प्रजापतिरकामयत॥
सर्वान्कामानाप्नुयां सर्वा व्यष्टीर्व्यश्नुवीयेति स एतमश्वमेधं त्रिरात्रं यज्ञक्रतुमपश्यत्तमाहरत्तेनायजत तेनेष्ट्वा सर्वान्कामानाप्नोत्सर्वा व्यष्टीर्व्याश्नुत सर्वान्ह वै कामानाप्नोति सर्वा व्यष्टीर्व्यश्नुते योऽश्वमेधेन यजते॥
तदाहुः॥
कस्मिन्नृतावभ्यारम्भ इति ग्रीष्मेऽभ्यारभेतेत्यु हैक आहुर्ग्रीष्मो वै क्षत्रियस्यर्तुः क्षत्रिययज्ञ उ वा एष यदश्वमेध इति॥
तद्वै वसन्त एवाभ्यारभेत॥
वसन्तो वै ब्रह्मणस्यर्तुर्य उ वै कश्च यजते ब्राह्मणीभूयेवैव यजते तस्माद्वसन्त एवाभ्यारभेत॥
सा यासौ फाल्गुनी पौर्णमासी भवति॥
तस्यै पुरस्तात्षडहे वा सप्ताहे वर्त्विज उपसमायन्त्यध्वर्युश्च होता च ब्रह्मा चोद्गाता चैतान्वा अन्वन्य ऋत्विजः॥
तेभ्योऽध्वर्युश्चातुष्प्राश्यम् ब्रह्मौदनं निर्वपति॥
तस्योक्तम् ब्राह्मणं चतुरः पात्रांश्चतुरोऽञ्जलींश्चतुरः प्रसृतान्द्वादशविधं द्वादश मासाः संवत्सरः सर्वं संवत्सरः सर्वमश्वमेधः सर्वस्याप्त्यै सर्वस्यावरुद्ध्यै॥
तमेते चत्वार ऋत्विजः प्राश्नन्ति॥
तेषामुक्तम् ब्राह्मणं तेभ्यश्चत्वारि सहस्राणि ददाति सर्वं वै सहस्रं सर्वमश्वमेधः सर्वस्याप्त्यै सर्वस्यावरुद्ध्यै चत्वारि च सुवर्णानि शतमानानि हिरण्यानि तस्यो एवोक्तम्॥
अथास्मा अध्वर्युर्निष्कम् प्रतिमुञ्चन्वाचयति॥
तेजोऽसि शुक्रममृतमिति तेजो वै शुक्रममृतं हिरण्यं तेज एवास्मिञ्छुक्रममृतं दधात्यायुष्पा आयुर्मे पाहीत्यायुरेवास्मिन्दधात्यथैनमाह वाचं यछेति वाग्वै यज्ञो यज्ञस्यैवाभ्यारम्भाय॥
चतस्रो जाया उपकॢप्ता भवन्ति॥
महिषी वावाता परिवृक्ता पालागली सर्वा निष्किन्योऽलङ्कृता मिथुनस्यैव सर्वत्वाय ताभिः सहाग्न्यगारम् प्रपद्यते पूर्वया द्वारा यजमानो दक्षिणया पत्न्यः॥
सायमाहुत्यां हुतायाम्॥
जघनेन गार्हपत्यमुदङ्वावातया सह संविशति तदेवापीतराः संविशन्ति सोऽन्तरोरू असंवर्तमानः शेतेऽनेन तपसा स्वस्ति संवत्सरस्योदृचं समश्नवा इति॥
प्रातराहुत्यां हुतायां॥
अध्वर्युः पूर्णाहुतिं जुहोति सर्वं वै पूर्णं सर्वमश्वमेधः सर्वस्याप्त्यै सर्वस्यावरुद्ध्यै तस्यां वरेण वाचं विसृजते वरं ददामि ब्रह्मण इति सर्वं वै वरः सर्वमश्वमेधः सर्वस्याप्त्यै सर्वस्यावरुद्ध्यै॥
अथ योऽस्य निष्कः प्रतिमुक्तो भवति॥
तमध्वर्यवे ददात्यध्वर्यवे दददमृतमायुरात्मन्धत्तेऽमृतं ह्यायुर्हिरण्यम्॥
