०१

ओम्॥
देवा ह वै सत्त्रं निषेदुः॥
अग्निरिन्द्रः सोमो मखो विष्णुर्विश्वे देवा अन्यत्रैवाश्विभ्याम्॥
तेषाम् कुरुक्षेत्रम् देवयजनमास॥
तस्मादाहुः कुरुक्षेत्रम् देवानां देवयजनमिति तस्माद्यत्र क्व च कुरुक्षेत्रस्य निगछति तदेव मन्यत इदम् देवयजनमिति तद्धि देवानां देवयजनम्॥
त आसत॥
श्रियं गछेम यशः स्यामान्नादाः स्यामेति तथो एवेमे सत्त्रमासते श्रियं गछेम यशः स्यामान्नादाः स्यामेति॥
ते होचुः यो नः श्रमेण तपसा श्रद्धया यैञेनाहुतिभिर्यज्ञस्योदृचम् पूर्वोऽवगछात्स नः श्रेष्ठोऽसत्तदु नः सर्वेषां सहेति तथेति॥
तद्विष्णुः प्रथमः प्राप॥
स देवानां श्रेष्ठोऽभवत्तस्मादाहुर्विष्णुर्देवानां श्रेष्ठ इति॥
स यः स विष्णुर्यज्ञः स॥
स यः स यज्ञोऽसौ स आदित्यस्तद्धेदं यशो विष्नुर्न शशाक संयन्तु तदिदमप्येतर्हि नैव सर्व-इव यशः शक्नोति संयन्तुम्॥
स तिसृधन्वमादायापचक्राम॥
स धनुरार्त्न्या शिर उपस्तभ्य तस्थौ तम् देवा अनभिधृष्णुवन्तः समन्तम् परिण्यविशन्त॥
ता ह वम्र्य ऊचुः॥
इमा वै वम्र्यो यदुपदीका योऽस्य ज्यामप्यद्यात्किमस्मै प्रयछेतेत्यन्नाद्यमस्मै प्रयछेमापि धन्वन्नपोऽधिगछेत्तथास्मै सर्वमन्नाद्यम् प्रयछेमेति तथेति॥
तस्योपपरासृत्य॥
ज्यामपिजक्षुस्तस्यां छिन्नायां धनुरार्त्न्यौ विष्फुरन्त्यौ विष्णोः शिरः प्रचिच्छिदतुः॥
तद्घृङ्ङिति पपात॥
तत्पतित्वासावादित्योऽभवदथेतरः प्राङेव प्रावृज्यत तद्यद्घृङ्ङित्यपतत्तस्माद्घर्मोऽथ यत्प्रावृज्यत तस्मात्प्रवर्ग्यः॥
ते देवा अब्रुवन्॥
महान्बत नो वीरोऽदादीति तस्मान्महावीरस्तस्य यो रसो व्यक्षरत्तं पाणिभिः सम्ममृजुस्तस्मात्सम्म्राट्॥
तम् देवा अभ्यमृज्यन्त॥
यथा वित्तिम् वेत्स्यमाना एवम् तमिन्द्रः प्रथमः प्राप तमन्वङ्गमनुन्यपद्यत तम् पर्यगृह्णात्तम् परिगृह्येदं यशोऽभवद्यदिदमिन्द्रो यशो यशो ह भवति य एवम् वेद॥
स उ एव मखः स विष्णुः॥
तत इन्द्रो मखवानभवन्मखवान्ह वै तम् मघवानित्याचक्षते परोऽक्षम् परोऽक्षकामा हि देवाः॥
ताभ्यो वम्रीभ्योऽन्नाद्यम् प्रायछन्॥
आपो वै सर्वमन्नं ताभिर्हीदमभिक्नूयमिवादन्ति यदिदं किम्वदन्ति॥
अथेमम् विष्णुं यज्ञम् त्रेधा व्यभजन्त॥
वसवः प्रातःसवनं रुद्रा माध्यन्दिनं सवनमादित्यास्तृतीयसवनम्॥
अग्निः प्रातःसवनम्॥
इन्द्रो माध्यन्दिनं सवनम् विश्वे देवास्तृतीयसवनम्॥
गायत्री प्रतःसवनम्॥
त्रिष्टुम्माध्यन्दिनं सवनं जगती तृतीयसवनं तेनापशीर्ष्णा यज्ञेन देवा अर्चन्तः श्राम्यन्तश्चेरुः॥
दध्यङ् ह वा आथर्वणः॥
एतं शुक्रमेतं यज्ञम् विदां चकार यथा-यथैतद्यज्ञस्य शिरः प्रतिधीयते यथैष कृत्स्नो यज्ञो भवति॥
स हेन्द्रेणोक्त आस॥
एतम् चेदन्यस्मा अनुब्रूयास्तत एव ते शिरश्छिन्द्यामिति॥
तदु हाश्विनोरनुश्रुतमास॥
दध्यङ्ङु ह वा आथर्वण एतं शुक्रमेतं यज्ञम् वेद यथायथैतद्यज्ञस्य शिरः प्रतिधीयते यथैष कृत्स्नो यज्ञो भवति॥
तौ हेत्योचतुः॥
