अथ प्रातर्गोतमस्य॥
चतुरुत्तर स्तोमो भवति तस्य चतसृषु बहिष्पवमानमष्टास्वष्टास्वाज्यानि द्वादशसु माध्यन्दिनः पवमानः षोडशसु पृष्ठानि विंशत्यामार्भवः पवमानश्चतुर्विंशत्यामग्निष्टोमसाम॥
तस्य हैके॥
अग्निष्टोमसाम चतुःसाम कुर्वन्ति नाग्निष्टोमो नोक्थ्य इति वदन्तस्तद्यदि तथा कुर्युः सार्धं स्तोत्रियं शस्त्वा सार्धमनुरूपं शंसेद्रथन्तरम् पृष्ठं राथन्तरं शस्त्रमग्निष्टोमो यज्ञस्तेनेमं लोकमृध्नोति॥
एकविंशतिः सवनीयाः पशवः॥
सर्व आग्नेयास्तेषां समानं कर्मेत्यु हैक आहुर्द्वे त्वेवैते एकादशिन्यावालभेत य एवैकादशिनेषु कामस्तस्य कामस्याप्त्यै॥
संस्थितेऽग्निष्टोमे॥
परिहृतासु वसतीवरीष्वध्वर्युरन्नहोमान्जुहोति तेषामुक्तम् ब्राह्मणं प्राणाय स्वाहापानाय स्वाहेति द्वादशभिरनुवाकैर्द्वादश मासाः संवत्सरः सर्वं संवत्सरः सर्वमश्वमेधः सर्वस्याप्त्यै सर्वस्यावरुद्ध्यै॥
एकविंशम् मध्यममहर्भवति॥
असौ वा आदित्य एकविंशः सोऽश्वमेधः स्वेनैवैनं स्तोमेन स्वायां देवतायाम् प्रतिष्ठापयति तस्मादेकविंशम्॥
यद्वेवैकविंशम्॥
एकविंशो वै पुरुषो दश हस्त्या अङ्गुलयो दश पाद्या आत्मैकविंशस्तदनेनैकविंशेनात्मनैतस्मिन्नेकविंशे प्रतिष्ठायाम् प्रतितिष्ठति तस्मादेकविंशम्॥
यद्वेवैकविंशम्॥
एकविंशो वै स्तोमानाम् प्रतिष्ठा बहु खलु वा एतदेतस्मिन्नहन्युच्चावचमिव कर्म क्रियते तद्यदेतदेतस्मिन्नहन्युच्चावचम् बहु कर्म क्रियते तदेतस्मिन्नेकविंशे प्रतिष्ठायाम् प्रतिष्ठितं क्रियाता इति तस्माद्वेवैतदेकविंशमहः॥
तस्य प्रातःसवनम्॥
अग्निं तम् मन्ये यो वसुरिति होता पाङ्क्तमाज्यं शस्त्वैकाहिकमुपसंशंसति बार्हतं च प्रउगम् माधुछन्दसं च त्रिचश उभे संशंसति यश्च बार्हते प्रउगे कामो य उ च माधुछन्दसे तयोरुभयोः कामयोराप्त्यै कॢप्तम् प्रातःसवनम्॥
अथातो माध्यन्दिनं सवनं॥
अतिच्छन्दाः प्रतिपन्मरुत्वतीयस्य त्रिकद्रुकेषु महिषो यवाशिरमित्यतिष्ठा वा एषा छन्दसां यदतिच्छन्दा अतिष्ठा अश्वमेधो यज्ञानामश्वमेधस्यैवाप्त्यै सैषैव त्रिः शस्ता त्रिचः सम्पद्यते तेनो तं काममाप्नोति यस्त्रिच इदं वसो सुतमन्ध इत्यनुचर एष एव नित्य एकाहातान इत्था हि सोम इन्मदेऽवितासि सुन्वतो वृक्तबर्हिष इति पङ्क्तीश्च षट्पदाश्च शस्त्वैकाहिके निविदं दधातीति मरुत्वतीयम्॥
