०२

अथातो रोहिणौ जुहोति॥
अहः केतुना जुषतां सुज्योतिर्ज्योतिषा स्वाहेत्युभावेतेन यजुषा प्राता रात्रिः केतुना जुषतां सुज्योतिर्ज्योतिषा स्वाहेत्युभावेतेन यजुषा सायम्॥
तद्यद्रोहिणौ जुहोति॥
अग्निश्च ह वा आदित्यश्च रौहिणावेताभ्यां हि देवताभ्यां यजमानाः स्वर्गं लोकं रोहन्ति॥
अथो अहोरात्रे वै रौहिणौ॥
आदित्यः प्रवर्ग्योऽमुं तदादित्यमहोरात्राभ्याम् परिगृह्णाति तस्मादेषोऽहोरात्राभ्याम् परिगृहीतः॥
अथो इमौ वै लोकौ रौहिणौ॥
आदित्यः प्रवर्ग्योऽमुं तदादित्यमाभ्यां लोकाभ्याम् परिगृह्णाति तस्मादेष आभ्यां लोकाभ्याम् परिगृहीतः॥
अथो चक्षुषी वै रौहिणौ॥
शिरः प्रवर्ग्यः शीर्षंस्तच्चक्षुर्दधाति॥
अथ रज्जुमादत्ते॥
देवेभ्यस्त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्याम् पूष्णो हस्ताभ्यामाददे रास्नासीत्यसावेव बन्धुः॥
अथ गामाह्वयति॥
जघनेन गार्हपत्यं यन्निड एह्यदित एहि सरस्वत्येहीतीडा हि गौरदितिर्हि गौः सरस्वती हि गौरथो तैराह्वयति नाम्नासावेह्यसावेहीति त्रिः॥
तामागतामभिदधाति॥
अदित्यै रास्नासीन्द्राण्या उष्णीष इतीन्द्राणी ह वा इन्द्रस्य प्रिया पत्नी तस्या उष्णीषो विश्वरूपतमः सोऽसीति तदाह तमेवैनमेतत्करोति॥
अथ वत्समुपार्जति॥
पूषासीत्ययम् वै पूषा योयम् पवत एष हीदं सर्वम् पुष्यत्येष उ प्रवर्ग्यस्तदेतमेवैतत्प्रीणाति तस्मादाह पूषासीति॥
अथोन्नयति॥
घर्माय दीष्वेत्येष वा अत्र घर्मो रसो भवति यमेषा पिन्वते तस्यै दयस्वेत्येवैतदाह॥
अथ पिन्वने पिन्वयति॥
अश्विभ्याम् पिन्वस्वेत्यश्विनावेवैतदाहाश्विनौ वा एतद्यज्ञस्य शिरः प्रत्यधत्तां तावेवैतत्प्रीणाति तस्मादाहाश्विभ्याम् पिन्वस्वेति॥
सरस्वत्यै पिन्वस्वेति॥
वाग्वै सरस्वती वाचा वा एतदश्विनौ यज्ञस्य शिरः प्रत्यधत्तां तावेवैतत्प्रीणाति तस्मादाह सरस्वत्यै पिन्वस्वेति॥
इन्द्राय पिन्वस्वेति॥
इन्द्रो वै यज्ञस्य देवता सा यैव यज्ञस्य देवता तयैवैतदश्विनौ यज्ञस्य शिरः प्रत्यधत्तां तावेवैतत्प्रीणाति तस्मादाहेन्द्राय पिन्वस्वेति॥
अथ विप्रुषोऽभिमन्त्रयते॥
स्वाहेन्द्रवत्स्वाहेन्द्रवदितीन्द्रो वै यज्ञस्य देवता सा यैव यज्ञस्य देवता तामेवैतत्प्रीणाति तस्मादाह स्वाहेन्द्रवत्स्वाहेन्द्रवदिति त्रिष्कृत्व आह त्रिवृद्धि यज्ञोऽवरं स्वाहाकारं करोति परां देवतामसावेव बन्धुः॥