अथाग्नेयीमिष्टिं निर्वपति॥
पथश्च कामाय यज्ञमुखस्य चाछम्बट्कारायाथो अग्निमुखा उ वै सर्वा देवताः सर्वे कामा अश्वमेधे मुखतः सर्वान्देवान्प्रीत्वा सर्वान्कामानाप्नवानीति॥
तस्यै पञ्चदश सामिधेन्यो भवन्ति॥
पञ्चदशो वै वज्रो वीर्यं वज्रो वज्रेणैवैतद्वीर्येण यजमानः पुरस्तात्पाप्मानमपहते वार्त्रघ्नावाज्यभागौ पाप्मा वै वृत्रः पाप्मनोऽपहत्या अग्निर्मूर्धा दिवः ककुद्भुवो यज्ञस्य रजसश्च नेतेत्युपांशु हविषो याज्यानुवाक्ये मूर्धन्वत्यन्या भवति सद्वत्यन्यैष वै मूर्धा य एष तपत्येतस्यैवावरुद्ध्या अथ यत्सद्वती सदेवावरुन्द्धे॥
विराजौ संयाज्ये सर्वदेवत्यं वा एतच्छन्दो यद्विराट् सर्वे कामा अश्वमेधे सर्वान्देवान्प्रीत्वा सर्वान्कामानाप्नवानीति हिरण्यं दक्षिणा सुवर्णं शतमानं तस्योक्तम् ब्राह्मणम्॥
अथ पौष्णीं निर्वपति॥
पूषा वै पथीनामधिपतिरश्वायैवैतत्स्वस्त्ययनं करोत्यथो इयं वै पूषेमामेवास्मा एतद्गोप्त्रीं करोति तस्य हि नार्तिरस्ति न ह्वला यमियमध्वन्गोपायतीमामेवास्मा एतद्गोप्त्रीं करोति॥
तस्यै सप्तदश सामिधेन्यो भवन्ति॥
सप्तदशो वै प्रजापतिः प्रजापतिरश्वमेधोऽश्वमेधस्यैवाप्त्यै वृधन्वन्तावाज्यभागौ यजमानस्यैव वृद्ध्यै पूषंस्तव व्रते वयम् पथस्पथः परिपतिं वचस्येत्युपांशु हविषो याज्यानुवाक्ये व्रतवत्यन्या भवति पथन्वत्यन्या वीर्यं वै व्रतं वीर्यस्याप्त्यै वीर्यस्यावरुद्ध्या अथ यत्पथन्वत्यश्वायैवैतत्स्वस्त्ययनं करोत्यनुष्टुभौ संयाज्ये वाग्वा अनुष्टुब्वाग्वै प्रजापतिः प्रजापतिरश्वमेधोऽश्वमेधस्यैवाप्त्यै वासःशतं दक्षिणा रूपं वा एतत्पुरुषस्य यद्वासस्तस्माद्यमेव कं च सुवाससमाहुः को न्वयमिति रूपसमृद्धो हि भवति रूपेणैवैनं समर्धयति शतम् भवति शतायुर्वै पुरुषः शतेन्द्रिय आयुरेवेन्द्रियं वीर्यमात्मन्धत्ते॥
एतस्यां तायमानायाम्॥
अश्वं निक्त्वोदानयन्ति यस्मिन्त्सर्वाणि रूपाणि भवन्ति यो वा जवसमृद्धः सहस्रार्हम् पूर्व्यं यो दक्षिणायां धुर्यप्रतिधुरः॥
तद्यत्सर्वरूपो भवति॥
सर्वं वै रूपं सर्वमश्वमेधः सर्वस्याप्त्यै सर्वस्यावरुद्ध्या अथ यज्जवसमृद्धो वीर्यं वै जवो वीर्यस्याप्त्यै वीर्यस्यावरुद्ध्या अथ यत्सहस्रार्हः सर्वं वै सहस्रं सर्वमश्वमेधः सर्वस्याप्त्यै सर्वस्यावरुद्ध्या अथ यत्पूर्व्य एष वा अपरिमितं वीर्यमभिवर्धते यत्पूर्व्योऽपरिमितस्यैव वीर्यस्यावरुद्ध्या अथ यद्दक्षिणायां धुर्यपर्तिधुर एष वा एष य एष तपति न वा एतं कश्चन प्रतिप्रतिरेतस्यैवावरुद्ध्यै॥
