स वै तृतीयेऽहन्॥
षष्ठे वा द्वादशे वा प्रवर्ग्योपसदौ समस्य प्रवर्ग्यमुत्सादयत्युत्सन्नमिव हीदं शिरस्तद्यदेतमभितो भवति तत्सर्वं समादायाग्रेण शालामन्तर्वेद्युपसमायन्ति॥
अथाग्नीध्रः॥
आहवनीये त्रीञ्छालाकानुपकल्पयते तेषामेकमुज्ज्वलय्य मुखदघ्ने धारयमाणो जुहोति यज्ञस्य शीर्षछिन्नस्य शुगुदक्रामत्सेमांलोकानाविशत्तयैवैनमेतछुचा समर्धयति कृत्स्नं करोति॥
अथ यन्मुखदघ्ने॥
उपरीव वै तद्यन्मुखदघ्नमुपरीव तद्यदसौ लोकस्तद्यामुं लोकं शुगाविशत्तयैवैनमेतछुचा समर्धयति कृत्स्नं करोति॥
या ते घर्म दिव्या शुगिति॥
यैव दिव्या शुग्या गायत्र्यांहविर्धान इति यैव गायत्र्यां हविर्धाने सा त आप्यायतां निष्ट्यायतां तस्यै ते स्वाहेति नात्र तिरोहितमिवास्ति॥
अथ द्वितीयमुज्ज्वलय्य॥
नाभिदघ्ने धारयमाणो जुहोति मध्यमिव वै तद्यन्नाभिदघ्नं मध्यमिवान्तरिक्षलोकस्तद्यान्तरिक्षलोकं शुगाविशत्तयैवैनमेतछुचा समर्धयति कृत्स्नं करोति॥
याते घर्मान्तरिक्षे शुगिति॥
यैवान्तरिक्षे शुग्या त्रिष्टुभ्याग्नीध्र इति यैव त्रिष्टुभ्याग्नीध्रे सा त आप्यायतां निष्ट्यायतां तस्यै ते स्वाहेति नात्र तिरोहितमिवास्ति॥
अथ तृतीयमभ्याधाय॥
तस्मिन्नासीनो जुहोत्यध-इव वै तद्यदासीनोऽध-इव तद्यदयं लोकस्तद्येमं लोकं शुगाविशत्तयैवैनमेतछुचा समर्धयति कृत्स्नं करोति॥
या ते घर्म पृथिव्यां शुगिति॥
यैव पृथिव्यां शुग्या जगत्यां सदस्येति यैव जगत्यां सदस्या सा तआप्यायतां निष्ट्यायतां तस्यै ते स्वाहेति नात्र तिरोहितमिवास्ति॥
अथोपनिष्क्रामति॥
क्षत्रस्य त्वा परस्पायेत्येतद्वै दैवं क्षत्रं य एष तपत्यस्य त्वा मानुषस्य क्षत्रस्य परस्पत्वायेत्येवैतदाह ब्रह्मणस्तन्वम् पाहीति ब्रह्मण आत्मानं गोपायेत्येवैतदाह विशस्त्वा धर्मणा वयमिति यज्ञो वै विड्यज्ञस्य त्वारिष्ट्या इत्येवैतदामानुक्रामाम सुविताय नव्यस इति यज्ञस्य त्वारिष्ट्या अह्वलाया इत्येवैतदाह॥
अथाह साम गायेति॥
साम ब्रूहीति वा गायेति त्वेव ब्रूयाद्गायन्ति हि साम तद्यत्साम गायति नेदिमान्बहिर्धा यज्ञाछरीरान्नाष्ट्रा रक्षांसि हिनसन्निति साम हि नाष्ट्राणां रक्षसामपहन्ता॥
आग्नेय्यां गायति॥
अग्निर्हि रक्षसामपहन्तातिच्छन्दसि गायत्येषा वै सर्वाणि छन्दांसि यदव्तिच्छन्दास्तस्मादतिच्छन्दसि गायति॥
स गायति॥
