०४

द्वया ह प्राजापत्याः॥
देवाश्चासुराश्च ततः कानीयसा एव देवा ज्यायसा असुरास्तएषु लोकेष्वस्पर्धन्त॥
ते ह देवा ऊचुः॥
हन्तासुरान्यज्ञ उद्गीथेनात्ययामेति॥
ते ह वाचमूचुः॥
त्वं न उद्गायेति तथेति तेभ्यो वागुदगायद्यो वाचि भोगस्तं देवेभ्य आगायद्यत्कल्याणम् वदति तदात्मने तेऽविदुरनेन वै न उद्गात्रात्येष्यन्तीति तमभिद्रुत्य पाप्मनाविध्यन्त्स यः स पाप्मा यदेवेदमप्रतिरूपम् वदति स एव स पाप्मा॥
अथ ह प्राणमूचुः॥
त्वं न उद्गायेति तथेति तेभ्यः प्राण उदगायद्यः प्राणे भोगस्तं देवेभ्य आगायद्यत्कल्याणं जिघ्रति तदात्मने तेऽविदुरनेन वै न उद्गात्रात्येष्यन्तीति तमभिद्रुत्य पाप्मनाविध्यन्त्स यः स पाप्मा यदेवेदमप्रतिरूपं जिघ्रति स एव स पाप्मा॥
अथ ह चक्षुरूचुः॥
त्वं न उद्गायेति तथेति तेभ्यश्चक्षुरुदगायद्यश्चक्षुषि भोगस्तं देवेभ्य आगायद्यत्कल्याणम् पश्यति तदात्मने तेऽविदुरनेन वै न उद्गात्रात्येष्यन्तीति तमभिद्रुत्य पाप्मनाविध्यन्त्स यः स पाप्मा यदेवेदमप्रतिरूपम् पश्यति स एव स पाप्मा॥
अथ ह श्रोत्रमूचुः॥
त्वं न उद्गायेति तथेति तेभ्यः श्रोत्रमुदगायद्यः श्रोत्रे भोगस्तं देवेभ्य आगायद्यत्कल्याणं शृणोति तदात्मने तेऽविदुरनेन वै न उद्गात्रात्येष्यन्तीति तमभिद्रुत्य पाप्मनाविध्यन्त्स यः स पाप्मा यदेवेदमप्रतिरूपं शृणोति स एव स पाप्मा॥
अथ ह मन ऊचुः॥
त्वम् न उद्गायेति तथेति तेभ्यो मन उदगायद्यो मनसि भोगस्तं देवेभ्य आगायद्यत्कल्याणं सङ्कल्पयति तदात्मने तेऽविदुरनेन वै न उद्गात्रात्येष्यन्तीति तमभिद्रुत्य पाप्मनाविध्यन्त्स यः स पाप्मा यदेवेदमप्रतिरूपं सङ्कल्पयति स एव स पाप्मैवमु खल्वेता देवताः पाप्मभिरुपासृजन्नेवमेनाः पाप्मनाविध्यन्॥
अथ हेममासन्यम् प्राणमूचुः॥
त्वं न उद्गायेति तथेति तेभ्य एष प्राण उदगायत्तेऽविदुरनेन वै न उद्गात्रात्येष्यन्तीति तमभिद्रुत्य पाप्मनाविव्यत्सन्त्स यथाश्मानमृत्वा लोष्टो विध्वंसेतैवं हैव विध्वंसमाना विष्वञ्चो विनेशुस्ततो देवा अभवन्परासुरा भवत्यात्मना परास्य द्विषन्भ्रातृव्यो भवति य एवम् वेद॥
ते होचुः॥
क्व नु सोऽभूद्यो न इत्थमसक्तेत्ययमास्येऽन्तरिति सोऽयास्य आङ्गिरसोऽङ्गानां हि रसः॥
सा वा एषा देवता दूः॥
नाम दूरं ह्यस्या मृत्युर्दूरं ह वा अस्मान्मृत्युर्भवति य एवम् वेद॥
सा वा एषा देवता॥
एतासां देवतानाम् पाप्मानम् मृत्युमपहत्य यत्रासां दिशामन्तस्तद्गमयां चकार तदासाम् पाप्मनो विन्यदधात्तस्मान्न जनमियान्नान्तमियान्नेत्पाप्मानम् मृत्युमन्ववायानीति॥
सा वा एषा देवता॥