अथास्यै स्तनमभिपद्यते॥
यस्ते स्तनः शशयो यो मयोभूरिति यस्ते स्तनो निहितो गुहायामित्येवैतदाह यो रत्नधा वसुविद्यः सुदत्र इति यो धनानां दाता वसुवित्पणाव्य इत्येवैतदाह येन विश्वा पुष्यसि वार्याणीति येन सर्वान्देवान्त्सर्वाणि भूतानि बिभर्षीत्येवैतदाह सरस्वति तमिह धातवेऽकरिति वाग्वै सरस्वती सैषा घर्मदुघा यज्ञो वै वाग्यज्ञमस्मभ्यम् प्रयछ येन देवान्प्रीणामेत्येवैतदाहाथ गार्हपत्यस्यार्धमैत्युर्वन्तरिक्षमन्वेमीत्यसावेव बन्धुः॥
अथ शफावादत्ते॥
गायत्रं छन्दोऽसि त्रैष्टुभं छन्दोऽसीति गायत्रेण चैवैनावेतत्त्रैष्टुभेन च छन्दसादत्ते द्यावापृथिवीभ्यां त्वा परिगृह्णामीतीमे वै द्यावापृथिवी परीशासावादित्यः प्रवर्ग्योऽमुं तदादित्यमाभ्यां द्यावापृथिवीभ्याम् परिगृह्णात्यथ मौञ्जेन वेदेनोपमार्ष्ट्यसावेव बन्धुः॥
अथोदयमन्योपगृह्णाति॥
अन्तरिक्षेणोपयछामीत्यन्तरिक्षम् वा उपयमन्यन्तरिक्षेण हीदं सर्वमुपयतमथो उदरम् वा उपयमन्युदरेण हीदं सर्वमन्नाद्यमुपयतं तस्मादाहान्तरिक्षेणोपयछामीति॥
अथाजाक्षीरमानयति॥
तप्तो वा एष शुशुचानो भवति तमेवैतछमयति तस्मिञ्छान्ते गोक्षीरमानयति॥
इन्द्राश्विनेति॥
इन्द्रो वै यज्ञस्य देवता सा यैव यज्ञस्य देवता तामेवैतत्प्रीणात्यश्विनेत्यश्विनावेवैतदाहाश्विनौ वा एतद्यज्ञस्य शिरः प्रत्यधत्तां तावेवैतत्प्रीणाति तस्मादाहेन्द्राश्विनेति॥
मधुनः सारघस्येति॥
एतद्वै मधु सारघं घर्मम् पातेति रसम् पातेत्येवैतदाह वसव इत्येते वै वसव एते हीदं सर्वम् वासयन्ते यजत वाडिति तद्यथा वषट्कृतं हुतमेवमस्यैतद्भवति॥
स्वाहा सूर्यस्य रश्मये वृष्टिवनय इति सूर्यस्य ह वा एको रश्मिर्वृष्टिवनिर्नाम येनेमाः सर्वाः प्रजा बिभर्ति तमेवैतत्प्रीणाति तस्मादाह स्वाहा सूर्यस्य रश्मये वृष्टिवनय इत्यवरं स्वाहाकारं करोति परां देवतामसावेव बन्धुः॥
अथैतद्वै आयुरेतज्ज्योतिः प्रविशति य एतमनु वा ब्रूते भक्षयति वा तस्य व्रतचर्या या सृष्टौ॥
स यत्रैतां होतान्वाह॥