उप त्वायावेति किमनुवक्ष्यमाणावित्येतं शुक्रमेतं यज्ञम् यथा-यथैतद्यज्ञस्य शिरः प्रतिधीयते यथैष कृत्स्नो यज्ञो भवतीति॥
स होवाच॥
इन्द्रेण वा उक्तोऽस्म्येतं चेदन्यस्मा अनुब्रूयास्तत एव ते शिरश्छिन्द्यामिति तस्माद्वै बिभेमि यद्वै मे स शिरो न छिन्द्यान्न वामुपनेष्य इति॥
तौ होचतुः॥
आवाम् त्वा तस्मात्त्रास्यावह इति कथम् मा त्रास्येथे इति यदा ना उपनेष्यसेऽथ ते शिरश्छित्त्वान्यत्रापनिधास्यावोऽथाश्वस्य शिर आहृत्य तत्ते प्रतिधास्यावस्तेन नावनुवक्ष्यसि स यदा नावनुवक्ष्यस्यथ ते शिरश्छेत्स्यत्यथ ते स्वं शिर आहृत्य तत्ते प्रतिधास्याव इति तथेति॥
तौ होपनिन्ये॥
तौ यदोपनिन्येऽथास्य शिरश्छित्त्वान्यत्रापनिदधतुरथाश्वस्य शिर आहृत्य तद्धास्य प्रतिदधतुस्तेन हाभ्यामनूवाच स यदाभ्यामनूवाचाथास्य तदिन्द्रः शिरश्चिच्छेदाथास्य स्वं शिर आहृत्य तद्धास्य प्रतिदधतुः॥
तस्मादेतदृषिणाभ्यनूक्तम्॥
दध्यङ् ह यन्मध्वाथर्वणो वामश्वस्य शीर्ष्णा प्र यदीमुवाचेत्ययतं तदुवाचेति हैवैतदुक्तम्॥
तन्न सर्वस्मा अनुब्रूयात्॥
एनस्यं हि तदथो नेन्म इन्द्रः शिरश्छिनददिति यो न्वेव ज्ञातस्तस्मै ब्रूयादथ योऽनूचानोऽथ योऽस्य प्रियः स्यान्न त्वेव सर्वस्मा इव॥
सम्वत्सरवासिनेऽनुब्रूयात्॥
एष वै सम्वत्सरो य एष तपत्येष उ प्रवर्ग्यस्तदेतमेवैतत्प्रीणाति तस्मात्सम्वत्सरवासिनेऽनुब्रूयात्॥
तिस्रो रात्रीर्व्रतं चरति॥
त्रयो वा ऋतवः सम्वत्सरस्य सम्वत्सर एष य एष तपत्येष उ प्रवर्ग्यस्तदेतमेवैतत्प्रीणाति तस्मात्तिस्रो रात्रीर्व्रतं चरति॥
तप्तमाचामति॥
तपस्व्यनुब्रवा इत्यमांसाश्यनुब्रूते तपस्व्यनुब्रवा इति॥
अमृन्मयपायी॥
अस्ति वा अस्यां संसृष्टमिव यदस्यामनृतम् वदति तस्मादमृन्मयदायी॥
अशूद्रोछिष्टी॥
एष वै धर्मो य एष तपति सैषा श्रीः सत्यं ज्योतिरनृतं स्त्री शूद्रः श्वा कृष्णः शकुनिस्तानि न प्रेक्षेत नेछ्रियं च पाप्मानं च नेज्ज्योतिश्च तमश्च नेत्सत्यानृते संसृजानीति॥
अथैष वाव यशः॥
य एष तपति तद्यत्तदादित्यो यशो यज्ञो हैव तद्यशस्तद्यत्तद्यज्ञो यशो यजमानो हैव तद्यशस्तद्यत्तद्यजमानो यश ऋत्विजो हैव तद्यशस्तद्यत्तदृत्विजो यशो दक्षिणा हैव तद्यशस्तस्माद्यामस्मै दक्षिणामानयेयुर्न ता इत्सद्योऽन्यस्मा अतिदिशेन्नेद्यन्मेदं यश आगंस्तत्सद्योऽन्यस्मा अतिदिशानीति श्वो वैव भूते द्व्यहे वा तदात्मन्येवैतद्यशः कृत्वा यदेव तद्भवति तत्स ददाति हिरण्यं गाम् वासोऽश्वम् वा॥
अथैतद्वा॥
आयुरेतज्ज्योतिः प्रविशति य एतमनु वा ब्रूतेभक्षयति वा तस्य व्रतचर्या नातपति प्रछादयेत नेदेतस्मात्तिरोऽसानीति नातपति निष्ठीवेन्नेदेतमभिनिष्ठीवानीति नातपति प्रस्रावयेत नेदेतमभिप्रस्रावया इति यावद्वा एष आतपति तावानेष नेदेतमेतैर्हिनसानीत्यवज्योत्य रात्रावश्नीयात्तदेतदस्य रूपं क्रियते य एष तपति तदु होवाचासुरिरेकं ह वै देवा व्रतं चरन्ति यत्सत्यम् तस्मादु सत्यमेव वदेत्॥