एतासां देवतानाम् पाप्मानम् मृत्युमपहत्याथैना मृत्युमत्यवहत्॥
स वै वाचमेव प्रथमामत्यवहत्॥
सा यदा मृत्युमत्यमुच्यत सोऽग्निरभवत्सोऽयमग्निः परेण मृत्युमतिक्रान्तो दीप्यते॥
अथ प्राणमत्यवहत्॥
स यदा मृत्युमत्यमुच्यत स वायुरभवत्सोऽयम् वायुः परेण मृत्युमतिक्रान्तः पवते॥
अथ चक्षुरत्यवहत्॥
तद्यदा मृत्युमत्यमुच्यत स आदित्योऽभवत्सोऽसावादित्यः परेण मृत्युमतिक्रान्तस्तपति॥
अथ श्रोत्रमत्यवहत्॥
तद्यदा मृत्युमत्यमुच्यत ता दिशोऽभवंस्ता इमा दिशः परेण मृत्युमतिक्रान्ताः॥
अथ मनोऽत्यवहत्॥
तद्यदा मृत्युमत्यमुच्यत स चन्द्रमा अभवत्सोऽसौ चन्द्रः परेण मृत्युमतिक्रान्तो भात्येवं ह वा एनमेषा देवता मृत्युमतिवहति य एवम् वेद॥
अथात्मनेऽन्नाद्यमागायत्॥
यद्धि किं चान्नमद्यतेऽनेनैव तदद्यत इह प्रतितिष्ठति॥
ते देवा अब्रुवन्॥
एतावद्वा इदं सर्वं यदन्नं तदात्मन आगासीरनु नोऽस्मिन्नन्न आभजस्वेति ते वै माभिसम्विशतेति तथेति तं समन्तम् परिण्यविशन्त तस्माद्यदनेनान्नमत्ति तेनैतास्तृप्यन्त्येवं ह वा एनं स्वा अभिसम्विशन्ति भर्ता स्वानां श्रेष्ठः पुरएता भवत्यन्नादोऽधिपतिर्य एवम् वेद॥
य उ हैवम्विदम्॥
स्वेषु प्रतिप्रतिर्बुभूषति न हैवालम् भार्येभ्यो भवत्यथ य एवैतमनु भवति यो वैतमनु भार्यान्बुभूर्षति स हैवालम् भार्येभ्यो भवति॥
सोऽयास्य आङिरसो॥
अङ्गानां हि रसः प्राणो वा अङ्गानां रसः प्राणो हि वा अङ्गानां रसस्तस्माद्यस्मात्कस्माच्चाङ्गात्प्राण उत्क्रामति तदेव तछुष्यत्येष हि वा अङ्गानां रसः॥
एष उ एव बृहस्पतिः॥
वाग्वै बृहती तस्या एष पतिस्तस्मादु बृहस्पतिः॥
एष उ एव ब्रह्मणस्पतिः॥
वाग्वै ब्रह्म तस्या एष पतिस्तस्मादु ह ब्रह्मणस्पतिः॥
एष उ एव साम॥
वाग्वै सामैष सा चामश्चेति तत्साम्नः सामत्वं यद्वेव समः प्लुषिणा समो मशकेन समो नागेन सम एभिस्त्रिभिर्लोकैः समोऽनेन सर्वेण तस्माद्वेव सामाश्नुते साम्नः सायुज्यं सलोकतां य एवमेतत्साम वेद॥
एष उ वा उद्गीथः॥
प्राणो वा उत्प्राणेन हीदं सर्वमुत्तब्धम् वागेव गीथोच्च गीथा चेति स उद्गीथः॥
तद्धापि ब्रह्मदत्तश्चैकितानेयो॥
राजानम् भक्षयन्नुवाचायं त्यस्य राजा मूर्धानम् विपातयताद्यदितोऽयास्य आङ्गिरसोऽन्येनोदगायदिति वाचा च ह्येव स प्राणेन चोदगायदिति॥
तस्य हैतस्य साम्नो यः स्वम् वेद॥
भवति हास्य स्वं तस्य वै स्वर एव स्वं तस्मादार्त्विज्यं करिष्यन्वाचि स्वरमिच्छेत तया वाचा स्वरसम्पन्नयार्त्विज्यं कुर्यात्तस्माद्यज्ञे स्वरवन्तं दिदृक्षन्त एवाथो यस्य स्वम् भवति भवति हास्य स्वम् य एवमेतत्सामनः स्वम् वेद॥
तस्य हैतस्य साम्नो यः सुवर्णम् वेद॥