प्रैतु ब्रह्मणस्पतिः प्र देव्येतु सूनृतेति तदध्वर्युः प्राङुदायन्वातनामानि जुहोत्येतद्वै देवा अबिभयुर्यद्वै न इममन्तरा रक्षांसि नाष्ट्रा न हन्युरिति तमेतत्पुरैवाहवनीयात्स्वाहाकारेणाजुहवुस्तं हुतमेव सन्तमग्नाव जुहुवुस्तथो एवैनमेष एतत्पुरैवाहवनीयात्स्वाहाकारेण जुहोति तं हुतमेव सन्तमग्नौ जुहोति॥
समुद्राय त्वा वाताय स्वाहेति॥
अयम् वै समुद्रो योऽयम् पवत एतस्माद्वै समुद्रात्सर्वे देवाः सर्वाणि भूतानि समुद्द्रवन्ति तस्मा एवैनं जुहोति तस्मादाह समुद्राय त्वा वाताय स्वाहा॥
सरिराय त्वा वाताय स्वाहेति॥
अयम् वै सरिरो योऽयम् पवत एतस्माद्वै सरिरात्सर्वे देवाः सर्वाणि भूतानि सहेरते तस्मा एवैनं जुहोति तस्मादाह सरिराय त्वा वाताय स्वाहा॥
अनाधृष्याय त्वा वाताय स्वाहाप्रतिधृष्याय त्वा वाताय स्वाहेति॥
अयम् वा अनाधृष्योऽप्रतिधृष्यो योऽयम् पवते तस्मा एवैनं जुहोति तस्मादाहानाधृष्याय त्वा वाताय स्वाहाप्रतिधृष्याय त्वा वाताय स्वाहेति॥
अवस्यवे त्वा वाताय स्वाहाशिमिदाय त्वा वाताय स्वाहेति॥
अयम् वा अवस्युरशिमिदो योऽयम् पवते तस्मा एवैनं जुहोति तस्मादाहावस्यवे त्वा वाताय स्वाहाशिमिदाय त्वा वाताय स्वाहेति॥
इन्द्राय त्वा वसुमते रुद्रवते स्वाहेति॥
अयम् वा इन्द्रो योऽयम् पवते तस्मा एवैनं जुहोति तस्मादाहेन्द्राय त्वेति वसुमते रुद्रवत इति तदिन्द्रमेवानु वसूंश्च रुद्रांश्चाभजत्यथो प्रातःसवनस्य चैवैतन्माध्यन्दिनस्य च सवनस्य रूपं क्रियते॥
इन्द्राय त्वादित्यवते स्वाहेति॥
अयम् वा इन्द्रो योऽयम् पवते तस्मा एवैनं जुहोति तस्मादाहेन्द्राय त्वेत्यादित्यवत इति तदिन्द्रमेवान्वादित्यानाभजत्यथो तृतीयसवनस्यैवैतद्रूपं क्रियते॥
इन्द्राय त्वाभिमातिघ्ने स्वाहेति॥
अयम् वा इन्द्रो योऽयम् पवते तस्मा एवैनं जुहोति तस्मादाहेन्द्राय त्वेत्यभिमातिघ्न इति सपत्नो वाअभिमातिरिन्द्राय त्वा सपत्नघ्न इत्येवैतदाह सोऽस्योद्धारो यथा श्रेष्ठस्योद्धार एवमस्यैष ऋते देवेभ्यः॥
सवित्रे त्व ऋभुमते विभुमते वाजवते स्वाहेति॥
अयम् वै सविता योऽयम् पवते तस्मा एवैनं जुहोति तस्मादाह सवित्रे त्वेत्यृभुमते विभुमते वाजवत इति तदस्मिन्विश्वान्देवानन्वाभजति॥
बृहस्पतये त्वा विश्वदेव्यावते स्वाहेति॥