तदु होवाच भाल्लबेयो॥
द्विरूप एवैषोऽश्वः स्यात्कृष्णसारङ्गः प्रजापतेर्वा एषोऽक्ष्णः समभवद्द्विरूपं वा इदं चक्षुः शुक्लं चैव कृष्णं च तदेनं स्वेन रूपेण समर्धयतीति॥
अथ होवाच सात्ययज्ञिः॥
त्रिरूप एवैषोऽश्वः स्यात्तस्य कृष्णः पूर्वार्धः शुक्लोऽपरार्धः कृत्तिकाञ्जिः पुरस्तात्तद्यत्कृष्णः पूर्वार्धो भवति यदेवेदं कृष्णमक्ष्णस्तदस्य तदथ यछुक्लोऽपरार्धो यदेवेदं शुक्लमक्ष्णस्तदस्य तदथ यत्कृत्तिकाञ्जिः पुरस्तात्सा कनीनका स एव रूपसमृद्धोऽतो यतमोऽस्योपकल्पेत बहुरूपो वा द्विरूपो वा त्रिरूपो वा कृत्तिकाञ्जिस्तमालभेत जवेन त्वेव समृद्धः स्यात्॥
तस्यैते पुरस्ताद्रक्षितार उपकॢप्ता भवन्ति॥
राजपुत्राः कवचिनः शतं राजन्या निषङ्गिणः शतं सूतग्रामण्याम् पुत्रा इषुपर्षिणः शतं क्षात्त्रसङ्ग्रहीतॄणाम् पुत्रा दण्डिनः शतमश्वशतं निरष्टं निरमणं यस्मिन्नेनमपिसृज्य रक्षन्ति॥
अथ सावित्रीमिष्टिं निर्वपति॥
सवित्रे प्रसवित्रे द्वादशकपालम् पुरोडाशं सविता वै प्रसविता सविता म इमं यज्ञम् प्रसुवादिति॥
तस्यै पञ्चदश सामिधेन्यो भवन्ति॥
वार्त्रघ्नावाज्यभागौ य इमा विश्वा जातान्या देवो यातु सविता सुरत्न इत्युपांशु हविषो याज्यानुवाक्ये विराजौ संयाज्ये हिरण्यं दक्षिणा सुवर्णं शतमानं तस्योक्तम् ब्राह्मणम्॥
तस्यै प्रयाजेषु तायमानेषु॥
ब्राह्मणो वीणागाथी दक्षिणत उत्तरमन्द्रामुदाघ्नंस्तिस्रः स्वयंसम्भृता गाथा गायतीत्ययजतेत्यददादिति तस्योक्तम् ब्राह्मणम्॥
अथ द्वितीयां निर्वपति॥
सवित्र आसवित्रे द्वादशकपालम् पुरोडाशं सविता वा आसविता सविता म इमं यज्ञमासुवादिति॥
तस्यै सप्तदश सामिधेन्यो भवन्ति॥
सद्वन्तावाज्यभागौ सदेवावरुन्द्धे विश्वानि देव सवितः स घा नो देवः सविता सहावेत्युपांशु हविषो याज्यानुवाक्ये अनुष्टुभौ संयाज्ये रजतं हिरण्यं दक्षिणा नानारूपताया अथो उत्क्रमायानपक्रमाय शतमानम् भवति शतायुर्वै पुरुषः शतेन्द्रिय आयुरेवेन्द्रियं वीर्यमात्मन्धत्ते॥
तस्यै प्रयाजेषु तायमानेषु॥
ब्राह्मणो वीणागाथी दक्षिणत उत्तरमन्द्रामुदाघ्नंस्तिस्रः स्वयंसम्भृता गाथा गायतीत्ययजतेत्यददादिति तस्योक्तम् ब्राह्मणम्॥