अग्निष्टपति प्रतिदहत्यहावोऽहाव इति तन्नाष्ट्रा वै तद्रक्षांस्यतोऽपहन्ति॥
त उदञ्चो निष्क्रामन्ति॥
जघनेन चात्वालमग्रेणाग्नीध्रमेषा हि यज्ञस्य द्वाः स यस्यां ततो दिश्यापो भवन्ति तद्यन्ति॥
तम् वै परिष्यन्द उत्सादयेत्॥
तप्तो वा एष शुशुचानो भवति तं यदस्यामुत्सादयेदिमामस्य शुगृछेद्यदप्सूत्सादयेदपोऽस्य शुगृछेदथ यत्परिष्यन्द उत्सादयति तथो ह नैवापो हिनस्ति नेमां यदहाप्सु न प्रास्यति तेनापो न हिनस्त्यथ यत्समन्तमापः परियन्ति शान्तिर्वा आपस्तेनो इमां न हिनस्ति तस्मात्परिष्यन्द उत्सादयेत्॥
उत्तरवेदौ त्वेवोत्सादयेत्॥
यज्ञो वा उत्तरवेदिः शिरः प्रवर्ग्यो यज्ञ एवतछिरः प्रतिदधाति॥
उत्तरनाभ्या संस्पृष्टम्॥
प्रथमम् प्रवर्ग्यमुत्सादयति वाग्वा उत्तरनाभिः शिरः प्रवर्ग्यः शीर्षंस्तद्वाचं दधाति॥
चतुःस्रक्तिरिति॥
एष वै चतुःस्रक्तिर्य एष तपति दिशो ह्येतस्य स्रक्तयस्तस्मादाह चतुःस्रक्तिरिति॥
नाभिरृतस्य सप्रथा इति॥
सत्यम् वा ऋतं सत्यस्य नाभिः सप्रथा इत्येवैतदाह स नो विश्वायुः सप्रथा इति स नः सर्वायुः सप्रथा इत्येवैतदाह॥
अप द्वेषो अप ह्वर इति॥
नात्र तिरोहितमिवास्त्यन्यव्रतस्य सश्चिमेत्यन्यद्वा एतस्य व्रतमन्यन्मनुष्याणां तस्मादाहान्यव्रतस्य सश्चिमेत्येवमितरौ प्राञ्चौ तत्त्रिवृत्त्रिवृद्धीदं शिरः॥
पुरस्तादुपशयाम् मृदम्॥
मांसमेवास्मिन्नेतद्दधाति तदभितः परीशासौ बाहू एवास्मिन्नेतद्दधात्यभितः परे रौहिणहवन्यौ स्रुचौ हस्तावेवास्मिन्नेतद्दधाति॥
उत्तरतोऽभ्रिम्॥
तद्धि तस्या आयतनं दक्षिणतः सम्राडासन्दीं तद्धि तस्या आयतनमुत्तरतः कृष्णाजिनं तद्धि तस्यायतनं सर्वतो धवित्राणि प्राणा वै धवित्राणि प्राणानेवास्मिन्नेतद्दधाति त्रीणि भवन्ति त्रयो वै प्राणाः प्र्:ण उदानो व्यानस्तानेवास्मिन्नेतद्दधाति॥
अथैतद्रज्जुसन्दानम्॥
उपयमन्यामाधाय पश्चात्प्राचीमासादयत्युदरमेवास्मिन्नेतद्दधाति तदभितः पिन्वने आण्डावेवास्मिन्नेतद्दधात्याण्डाभ्यां हि वृषा पिन्वते पश्चात्स्थूणामयूखमूरू एवास्मिन्नेतद्दधाति पश्चाद्रौहिणकपाले जानुनी एवास्मिन्नेतद्दधाति ते यदेककपाले भवत एककपाले इव हीमे जानुनी पश्चाद्धृष्टी पादावेवास्मिन्नेतद्दधाति पादाभ्यां हि धृष्टम् प्रहरत्युत्तरतः खरौ प्रचरणीयौ तद्धि तयोरायतनं दक्षिणतो मार्जालीयं तद्धि तस्यायतनम्॥
अथास्मिन्पय आनयति॥