अयम् वै बृहस्पतिर्योऽयम् पवते तस्मा एवैनं जुहोति तस्मादाह बृहस्पतये त्वेति विश्वदेव्यावत इति तदस्मिन्विश्वान्त्सर्वान्देवान्न्वाभजति॥
यमाय त्वाङ्गिरस्वते पितृमते स्वाहेति॥
अयम् वै यमो योऽयम् पवते तस्मा एवैनं जुहोति तस्मादाह यमाय त्वेत्यङ्गिरस्वते पितृमत इति यज्ञस्य शीर्षछिन्नस्य [रसो व्यक्षरत्स] पितॄनगछत्त्रया वै पितरस्तानेवैतदन्वाभजति॥
द्वादशैतानि नामानि भवन्ति॥
द्वादश वै मासाः सम्वत्सरस्य सम्वत्सर एष य एष तपत्येष उ प्रवर्ग्यस्तदेतमेवैतत्प्रीणाति तस्माद्द्वादश भवन्ति॥
अथोपयमन्या महावीर आनयति॥
स्वाहा घर्मायेत्येष वै घर्मो य एष तपत्येष उ प्रवर्ग्यस्तदेतमेवैतत्प्रीणाति तस्मादाह स्वाहा घर्मायेत्यवरं स्वाहाकारं करोति परां देवतामसावेव बन्धुः॥
आनीते जपति॥
स्वाहा घर्मः पित्र इति यज्ञस्य शीर्षछिन्नस्य [रसो व्यक्षरत्स] पितॄनगछत्त्रया वै पितरस्तानेवैतत्प्रीणात्यवरं स्वाहाकारं करोति परां देवतामसावेव बन्धुः॥
नानुवाक्यामन्वाह॥
सकृदु ह्येव पराञ्चः पितरस्तस्मान्नानुवाक्यामन्वाहातिक्रम्याश्राव्याह घर्मस्य यजेति वषट्कृते जुहोति॥
विश्वा आशा दक्षिणसदिति सर्वा आशा दक्षिणसदित्येवैतदाह विश्वान्देवानयाडिहेति सर्वान्देवानयाक्षीदिहेत्येवैतदाह स्वाहाकृतस्य घर्मस्य मधोः पिबतमश्विनेत्यश्विनावेवैतदाहाश्विनौ ह्येतद्यज्ञस्य शिरः प्रत्यधत्तां तावेवैतत्प्रीणात्यवरं स्वाहाकारं करोति परां देवतामसावेव बन्धुः॥
अथ हुत्वोर्ध्वमुत्कम्पयति॥
दिवि धा इमं यज्ञमिमं यज्ञम् दिवि धा इत्यसौ वा आदित्यो घर्मो यज्ञो दिवि वा एष हितो दिवि प्रतिष्ठितस्तमेवैतत्प्रीणाति तस्मादाह दिवि धा इमं यज्ञमिमं यैञं दिवि धा इत्यनुवषट्कृते जुहोति॥
स्वाहाग्नये यज्ञियायेति॥
तत्स्विष्टकृद्भाजनमग्निर्हि स्विष्टकृछं यजुर्भ्य इति यजुर्भिर्ह्येषोऽस्मिंलोके प्रतिष्ठितस्तान्येवैतत्प्रीणात्यवरं स्वाहाकारं करोति परां देवतामसावेव बन्धुः॥
अथ ब्रह्मानुमन्त्रयते॥
ब्रह्मा वा ऋत्विजाम् भिषक्तमस्तद्य एवर्त्विजाम् भिषक्तमस्तेनैवैनमेतद्यज्ञम् भिषज्यति॥
अश्विना घर्मम् पातमिति॥
अश्विनावेवैतदाहाश्विनौ ह्येतद्यज्ञस्य शिरः प्रत्यधत्तां तावेवैतत्प्रीणाति॥
हार्द्वानमहर्दिवाभिरूतिभिरिति॥
अनिरुक्तमन् रुक्तो वै प्रजापतिः प्रजापतिर्यज्ञस्तत्प्रजापतिमेवैतद्यज्ञं भिषज्यति॥
