०८

अथास्मै कल्याणं कुर्वन्ति॥
अथास्मै श्मशानम् कुर्वन्ति॥
गृहान्वा प्रज्ञानम् वा यो वै कश्च म्रियते स शवस्तस्मा एतदन्नं करोति तस्माछवान्नम् शवान्नम् ह वै तछ्मशानमित्याचक्षते परोक्षं श्मशा उ हैव नाम पितॄणामत्तारस्ते हामुष्मिंलोकेऽकृतश्मशानस्य साधुकृत्यामुपदम्भयन्ति तेभ्य एतदन्नं करोति तस्माछ्मशान्नं श्मशान्नम् ह वै तछ्मशानमित्याचक्षते परोऽक्षम्॥
तद्वै न क्षिप्रं कुर्यात्॥
नेन्नवमघं करवाणीति चिर एव कुर्यादघमेव तत्तिरः करोति यत्र समानानु चन स्मरेयुरश्रुतिमेव तदघं गमयति यद्यनुस्मरेयुः॥
अयुङ्गेषु सम्वत्सरेषु कुर्यात्॥
अयुङ्गं हि पितॄणामेकनक्षत्र एकनक्षत्रं हि पितॄणाममावास्यायाममावास्या वा एकनक्षत्रमेको हि यद्वेतां रात्रिं सर्वाणि भूतानि सम्वसन्ति तेनो तं काममाप्नोति यः सर्वेषु नक्षत्रेषु॥
शरदि कुर्यात्॥
स्वधा वै शरत्स्वधो वै पितॄणामन्नं तदेनमन्ने स्वधायां दधाति माघे वा मा नोऽघम् भूदिति निदाघे वा नि नोऽघं धीयाता इति॥
चतुःस्रक्ति॥
देवाश्चासुराश्चोभये प्राजापत्या दिक्ष्वस्पर्धन्त ते देवाअसुरान्त्सपत्नान्भ्रातृव्यान्दिग्भ्योऽनुदन्त तेऽदिक्काः पराभवंस्तस्माद्या दैव्यः प्रजाश्चतुःस्रक्तीनि ताः श्मशानानि कुर्वतेऽथ या आसुर्यः प्राच्यास्त्वद्ये त्वत्परिमण्डलानि तेऽनुदन्त ह्येनान्दिग्भ्य उभे दिशावन्तरेण विदधाति प्राचीं च दक्षिणां चैतस्यां ह दिशि पितृलोकस्य द्वारं द्वारैवैनम् पितृलोकम् प्रपादयति स्रक्तिभिर्दिक्षु प्रतितिष्ठतीतरेणात्मनावन्तरदिक्षु तदेनं सर्वासु दिक्षु प्रतिष्ठापयति॥
अथातो भूमिजोषणस्य॥
उदीचीनप्रवणे करोत्युदीची वै मनुष्याणाम् दिक्तदेनम् मनुष्यलोक आभजत्येतद्ध वै पितरो मनुष्यलोक आभक्ता भवन्ति यदेषाम् प्रजा भवति प्रजा हास्स्य श्रेयसी भवति॥
दक्षिणाप्रवणे कुर्यादित्याहुः॥
दक्षिणाप्रवणो वै पितृलोकस्तदेनम् पितृलोक आभजतीति न तथा कुर्यादामीवद्ध नाम तछ्मशानकरणं क्षिप्रे हैषामपरोऽनुप्रैति॥
दक्षिणाप्रवणस्य प्रत्यर्षे कुर्यादित्यु हैक आहुः॥
तत्प्रत्युछ्रितमघम् भवतीति नो एव त्!था कुर्याद्यद्वा उदीचीनप्रवणे करोति तदेव प्रत्युछ्रितमघम् भवति॥
यस्यैव समस्य सतः॥
दक्षिणतह् पुरस्तादाप एत्य संस्थायाप्रघ्नत्य एतां दिशमभिनिष्पद्याक्षय्या अपोऽपिपद्येरंस्तत्कुर्यादन्नम् वाऽआपोऽन्नाद्यमेवास्माऽएतत्पुरस्तात्प्रत्यग्दधात्यमृतमु वा आप एषो ह जीवानाम् दिगन्तरेण सप्तर्षीणां चोदयनमादित्यस्यचास्तमयनममृतमेव तज्जीवेषु दधाति तद्धैतत्प्रतिमीवन्नाम श्मशानकरणम् जीवेभ्यो हितं यद्वाव जीवेभ्यो हितम् तत्पितृभ्यः॥