अथातो निष्केवल्यम्॥
महानाम्न्यः पृष्ठम् भवन्ति सानुरूपाः सप्रगाथाः शंसति सर्वे वै कामा महानाम्नीषु सर्वे कामा अश्वमेधे सर्वेषां कामानामाप्त्याइन्द्रो मदाय वावृधे प्रेदम् ब्रह्म वृत्रतूर्येष्वाविथे ति पङ्क्तीश्च ष+\पदाश्च शस्त्वैकाहिके निविदं दधाति कॢप्तम् माध्यन्दिनं सवनम्॥
अथातस्तृतीयसवनम्॥
अतिच्छन्दा एव प्रतिपद्वैश्वदेवस्याभित्यं देवं सवितारमोण्योरिति तस्या एतदेव ब्राह्मणं यत्पूर्वस्या अभित्वा देव सवितरित्यनुचरोऽभिवान्भिभूत्यै रूपमुदु ष्य देवः सविता दमूना इति सावित्रं शस्त्वैकाहिके निविदं दधाति मही द्यावापृथिवीइह ज्येष्थे इति चतुरृचं द्यावापृथिवीयं शस्त्वैकाहिके निविदं दधात्यृभुर्विभ्वा वाज इन्द्रो नो अछेत्यार्भवं शस्त्वैकाहिके निविदं दधाति को नु वाम् मित्रावरुणावृतायन्निति वैश्वदेवं शस्त्वैकाहिके निविदं दधातीति वैश्वदेवम्॥
अथात आग्निमारुतम्॥
मूर्धानं दिवो अरतिम् पृथिव्या इति वैश्वानरीयं शस्त्वैकाहिके निविदं दधात्या रुद्रास इन्द्रवन्तः सजोषस इति मारुतं शस्त्वैकाहिके निविदं दधातीममूषु वो अतिथिमुषर्बुधमिति नवर्चं जातवेदसीयं शस्त्वैकाहिके निविदं दधाति तद्यदैकाहिकानि निविद्धानानि भवन्ति प्रतिष्ठा वै ज्योतिष्तोमः प्रतिष्ठाया अप्रच्युत्यै॥
तस्यैते पशवो भवन्ति॥
अश्वस्तूपरो गोमृग इति पञ्चदश पर्यङ्ग्यास्तेषामुक्तम् ब्राह्मणमथैत आरण्या वसन्ताय कपिञ्जलानालभते ग्रीष्माय कलविङ्कान्वर्षाभ्यस्तित्तिरीनिति तेषाम्वेवोक्तम्॥
अथैतानेकविंशतये॥
चातुर्मास्यदेवताभ्य एक्विंशतिमेकविंशतिम् पशूनालभत एतावन्तो वै सर्वे देवा यावत्यश्चातुर्मास्यदेवताः सर्वे कामा अश्वमेधे सर्वान्देवान्प्रीत्वा सर्वान्कामानाप्नवानीति न तथा कुर्यात्॥
सप्तदशैव पशून्मध्यमे यूप आलभेत्॥
प्रजापतिः सप्तदशः सर्वं सप्तदशः सर्वमश्वमेधः सर्वस्याप्तै सर्वस्यावरुध्यै षोडश षोडशेतरेषु षोडश्कलम् वा इदं सर्वं सर्वमश्वमेधः सर्वस्याप्तै सर्वस्यावरुध्यै त्रयोदश त्रयोदशारण्यानाकाशेष्वालभते त्रयोदश मासाः सम्वत्सरः सर्वं सम्वत्सरः सर्वमश्वमेधः सर्वस्याप्तै सर्वस्यावरुध्यै॥
अथ पुरा बहिष्पवमानात्॥