तन्त्रायिण इति॥
एष वै तन्त्रायी य एष तपत्येष हीमांलोकांस्तन्त्रमिवानुसञ्चरत्येष उ प्रवर्ग्यस्तदेतमेवैतत्प्रीणाति तस्मादाह तन्त्रायिण इति॥
नमो द्यावापृथिवीभ्यामिति॥
तदाभ्यां द्यावापृथिवीभ्यां निह्नुते ययोरिदं सर्वमधि॥
अथ यजमानः॥
यज्ञो वै यजमानो यज्ञेनेवैतद्यज्ञम् भिषज्यति॥
अपातामश्विना घर्ममिति॥
अश्विनावेवैतदाहाश्विनौ ह्येतद्यज्ञस्य शिरः प्रत्यधत्तां तावेवैतत्प्रीणाति॥
अनुद्यावापृथिवी अमंसातामिति॥
तदिमे द्यावापृथिवी आह ययोरिदं सर्वमधीहैव रातयः सन्त्वितीहैव नो धनानि सन्त्वित्येवैतदाह॥
अथ पिन्वमानमनुमन्त्रयते॥
इषे पिन्वस्वेति वृष्ट्यै तदाह यदाहेषे पिन्वस्वेत्यूर्जे पिन्वस्वेति यो वृष्टादूर्ग्रसो जायते तस्मै तदाह ब्रह्मणे पिन्वस्वेति तद्ब्रह्मण आह क्षत्राय पिन्वस्वेति तत्क्षत्रायाह द्यावापृथिवीभ्याम् पिन्वस्वेति तदाभ्यां द्यावापृथिवीभ्यामाह ययोरिदं सर्वमधि॥
स यदूर्ध्वः पिन्वते॥
तद्यजमानाय पिन्वते यत्प्राङ्तद्देवेभ्यो यद्दक्षिणा तत्पितृभ्यो यत्प्रत्यङ् तत्पशुभ्यो यदुदङ् तत्प्रजाया अनपराद्धं न्वेव यजमानस्योर्ध्वो ह्येव पिन्वत्याथ यां दिशम् पिन्वते ताम् पिन्वते यदा शाम्यन्ति विप्रुषः॥
अथ प्राङिवोदङ्ङुत्क्रामति धर्मासि सुधर्मेत्येष वै धर्मो य एष तपत्येष हीदं सर्वं धारयत्येतेनेदं सर्वं धृतमेष उ प्रवर्ग्यस्तदेतमेवैतत्प्रीणाति तस्मादाह धर्मासि सुधर्मेति॥
अथ खरे सादयति॥
अमेन्य् अस्मे नृम्णानि धारयेत्यक्रुध्यन्नो धनानि धारयेत्येवैतदाह ब्रह्म धारय क्षत्रं धारय विशं धारयेत्येतत्सर्वं धारयेत्येवैतदाह॥
अथ शाकलैर्जुहोति॥
प्राणा वै शाकलाः प्राणानेवास्मिन्नेतद्दधाति॥
स्वाहा पूष्णे शरस इति॥
अयम् वै पूषा योऽयम् पवत एष हीदं सर्वम् पुष्यत्येष उ प्राणः प्राणमेवास्मिन्नेतद्दधाति तस्मादाह स्वाहा पूष्णे शरस इत्यवरं स्वाहाकारं करोति परां देवतामसावेव बन्धुर्हुत्वा मध्यमे परिधाउपश्रयति॥
स्वाहा ग्रावभ्य इति॥
प्राणा वै ग्रावाणः प्राणानेवास्मिन्नेतद्दधाति हुत्वा मध्यमे परिधाउपश्रयति॥
स्वाहा प्रतिरवेभ्य इति॥
प्राणा वै प्रतिरवाः प्राणान्हीदं सर्वम् प्रतिरतम् प्राणानेवास्मिन्नेतद्दधाति हुत्वा मध्यमे परिधाउपश्रयति॥