कम्वति कुर्यात्॥
कम् मेऽसदित्यथो शम्वति शम् मेऽसदिति नाधिपथं कुर्यान्नाकाशे नेदाविरघं करवाणीति॥
गुहा सदवतापि स्यात्॥
तद्यद्गुहा भवत्यघमेव तद्गुहा करोत्यथ यदवताप्यसौ वा आदित्यः पाप्मनोऽपहन्ता स एवास्मात्पाप्मानमपहन्त्यथो आदित्यज्योतिषमेवैनं करोति॥
न तस्मिन्कुर्यात्॥
यस्येत्थादनूकाशः स्याद्याचमानं ह नाम तत्क्षिप्रे हैषामपरोऽनुप्रैति॥
चित्रम् पश्चात्स्यात्॥
प्रजा वै चित्रं चित्रं हास्य प्रजा भवति यदि चित्रम् न स्यादापः पश्चाद्वोत्तरतो वा स्युरापोह्येव चित्र्!ं हैवास्य प्रजा भवति॥
ऊषरे करोति॥
रेतो वा ऊषाः प्रजननं तदेनम् प्रजनन आभजत्येतद्ध वै पितरः प्रजनन आभक्ता भवन्ति यदेषाम् प्रजा भवति प्रजा हास्य श्रेयसी भवति॥
समूले॥
समूलं हि पितॄणाम् वीरिणमिश्रमेतद्धास्याः पित्र्यमनतिरिक्तमथो अघमेव तद्बद्धृ करोति॥
न भूमिपाशमभिविदध्यात्॥
न शरं नाश्मगन्धां नाध्याण्डां न पृश्निपर्णी नाश्वत्थस्यान्तिकं कुर्यान्न विभीतकस्य न तिल्वकस्य न स्फूर्जकस्य न हरिद्रोर्न न्यग्रोधस्य ये चान्ये पापनामानो मङ्गलोपेप्सया नाम्नामेव परिहाराय॥
अथात आवृदेव॥
अग्निविधयाग्निचितः श्मशानं करोति यद्वै यजमानोऽग्निं चिनुतेऽमुष्मै तल्लोकाय यज्ञेनात्मानं संस्कुरुत एतदु ह यज्ञियं कर्मासंस्थितमा श्मशानकरणात्तद्यदग्निविधयाग्निचितः श्मशानं करोत्यग्निचित्यामेव तत्संस्थापयति॥
तद्वै न महत्जुर्यात्॥
नेन्महदघम् करवाणीति यावानपक्षपुछोऽग्निस्तावत्जुर्यादित्यु हैक आहुः समानो ह्यस्यैष आत्मा यथैवाग्नेस्तथेति॥
पुरुषमात्रं त्वेव कुर्यात्॥
तथापरस्मा अवकाशं न करोति पश्चाद्वरीयः प्रजा वै पश्चात्प्रजामेव तद्वरीयसीं कुरुत उत्तरतो वर्षीयः प्रजा वा उत्तरा प्रजामेव तद्वर्षीयसीं कुरुते तद्विधायापसलविसृष्टाभि स्पन्द्याभिः पर्यातनोत्यपसलवि पित्र्यं हि कर्म॥
अथोद्धन्तवा आह॥
स यावत्येव निवप्स्यन्त्स्यात्तावदुद्धन्यात्पुरुषमात्रं त्वेवोद्धन्यात्तथापरस्मा अवकाशं न करोत्यथो ओषधिलोको वै पितव्र ओषधीनां ह मूलान्युपसर्पन्त्यथो नेदस्या अन्तर्हितोऽसदिति॥
अन्तर्धावो हैके निवपन्ति॥
देवाश्चासुराश्चोभये प्राजापत्या अस्मिंलोकेऽस्पर्धन्त ते देवा असुरान्त्सपत्नान्भ्रातृव्यानस्माल्लोकादनुदन्त तस्माद्या दैव्यः प्रजा अनन्तर्हितानि ताः श्मशानानि कुर्वतेऽथ या आसुर्यः प्राच्यास्त्वद्ये त्वदन्तर्हितानि ते चम्वां त्वद्यस्मिंस्त्वत्॥
अथैनत्परिश्रिद्भिः परिश्रवति॥