स वै सम्भारान्त्सम्भरति॥
स यद्वा एनानित्थाच्चेत्थाच्च सम्भरति तत्सम्भाराणां सम्भारत्वं स वै यत्र-यत्र यज्ञस्य न्यक्तं ततस्ततः सम्भरति॥
कृष्णाजिनं सम्भरति॥
यज्ञो वै कृष्णजिनं यज्ञ एवैनमेतत्सम्भरति लोमतश्छन्दांसि वै लोमानि छन्दःस्वेवैनमेतत्सम्भरत्युत्तरत उदीची हि मनुष्याणां दिक्प्राचीनग्रीवे तद्धि देवत्रा॥
अभ्र्या॥
वज्रो वा अभ्रिर्वीर्यम् वै वज्रो वीर्येणैवैनमेतत्समर्धयति कृत्स्नं करोति॥
औदुम्बरी भवति॥
ऊर्ग्वै रस उदुम्बर ऊर्जैवैनमेतद्रसेन समर्धयति कृत्स्नं करोति॥
अथो वैकङ्कती॥
प्रजापतिर्याम् प्रथमामाहुतिमजुहोत्स हुत्वा यत्र न्यमृष्ट ततो विकङ्कतः समभवद्यज्ञो वा आहुतिर्यज्ञो विकङ्कतो यज्ञेनैवैनमेतत्समर्धयति कृत्स्नम् करोति॥
अरत्निमात्री भवति॥
बाहुर्वा अरत्निर्बाहुनो वै वीर्यं क्रियते वीर्यसम्मितैव तद्भवति वीर्येणैवैनमेतत्समर्धयति कृत्स्नं करोति॥
तामादत्ते॥
देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्याम् पूष्णो हस्ताभ्यामाददे नारिरसीत्यसावेव बन्धुः॥
तां सव्ये पाणौ कृत्वा॥
दक्षिणेनाभिमृश्य जपति युञ्जते मन उत युञ्जते धियो विप्रा विप्रस्य बृहतो विपश्चितः॥
वि होत्रा दधे वयुनाविदेक इन्मही देवस्य सवितुः परिष्टुतिरित्यसावेव बन्धुः॥
अथ मृत्पिण्डम् पव्रिगृह्णाति॥
अभ्र्या च दक्षिणतो हस्तेन च हस्तेनैवोत्तरतो देवी द्यावापृथिवी इति यज्ञस्य शीर्षछिन्नस्य रसो व्यक्षरत्स इमे द्यावापृथिवी अगछद्यन्मृदियं तद्यदापोऽसौ तन्मृदश्चापां च महावीराः कृता भवन्ति तेनैवैनमेतद्रसेन समर्धयति कृत्स्नं करोति तस्मादाह देवी द्यावापृथिवी इति मखस्य वामद्य शिरो राध्यासमिति यज्ञो वै मखो यज्ञस्य वामद्य शिरो राध्यासमित्येवैतदाह देवयजने पृथिव्या इति देवयजने हि पृथिव्यै सम्भरति मखाय त्वा मखस्य त्वा शीर्ष्ण इति यज्ञो वै मखो यज्ञाय त्वा यज्ञस्य त्वा शीर्ष्ण इत्येवैतदाह॥
अथ वल्मीकवपाम्॥
देव्यो वम्र्य इत्येता वा एतदकुर्वत यथा-यथैतद्यज्ञस्य शिरोऽछिद्यत ताभिरेवैनमेतत्समर्धयति कृत्स्नं करोति भूतस्य प्रथमजा इतीयम् वै पृथिवी भूतस्य प्रथमजा तदनयैवैनमेतत्समर्धयति कृत्स्नं करोति मखस्य वोऽद्य शिरो राध्यासं देवयजने पृथिव्या मखाय त्वा मखस्य त्वा शीर्ष्ण इत्यसावेव बन्धुः॥
अथ वराहविहतम्॥
इयत्यग्र आसीदितीयती ह वा इयमग्रे॥
पृथिव्यास प्रादेशमात्री तामेमूष इति वराह उज्जघान सोऽस्याः पतिः प्रजापतिस्तेनैवैनमेतन्मिथुनेन प्रियेण धाम्ना समर्धयति कृत्स्नं करोति मखस्य तेऽद्य शिरो राध्यासं देवयजने पृथिव्या मखाय त्वा मखस्य त्वा शीर्ष्ण इत्यसावेव बन्धुः॥
अथादारान्॥
इन्द्रस्यौज स्थेति यत्र वा एनमिन्द्र ओजसा पर्यगृह्णात्तदस्य परिगृहीतस्य रसो व्यक्षरत्स पूयन्निवाशेत सोऽब्रवीदादीर्येव बत म एष रसोऽस्तौषीदिति तस्मादादारा अथ यत्पूयन्निवाशेत तस्मात्पूतीकास्तस्मादग्नावाहुतिरिवाभ्याहिता ज्वलन्ति तस्मादु सुरभयो यज्ञस्य हि रसात्सम्भूता अथ यदेनं तदिन्द्र ओजसा पर्यगृह्णात्तस्मादाहेन्द्रस्यौज स्थेति मखस्य वोऽद्य शिरो राध्यासं देवयजने पृथिव्या मखाय त्वा मखस्य त्वा शीर्ष्ण इत्यसावेव बन्धुः॥