घर्मैतत्ते पुरीषमित्यन्नम् वै पुरीषमन्नमेवास्मिन्नेतद्दधाति तेन वर्धस्व चा च प्यायस्वेति नात्र तिरोहितमिवास्ति वर्धिषीमहि च वयमा च प्यासिषीमहीत्याशिषमेवैतदाशास्ते॥
स वै न सर्वमिवानयेत्॥
नेद्यजमानात्परागन्नमसदित्यर्धम् वा भूयो वा परिषिनष्टि तस्मिन्नपराह्णे यजमानाय व्रतमभ्युत्सिच्य प्रयछति तद्यजमान एवैतदन्नाद्यं दधाति तथो ह यजमानान्न परागन्नम् भवति॥
अथैनमद्भिः परिषिञ्चति॥
शान्तिर्वा आपः शमयत्येवैनमेतत्सर्वतः परिषिञ्चति सर्वत एवैनमेतछमयति त्रिष्कृत्वः परिषिञ्चति त्रिवृद्धि यज्ञः॥
अथाह वार्षाहरं साम गायति॥
एष वै वृषा हरिर्य एष तपत्येष उ प्रवर्ग्यस्तदेतमेवैतत्प्रीणाति तस्मादाह वार्षाहरं साम गायति॥
अथ चात्वाले मार्जयन्ते॥
सुमित्रिया न आप ओषधयः सन्त्वित्यञ्जलिनाप उपाचति वज्रो वा आपो वज्रेणैवैतन्मित्रधेयं कुरुते दुर्मित्रियास्तस्मै सन्तु योऽस्मान्द्वेष्टि यं च वयं द्विष्म इति यामस्य दिशं द्वेष्यः स्यात्तां दिशं परासिञ्चेत्तेनैव तम् पराभावयति॥
अथ प्राङिवोदङ्ङुत्क्रामति॥
उद्वयं तमसस्परीति पाप्मा वै तमः पाप्मानमेव तमोऽपहते स्वः पश्यन्त उत्तरमित्ययम् वै लोकोऽद्भ्य उत्तरोऽस्मिन्नेव लोके प्रतितिष्ठति देवं देवत्रा सूर्यमगन्म ज्योतिरुत्तममिति स्वर्गो वै लोकः सूर्यो ज्योतिरुत्तमं स्वर्ग एव लोकेऽन्ततः प्रतितिष्ठत्यनपेक्षमेत्याहवनीये समिधमभ्यादधाति समिदसि तेजोऽसि तेजो मयि धेहीत्याशिषमेवैतदाशास्ते॥
अथ प्रसुते दधिघर्मेण चरन्ति॥
यज्ञो वै सोमः शिरः प्रवर्ग्यो यज्ञ एवैतछिरः प्रतिदधाति माध्यन्दिने सवन एतद्वा इन्द्रस्य निष्केवल्यं सवनं यन्माध्यन्दिनं सवनं स्व एवैनमेतद्भागे प्रीणाति स्तुते माध्यन्दिने पवमाने प्राणो वै माध्यन्दिनः पवमानः प्राणमेवास्मिन्नेतद्दधात्यग्निहोत्रहवण्या मुखम् वा एतद्यज्ञानां यदग्निहोत्रं शीर्षंस्तन्मुखं दधाति॥
स आनीयमान आह॥
होतर्वदस्व यत्ते वाद्यमिति वदते ह्यत्र होताथोपोत्तिष्ठन्नाह श्रातं हविरिति श्रातं हि भवत्यतिक्रम्याश्राव्याह दधिघर्मस्य यजेति वषट्कृते जुहोत्यनुवषट्कृत आहरति भक्षं तं यजमानाय प्रयछति॥
स उपहवमिष्ट्वा भक्षयति॥