या एवामूः परिश्रितस्ता एता यजुषा ताः परिश्रयति तूष्णीमिमा दैवं तत्पित्र्यम् च व्याकरोत्यपरिमिताभिरपरिमितो ह्यसौ लोकः॥
अथैनत्पलाशशाखया व्युदूहति॥
यदेवादो व्युदूहनं तदेतदपेतो यन्तु पणयोऽसुम्ना देवपीयव इति पणीनेवैतदसुम्नान्देवपीयूनसुररक्षसान्यस्माल्लोकादपहन्त्यस्य लोकः सुतावत इति सुतवान्हि य ईजानोद्युभिरहोभिरक्तुभिर्व्यक्तमिति तदेनमृतुभिश्चाहोरात्रैश्च सलोकं करोति॥
यमो ददात्ववसानमस्मा इति॥
यमो ह वा अस्यामवसानस्येष्टे तमेवास्मा अस्यामवसानं याचति तां दक्षिणोदस्यत्युदगितरां दैवं चैव तत्पित्र्यं च व्याकरोति॥
अथ दक्षिणतः सीरम् युनक्ति॥
उत्तरत इत्यु हैक आहुः स यथा कामयेत तथा कुर्याद्युङ्क्तेति सम्प्रेष्याभिमन्त्रयते सविता ते शरीरेभ्यः पृथिव्यां लोकमिच्छत्विति सवितैवास्यैतछरीरेभ्यः पृथिव्यां लोकमिच्छति तस्मै युज्यन्तामुस्रिया इत्येतस्मा उ हि कर्मण उस्रिया युज्यन्ते॥
षङ्गवम् भवति॥
षडृतवः सम्वत्सर ऋतुष्वेवैनमेतत्सम्वत्वरे प्रतिष्ठायाम् प्रतिष्ठापयति तदपसलवि पर्याहृत्योत्तरतः प्रतीचीम् प्रथमां सीताम् कृषति वायुः पुनात्विति जघनार्धेन दक्षिणाग्नेर्भ्राजसेति दक्षिणार्धेन प्राचीं सूर्यस्य वर्चसेत्यग्रेणोदीचीम्॥
चतस्रः सीता यजुषा कृषति॥
तद्यच्चतसृषु दिक्ष्वन्नं तस्मिन्नेवैनमेतत्प्रतिष्ठापयति तद्वै यजुषाद्धा वै तद्यद्यजुरद्धो तद्यदिमा दिशः॥
अथात्मानम् विकृषति॥
तद्यदेव सम्वत्सरेऽन्नं तस्मिन्नेवैनमेतत्प्रतिष्ठापयति तूष्णीमपरिमिताभिरपरिमितोह्यसौ लोकः॥
अथैनद्विमुञ्चति॥
कृत्वा तत्कर्म यस्मै कर्मण एनद्युङ्क्ते विमुच्यन्तामुस्रिया इत्येतस्मा उ हि कर्मण उस्रिया युज्यन्ते तद्दक्षिणोदस्यत्युदगितरद्दैवं चैव तत्पित्र्यम् च व्याकरोति॥
अथ सर्वौषधम् वपति॥
यदेवादः सर्वौषधं तदेतद्बह्वीभिस्तद्वपत्येकयेदं दैवं चैव तत्पित्र्यं च व्याकरोत्यश्वत्थे वो निषदनम् पर्णे वो वसतिष्कृतेति ज्योग्जीवातुमेवैभ्य एतदाशास्ते तथो हैषामेकैकोऽपरो जरसानुप्रैति॥
अथैनन्निवपति॥
इयम् वै पृथिवी प्रतिष्ठास्यामेवैनमेतत्प्रतिष्ठायाम् प्रतिष्ठापयति पुरादित्यस्योदयात्तिर-इव वै पितरस्तिर-इव रात्रिस्तिर एव तत्करोति यथा कुर्वतोऽभ्युदियात्तदेनमुभयोरहोरात्रयोः प्रतिष्ठापयति॥
सविता ते शरीराणि॥
मातुरुपस्थ आवपत्विति सवितैवास्यैतछरीराण्यस्यै पृथिव्यै मातुरुपस्थ आवपति तस्यै पृथिवि शम्भवेति यथैवास्मा इयं शं स्यादेवमेतदाह प्रजापतौ त्वा देवतायामुपोदके लोके निदधाम्यसाविति नाम गृह्णात्ययम् वै लोक उपोदकस्तदेनम् प्रजापतौ देवतायामुपोदके लोके निदधाति॥