अथाजाक्षीरम्॥
यज्ञस्य शीर्षछिन्नस्य शुगुदक्रामत्ततोऽजा समभवत्तयैवैनमेतछुचा समर्धयति कृत्स्नं करोति मखाय त्वा मखस्य त्वा शीर्ष्ण इत्यसावेव बन्धुः॥
तान्वा एतान्पञ्च सम्भारान्सम्भरति॥
पाङ्क्तो यज्ञः पाङ्क्तः पशुः पञ्चर्तवः सम्वत्सरस्य सम्वत्सर एष य एष तपत्येष उ प्रवर्ग्यस्तदेतमेवैतत्प्रीणाति तान्त्सम्भृतानभिमृशति मखाय त्वा मखस्य त्वा शीर्ष्ण इत्यसावेव बन्धुः॥
अथोत्तरतः परिश्रितम् भवति॥
तदभिप्रयन्तो जपन्ति प्रैतु ब्रह्मणस्पतिरित्येष वै ब्रह्मणस्पतिर्य एष तपत्येष उ प्रवर्ग्यस्तदेतमेवैतत्प्रीणाति तस्मादाह प्रैतु ब्रह्मणस्पतिरिति प्रदेव्येतु सूनृतेति देवी ह्येषा सूनृताछा वीरं नर्यम् पङ्क्तिराधसमित्युपस्तौत्येवैनमेतन्महयत्येव देवा यज्ञं नयन्तु न इति सर्वानेवास्मा एतद्देवानभिगोप्तॄन्करोति॥
परिश्रितम् भवति॥
एतद्वै देवा अबिभयुर्यद्वै न इममिह रक्षांसि नाष्ट्रा न हन्युरिति तस्मा एताम् पुरम् पर्यश्रयंस्तथैवास्मा अयमेताम् पुरम् परिष्रयति॥
अथ खरे सादयति॥
मखाय त्वा मखस्य त्वा शीर्ष्ण इत्यसावेव बन्धुरथ मृत्पिण्डमपादाय महावीरं करोति मखाय त्वा मखस्य त्वा शीर्ष्ण इत्यसावेव बन्धुः प्रादेशमात्रम् प्रादेशमात्रमिव हि शिरो मध्ये सङ्गृहीतम् मध्ये सङ्गृहीतमिव हि शिरोऽथास्योपरिष्टात्त्र्यङ्गुलम् मुखमुन्नयति नासिकामेवास्मिन्नेतद्दधाति तं निष्ठितमभिमृशति मखस्य शिरोऽसीति मखस्य ह्येतत्सौम्यस्य शिर एवमितरौ तूष्णीम् पिन्वने तूष्णीं रौहिणकपाले॥
प्रजापतिर्वा एष यज्ञो भवति॥
उभयम् वा एतत्प्रजापतिर्निरुक्तश्चानिरुक्तश्च परिमितश्चापरिमितश्च तद्यद्यजुषा करोति यदेवास्य निरुक्तम् परिमितं रूपं तदस्य तेन संस्करोत्यथ यत्तूष्णीं यदेवास्यानिरुक्तमपरिमितं रूपं तदस्य तेन संस्करोति स ह वा एतं सर्वं कृत्स्नम् प्रजापतिं संस्करोति य एवम् विद्वानेतदेवं करोत्यथोपशयायै पिण्डम् परिशिनष्टि प्रायश्चित्तिभ्यः॥
अथ गवेधुकाभिर्हिन्वति॥
यज्ञस्य शीर्षछिन्नस्य रसो व्यक्षरत्तत एता ओषधयो जज्ञिरे तेनैवैनमेतद्रसेन समर्धयति कृत्स्नं करोति मखाय त्वा मखस्य त्वा शीर्ष्ण इत्यसावेव बन्धुरेवमितरौ तूष्णीम् पिन्वने तूष्णीं रौहिणकपाले॥
अथैनान्धूपयति॥
अश्वस्य त्वा वृष्णः शक्ना धूपयामीति वृषा वा अश्वो वीर्यम् वै वृषा वीर्येणैवैनमेतत्समर्धयति कृत्स्नं करोति देवयजने पृथिव्या मखाय त्वा मखस्य त्वा शीर्ष्ण इत्यसावेव बन्धुरेवमितरौ तूष्णीम् पिन्वने तूष्नीं रौहिणकपाले॥
अथैनाञ्छ्रपयति॥