मयि त्यदिन्द्रियम् बृहदित्येतद्वा इन्द्रियम् बृहद्य एष तपति मयि दक्षो मयि क्रतुरिति क्रतूदक्षावेवात्मन्धत्ते घर्मस्त्रिशुग्विराजतीति घर्मो ह्येष त्रिशुग्विराजति विराजा ज्योतिषा सहेति विराजा ह्येष ज्योतिषा सह ब्रह्मणा तेजसा सहेति ब्रह्मणा ह्येष तेजसा सह पयसो रेत आभृतमिति पयसो ह्येतद्रेत आभृतं तस्य दोहमशीमह्युत्तरामुत्तरां समामित्याशिषमेवैतदाशास्तेऽथ चात्वाले मार्जयन्तेऽसावेव बन्धुः॥
अथातो दक्षिणानाम्॥
सुवर्णं हिरण्यं शतमानम् ब्रह्मणे ददात्यासीनो वै ब्रह्मा यशः शयानं हिरण्यं तस्मात्सुवर्णं हिरण्यं शतमानम् ब्रह्मणे ददाति॥
अथ यैषा घर्मदुघा॥
तामध्वर्यवे ददाति तप्त-इव वै घर्मस्तप्तमिवाध्वर्युर्निष्क्रामति तस्मात्तामध्वर्य वे ददाति॥
अथ यैषा यजमानस्य व्रतदुघा॥
तां होत्रे ददाति यज्ञो वै होता यज्ञो यजमानस्तस्मात्तां होत्रे ददाति॥
अथ यैषा पत्न्यै व्रतदुघा॥
तामुद्गातृभ्यो ददाति पत्नीकर्मेव वा एतेऽत्र कुर्वन्ति यदुद्गातारस्तस्मात्तामुद्गातृभ्यो ददाति॥
अथैतद्वै आयुरेतज्ज्योतिः प्रविशति य एतमनु वा ब्रूते भक्षयति वा तस्य व्रतचर्या या सृष्टौ॥
सर्वेषाम् वा एष भूतानाम्॥
सर्वेषां देवानामात्मा यद्यज्ञस्तस्य समृद्धिमनु यजमानः प्रजया पशुभिरृध्यते वि वा एष प्रजया पशुभिरृध्यते यस्य घर्मो विदीर्यते तत्र प्रायश्चित्तिः॥
पूर्णाहुतिं जुहोति॥
सर्वम् वै पूर्णं सर्वेणैवैतद्भिषज्यति यत्किं च विवृढं यज्ञस्य॥
स्वाहा प्राणेभ्यः साधिपतिकेभ्य इति॥
मनो वै प्राणानामधिपतिर्मनसि हि सर्वे प्राणाः प्रतिष्ठितास्तन्मनसैवैतद्भिषज्यति यत्किं च विवृढं यज्ञस्य॥
पृथिव्यै स्वाहेति॥
पृथिवी वै सर्वेषां देवानामायतनं तत्सर्वाभिरेवैतद्देवताभिर्भिषज्यति यत्किं च विवृढं यज्ञस्य॥
अग्नये स्वाहेति॥
अग्निर्वै सर्वेषां देवानामात्मा तत्सर्वाभिरेवैतद्देवताभिर्भिषज्यति यत्किं च विवृढं यज्ञस्य॥
अन्तरिक्षाय स्वाहेति॥
अन्तरिक्षम् वै सर्वेषां देवानामायतनं तत्सर्वाभिरेवैतद्देवताभिर्भिषज्यति यत्किं च विवृढं यज्ञस्य॥
वायवे स्वाहेति॥
वायुर्वै सर्वेषां देवानामात्मा तत्सर्वाभिरेवैतद्देवताभिर्भिषज्यति यत्किं च विवृढं यज्ञस्य॥
दिवे स्वाहेति॥
द्यौर्वै सर्वेषां देवानामायतनं तत्सर्वाभिरेवैतद्देवताभिर्भिषज्यति यत्किं च विवृढं यज्ञस्य॥
सूर्याय स्वाहेति॥
सूर्यो वै सर्वेषां देवानामात्मा तत्सर्वाभिरेवैतद्देवताभिर्भिषज्यति यत्किं च विवृढं यज्ञस्य॥
दिग्भ्यः स्वाहेति॥
दिशो वै सर्वेषां देवानामायतनं तत्सर्वाभिरेवैतद्देवताभिर्भिषज्यति यत्किं च विवृढं यज्ञस्य॥