भवति हास्य सुवर्णं तस्य वै स्वर एव सुवर्णम् भवति हास्य सुवर्णं य एवमेतत्साम्नः सुवर्णम् वेद॥
तस्य हैतस्य॥
साम्नो यः प्रतिष्ठाम् वेद प्रति ह तिष्ठति तस्य वै वागेव प्रतिष्ठा वाचि हि खल्वेष एतत्प्राणः प्रतिष्ठितो गीयतेऽन्न इत्यु हैक आहुः॥
अथातः पवमानानामेवाभ्यारोहः॥
स वै खलु प्रस्तोता साम प्रस्तौति स यत्र प्रस्त्युआत्तदेतानि जपेदसतो मा सद्गमय तमसो मा ज्योतिर्गमय मृत्योर्मामृतं गमयेति॥
स यदाहासतो मा सद्गमयेति॥
मृत्युर्वा असत्सदमृतम् मृत्योर्मामृतं गमयामृतम् मा कुर्वित्येवैतदाह॥
तमसो मा ज्योतिर्गमयेति॥
मृत्युर्वै तमो ज्योतिरमृतम् मृत्योर्मामृतं गमयामृतम् मा कुर्वित्येवैतदाह मृत्योर्मामृतं गमयेति नात्र तिरोहितमिवास्ति॥
अथ यानीतराणि स्तोत्राणि॥
तेष्वात्मनेऽन्नाद्यमागायेत्तस्मादु तेषु वरम् वृणीत यम् कामं कामयेत तं स एष एवम्विदुद्गातात्मने वा यजमानाय वा यं कामं कामयते तमागायति तद्धैतल्लोकजिदेव न हैवालोक्यताया आशास्ति य एवमेतत्साम वेद॥
आत्मैवेदमग्र आसीत्॥
पुरुषविधः सोऽनुवीक्ष्य नान्यदात्मनोऽपश्यत्सोऽहमस्मीत्यग्रेव्याहरत्ततोऽहन्नामाभवत्तस्मादप्येतर्ह्यामन्त्रितोऽहमयमित्येवाग्र उक्त्वाथान्यन्नाम प्रब्रूते यदस्य भवति॥
स यत्पूर्वोऽस्मात्॥
सर्वस्मात्सर्वान्पाप्मन औषत्तस्मात्पुरुष ओषति ह वै स तं योऽस्मात्पूर्वो बुभूषति य एवम् वेद॥
सोऽबिभेत्॥
तस्मादेकाकी बिभेति स हायमीक्षां चक्रे यन्मदन्यन्नास्ति कस्मान्नु बिभेमीति तत एवास्य भयम् वीयाय कस्माद्ध्यभेष्यद्द्वितीयद्वै भयम् भवति॥
स वै नैव रेमे॥
तस्मादेकाकी न रमते स द्वितीयमैछत्स हैतावानास यथा स्त्रीपुमांसौ सम्परिष्वक्तौ॥
स इममेवात्मानं द्वेधापातयत्॥
ततः पतिश्च पत्नी चाभवतां तस्मादिदमर्धवृगलमिव स्व इति ह स्माह याज्ञवल्क्यस्तस्मादयमाकाश स्त्रिया पूर्यत एव तां समभवत्ततो मनुष्या अजायन्त॥
सो हेयमीक्षां चक्रे॥
कथम् नु मात्मन एव जनयित्वा सम्भवति हन्त तिरोऽसानीति॥
सा गौरभवत्॥
वृषभ इतरस्तां समेवाभवत्ततो गावोऽजायन्त॥
वडवेतराभवत्॥
अश्ववृष इतरो गर्दभीतरा गर्दभ इतरस्तां समेवाभवत्तत एकशफमजायत॥
अजेतराभवत्॥
वस्त इतरोऽविरितरो मेष इतरस्तां समेवाभ्वत्ततोऽजावयोऽजायन्तैवमेव यदिदं किं च मिथुनमा पिपीलिकाभ्यस्तत्सर्वमसृजत॥
सोऽवेत्॥
अहम् वाव सृष्टिरस्म्यहं हीदं सर्वमसृक्षीति ततः सृष्टिरभवत्सृष्ट्यां हास्यैतस्याम् भवति य एवम् वेद॥
अथेत्यभ्यमन्थत्॥
स मुखाच्च योनेर्हस्ताभ्यां चाग्निमसृजत तस्मादेतदुभयमलोमकमन्तरतोऽलोमका हि योनिरन्तरतः॥
तद्यदिदमाहुः॥