शृतं हि देवानामिष्ट्काभिः श्रपयत्येत वा एतदकुर्वत यथा-यथैतद्यज्ञस्य शिरोऽछिद्यत ताभिरेवैनमेतत्समर्धयति कृत्स्नं करोति तदु येनैव सुशृताः स्युस्तेन श्रपयेदथ पचनमवधाय महावीरमवदधाति मखाय त्वा मखस्य त्वा शीर्ष्ण इत्यसावेव बन्धुरेवमितरौ तूष्णीम् पिन्वने तूष्णीं रौहिणकपाले तान्दिवैवोपवपेद्दिवोद्वपेदहर्हि देवानाम्॥
स उद्वपति॥
ऋजवे त्वेत्यसौ वै लोक ऋजुः सत्यं ह्यृजुः सत्यमेष य एष तव्पत्येष उ प्रथमः प्रवर्ग्यस्तदेतमेवैतत्प्रीणाति तस्मादाहर्जवे त्वेति॥
साधवे त्वेति॥
अयम् वै साधुर्योऽयम् पवत एष हीमांलोकान्त्सिद्धोऽनुपवत एष उ द्वितीयः प्रवर्ग्यस्तदेतमेवैतत्प्रीणाति तस्मादाह साधवे त्वेति॥
सुक्षित्यै त्वेति॥
अयम् वै लोकः सुक्षितिरस्मिन्हि लोके सर्वाणि भूतानि क्षियन्त्यथो अग्निर्वै सुक्षितिरग्निर्ह्येवास्मिंलोके सर्वाणि भूतानि क्षियत्येष उ तृतीयः प्रवर्ग्यस्तदेतमेवैतत्प्रीणाति तस्मादाह सुक्षित्यै त्वेति तूष्णीम् पिन्वने तूष्णीं रौहिणकपाले॥
अथैनानाछृणत्ति॥
अजायै पयसा मखाय त्वा मखस्य त्वा शीर्ष्ण इत्यसावेव बन्धुरेवमितरौ तूष्णीम् पिन्वने तूष्णीं रौहिणकपाले॥
अथैतद्वै॥
आयुरेतज्ज्योतिः प्रविशति य एतमनु वा ब्रूते भक्षयति वा तस्य व्रतचर्या या सृष्टौ॥
स यदैतदातिथ्येन प्रचरति॥
अथ प्रवर्ग्येण चरिष्यन्पुरोपसदोऽग्रेण गार्हपत्यम् प्राचः कुशान्त्संस्तीर्य द्वन्द्वम् पात्राण्युपसादयत्युपयमनीम् महावीरम् परीषासौ पिन्वने रौहिणकपाले रौहिणहवन्यौ स्रुचौ यदु चान्यद्भवति तद्दश दशाक्षरा वै विराड्विराड्वै यज्ञस्तद्विराजमेवैतद्यज्ञमभिसम्पादयत्यथ यद्द्वन्द्वम्द्वन्द्वम् वै वीर्यम् यदा वै द्वौ संरभेते अथ तौ वीर्यं कुरुतो द्वन्द्वम् वै मिथुनम् प्रजननम् मिथुनेनैवैनमेतत्प्रजननेन समर्धयति कृत्स्नं करोति॥
अथाध्वर्युः॥
प्रोक्षणीरादायोपोत्तिष्ठन्नाह ब्रह्मन्प्रचरिष्यामो होतरभिष्टुहीति ब्रह्मा वै यज्ञस्य दक्षिणत आस्तेऽभिगोप्ता तमेवैतदाहाप्रमत्त आस्स्व यज्ञस्य शिरः प्रतिधास्याम इति होतरभिष्टुहीति यज्ञो वै होता तमेवैतदाह यज्ञस्य शिरः प्रतिधेहीति प्रतिपद्यते होता॥
ब्रह्म जज्ञानम् प्रथमम् पुरस्तादिति॥
असौ वा आदित्यो ब्रह्माहरहः पुरस्ताज्जायत एष उ प्रवर्ग्यस्तदेतमेवैतत्प्रीणाति तस्मादाह ब्रह्म जज्ञानम् प्रथमम् पुरस्तादित्यथ प्रोक्षत्यसावेव बन्धुः॥
स प्रोक्षति॥
यमाय त्वेत्येष वै यमो य एष तपत्येष हीदं सर्वं यमयत्येतेनेदं सर्वं यतमेष उ प्रवर्ग्यस्तदेतमेवैतत्प्रीणाति तस्मादाह यमाय त्वेति॥
मखाय त्वेति॥
एष वै मखो य एष तपत्येष उ प्रवर्ग्यस्तदेतमेवैतत्प्रीणाति तस्मादाह मखाय त्वेति॥
सूर्यस्य त्वा तपस इति॥
एष वै सूर्यो य एष तपत्येष प्रवर्ग्यस्तदेतमेवैतत्प्रीणाति तस्मादाह सूर्यस्य त्वा तपस इति॥
पूर्वया द्वारा स्थूणां निर्हृत्य॥
दक्षिणतो निमिन्वन्ति यथैनां होताभिष्टुवन्परापश्येद्यज्ञो वै होता स एवास्यामेतद्यज्ञम् प्रतिदधाति तथैषा घर्मम् पिन्वते॥
अग्रेणाहवनीयम्॥
सम्राडासन्दीम् पर्याहृत्य दक्षिणतः प्राचीमासादयत्युत्तरां राजासन्द्यै॥
औदुम्बरी भवति॥