अथ कञ्चिदाह॥
एताम् दिशमनवानन्त्सृत्वा कुम्भम् प्रक्षीयाणप्रेक्षमाण एहीति तत्र जपति परम् मृत्यो अनु परेहि पन्थां यस्ते अन्य इतरो देवयानात् चक्षुष्मते शृण्वते ते ब्रवीमि मा नः प्रजां रीरिषो मोत वीरानिति ज्योग्जीवातुमेवैभ्य एतदाशास्ते तथो हैषामेकैकोऽपरो जरसानुप्रैति॥
अथैनं यथाङ्गं कल्पयति॥
शम् वातः शम् हि ते घृणिः शम् ते भवन्त्विष्टकाः शम् ते भवन्त्वग्नयः पार्थिवासो मा त्वाभिशूशुचन् कल्पन्तां ते दिशस्तुभ्यमापः शिवतमास्तुभ्यम् भवन्तु सिन्धवः अन्तरिक्षं शिवम् तुभ्यं कल्पन्तां ते दिशः सर्वा इत्येतदेवास्मै सर्वं कल्पयत्येतदस्मै शिवं करोति॥
अथ त्रयोदश पादमात्र्य इष्टका अलक्षणाः कृता भवन्ति॥
या एवामूरग्नाविष्टकास्ता एता यजुषा ता उपदधाति तूष्णीमिमा दैवं चैव तत्पित्र्यं च व्याकरोति॥
त्रयोदश भवन्ति॥
त्रयोदश मासाः सम्वत्सर ऋतुष्वेवैनमेतत्सम्वत्सरे प्रतिष्ठायाम् प्रतिष्ठापयति॥
पादमात्र्यो भवन्ति॥
प्रतिष्ठा वै पादः प्रतिष्ठामेवास्मै करोत्यलक्षणा भवन्ति तिर-इव वै पितरस्तिर-इव तद्यदलक्षणं तिर एव तत्तिरः करोति॥
तासामेकाम् मध्ये प्राचीमुपदधाति॥
स आत्मा तिस्रः पुरस्तान्मूर्धस+हितास्तछिरस्तिस्रो दक्षिणतः स दक्षिणः पक्षस्तिस्र उत्तरतः स उत्तरः पक्षस्तिस्रः पश्चात्तत्पुछं सोऽस्यैष पक्षपुछवानात्मा यथैवाग्नेस्तथा॥
अथ प्रदरात्पुरीषमाहर्तवा आह॥
एतद्धास्याः पित्र्यमनतिरिक्तमथो अघमेव तद्बद्धृ करोत्यस्मिन्नु हैकेऽवान्तरदेशे कर्षूं खात्वा ततोऽभ्याहारं कुर्वन्ति परिकृषन्त्यु हैके दक्षिणतः पश्चादुत्तरतस्ततोऽभ्याहारं कुर्वन्ति स यथा कामयेत तथा कुर्यात्॥
तद्वै न महत्कुर्यात्॥
नेन्महदघम् करवाणीति यावानुद्बाहुः पुरुषस्तावत्क्षत्रियस्य कुर्यान्मुखदघ्नम् ब्राह्मणस्योपस्थदघ्नं स्त्रिया ऊरुदघ्नम् वैश्यस्याष्ठीवद्दघ्नं शूद्रस्यैवम्वीर्या ह्येत इति॥
अधोजानु त्वेव कुर्यात्॥
तथापरस्मा अवकाशं न करोति तस्य क्रियमाणस्य तेजनीमुत्तरतो धारयन्ति प्रजा ह सा प्रजामेव तदुत्तरतो धारयन्ति तां न न्यस्येद्धृत्वा वैनामूढ्वा वा गृहेषूछ्रयेत्प्रजामेव तद्गृहेषूछ्रयति॥
कृत्वा यवान्वपति॥
अघम् मे यवयानित्यवकाभिः प्रछादयति कम् मेऽसदिति दर्भैः प्रछादयत्यरूक्षतायै॥
अथैनछङ्कुभिः परिणिहन्ति॥
पालाशम् पुरस्ताद्ब्रह्म वै पलाशो ब्रह्मपुरोगवमेवैनं स्वर्गं लोकं गमयति शमीमयमुत्तरतः शम् मेऽसदिति वारणम् पश्चादघम् मे वारयाता इति वृत्रशङ्कुं दक्षिणतोऽघस्यैवानत्ययाय॥