चन्द्राय स्वाहेति॥
चन्द्रो वै सर्वेषां देवानामात्मा तत्सर्वाभिरेवैतद्देवताभिर्भिषज्यति यत्किं च विवृढं यज्ञस्य॥
नक्षत्रेभ्यः स्वाहेति॥
नक्षत्राणि वै सर्वेषां देवानामायतनं तत्सर्वाभिरेवैतद्देवताभिर्भिषज्यति यत्किं च विवृढं यज्ञस्य॥
अद्भ्यः स्वाहेति॥
आपो वै सर्वेषां देवानामायतनं तत्सर्वाभिरेवैतद्देवताभिर्भिषज्यति यत्किं च विवृढं यज्ञस्य॥
वरुणाय स्वाहेति॥
वरुणो वै सर्वेषां देवानामात्मा तत्सर्वाभिरेवैतद्देवताभिर्भिषज्यति यत्किं च विवृढं यज्ञस्य॥
नाभ्यै स्वाहा पूताय स्वाहेति॥
अनिरुक्तमनिरुक्तो वै प्रजापतिः प्रजापतिर्यज्ञस्तत्प्रजापतिमेवैतद्यज्ञम् भिषज्यति॥
त्रयोदशैता आहुतयो भवन्ति॥
त्रयोदश वै मासाः सम्वत्सरस्य सम्वत्सरः प्रजापतिः प्रजापतिर्यज्ञस्तत्प्रजापतिमेवैतद्यज्ञम् भिषज्यति॥
वाचे स्वाहेति॥
मुखमेवास्मिन्नेतद्दधाति प्राणाय स्वाहा प्राणाय स्वाहेति नासिके एवास्मिन्नेतद्दधाति चक्षुषे स्वाहा चक्षुषे स्वाहेत्यक्षिणी एवास्मिन्नेतद्दधाति श्रोत्राय स्वाहा श्रोत्राय स्वाहेति कर्णावेवास्मिन्नेतद्दधाति॥
सप्तैता आहुतयो भवन्ति॥
सप्त वा इमे शीर्षन्प्राणास्तानेवास्मिन्नेतद्दधाति पूर्णाहुतिमुत्तमां जुहोति सर्वम् वै पूर्णं सर्वेणैवैतद्भिषज्यति यत्किं च विवृढं यज्ञस्य॥
मनसः काममाकूतिमिति॥
मनसा वा इदं सर्वमाप्तं तन्मनसैवैतद्भिषज्यति यत्किं च विवृढं यज्ञस्य॥
वाचः सत्यमशीयेति॥
वाचा वा इदं सर्वमाप्तं तद्वाचैवैतद्भिषज्यति यत्किं च विवृढं यज्ञस्य पशूनां रूपमन्नस्य रसो यशः श्रीः श्रयताम् मयि स्वाहेत्याशिषमेवैतदाशास्ते॥
अथ तं चोपशयां च पिष्ट्वा॥
मार्त्स्नया मृदा संसृज्यावृता करोत्यावृता पचत्युत्सादनार्थमथ य उपशययोर्दृढः स्यात्तेन प्रचरेत्॥
संवत्सरो वै प्रवर्ग्यः॥
सर्वम् वै संवत्सरः सर्वम् प्रवर्ग्यः स यत्प्रवृक्तस्तद्वसन्तो यद्रुचितस्तद्ग्रीष्मो यत्पिन्वितस्तद्वर्षा यदा वै वर्षाह् पिन्वन्तेऽथैनाः सर्वे देवाः सर्वाणि भूतान्युपजीवन्ति पिन्वन्ते ह वाअस्मै वर्षा य एवमेतद्वेद॥
इमे वै लोकाः प्रवर्ग्यः॥
सर्वम् वा इमे लोकाः सर्वम् प्रवर्ग्यः स यत्प्रवृक्तस्तदयं लोको यद्रुचितस्तदन्तरिक्षलोको यत्पिन्वितस्तदसौ लोको यदा वा असौ लोकः पिन्वतेऽथैनं सर्वे देवाः सर्वाणि भूतान्युपजीवन्ति पिन्वते ह वा अस्म्: असौ लोको य एवमेतद्वेद॥