ऊर्ग्वै रस उदुम्बर ऊर्जैवैनमेतद्रसेन समर्धयति कृत्स्नं करोति॥
अंसदघ्ना भवति॥
अंसयोर्वा इदं शिरः प्रतिष्थितम् तदंसयोरेवैतछिरः प्रतिष्ठापयति॥
बाल्वजीभी रज्जुभिर्व्युता भवति॥
यज्ञस्य शीर्षछिन्नस्य रसो व्यक्षरत्तत एता ओषधयो जज्ञिरे तेनैवैनमेतद्रसेन समर्धयति कृत्स्नम् करोति॥
अथ यदुत्तरत आसादयति॥
यज्ञो वै सोमः शिरः प्रवर्ग्य उत्तरम् वै शिरस्तस्मादुत्तरत आसादयत्यथो राजा वै सोमः सम्राट् प्रवर्ग्य उत्तरम् वै राज्यात्साम्राज्यं तस्मादुत्तरत आसादयति॥
स यत्रैतां होतान्वाह॥
अञ्जन्ति यम् प्रथयन्तो न विप्रा इति तदेतम् प्रचरणीयम् महावीरमाज्येन समनक्ति देवस्त्वा सविता मध्वानक्त्विति सविता वै देवानाम् प्रसविता सर्वम्वा इदम् मधु यदिदं किं च तदेनमनेन सर्वेण समनक्ति तदस्मै सविता प्रसविता प्रसौति तस्मादाह देवस्त्वा सविता मध्वानक्त्विति॥
अथोत्तरतः सिकता उपकीर्णा भवन्ति॥
तद्रजतम् हिरण्यमधस्तादुपास्यति पृथिव्याः संस्पृशस्पाहीत्येतद्वै देवा अबिभयुर्यद्वै न इममधस्ताद्रक्षांसि नाष्ट्रा न हन्युरित्यग्नेर्वा एतद्रेतो यद्धिरण्यं नाष्ट्राणां रक्षसामपहत्या अथो पृथिव्यु ह वा एतस्माद्बिभयां चकार यद्वै मायं तप्तः शुशुचानो न हिंस्यादिति तदेवास्या एतदन्तर्दधाति रजतम् भवति रजतैव हीयम् पृथिवी॥
स यत्रैतां होतान्वाह॥
संसीदस्व महाम् महाम्॥
असीति तदुभयत आदीप्ता मौञ्जाः प्रलवा भवन्ति तानुपास्य तेषु प्रवृणक्ति यज्ञस्य शीर्षछिन्नस्य रसो व्यक्षरत्तत एता ओषधयो जज्ञिरे तेनैवैनमेतद्रसेन समर्धयति कृत्स्नं करोति॥
अथ यदुभयत आदीप्ता भवन्ति॥
सर्वाभ्य एवैतद्दिग्भ्यो रक्षांसि नाष्ट्रा अपहन्ति तस्मिन्प्रवृज्यमाने पत्नी शिरः प्रोर्णुते तप्तो वा एष शुशुचानो भवति नेन्मेऽयं तप्तः शुशुचानश्चक्षुः प्रमुष्णादिति॥
स प्रवृणक्ति॥
अर्चिरसि शोचिरसि तपोऽसीत्येष वै घर्मो य एष तपति सर्वम् वा एतदेष तदेतमेवैतत्प्रीणाति तस्मादाहार्चिरसि शोचिरसि तपोऽसीति॥
अथास्यामाशिष आशास्त॥
इयम् वै यज्ञोऽस्यामेवैतदाशिष आशास्ते ता अस्मा इयं सर्वाः समर्धयति॥
अनाधृष्टा पुरस्तादिति॥
अनाधृष्टा ह्येषा पुरस्ताद्रक्षोभिर्नाष्ट्राभिरग्नेराधिपत्य इत्यग्निमेवास्या अधिपतिं करोति नाष्ट्राणां रक्षसामपहत्या आयुर्मे दा इत्यायुरेवात्मन्धत्ते तथो सर्वमायुरेति॥
पुत्रवती दक्षिणत इति॥
नात्र तिरोहितमिवास्तीन्द्रस्याधिपत्य इतीन्द्रमेवास्या अधिपतिं करोति नाष्ट्राणां रक्षसामपहत्यै प्रजाम् मे दा इति प्रजामेव पशूनात्मन्धत्ते तथो ह पुत्री पशुमान्भवति॥
सुषदा पश्चादिव्ति॥
नात्र तिरोहितमिवास्ति देवस्य सवितुराधिपत्य इति देवमेवास्यै सवितारमधिपतिं करोति नाष्ट्राणां रक्षसामपहत्यै चक्षुर्मे दा इति चक्षुरेवात्मन्धत्ते तथो ह चक्षुष्मान्भवति॥
आश्रुतिरुत्तरत इति॥