अथ दक्षिणतः परिवक्रे खनन्ति॥
ते क्षीरेण चोदकेन च पूरयन्ति ते हैनममुष्मिंलोकेऋक्षिते कुल्ये उपधावतः सप्तोत्तरस्ता उदकेन पूरयन्ति न ह वै सप्त स्रवन्तीरघमत्येतुमर्हत्यघस्यैवानत्ययाय॥
अश्मनस्त्रींस्त्रीन्प्रकिरन्ति॥
ता अभ्युत्तरन्त्यश्मन्वती रीयते संरभध्वमुत्तिष्ठत प्रतरत सखायः अत्रा जहीमोऽशिवा ये असञ्छिवान्वयमुत्तरेमाभि वाजानिति यथैव यजुस्तथा बन्धुः॥
अपामार्गैरपमृजते॥
अघमेव तदपमृजतेऽपाघमप किल्विषमप कृत्यामपो रपः अपामार्ग त्वमस्मदप दुःष्वप्न्यं सुवेति यथैव यजुस्तथा बन्धुः॥
यत्रोदकम् भवति तत्स्नान्ति॥
सुमित्रिया न आप ओषधयः सन्त्वित्यञ्जलिनाप उपाचति वज्रो वा आपो वज्रेणैवैतन्मित्रधेयं कुरुते दुर्मित्रियास्तस्मै सन्तु योऽस्मान्द्वेष्टि यं चपरासिञ्चेत्तेनैव तम् पराभावयति॥
स य्!दि स्थावरा आपो भवन्ति॥
स्थापयन्त्येषाम् पाप्मानमथ यदि वहन्ति वहन्त्येवैषाम् पाद्मानं स्नात्वाहतानि वासांसि परिधायानडुहः पुछमन्वारभ्यायन्त्यास्नेयो वा अनड्वानग्निमुखा एव तत्पितृलोकाज्जीवलोकमभ्यायन्त्यथो अग्निर्वै पथोऽतिवोडा स एनानतिवहति॥
उद्वयं तमसस्परीति॥
एतामृचं जपन्तो यन्ति तत्तमसः पितृलोकादादित्यं ज्योतिरभ्यायन्ति तेभ्य आगतेभ्य आञ्जनाभ्यञ्जने प्रयछन्त्येष ह मानुषोऽलङ्कारस्तेनैव तम् मृत्युमन्तर्दधते॥
अथ गृहेष्वग्निं समाधाय॥
वारणान्परिधीन्परिधाय वारणेन स्रुवेणाग्नय आयुष्मत आहुतिं जुहोत्यग्निर्वा आ आयुष्मानायुष ईष्टे तमेवैभ्य आयुर्याचत्यग्न आयूंषि पवस इति पुरोऽनुवाक्याभाजनम्॥
अथ जुहोति॥
आयुष्मानग्ने हविषा वृधानो घृतप्रतीको घृतयोनिरेधि गृतम् पीत्वा मधु चारु गव्यम् पितेव पुत्रमभिरक्षतादिमान्त्स्वाहेति यथैवैनानभिरक्षेद्यथाभिगोपायेदेवमेतदाह॥
तस्य पुराणोऽनड्वान्दक्षिणा॥
पुराणा यवाः पुराण्यासन्दी सोपबर्हणैषा न्वादिष्टा दक्षिणा कामं यथाश्रद्धम् भूयसीर्दद्यादिति न्वग्निचितः॥
अथानग्निचितः॥
एतदेव भूमिजोषणमेतत्समानम् कर्म यदन्यदग्निकर्मणः कुर्वादाहिताग्नेः शर्करा इत्यु हैक आहुर्या एवामूरग्न्याधेयशर्करास्ता एता इति न कुर्यादित्येक ईश्वरो हैता अनग्निचितं सन्तप्तोरिति स यथा कामयेत तथा कुर्यात्॥
मर्यादाया एव लोष्टमाहृत्य॥
अन्तरेण निदधातीमं जीवेभ्यः परिधिं दधामि मैषां नु गादपरो अर्थमेतम् शतं जीवन्तु शरदः पुरूचीरन्तर्मृत्युं दधताम् पर्वतेनेति जीवेभ्यश्चैवैताम् पितृभ्यश्च मर्यादां करोत्यसम्भेदाय तस्मादु हैतज्जीवाश्च पितरश्च न सन्दृश्यन्ते॥