अश्वं निक्त्वोदानयन्ति तेन पावमानाय सर्पन्ति तस्योक्तम् ब्राह्मणं स्तुते बहिष्पवमानेऽश्वमास्तावमाक्रमयन्ति स यद्यव वा जिघ्रेद्वि वा वर्तेत् समृद्धो मे यज्ञ इति ह विद्यात्तमुपाकृत्याध्वर्युराह होतरभिष्टुहीति तमेकादशभिर्होताभिष्टौति॥
यदक्रन्दः प्रथमं जायमान इति॥
त्रिः प्रथमया त्रिरुत्तमया ताः पञ्चदश सम्पद्यन्ते पञ्चदशो वै वज्रो वीर्यम् वज्रो वज्रेणैवैतद्वीर्येण यजमानः पुरस्तात्पाप्मा՚म् वज्रो वज्रेणैवैतद्वीर्येण यजमानः पुरस्तात्पाप्मानमपहते तद्वै यजमानायैव वज्रः प्रदीयते योऽस्य स्तृत्यस्तं स्तर्तव उप प्रागाछसनम् वाज्यर्वोप प्रागात्परमंयत्सधस्थमिति॥
एते उद्धृत्य॥
मा नो मित्रो वरुणो अर्यमायुरित्येतत्सूक्तमध्रिगावावपति चतुस्त्रिंशद्वाजिनो देवबन्धोरित्यु हैक एताम् वङ्क्रीणाम् पुरस्ताद्दधति नेदनायतने प्रणवं दधामेत्यथो नेदेकवचनेन बहुवचनम् व्यवायामेति न तथा कुर्यात्सार्धमेष सूक्तमावपेदुप प्रागाछसनम् वाज्यर्वोप प्रागात्परमंयत्सधस्थमिति॥
एतेउक्त्वा॥
यदध्रिगोः परिशिष्टम् भवति तदाह वासोऽधिवासं हिरण्यमित्यश्वायोपस्तृणन्ति तस्मिन्नेनमधि सञ्ज्ञपयन्ति सञ्ज्ञप्तेषु पशुषु पत्न्यः पान्नेजनैरुदायन्ति चतस्रश्च जायाः कुमारी पञ्चमी चत्वारि च शतान्यनुचरीणाम्॥
निष्थ्\इतेषु पान्नेजनेषु॥
महिषीमश्वायोपनिपादयन्त्यथैनावधिवासेन सम्प्रोर्णुवन्ति स्वर्गेलोके प्रोर्णुवथामित्येष वै स्वर्गो लोको यत्र पशुं सञ्ज्ञपयन्ति निरायत्याश्वस्य शिश्नम् महिष्युपस्थे निधत्ते वृषा वाजी रेतोधा रेतो दधात्विति मिथुनस्यैव सर्वत्वाय॥
तयोः शयानयोः अश्वं यजमानोऽभिमेथत्युत्सक्थ्या अव गुदं धेहीति तं न कश्चन प्रत्यभिमेथति नेद्यजमानम् प्रतिप्रतिः कश्चिदसदिति॥
अथाध्वर्युः कुमारीमभिमेथति॥
कुमारि हये-हये कुमारि यकासकौ शकुन्तिकेति तं कुमारी प्रत्यभिमेथत्यध्वर्यो हये-हयेऽध्वर्यो यकोऽसकौ शकुन्तक इति॥
अथ ब्रह्मा महिषीमभिमेथति॥
महिषि हये-हये महिषि माता च ते पिता च तेऽग्रम् वृक्षस्य रोहत इति तस्यै शतं राजपुत्र्योऽनुचर्यो भवन्ति ता ब्रह्माणम् प्रत्यभिमेथन्ति ब्रह्मन्हये-हये ब्रह्मन्माता च ते पिता च तेऽग्रे वृक्षस्य क्रीडत इति॥
अथोद्गाता वावातामभिमेथति॥
वावाते हये-हये वावात ऊर्ध्वामेनामुछ्रापयेति त्!स्यै शतं राजन्या अनुचर्यो भवन्ति ता उद्गातारम् प्रत्यभिमेथन्त्युद्गातर्हये-हय उद्गातरूध्वर्मेनमुछ्रयतादिति॥