अमुं यजामुं यजेत्येकैकं देवमेतस्यैव सा विसृष्टिरेष उ ह्येव सर्वे देवाः॥
अथ यत्किं चेदमार्द्रम्॥
तद्रेतसोऽसृजत तदु सोम एतावद्वा इदं सर्वमन्नं चैवान्नादश्च सोम एवान्नमग्निरन्नादः॥
सैषा ब्रह्मणोऽतिसृष्टिः॥
यछ्रेयसो देवानसृजताथ यन्मर्त्यः सन्नमृतानसृजत तस्मादतिसृष्टिरतिसृष्ट्यां हास्यैतस्याम् भवति य एवम् वेद॥
तद्धेदं तर्ह्यव्याकृतमासीत्॥
तन्नामरूपाभ्यामेव व्याक्रियतासौनामायमिदंरूप इति तदिदमप्येतर्हि नामरूपाभ्यामेव व्याक्रियतेऽसौनामायमिदंरूप इति॥
स एष इह प्रविष्टः॥
आ नखाग्रेभ्यो यथा क्षुरः क्षुरधानेऽवहितः स्याद्विश्वम्भरो वा विश्वम्भरकुलाये तं न पश्यन्त्यकृत्स्नो हि सः॥
प्राणन्नेव प्राणो नाम भवति॥
वदन्वाक्पश्यंश्चक्षुः शृण्वञ्छ्रोत्रम् मन्वानो मनस्तान्यस्यैतानि कर्मनामान्येव स योऽत एकैकमुपास्ते न स वेदाकृत्स्नो ह्येषोऽत एकैकेन भवति॥
आत्मेत्येवोपासीत॥
अत्र ह्येते सर्व एकम् भवन्ति तदेतत्पदनीयमस्य सर्वस्य यदयमात्मानेन ह्येतत्सर्वम् वेद यथा ह वै पदेनानुविन्देदेवं कीर्तिं श्लोकम् विन्दते य एवम् वेद॥
तदेतत्प्रेयः पुत्रात्॥
प्रेयो वित्तात्प्रेयोऽन्यस्मात्सर्वस्मादन्तरतरं यदयमात्मा स योऽन्यमात्मनः प्रियम् ब्रुवाणम् ब्रूयात्प्रियं रोत्स्यतीतीश्वरो ह तथैव स्यादात्मानमेव प्रियमुपासीत स य आत्मानमेव प्रियमुपास्ते न हास्य प्रियम् प्रमायुकम् भवति॥
तदाहुः॥
यद्ब्रह्मविद्यया सर्वम् भविष्यन्तो मनुष्या मन्यन्ते किमु तद्ब्रह्मावेद्यस्मात्तत्सर्वमभवदिति॥
ब्रह्म वा इदमग्र आसीत्॥
तदात्मानमेवावेदहम् ब्रह्मास्मीति तस्मात्तत्सर्वमभवत्तद्यो-यो देवानाम् प्रत्यबुध्यत स एव तदभवत्तथर्षीणां तथा मनुष्याणाम्॥
तद्धैतत्पश्यन्नृषिर्वामदेवः प्रतिपेदे॥
अहम् मनुरभवं सूर्यश्चेति तदिदमप्येतर्हि य एवम् वेदाहम् ब्रह्मास्मीति स इदं सर्वम् भवति तस्य ह न देवाश्चनाभूत्या ईशत आत्मा ह्येषां स भवत्यथ योऽन्यां देवतामुपास्तेऽन्योऽसावन्योऽहमस्मीति न स वेद यथा पशुरेवं स देवानां यथा ह वै बहवः पशवो मनुष्यम् भुञ्ज्युरेवमेकैकः पुरुषो देवान्भुनक्त्येकस्मिन्नेव पशावादीयमानेऽप्रियम् भवति किमु बहुषु तस्मादेषां तन्न प्रियम् यदेतन्मनुष्या विद्युः॥
ब्रह्म वा इदमग्र आसीत्॥
एकमेव तदेकं सन्न व्यभवत्तछ्रेयो रूपमत्यसृजत क्षत्रं यान्येतानि देवत्रा क्षत्राणीन्द्रो वरुणः सोमो रुद्रः पर्जन्यो यमो मृत्युरीशान इति तस्मात्क्षत्रात्परं नास्ति तस्माद्ब्राह्मणः क्षत्रियमधस्तादुपास्ते राजसूये क्षत्र एव तद्यशो दधाति सैषा क्षत्रस्य योनिर्यद्ब्रह्म तस्माद्यद्यपि राजा परमतां गछति ब्रह्मैवान्तत उपनिश्रयति स्वां योनिं य उ एनं हिनस्ति स्वां स योनिमृछति स पापीयान्भवति यथा श्रेयांसं हिंसित्वा॥