आश्रावयन्नुत्तरत इत्येवैतदाह धातुराधिपत्य इति धातारमेवास्या अधिपतिं करोति नाष्ट्राणां रक्षसामपहत्यै रायस्पोषम् मे दा इति रयिमेव पुष्टिमात्मन्धत्ते तथो ह रयिमान्पुष्टिमान्भवति॥
विधृतिरुपरिष्टादिति॥
विधारयन्नुपरिष्टादित्येवैतदाह बृहस्पतेराधिपत्य इति बृहस्पतिमेवास्या अधिपतिं करोति नाष्ट्राणां रक्षसामपहत्या ओजो मे दा इत्योज एवात्मन्धत्ते तथौजस्वी बलवान्भवति॥
अथ दक्षिणत उत्तानेन पाणिना निह्नुते विश्वाभ्यो मा नाष्ट्राभ्यस्पाहीति सर्वाभ्यो मार्तिभ्यो गोपायेत्येवैतदाह यज्ञस्य शीर्षछिन्नस्य [रसो व्यक्षरत्स] पितॄनगछत्त्रया वै पितरस्तैरेवैनमेतत्समर्धयति कृत्स्नं करोति॥
अथेमामभिमृश्य जपति॥
मनोरश्वासीत्यश्वा ह वा इयम् भूत्वा मनुमुवाह सोऽस्याः पतिः प्रजापतिस्तेनैवैनमेतन्मिथुनेन प्रियेण धाम्ना समर्धयति कृत्स्नं करोति॥
अथ वैकङ्कतौ शकलौ परिश्रयति प्राञ्चौ॥
स्वाहा मरुद्भिः परिश्रीयस्वेत्यवरं स्वाहाकारं करोति परां देवतामेष वै स्वाहाकारो य एष तपत्येष उ प्रवर्ग्यस्तदेतमेवैतत्प्रीणाति तस्मादवरं स्वाहाकारं करोति दरां देवताम्॥
मरुद्भिः परिश्रीयस्वेति॥
विशो वै मरुतो विशैवैतत्क्षत्रम् परिबृंहति तदिदं क्षत्रमुभयतो विशा परिबृढं तूष्णीमुदञ्चौ तूष्णीम् प्राञ्चौ तूष्णीमुदञ्चौ तूष्णीम् प्राञ्चौ॥
त्रयोदश सम्पादयति॥
त्रयोदश वै मासाः सम्वत्सरस्य सम्वत्सर एष य एष तपत्येष उ प्रवर्ग्यस्तदेतमेवैतत्प्रीणाति तस्मात्त्रयोदश सम्पादयति॥
अथ सुवर्णं हिरण्यमुपरिष्टान्निदधाति॥
दिवः संस्पृशस्पाहीत्येतद्वै देवा अबिभयुर्यद्वै न इममुपरिष्टाद्रक्षांसि नाष्ट्रा न हन्युरित्यग्नेर्वा एतद्रेतो यद्धिरण्यं नाष्ट्राणां रक्षसामपहत्या अथो द्यौर्ह वा एतस्माद्बिभयां चकार यद्वै मायं तप्तः शुशुचानो न हिंस्यादिति तदेवास्या एतदन्तर्दधाति हरितम् भवति हरिणीव हि द्यौः॥
अथ धवित्रैराधूनोति॥
मधु मध्विति त्रिः प्राणो वै मधु प्राणमेवास्मिन्नेतद्दधाति त्रीणि भवन्ति त्रयो वै प्राणाः प्राण उदानो व्यानस्तानेवास्मिन्नेतद्दधाति॥
अथापसलवि त्रिर्धून्वन्ति॥
यज्ञस्य शीर्षछिन्नस्य [रसो व्यक्षरत्स] पितॄनगछत्त्रया वै पितरस्तैरेवैनमेतत्समीरयति॥
अप वा एतेभ्यःप्रणाः क्रामन्ति॥
ये यज्ञे धुवनं तन्वते पुनः प्रसलवि त्रिर्धून्वन्ति षट् सम्पद्यन्ते षड्वा इमे शीर्षन्प्राणास्तानेवास्मिन्नेतद्दधाति श्रपयन्ति रौहिणौ स यदार्चिर्जायते अथ हिरण्यमादत्ते॥
स यत्रैतां होतान्वाह॥
अप्नस्वतीमश्विना वाचमस्मे इति तदध्वर्युरुपोत्तिष्ठन्नाह रुचितो घर्म इति स यदि रुचितः स्याछ्रेयान्यजमानो भविष्यतीति विद्यादथ यद्यरुचितः पापीयान्भविष्यतीति विद्यादथ यदि नैव रुचितो नारुचितो नैव श्रेयन्न पापीयान्भविष्यतीति विद्याद्यथा न्वेव रुचितः स्यात्तथा धवितव्यः॥
अथैतद्वै आयुरेतज्ज्योतिः प्रविशति य एतमनुवा ब्रूते भक्षयति वा तस्य व्रतचर्या या सृष्टौ॥
स यदैतदध्वर्युः॥