अथ होता परिवृक्तामभिमेथति॥
परिवृक्ते हये-हये परिवृक्ते यदस्या अंहुभेद्या इति तस्यै शतं सूतग्रामण्यां दुहितरोऽनुचर्यो भवन्ति ता होतारम् प्रत्यभिमेथन्ति होतर्हये-हये होतर्यद्देवासो ललामगुमिति॥
अथ क्षत्ता पालागलीमभिमेथति॥
पालागलि हये-हये पालागलि यद्धरिणो यवमत्ति न पुष्टम् पशु मन्यत इति तस्यै शतं क्षात्रसङ्ग्रहीतॄणां दुहितरोऽनुचर्यो भवन्ति ताः क्षत्तारम् प्रत्यभिमेथन्ति क्षत्तर्हये-हये क्षत्तर्यद्धरिणो यवमत्ति न पुष्टम् बहु मन्यत इति॥
सर्वाप्तिर्वाएषा वाचः॥
यदभिमेथिकाः सर्वे कामा अश्वमेधे सर्वया वाचा सर्वान्कामानाप्नवामेत्युत्थापयन्ति महिषीं ततस्ता यथेतम् प्रतिप्!रायन्त्यथेतरे सुरभिमतीमृचमन्ततोऽन्वाहुर्दधिक्राव्णोअकारिषमिति॥
अप वा एतेभ्य आयुर्देवताः क्रामन्ति॥
ये यज्ञेपूताम् वा चम् वदन्ति वाचमेवैतत्पुनते देवयज्यायै देवतानामनपक्रमाय या च गोमृगे वपा भवति या चाजेतूपरे ते अश्वे प्रत्यवधायाहरन्ति नाश्वस्य वपास्तीति वदन्तो न तथा कुर्यादश्वस्यैव प्रत्यक्षम् मेद आहरेत्प्रज्ञाता इतराः॥
शृतासु वपासु स्वाहाकृतिभिश्चरित्वा प्रत्यञ्चः प्रतिपरेत्य सदसि ब्रह्मोद्यम् वदन्ति पूर्वया द्वारा प्रपद्य यथाधिष्ण्यम् व्युपविशन्ति॥
स होताध्वर्युम् पृछति॥
कः स्विदेकाकी चरतीति तम् प्रत्याह सूर्य एकाकी चरतीति॥
अथाध्वर्युर्होतारम् पृछति॥
किं स्वित्सूर्यसमं ज्योतिरिति तम् प्रत्याह ब्रह्म सूर्यसमं ज्योतिरिति॥
अथ ब्रह्मोद्गातारम् पृछति॥
पृछामि त्वा चितये देवसखेति तम् प्रत्याहापि तेषु त्रिषु पदेष्वस्मीति॥
अथोद्गाता ब्रह्माणम् पृछति॥
केष्वन्तः पुरुष आविवेशेति तम् प्रत्याह पञ्चस्वन्तः पुरुष आविवेशेति॥
एतस्यामुक्तायामुत्थाय॥
स्!दसोऽधि प्राञ्चो यजमानमभ्यायन्त्यग्रेण हविर्धाने आसीनमेत्य यथायतनम् पर्युपविशन्ति॥
स होताध्वर्युम् पृछति॥
का स्विदासीत्पूर्वचित्तिरिति तम् प्रत्याह द्यौरासीत्पूर्वचित्तिरिति॥
अथाध्वर्युर्होतारम् पृछति॥
क ईमरे पिशङ्गिलेति तम् प्रत्याहाजारे पिशञ्गिलेति॥
अथ ब्रह्मोद्गातारम् पृछति॥
कत्यस्य विष्ठाः कत्यक्षराणीति तम् प्रत्याह षडस्य विष्थ्\आः शतमक्षराणीति॥
अथोद्गाता ब्रह्माणम् पृछति॥