स नैव व्यभवत्॥
स विशमसृजत यान्येतानि देवजातानि गणश आख्यायन्ते वसवो रुद्रा आदित्या विश्वे देवा मरुत इति॥
स नैव व्यभवत्॥
स शौद्रम् वर्णमसृजत पूषणमियम् वै पूषेयं हीदं सर्वम् पुष्यति यदिदं किं च॥
स नैव व्यभवत्॥
तछ्रेयो रूपमत्यसृजत धर्मं तदेतत्क्षत्रस्य क्षत्रं यद्धर्मस्तस्माद्धर्मात्परं नास्त्यथो अबलीयान्बलीयांस्मम्:!शंसते धर्मेण यथा राज्ञैवं यो वै स धर्मः सत्यम् वै तत्तस्मात्सत्यम् वदन्तमाहुर्धर्मम् वदतीति धर्मम् वा वदन्तं सत्यम् वदतीत्येतद्ध्येवैतदुभयम् भवति॥
तदेतद्ब्रह्म क्षत्रम् विट् शूद्रः॥
तदग्निनैव देवेषु ब्रह्माभवद्ब्राह्मणो मनुष्येषु क्षत्रियेण क्षत्रियो वैश्येन वैश्यः शूद्रेण शूद्रस्तस्मादग्नावेव देवेषु लोकमिच्छन्ते ब्राह्मणे मनुष्येष्वेताभ्यां हि रूपाभ्याम् ब्रह्माभवत्॥
अथ यो ह वा अस्माल्लोकात्स्वं लोकमदृष्ट्वा प्रैति॥
स एनमविदितो न भुनक्ति यथा वेदो वाननूक्तोऽन्यद्वा कर्माकृतम् यदि ह वा अप्यनेवम्विन्महत्पुण्यं कर्म करोति तद्धास्यान्ततः क्षीयत एवात्मानमेव लोकमुपासीत स य आत्मानमेव लोकमुपास्ते न हास्य कर्म क्षीयतेऽस्माद्ध्येवात्मनो यद्यत्कामयते तत्तत्सृजते॥
अथो अयम् वा आत्मा॥
सर्वेषाम् भूतानां लोकः स यज्जुहोति यद्यजते तेन देवानां लोकोऽथ यदनुब्रूते तेनर्षीणामथ यत्प्रजामिच्छते यत्पितृभ्यो निपृणाति तेन पितॄणामथ यन्मनुष्यान्वासयते यदेभ्योऽशनं ददाति तेन मनुष्याणामथ यत्पशुभ्यस्तृणोदकम् विन्दति तेन पशूनां यदस्य गृहेषु श्वापदा वयांस्या पिपीलिकाभ्य उपजीवन्ति तेन तेषां लोको यथा ह वै स्वाय लोकायारिष्टिमिच्छेदेवं हैवम्विदे सर्वदा सर्वाणि भूतान्यरिष्टिमिच्छन्ति तद्वा एतद्विदितम् मीमांसितम्॥
आत्मैवेदमग्र आसीत्॥
एक एव सोऽकामयत जाया मे स्यादथ प्रजायेयाथ वित्तम् मे स्यादथ कर्म कुर्वीयेत्येतान्वावै कामो नेछंश्चनातो भूयो विन्देत्तस्मादप्येतर्ह्येकाकी कामयते जाया मे स्यादथ प्रजायेयाथ वित्तम् मे स्यादथ कर्म कुर्वीयेति स यावदप्येतेषामेकैकं न प्राप्नोत्यकृत्स्न एव तावन्मन्यते तस्यो कृत्स्नता॥
मन एवास्यात्मा॥
वाग्जाया प्राणः प्रजा चक्षुर्मानुषम् वित्तम् चक्षुषा हि तद्विन्दति श्रोत्रं दैवं श्रोत्रेण हि तछृणोत्यात्मैवास्य कर्मात्मना हि कर्म करोति स एष पाङ्क्तो यज्ञः पाङ्क्तः पशुः पाङ्क्तः पुरुषः पाङ्क्तमिदं किं च तदिदं सर्वमाप्नोति यदिदं किं च य एवम् वेद॥
यत्सप्तान्नानि मेधया तपसाजनयत्पिता॥
