सर्वाणि भूतानि मधु यश्चायमस्यां विद्युति तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं तैजसस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मेदममृतमिदम् ब्रह्मेदं सर्वम्॥
अयं स्तनयित्नुः॥
सर्वेषाम् भूतानाम् मध्वस्य स्तनयित्नोः सर्वाणि भूतानि मधु यश्चायमस्मिन्त्स्तनयित्नौ तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं शाब्दः सौवरस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मेदममृतमिदम् ब्रह्मेदं सर्वम्॥
अयं धर्मः॥
सर्वेषाम् भूतानाम् मध्वस्य धर्मस्य सर्वाणि भूतानि मधु यश्चायमस्मिन्धर्मे तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं धार्मस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मेदममृतमिदम् ब्रह्मेदं सर्वम्॥
इदं सत्यं॥
सर्वेषाम् भूतानाम् मध्वस्य सत्यस्य सर्वाणि भूतानि मधु यश्चायमस्मिन्त्सत्ये तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं सात्यस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मेदममृतमिदम् ब्रह्मेदं सर्वम्॥
इदम् मानुषम्॥
सर्वेषाम् भूतानाम् मध्वस्य मानुषस्य सर्वाणि भूतानि मधु यश्चायमस्मिन्मानुषे तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मम् मानुषस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मेदममृतमिदम् ब्रह्मेदं सर्वम्॥
अयमात्मा॥
सर्वेषाम् भूतानाम् मध्वस्यात्मनः सर्वाणि भूतानि मधु यश्चायमस्मिन्नात्मनि तेजोमयोऽमृतमयः पुरुषो यश्चायमात्मा तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मेदममृतमिदम् ब्रह्मेदम् सर्वम्॥
स वा अयमात्मा॥
सर्वेषाम् भूतानामधिपतिः सर्वेषाम् भूतानां राजा तद्यथा रथनाभौ च रथनेमौ चाराः सर्वे समर्पिता एवमेवास्मिन्नात्मनि सर्वे प्राणाः सर्वे लोकाः सर्वे देवाः सर्वाणि भूतानि सर्वं एत आत्मानः समर्पिताः॥
इदं वै तन्मधु॥
दध्यङ्ङाथर्वणोऽश्विभ्यामुवाच तदेतदृषिः पश्यन्नवोचत्॥
तद्वां नरा सनये दंस उग्रमाविष्कृणोमि तन्यतुर्न वृष्टिं दध्यङ् ह यन्मध्वाथर्वणो वामश्वस्य शीर्ष्णा प्र यदीमुवाचेति॥
इदं वै तन्मधु॥
दध्यङ्ङाथर्वणोऽश्विभ्यामुवाच तदेतदृषिः पश्यन्नवोचत्॥
आथर्वणायाश्विना दधीचेऽश्व्यं शिरः प्रत्यैरयतम् स वाम् मधु प्रवोचदृतायन्त्वाष्ट्रं यद्दस्रावपिकक्ष्यं वामिति॥
इदं वै तन्मधु॥
दध्यङ्ङाथर्वणोऽश्विभ्यामुवाच तदेतदृषिः पश्यन्नवोचत्॥
पुरश्चक्रे द्विपदः पुरश्चक्रे चतुष्पदः॥
पुरः स पक्षी भूत्वा पुरः पुरुष आविषदिति स वा अयम् पुरुषः सर्वासु पूर्षु पुरिशयो नैनेन किं चनानावृतं नैनेन किं चनासंवृतम्॥
इदं वै तन्मधु॥
दध्यङ्ङाथर्वणोऽऋ=विभ्यामुवाच तदेतदृषिः पश्यन्नवोचत्॥
रूपंरूपम् प्रतिरूपो बभूव तदस्य रूपम् प्रतिचक्षणाय॥
इन्द्रो मायाभिः पुरुरूप ईयते युक्ता ह्यस्य हरयः शता दशेत्ययं वै हरयोऽयं वै दश च सहस्राणि बहूनि चानन्तानि च तदेतद्ब्रह्मापूर्वमनपरमबाह्य मयमात्मा ब्रह्म सर्वानुभूरित्यनुशाव्सनम्॥
अथ वंशः॥
तदिदं वयं शौर्पणाय्याछौर्पणाय्यो गौतमाद्गौतमो वात्स्याद्वात्स्यो वात्स्याच्च पाराशर्याच्च पाराशर्यः साङ्कृत्याच्च भारद्वाजाच्च भारद्वाज औदवाहेश्च शाण्डिल्याच्च शाण्डिल्यो वैजवापाच्च गौतमाच्च गौतमो वैजवापायनाच्च वैष्टपुरेयाच्च वैष्टपुरेयः शाण्डिल्याच्च रौहिणायनाच्च रौहिणायनः शौनकाच्चात्रेयाच्च रैभ्याच्च रैभ्यः पौतिमाष्यायणाच्च कौण्डिन्यायनाच्च कौण्डिन्यायनः कौण्डिन्यात्कौण्डिन्यः कौण्डिन्यात्कौण्डिन्यः कौण्डिन्याच्चाग्निवेश्याच्च॥
आग्निवेश्यः सैतवात्॥
सैतवः पाराशर्यात्पाराशर्यो जातूकार्ण्याज्जातूकर्ण्यो भारद्वाजाद्भारद्वाजो भारद्वाजाच्चासुरायणाच्च गौतमाच्च गौतमो भारद्वाजाद्भारद्वाजो वैजवापायनाद्वैजवापायनः कौशिकायनेः कौशिकायनिर्घृतकौशिकाद्घृतकौशिकः पाराशर्यायणात्पाराशर्यायणः पाराशर्यात्पाराशर्यो जातूकर्ण्याज्जातूकर्ण्यो भारद्वाजाद्भारद्वाजो भारद्वाजाच्चासुरायणाच्च यास्काच्चासुरायणस्त्रैवणेस्त्रैवणिरौपजन्धनेरौपजन्धनिरासुरेरासुरिर्भारद्वाजाद्भारद्वाज आत्रेयात्॥
आत्रेयो माण्टेः॥
माण्टिर्गौतमाद्गौतमो॥
गौतमाद्गौतमो वात्स्याद्वात्स्यः शाण्डिल्याछाण्डिल्यः कैशोर्यात्काप्यात्कैशोर्यः काप्यः कुमारहारितात्कुमारहारितो गालवाद्गालवो विदर्भीकौण्डिन्याद्विदर्भीकौण्डिन्यो वत्सनपातो बाभ्रवाद्वत्सनपाद्बाभ्रवः पथः सौभरात्पन्थाः सौभरोऽयास्यादाङ्गिरसादयास्य आङ्गिरस आभूतेस्त्वाष्ट्रादाभूतिस्त्वाष्ट्रो विश्वरूपात्त्वाष्ट्राद्विश्वरूपस्त्वाष्ट्रोऽश्विभ्यामश्विनौ दधीच आथर्वणाद्दध्यङ्ङाथर्वणोऽथर्वणो दैवादथर्वा दैवो मृत्योः प्राध्वंसनान्मृत्युः प्राध्वंसनः प्रध्वंसनात्प्रध्वंसन एकर्षेरेकर्षिविप्रजित्तेर्विप्रजित्तिर्व्यष्टेर्व्यष्टिः सनारोः सनारुः सनातनात्सनातनः सनगात्सनगः परमेष्ठिनः परमेष्ठी ब्रह्मणो ब्रह्म स्वयम्भु ब्रह्मणे नमः॥