को अस्य वेद भुवनस्य नाभिमिति तम् प्रत्याह वेदाहमस्य भुवनस्य नाभिमिति॥
अथाध्वर्युं यजमानः पृछति॥
पृछामि त्वा परमन्तम् पृथिव्या इति तम् प्रत्याहेयम् वेदिः परो अन्तः पृथिव्या इति॥
सर्वाप्तिर्वा एषा वाचः॥
यद्ब्रह्मोद्यं सर्वे कामा अश्वमेधे सर्वया वाचा सर्वान्कामानाप्नवामेति॥
उदिते ब्रह्मोद्ये॥
प्रपद्याध्वर्युर्हिरण्मयेने पात्रेण प्राजापत्यम् महिमानं ग्रहं गृह्णाति तस्य पुरोरुग्घिरण्यगर्भः समवर्तताग्र इत्यथास्य पुरोऽनुवाक्या सुभूः स्वयम्भूः प्रथम इति होता यक्षत्प्रजापतिमिति प्रैषः प्रजापते न त्वदेतान्यन्य इति होता यजति वषट्कृते जुहोति यस्तेऽहन्त्सम्वत्सरे महिमा सम्बभूवेति नानुवषट्करोति सर्वहुतं हि जुहोति॥
अथातो वपानां होमः॥
नानैव चरेयुरा वैश्वदेवस्य वपायै वैश्वदेवस्य वपायां हुतायां तदन्वितराजुहुयुरिति ह स्माह सत्यकामो जाबालो विश्वे वै सर्वे देवास्तदेनान्यथादेवतम् प्रीणातीति॥
ऐन्द्राग्नस्य वदायां हुतायाम्॥
तदन्वितरा जुहुयुरिति ह स्माहतुः सौमापौ मानुतन्तव्याविन्द्राग्नी वै सर्वे देवास्तदेवैनान्यथादेवतम् प्रीणातीति॥
कायस्य वपायां हुतायाम्॥
तदन्वितरा जुहुयुरिति ह स्माह इनान्यथादेवतम् प्रीणातीति शैलालिः प्रजापतिर्वै कः प्रजापतिमु वा अनु सर्वे देवास्तदेवैनान्यथादेवतम् प्रीणातीति॥
एकविंशतिं चातुर्मास्यदेवता अनुहुत्य॥
एक्विंशतिधा कृत्वा प्रचरेयुरिति ह स्माह भाल्लबेय एतावन्तो वै सर्वे देवायावत्यश्चातुर्मास्यदेवतास्तदेवैनान्यथादेवतम् प्रीणातीति॥
नानैव चरेयुः॥
इतीन्द्रोतः शौनकः किमुत त्वरेरंस्तदेवैनान्यथादेवतम् प्रीणातीत्येतदह तेषाम् वचोऽन्या त्वेवात स्थितिः॥
अथ होवाच याज्ञवल्क्यः॥
सकृदेव प्राजापत्याभिः प्रचरेयुः सकृद्देवदेवत्याभिस्तदेवैनान्यथादेवतम् प्रीणात्यञ्जसा यज्ञस्य संस्थामुपैति न ह्वलतीति॥
हुतासु वपासु॥
प्रपद्याध्वर्यू रजतेन पात्रेण प्राजापत्यम् महिमानमुत्तरं ग्रहं गृह्णाति तस्य पुरोरुग्यः प्राणतो निमिषतो महित्वेति विपर्यस्ते याज्यानुवाक्ये अयातयामताया एष एव प्रैषो वषट्कृते जुहोति यस्ते रात्रौ सम्वत्सरे महिमा सम्बभूवेति नानुवषट्करोति तस्योक्तम् ब्राह्मणम्॥