उपोत्तिष्ठन्नाह रुचितो घर्म इति तदुपोत्थायावकाशैरुपतिष्ठन्ते प्राणा वा अवकाशाः प्राणानेवास्मिन्नेतद्दधाति षडुपतिष्ठन्ते षड्वा इमे शीर्षन्प्राणास्तानेवास्मिन्नेतद्दधाति॥
गर्भो देवानामिति॥
एष वै गर्भो देवानां य एष तपत्येष हीदं सर्वं गृह्णात्येतेनेदं सर्वं गृभीतमेष उ प्रवर्ग्यस्तदेतमेवैतत्प्रीणाति तस्मादाह गर्भो देवानामिति॥
पिता मतीनामिति॥
पिता ह्येष मतीनाम् पतिः प्रजानामिति पतिर्ह्येष प्रजानाम्॥
सं देवो देवेन सवित्रागतेति सं हि देवो देवेन सवित्रागत सं सूर्येण रोचत इति सं हि सूर्येण रोचते॥
समग्निरग्निनागतेति॥
सं ह्यग्निरग्निनागत सं दैवेन सवित्रेति सं हि दैवेन सवित्रागत सं सूर्येणारोचिष्टेति सं हि सूर्येणारोचिष्ट॥
स्वाहा समग्निस्तपसागतेति सं ह्यग्निस्तपसागतावरं स्वाहाकारं करोति परां देवतामसावेव बन्धुः सं दैव्येन सवित्रेति सं हि दैव्येन सवित्रागत सं सूर्येणारूरुचतेति सं हि सूर्येणारूरुचत॥
ते वा एते त्रयोऽवकाशा भवन्ति॥
त्रयो वै प्राणाः प्राण उदानो व्यानस्तेनैवास्मिन्नेतद्दधाति॥
धर्ता दिवो विभाति तपसस्पृथिव्यामिति॥
धर्ता ह्येष दिवो विभाति तपसस्पृथिव्यां धर्ता देवो देवानाममर्त्यस्तपोजा इति धर्ता ह्येष देवो देवानाममर्त्यस्तपोजा वाचमस्मे नियछ देवायुवमिति यज्ञो वै वाग्यज्ञमस्मभ्यम् प्रयछ येन देवान्प्रीणामेत्येवैतदाह॥
अपश्यं गोपामनिपद्यमानमिति॥
एष वै गोपा य एष तपत्येष हीदं सर्वं गोपायत्यथो न निपद्यते तस्मादाहापश्यम् गोपामनिपद्यमानमिति॥
आ च परा च पथिभिश्चरन्तमिति॥
आ च ह्येष परा च देवैः पथिभिश्चरति स सध्रीचीः स विशूचीर्वसान इति सध्रीचीश्च ह्येष विशूचीश्च दिशो वस्तेऽथो रश्मीनावरीवर्त्ति भुवनेष्वन्तरिति पुनःपुनर्ह्येष एषु लोकेषु वरीवर्त्यमानश्चरति॥
विश्वासाम् भुवाम् पते॥
विश्वस्य मनसस्पते विश्वस्य वचसस्पते सर्वस्य वचसस्पत इत्येतस्य सर्वस्य पत इत्येतद्देवश्रुत्त्वं देव घर्म देवो देवान्पाहीति नात्र तिरोहितमिवास्ति॥
अत्र प्रावीरनु वां देववीतय इति॥
अश्विनावेवैतदाहाश्विनौ वा एतद्यज्ञस्य शिरः प्रत्यधत्तां तावेवैतत्प्रीणाति तस्मादाहात्र प्रावीरनु वाम् देववीतय इति॥
मधु माध्वीभ्याम् मधु माधूचीभ्यामिति॥
दध्यङ् ह वा आभ्यामाथर्वणो मधु नाम ब्राह्मणमुवाच तदेनयोः प्रियं धाम तदेवैनयोरेतेनोपगछति तस्मादाह मधु माध्वीभ्याम् मधु माधूचीभ्यामिति॥
हृदे त्वा मनसे त्वा दिवे त्वा सूर्याय त्वा॥
ऊर्ध्वो अध्वरं दिवि देवेषु धेहीति नात्र तिरोहितमिवास्ति॥
पिता नोऽसि पिता नो बोधीति॥
एष वै पिता य एष तपत्येष उ प्रवर्ग्यस्तदेतमेवैतत्प्रीणाति तस्मादाह पिता नोऽसि पिता नो बोधीति नमस्ते अस्तु मा मा हिंसीरित्याशिषमेवैतदाशास्ते॥
अथ पत्न्यै शिरोऽपवृत्य॥
महावीरमीक्षमाणाम् वाचयति त्वष्टृमन्तस्त्वा सपेमेति वृषा वै प्रवर्ग्यो योषा पत्नी मिथुनमेवैतत्प्रजननं क्रियते॥
अथैतद्वै॥
आयुरेतज्ज्योतिः प्रविशति य एतमु वा ब्रूते भक्षयति वा तस्य ब्रतचर्या या सृष्टौ॥