एकमस्य साधारणम् द्वे देवानभाजयत्॥
त्रीण्यात्मनेऽकुरुत पशुभ्य एकम् प्रायछत्॥
तस्मिन्त्सर्वम् प्रतिष्ठितं यच्च प्राणिति यच्च न॥
कस्मात्तानि न क्षीयन्तेऽद्यमानानि सर्वदा॥
यो वै तामक्षितिम् वेद सोऽन्नमत्ति प्रतीकेन॥
स देवानपिगछति स ऊर्जमुपजीवतीति श्लोकाः॥
यत्सप्तान्नानि मेधया तपसाजनयत्पितेति॥
मेधया हि तपसाजनयत्पितैकमस्य साधारणमितीदमेवास्य तत्साधारणमन्नं यदिदमद्यते स य एतदुपास्ते न स पाप्मनो व्यावर्तते मिष्रं ह्येतत्॥
द्वे देवानभाजयदिति हुतं च प्रहुतं च तस्माद्देवेभ्यो जुह्वति च प्र च जुह्वत्यथो आहुर्दर्शपूर्णमासाविति तस्मान्नेष्टियाजुकः स्यात्॥
पशुभ्य एकम् प्रायछदिति॥
तत्पयः पयो ह्येवाग्रे मनुष्याश्च पशवश्चोपजीवन्ति तस्मात्कुमारं जातं घृतम् वैवाग्रे प्रतिलेहयन्ति स्तनम् वानुधाप्यन्ति॥
अथ वत्सं जातमाहुः॥
अतृणाद इति तस्मिन्त्सर्वम् प्रतिष्ठितं यच्च प्राणिति यच्च नेति पयसि हीदं सर्वम् प्रतिष्ठितं यच्च प्राणिति यच्च न॥
तद्यदिदमाहुः॥
सम्वत्सरम् पयसा जुह्वदप पुनर्मृत्युं जयतीति न तथा विद्याद्यदहरेव जुहोति तदहः पुनर्मृत्युमापजयत्येवम् विद्वान्त्सर्वं हि देवेभ्योऽन्नाद्यम् प्रयछति कस्मात्तानि न क्षीयन्तेऽद्यमानानि सर्वदेति॥
पुरुषो वा अक्षितिः॥
स हीदमन्नम् पुनः-पुनर्जनयते यो वै तामक्षितिम् वेदेति पुरुषो वा अक्षितिः स हीदमन्नं धिया-धिया जनयते कर्मभिर्यद्धैतन्न कुर्यात्क्षीयेत ह सोऽन्नमत्ति प्रतीकेनेति मुखम् प्रतीकम् मुखेनेत्येतत्स देवानपिगछति स ऊर्जमुपजीवतीति प्रशंसा॥
त्रीण्यात्मनेऽकुरुतेति॥
मनो वाचम् प्राणं तान्यात्मनेऽकुरुतान्यत्रमना अभूवं नादर्शमन्यत्रमना अभूवं नाश्रौषमिति मनसा ह्येव पश्यति मनसा शृणोति॥
कामः सङ्कल्पो॥
विचिकित्सा श्रद्धाश्रद्धा धृतिरधृतिर्ह्रीर्धीर्भीरित्येतत्सर्वम् मन एव तस्मादपि पृष्ठत उपस्पृष्टो मनसा विजानाति॥
यः कश्च शब्दो॥
वागेव सैषा ह्यन्तमायत्तैषा हि न प्राणोऽपानो व्यान उदानः समानोऽन इत्येतत्सर्वम् प्राण एवैतन्मन्यो वा अयमात्मा वाङ्मयो मनोमयः प्राणमयः॥
त्रयो लोका एत एव॥
वागेवायं लोको मनोऽन्तरिक्षलोकः प्राणोऽसौ लोकः॥
त्रयो वेदा एत एव॥
वागेवर्ग्वेदो मनो यजुर्वेदः प्राणः सामवेदः॥
देवाः पितरो मनुष्या एत एव॥
वागेव देवा मनः पितरः प्राणो मनुष्याः॥
पिता माता प्रजैत एव॥
मन एव पिता वाङ्ग्माता प्राणः प्रजा॥
विज्ञातम् विजिज्ञास्यम्॥
अविज्ञातमेत एव यत्किं च विज्ञातम् वाचस्तद्रूपम् वाग्घि विज्ञाता वागेनं तद्भूत्वावति॥
यत्किं च विजिज्ञास्यम्॥
मनस्तद्रूपम् मनो हि विजिज्ञास्यम् मन एव तद्भूत्वावति॥