नान्येषाम् पशूनाम् तेदन्या अवद्यन्ति अवद्यन्त्यश्वस्य दक्षिणतोऽन्येषाम् पशूनामवद्यन्त्युत्तरतोऽश्वस्य प्लक्षशाखास्वन्येषाम् पशूनामवद्यन्ति वेतसशाखास्वश्वस्य॥
तदु होवाच सात्ययज्ञिः॥
इतरथैव कुर्युः पथ एव नापोदित्यमिति पूर्वा त्वेव स्थितिरुक्थ्यो यज्ञस्तेनान्तरिक्षलोकमृध्नोति सर्वस्तोमोऽतिरात्र उत्तममहर्भवति सर्वम् वै सर्वस्तोमोऽतिरात्रः सर्वमश्वमेधः सर्वस्याप्तै सर्वस्यावरुद्ध्यै॥
तस्य त्रिवृद्बहिष्पवमानम्॥
पञ्चदशान्याज्यानि सप्तदशो माध्यन्दिनः पवमान एकविंशानि पृष्थ्\आनि त्रिणवस्तृतीयः पवमानस्त्रयस्त्रिंशमग्निष्टोमसामैकविंशान्युक्थान्येकविंशः षोडशी पञ्चदशी रात्रिस्त्रिवृत्सन्धिर्यद्द्वितीयस्याह्नः पृष्थ्\यस्य षडहस्य तछस्त्रमतिरात्रो यज्ञस्तेनामुं लोकमृध्नोति॥
एकविंशतिः सवनीयाः पशवः॥
सर्व आग्नेयास्तेषां समानङ्कर्मेत्यु हैक आहुश्चतुर्विंशतिम् त्वेवैतान्गव्यानालभेत् द्वादशभ्यो देवताभ्यो द्वादश मासाः सम्वत्सरः सर्वं सम्वत्सरः सर्वमश्वमेधः सर्वस्याप्तै सर्वस्यावरुद्ध्यै॥
एतेन हेन्द्रोतो दैवापः शौनकः॥
जनमेजयम् पारिक्षितं याजयाम् चकार तेनेष्ट्वा सर्वाम् पापकृत्यां सर्वाम् ब्रह्महत्यामपजघान सर्वां ह वै पापकृत्यां सर्वाम् ब्रह्महत्यामपहन्ति योऽश्वमेधेन यजते॥
तदेतद्गाथयाभिगीतम्॥
आसन्दीवति धान्यादं रुक्मिणं हरितस्रजम् अबध्नादश्वं सारङ्गं देवेभ्यो जनमेजय इति॥
एते एव पूर्वे अहनी॥
ज्योतिरतिरात्रस्तेन भीमसेनमेते एव पूर्वे अहनी गौरतिरात्रस्तेनोग्रसेनमेते एव पूर्वे अहनी आयुरतिरात्रस्तेन श्रुतसेनमित्येते पारिक्षितीयास्तदेतद्गाथयाभिगीतम् पारिक्षिता यजमाना अश्वमेधैः परोऽवरम् अजहुः कर्म पापकम् पुण्याः पुण्येन कर्मणेति॥
एते एव पूर्वे अहनी॥
अभिजिदतिरात्रस्तेन ह पर आट्णार ईजे कौसल्यो राजा तदेतद्गाथयाभिगीतमट्णारस्य परः पुत्रोऽश्वम् मेध्यमबन्धयत् हैरण्यनाभः कौसल्यो दिशः पूर्णा अमंहतेति॥
एते एव पूर्वे अहनी॥
विश्वजिदतिरात्रस्तेन ह पुरुकुत्सो दौर्गहेणेज ऐक्ष्वाको राजा तस्मादेतदृषिणाभ्यनूक्तमस्माकमत्र पितरस्त आसन्त्सप्त ऋषयो दौर्गहे बध्यमान इति॥
एते एव पूर्वे अहनी॥