एता वै देवताः प्रवर्ग्यः॥
अग्निर्वायुरादित्यः सर्वम् वा एता देवता सर्वम् प्रवर्ग्यः स यत्प्रवृक्तस्तदग्निर्यद्रुचितस्तद्वायुर्यत्पिन्वितस्तदसावादित्यो यदा वा असावादित्यःपिन्वतेऽथैनं सर्वे देवाः सर्वाणि भूतान्युपजीवन्ति पिन्वते ह वा अस्मा असावादित्यो य एवमेतद्वेद॥
यजमानो वै प्रवर्ग्यः॥
तस्यात्मा प्रजा पशवः सर्वम् वै यजमानः सर्वम् प्रवर्ग्यः स यत्प्रवृक्तस्तदात्मा यद्रुचितस्तत्प्रजा यत्पिन्वितस्तत्पशवो यदा वै पशवः पिन्वतेऽथैनान्त्सर्वे देवाः सर्वाणि भूतान्युपजीवन्ति पिन्वन्ते ह वा अस्मै पशवो य एवमेतद्वेद॥
अग्निहोत्रम् वै प्रवर्ग्यः॥
सर्वम् वाअग्निहोत्रं सर्वम् प्रवर्ग्यः स यदधिश्रितं तत्प्रवृक्तो यदुन्नीतं तद्रुचितो यद्धुतं तत्पिन्वितो यदा वाअग्निहोत्रम् पिन्वतेऽथैनत्सर्वे देवाः सर्वाणि भूतान्युपजीवन्ति पिन्वते ह वा अस्मा अग्निहोत्रं य एवमेतद्वेद॥
दर्शपूर्णमासौ वै प्रवर्ग्यः॥
सर्वम् वै दर्शपूर्णमासौ सर्वम् प्रवर्ग्यः स यदधिश्रितं तत्प्रवृक्तो यदासन्नं तद्रुचितो यद्धुतं तत्पिन्वितो यदा वै दर्शपूर्णमासौ पिन्वेते अथैनौ सर्वे देवाः सर्वाणि भूतान्युपजीवन्ति पिन्वेते ह वा अस्मै दर्शपूर्णमासौ य एवमेतद्वेद॥
चातुर्मास्यानि वै प्रवर्ग्यः॥
सर्वम् वै चातुर्मास्यानि सर्वम् प्रवर्ग्यः स यदधिश्रितं तत्प्रवृक्तो यदासन्नं तद्रुचितो यद्धुतं तत्पिन्वितो यदा वै चातुर्मास्यानि पिन्वन्तेऽथैनानि सर्वे देवाः सर्वाणि भूतान्युपजीवन्ति पिन्वन्ते ह वा अस्मै चातुर्मास्यानि य एवमेतद्वेद॥
पशुबन्धो वै प्रवर्ग्यः॥
सर्वम् वै पशुबन्धः सर्वम् प्रवर्ग्यः स यदधिश्रितस्तत्प्रवृक्तो यदासन्नस्तद्रुचितो यद्धुतस्तत्पिन्वितो यदा वै पशुबन्धः पिन्वतेऽथैनं सर्वे देवाः सर्वाणि भूतान्युपजीवन्ति पिन्वते ह वा अस्मै पशुबन्धो य एवमेतद्वेद॥
सोमो वै प्रवर्ग्यः॥
सर्वम् वै सोमः सर्वम् प्रवर्ग्यः स यदभिषुतस्तत्प्रवृक्तो यदुन्नीतस्तद्रुचितो यद्धुतस्तत्पिन्वितो यदा वै सोमः पिन्वतेऽथैनं सर्वे देवाः सर्वाणि भूतान्युपयुञ्जन्ति पिन्वते ह वा अस्मै सोमो य एवमेतद्वेद न ह वा अस्याप्रवर्ग्येण केन चन यज्ञेनेष्टम् भवति य एवमेतद्वेद॥
अथैतद्वै॥
आयुरेतज्ज्योतिः प्रविशति य एतमनु वा ब्रूते भक्षयति वा तस्य व्रतचर्या या सृष्टौ॥