यत्किं चाविज्ञातम्॥
प्राणस्य तद्रूपम् प्राणो ह्यविज्ञातः प्राण एव तद्भूत्वावति॥
तस्यै वाचः पृथिवी शरीरम्॥
ज्योती रूपमयमग्निस्तद्यावत्येव वाक्तावती पृथिवी तावानयमग्निः॥
अथैतस्य मनसो॥
द्यौः शरीरं ज्योती रूपमसावादित्यस्तद्यावदेव मनस्तावती द्यौस्तावानसावादित्यस्तौ मिथुनं समैतां ततः प्राणोऽजायत स इन्द्रः स एषोऽसपत्नो द्वितीयो वै सपत्नो नास्य सपत्नो भवति य एवम् वेद॥
अथैतस्य प्राणस्यापः॥
शरीरं ज्योती रूपमसौ चन्द्रस्तद्यावा नेव प्राणस्तावत्य आपस्तावानसौ चन्द्रः॥
त एते सर्व एव समाः॥
सर्वेऽनन्ताः स यो हैतानन्तवत उपास्तेऽन्तवतं स लोकं जयत्यथ यो हैताननन्तानुपास्तेऽनन्तं स लोकं जयति॥
स एष संवत्सरः॥
प्रजापतिः षोडशकलस्तस्य रात्रय एव पञ्चदश कला ध्रुवैवास्य षोडशी कला स रात्रिभिरेवा च पूर्यतेऽप च क्षीयते सोऽमावास्यां रात्रिमेतया षोडश्या कलया सर्वमिदम् प्राणभृदनुप्रविश्य ततः प्रातर्जायते तस्मादेतां रात्रिम् प्राणभृतः प्राणं न विच्छिन्द्यादपि कृकलासस्यैतस्या एव देवताया अपचित्यै॥
यो वै स संवत्सरः॥
प्रजापतिः॥
षोडशकलोऽयमेव स योऽयमेवंवित्पुरुषस्तस्य वित्तमेव पञ्चदश कला आत्मैवास्य षोडशी कला स वित्तेनैवा च पूर्यतेऽप च क्षीयते तदेतन्नभ्यं यदयमात्मा प्रधिर्वित्तं तस्माद्यद्यपि सर्वज्यानिं जीयत आत्मना चेज्जीवति प्रधिनागादित्याहुः॥
अथ त्रयो वाव लोकाः॥
मनुष्यलोकः पितृलोको देवलोक इति सोऽयम् मनुष्यलोकः पुत्रेणैव जय्यो नान्येन कर्मणा पितृलोको विद्यया देवलोको देवलोको वै लोकानां श्रेष्ठस्तस्माद्विद्याम् प्रशंसन्ति॥
अथातः सम्प्रत्तिः॥
यदा प्रैष्यन्मन्यतेऽथ पुत्रमाह त्वम् ब्रह्म त्वं यज्ञस्त्वं लोक इति स पुत्रः प्रत्याहाहम् ब्रह्माहं यज्ञोऽहं लोक इति॥
यद्वै किं चानूक्तम्॥
तस्य सर्वस्य ब्रह्मेत्येकता ये वै के च यज्ञास्तेषां सर्वेषां यज्ञ इत्येकता ये वै के च लोकास्तेषां सर्वेषां लोक इत्येकतैतावद्वा इदं सर्वमेतन्मा सर्वं सन्नयमितो भुनजदिति तस्मात्पुत्रमनुशिष्टं लोक्यमाहुस्तस्मादेनमनुशासति स यदैवंविदस्माल्लोकात्प्रैत्यथैभिरेव प्राणैः सह पुत्रमाविशति स यद्यनेन किञ्चिदक्ष्णयाकृतम् भवति तस्मादेनं सर्वस्मात्पुत्रो मुञ्चति तस्मात्पुत्रो नाम स पुत्रेणैवास्मिंलोके प्रतितिष्ठत्यथैनमेते दैवाः प्राणा अमृता आविशन्ति॥
पृथिव्यै चैनमग्नेश्च॥
दैवी वागाविशति सा वै दैवी वाग्यया यद्यदेव वदति तत्तद्भवति॥
दिवश्चैनमादित्याच्च॥
दैवम् मन आविशति तद्वै दैवम् मनो येनानन्द्येव भवत्यथो न शोचति॥
अद्भ्यश्चैनं चन्द्रमसश्च॥