महाव्रतमतिरात्रस्तेन ह मरुत्त आविक्षित ईज आयोगवो राजा तस्य ह ततो मरुतः परिवेष्टारोऽग्निः क्षत्ता विश्वे देवाः सभासदो बभूवुस्तदेतद्गाथयाभिगीतम् मरुतः परिवेष्टारो मरुत्तस्यावसन्गृहे आविक्षितस्याग्निः क्षत्ता विश्वे देवाः सभासद इति मरुतो ह वै तस्य परिवेष्टारोऽग्निः क्षत्ता विश्वे देवाः सभासदो भवन्ति योऽश्वमेधेन यजते॥
एते एव पूर्वे अहनी॥
अप्तोर्यामोऽतिरात्रस्तेन हैतेन क्रैव्यईजे पाञ्चालो राजा क्रिवय इति ह वै पुरा पञ्चालानाचक्षते तदेतद्गाथयाभिगीतम् अश्वम् मेध्यमालभत क्रिवीणामतिपूरुषः पाञ्चालः परिवक्रायां सहस्रशतदक्षिणमिति॥
अथ द्वितीयया॥
सहस्रमासन्नयुता शता च पञ्चविंशतिः दिक्तो-दिक्तः पञ्चालानाम् ब्राह्मणा या विभेजिर इति॥
त्रिवृदग्निष्टोमः॥
पञ्चदश उक्थ्यः सप्तदशं तृतीयमहः सोक्थकमेकविंशः षोडशी पञ्च्=दशी रात्रिस्त्रिवृत्सन्धिरित्येषोऽनुष्टुप्सम्पन्नस्तेन हैतेन ध्वसा द्वैतवनईजे मात्स्यो राजा यत्रैतद्द्वैतवनं सरस्तदेतद्गाथयाभिगीतं चतुर्दश द्वैतवनो राजा सङ्ग्रामजिद्धयान् इन्द्राय वृत्रघ्नेऽबध्नात्तस्माद्द्वैतवनं सर इति॥
चतुर्विंशाः पवमानाः॥
त्रिवृदभ्यावर्तं चतुश्चत्वारिंशाः पवमाना एकविंशमभ्यावर्तमष्टाचत्वारिंशाः पवमानास्त्रयस्त्रिंशमभ्यावर्तमाग्निष्टोमसामाद्द्यात्रिंशान्युक्थान्येकविंशः षोडशी पञ्चदशी रात्रिस्त्रिवृत्सन्धिरिति॥
एतद्विष्णोः क्रान्तम्॥
तेन हैतेन भरतो दौःषन्तिरीजे तेनेष्ट्वेमाम् व्यष्टिम् व्यानशे येयम् भरतानां तदेतद्गाथयाभिगीतमष्टासप्ततिम् भरतो दौषन्तिर्यमुनामनु गङ्गायाम् वृत्रघ्नेऽबध्नात्पञ्चपञ्चाशतं हयानिति॥
अथ द्वितीयया॥
त्रयस्त्रिंशं शतं राजाश्वान्बद्ध्वाय मेध्यान् सौद्युम्निरत्यष्ठादन्यानमायान्मायवत्तर इति॥
अथ तृतीयया॥
शकुन्तला नाडपित्यप्सरा भरतम् दधे परःसहस्रानिन्द्रायाश्वान्मेधान्य आहरद्विजित्य पृथिवीं सर्वामिति॥
अथ चतुर्थ्या॥
महदद्य भरतस्य न पूर्वे नापरे जनाः॥
दिवम् मर्त्य-इव बाहुभ्यां नोदापुः पञ्च मानवा इति॥
एकविंशस्तोमेन॥
ऋषभो याज्ञतुर ईजे श्विक्नानां राजा तदेतद्गाथयाभिगीतं याज्ञतुरे यजमाने ब्रह्माण ऋषभे जना अश्वमेधे धनम् लब्ध्वा विभजन्ते स्म दक्षिणा इति॥
त्रयस्त्रिंशस्तोमेन॥
शोणः सात्रासाह ईजे पाञ्चालो राजा तदेतद्गाथयाभिगीतं सात्रासहे यजमानेऽश्वमेधेन तौर्वशाः उदीरते त्रयस्त्रिंशाः षट् सहस्राणि वर्मिणामिति॥
अथ द्वितीयया॥