स्वाहा पितृभ्य ऊर्ध्वबर्हिर्भ्यो घर्मपावभ्य इति॥
अहुत्वैवोदङ्ङीक्षमाणो दक्षिणार्धे बर्हिष उपगूहति यज्ञस्य शीर्षछिन्नस्य [रसो व्यक्षरत्स] पितॄनगछत्त्रया वै पितरस्तानेवैतत्प्रीणात्यथ यन्न प्रेक्षते सकृदु ह्येव पराञ्चः पितरः॥
स्वाहा द्यावापृथिवीभ्यामिति॥
प्राणोदानौ वै द्यावापृथिवीप्राणोदानावेवास्मिन्नेतद्दधाति हुत्वा मध्यमे परिधाउपश्रयति॥
स्वाहा विश्वेभ्यो देवेभ्य इति॥
प्राणा वै विश्वे देवाः प्राणानेवास्मिन्नेतद्दधाति हुत्वा मध्यमे परिधाउपश्रयति॥
स्वाहा रुद्राय रुद्रहूतय इति॥
अहुत्वैव दक्षिणेक्षमाणः प्रतिप्रस्थात्रे प्रयछति तं स उत्तरतः शालाया उदञ्चं निरस्यत्येषा ह्येतस्य देवस्य दिक्स्वायामेवैनमेतद्दिशि प्रीणात्यथ यन्न प्रेक्षते नेन्मा रुद्रो हिनसदिति॥
सप्तैता आहुतयो भ्वन्ति॥
सप्त वा इमे शीर्षन्प्राणास्तानेवास्मिन्नेतद्दधाति॥
अथ महावीरादुपयमन्याम् प्रत्यानयति॥
स्वाहा सं ज्योतिषा ज्योतिरिति ज्योतिर्वा इतरस्मिन्पयो भवति ज्योतिरितरस्यां ते ह्येतदुभे ज्योतिषी सङ्गछेते अवरं स्वाहाकारं करोति परां देवतामसावेव बन्दुः॥
अथ रौहिणौ जुहोति॥
अहः केतुना जुषतां सुज्योतिर्ज्योतिषा स्वाहेत्यसावेव बन्धू रात्रिः केतुना जुषतां सुज्योतिर्ज्योतिषा स्वाहेत्यसावेव बन्धुः॥
अथ यजमानाय घर्मोछिष्टम् प्रयछति॥
स उपहवमिष्ट्वा भक्षयति मधु हुतमिन्द्रतमे अग्नाविति मधु हुतमिन्द्रियवत्तमेऽग्नावित्येवैतदाहाश्याम ते देव घर्म नमस्ते अस्तु मा मा हिंसीरित्याशिषमेवैतदाशास्ते॥
अथ दक्षिणतः सिकता उपकीर्णा भवन्ति॥
तन्मार्जयन्ते य एव मार्जालीये बन्धुः सोऽत्रानुप्रहरति शाकलानथोपसदा चरन्त्येतदु यज्ञस्य शिरः संस्कृतं यथा-यथैनं तदश्विनौ प्रत्यधत्ताम्॥
तं न प्रथमयज्ञे प्रवृञ्ज्यात्॥
एनस्यं हि तदथो नेन्म इन्द्रः शिरश्छिनददिति द्वितीये वैव तृतीये वापशीर्ष्णा ह्येवाग्रे यज्ञेन देवा अर्चन्तः श्राम्यन्तश्चेरुस्तस्माद्द्वितीये वैव तृतीये वाथो तप्तो वा एष शुशुचानो भवति॥
तं यत्प्रथमयज्ञे प्रवृञ्ज्यात्॥
एषोऽस्य तप्तः शुशुचानः प्रजां च पशूंश्च प्रदहेदथो आयुः प्रमायुको यजमानः स्यात्तस्माद्द्वितीये वैव तृतीये वा॥