दैवः प्राण आविशति स वै दैवः प्राणो यः सञ्चरंश्चासञ्चरंश्च न व्यथतेऽथो न रिश्यति स एष एवंवित्सर्वेषाम् भूतानामात्मा भवति यथैषा देवतैवं स यथैतां देवतां सर्वाणि भूतान्यवन्त्येवं हैवंविदं सर्वाणि भूतान्यवन्ति यदु किं चेमाः प्रजाः शोचन्त्यमैवासां तद्भवति पुण्यमेवामुं गछति न ह वै देवान्पापं गछति॥
अथातो व्रतमीमांसा॥
प्रजापतिर्ह कर्माणि ससृजे तानि सृष्टान्यन्योऽन्येनास्पर्धन्त वदिष्याम्येवाहमिति वाग्दध्रे द्रक्ष्याम्यहमिति चक्षुः श्रोष्याम्यहमिति श्रोत्रमेवमन्यानि कर्माणि यथाकर्म॥
तानि मृत्युः श्रमो भूत्वोपयेमे॥
तान्याप्नोत्तान्याप्त्वा मृत्युरवारुन्द्ध तस्माछ्राम्यत्येव वाक्श्राम्यति चक्षुः श्राम्यति श्रोत्रमथेममेव नाप्नोद्योऽयम् मध्यमः प्राणः॥
तानि ज्ञातुं दध्रिरे॥
ऽयं वै नः श्रेष्ठो यः सञ्चरंश्चासञ्चरंश्च न व्यथतेऽथो न रिष्यति हन्तास्यैव सर्वे रूपम् भवामेति त एतस्यैव सर्वे रूपमभवंस्तस्मादेत एतेनाख्यायन्ते प्राणा इति तेन ह वाव तत्कुलमाख्यायते यस्मिन्कुले भवति य एवं वेद य उ हैवंविदा स्पर्धतेऽनुशुष्य हैवान्ततो म्रियत इत्यध्यात्मम्॥
अथाधिदेवतं॥
ज्वलिष्याम्येवाहमित्यग्निर्दध्रे तप्स्यास्यहमित्यादित्यो भास्याम्यहमिति चन्द्रमा एवमन्या देवता यथादेवतं स यथैषाम् प्राणानाम् मध्यमः प्राण एवमेतासां देवतानां वायुर्म्लोचन्ति ह्यन्या देवता न वायुः सैषानस्तमिता देवता यद्वायुः॥
अथैष श्लोको भवति॥
यतश्चोदेति सूर्योऽस्तं यत्र च गचतीति प्राणाद्वा एष उदेति प्राणेऽस्तमेति तं देवाश्चक्रिरे धर्मं स एवाद्य स उ श्व इति यद्वा एतेऽमुर्ह्यध्रियन्त तदेवाप्यद्य कुर्वन्ति तस्मादेकमेव व्रतं चरेत्प्राण्याच्चैवापान्याच्च नेन्मा पाप्मा मृत्युराप्नवदिति यद्यु चरेत्समापिपयिषेत्तेनो एतस्यै देवतायै सायुज्यं सलोकतां जयति य एवं वेद॥
त्रयं वा इदं नाम रूपं कर्म॥
तेषां नाम्नां वागित्येतदेषामुक्थमतो हि सर्वाणि नामान्युत्तिष्ठन्त्येतदेषां सामैतद्धि सर्वैर्नामभिः सममेतदेषाम् ब्रह्मैतद्धि सर्वाणि नामानि बिभर्ति॥
अथ रूपाणाम्॥
चक्षुरित्येतदेषामुक्थमतो हि सर्वाणि रूपाण्युत्तिष्ठन्त्येतदेषां सामैतद्धि सर्वै रूपैः सममेतदेषाम् ब्रह्मैतद्धि सर्वाणि रूपाणि बिभर्ति॥
अथ कर्मणाम्॥
आत्मेत्येतदेषामुक्थमतो हि सर्वाणि कर्माण्युत्तिष्ठन्त्येतदेषां सामैतद्धि सर्वैः कर्मभिः सममेतदेषाम् ब्रह्मैतद्धि सर्वाणि कर्माणि बिभर्ति तदेतत्त्रयं सदेकमयमात्मात्मो एकः सन्नेतत्त्रयं तदेतदमृतं सत्येन छन्नम् प्राणो वा अमृतं नामरूपे सत्यं ताभ्यामयम् प्राणश्छन्नः॥