षट्षट् षड्गा सहस्राणि यज्ञे कोकपितुस्तव उदीरते त्रयस्त्रिंशाः षट् सहस्राणि वर्मिणामिति॥
अथ तृतीयया॥
सात्रासहे यजमाने पाञ्चाले राज्ञि सुस्रजि अमाद्यदिन्द्रः सोमेनातृप्यन्ब्राह्मणा धनैरिति॥
गोविनतेन शतानीकः॥
सात्राजित ईजे काश्यस्याश्वमादाय ततो हैतर्दवाक्काशयोऽग्नीन्नादधत आत्तसोमपीथाः स्म इति वदन्तः॥
तस्य विधा चतुर्विंशाः पवमानाः॥
त्रिवृदभ्यावर्तम् चतुश्चत्वारिंशाः पवमाना एक्विंशान्याज्यानि त्रिणवान्युक्थान्येकविंशानि पृष्ठानि षट्त्रिंशाः पवमानास्त्रयस्त्रिंशमभ्यावर्तमाग्निष्टोमसामादेकविंशान्युक्थान्येकविंशः षोडशी पञ्चदशी रात्रिस्त्रिवृत्सन्धिः॥
तदेतद्गाथयाभिगीतम्॥
शतानीकः समन्तासु मेध्यं सात्राजितो हयम् आदत्त यज्ञं काशीनाम् भरतः सत्वतामिवेति॥
अथ द्वितीयया॥
श्वेतं समन्तासु वशं चरन्तं शतानीको ध्रृतराष्ट्रस्य मेध्यम् आदाय सह्वा दशमास्यमश्वं शतानीको गोविनतेन हेज इति॥
अथ चतुर्थ्या॥
महदद्य भरतानां न पूर्वे नापरे जनाः दिवम् मर्त्य-इव पक्षाभ्यां नोदापुः सप्तमा नवा इति॥
अथातो दक्षिणानाम्॥
मध्यम् प्रति राष्ट्रस्य यदन्यद्भूमेश्च पुरुषेभ्यश्च ब्राह्मणस्य च वित्तात्प्राची दिग्घोतुर्दक्षिणा ब्रह्मणः प्रतीच्यध्वर्योरुदीच्युद्गातुस्तदेव होतृका अन्वाभक्ताः॥
उदयनीयायां सम्स्थितायाम्॥
एकविंशतिम् वशा अनूबन्ध्या आलभते मैत्रावरुणीर्वैश्वदेवीर्बार्हस्पत्या एतासां देवतानामाप्त्यै तद्यद्बार्हस्पत्यान्त्या भवन्ति ब्रह्म वै बृहस्पतिस्तदु ब्रह्मण्येवान्ततः प्रतितिष्ठति॥
अथ यदेकविंशतिर्भवन्ति॥
एकविंशो वा एष य एष तपति द्वादश मासाः पञ्चर्तवस्त्रय इमे लोका असावादित्य॥
एकविंश एतामभिसम्पदम्॥
उदवसानीयायां संस्थितायाम्॥
चतस्रश्च जायाः कुमारीम् पञ्चमीं चत्वारि च शतान्यनुचरीणां यथासमुदितम् दक्षिणाम् ददति॥
अथोत्तरं सम्वत्सरमृतुपशुभिर्यजते॥
षड्भिराग्नेयैर्वसन्ते षड्भिरैन्द्रैर्ग्रीष्मे षड्भिः पार्जन्यैर्वा मारुतैर्वा वर्षासु षड्भिर्मैत्रावरुणैः शरदि षड्भिरैन्द्रावैष्णवैर्हेमन्ते षड्भिरैन्द्राबार्हस्पत्यैः शिशिरे षडृतवः सम्वत्सरः ऋतुष्वेव सम्वत्सरे प्रतितिष्ठति षट्त्रिंशदेते पशवो भवन्ति षट्त्रिंशदक्षरा बृहती बृहत्यामधि स्वर्गो लोकः प्रतिष्ठितस्तद्वन्ततो बृहत्यैव छन्दसा स्वर्गे लोके प्रतितिष्ठति॥