तं न सर्वस्मा इव प्रवृञ्ज्यात्॥
सर्वम् वै प्रवर्ग्यो नेत्सर्वस्मा इव सर्वं करवाणीति यो न्वेव ज्ञतस्तस्मै प्रवृञ्ज्याद्यो वास्य प्रियः स्याद्यो वानूचानोऽनूक्तेनैनम् प्राप्नुयात्॥
सहस्रे प्रवृञ्ज्यात्॥
सर्वम् वै सहस्रं सर्वमेष सर्ववेदसे प्रवृञ्ज्यात्सर्वम् वै सर्ववेदसं सर्वमेष विश्वजिति सर्वपृष्थे प्रवृञ्ज्यात्सर्वम् वै विश्वजित्सर्वपृष्ठः सर्वमेष वाजपेये राजसूये प्रवृञ्ज्यात्सर्वं हि तत्सत्त्रे प्रवृञ्ज्यात्सर्वम् वै सत्त्रं सर्वमेष एतान्यस्य प्रवर्जनान्यतो नान्यत्र॥
तदाहुः॥
यदपशिरा अप्रवर्ग्योऽथ केनास्याग्निहोत्रं शीर्षण्वद्भवतीत्याहवनीयेनेति ब्रूयात्कथं दर्शपूर्णमासावित्याज्येन च पुरोडाशेन चेति ब्रूयात्कथं चातुर्मास्यानीति पयस्ययेति ब्रूयात्कथम् पशुबन्ध इति पशुना च पुरोडाशेन चेति ब्रूयात्कथं सौम्योऽध्वर इति हविर्धानेनेति ब्रूयात्॥
अथो आहुः॥
यज्ञस्य शीर्षछिन्नस्य शिर एतद्देवाः प्रत्यदधुर्यदातिथ्यं न ह वा अस्यापशीर्ष्णा केन चन यज्ञेनेष्टम् भवति य एवमेतद्वेद॥
तदाहुः॥
यत्प्रणीताः प्रणयन्ति यज्ञेऽथ कस्मादत्र न प्रणयतीति शिरो वा एतद्यज्ञास्य यत्प्रणीताः शिरः प्रवर्ग्यो नेछिरसा शिरोऽभ्यारोहयाणीति॥
तदाहुः॥
यत्प्रयाजानुयाजा अन्यत्र भवन्त्यथ कस्मादत्र न भवन्तीति प्राणा वै प्रयाजानुयाजाः प्राणा अवकाशाः प्राणाः शाकल॥
नेत्प्राणैः प्राणानभ्यारोहयाणीति॥
तदाहुः॥
यदाज्यभागावन्यत्र जुह्वत्यथ कस्मादत्र न जुहोतीति चक्षुषी वा एते यज्ञस्य यदाज्यभागौ चक्षुषी रौहिणौ नेच्चक्षुषा चक्षुरभ्यारोहयाणीति॥
तदाहुः॥
यद्वानस्पत्यैर्देवेभ्यो जुह्वत्यथ कस्मादेतम् म्।न्मयेनैव जुहोतीति यज्ञस्य शीर्षछिन्नस्य रसो व्यक्षरत्स इमे द्यावापृथिवी अगछद्यन्मृदियं तद्यदापोऽसौ तन्मृदश्चापां च महावीराः कृता भवन्ति तेनैवैनमेतद्रसेन समर्धयति कृत्स्नं करोति॥
स यद्वानस्पत्यः स्यात्॥
प्रदह्येत यद्धिरण्मयः स्यात्प्रलीयेत यल्लोहमयः स्यात्प्रसिच्येत यदयस्मयः स्यात्प्रदहेत्परीशासावथैष एवैतस्माअतिष्ठत तस्मादेतम् मृन्मयेनैव जुहोति॥
अथैतद्वै आयुरेतज्ज्योतिः प्रविशति य एतमनु वा ब्रूते भक्षयति वा तस्य व्रतचर्या या सृष्टौ॥