अथ तृतीयां निर्वपति॥
सवित्रे सत्यप्रसवाय द्वादशकपालम् पुरोडाशमेष ह वै सत्यः प्रसवो यः सवितुः सत्येन मे प्रसवेनेमं यज्ञम् प्रसुवादिति॥
तस्यै सप्तदशैव सामिधेन्यो भवन्ति॥
रयिमन्तावाज्यभागौ वीर्यं वै रयिवीर्यस्याप्त्यै वीर्यस्यावरुद्ध्या आ विश्वदेवं सत्पतिं न प्रमिये सवितुर्दैव्यस्य तदित्युपांशु हविषो याज्यानुवाक्ये नित्ये संयाज्ये नेद्यज्ञपथादयानीति कॢप्त एव यज्ञेऽन्ततः प्रतितिष्ठति त्रिष्टुभौ भवत इन्द्रे वै वीर्यं त्रिष्टुबिन्द्रियस्यैव वीर्यस्यावरुद्ध्यै हिरण्यं दक्षिणा सुवर्णं शतमानं तस्योक्तम् ब्राह्मणम्॥
तस्यै प्रयाजेषु तायमानेषु॥
ब्राह्मणो वीणानेव रुद्रादन्तर्दधाति तस्माद्यत्रैषाश्वमेध आहुतिर्हूयते न तत्र रुद्रः पशूनभिमन्यते॥
एतस्यां संस्थितायाम्॥
उपोत्थायाध्वर्युश्च यजमानश्चाश्वस्य दक्षिणे कर्ण आजपतो विभूर्मात्रा प्रभूः पित्रेति तस्योक्तम् ब्राह्मणमथैनमुदञ्चम् प्राञ्चम् प्रसृजत एषा होभयेषां देवमनुष्याणां दिग्यदुदीची प्राची स्वायामेवैनं तद्दिषि धत्तो न वै स्व आयतने प्रतिष्ठितो रिष्यत्यरिष्ट्यै॥
स आह देवा आशापालाः॥
एतं देवेभ्योऽश्वम् मेधाय प्रोक्षितं रक्षतेत्युक्ता मानुषा आशापाला अथैते दैवा आप्याः साध्या अन्वाध्या मरुतस्तमेत उभये देवमनुष्याः संविदाना अप्रत्यावर्तयन्तः संवत्सरं रक्षन्ति तद्यं न प्रत्यावर्तयन्त्येष वा एष तपति क उ ह्येतमर्हति प्रत्या !वयितुं यद्येनम् प्रत्यावर्तयेयुः परागेवेदं सर्वं स्यात्तस्मादप्रत्यावर्तयन्तो रक्षन्ति॥
स आहाशापालाः॥
ये वा एतस्योदृचं गमिष्यन्ति राष्ट्रं ते भविष्यन्ति राजानो भविष्यन्त्यभिषेचनीया अथ य एतस्योदृचं न गमिष्यन्त्यराष्ट्रं ते भविष्यन्त्यराजानो भविष्यन्ति राजन्या विशोऽनभिषेचनीयास्तस्मान्मा प्रमदत स्नात्वाच्चैवैनमुदकान्निरुन्धीध्वं वडवाभ्यश्च ते यद्यद्ब्राह्मणजातमुपनिगछेत तत्तत्पृछेत ब्राह्मणाः कियद्यूयमश्वमेधस्य वित्थेति ते ये न विद्युर्जिनीयात तान्त्सर्वं वा अश्वमेधः सर्वस्यैष न वेद यो ब्राह्मणः सन्नश्वमेधस्य न वेद सोऽब्राह्मणो ज्येय एव स पानं करवाथ खादं निवपाथाथ यत्किं च जनपदे कृतान्नं सर्वं वस्तत्सुतं तेषां रथकारकुल एव वो वसतिस्तद्ध्यश्वस्यायतनमिति॥
प्रमुच्याश्वं दक्षिणेन वेदिं॥
हिरण्मयं कशिपूपस्तृणाति तस्मिन्होतोपविशति दक्षिणेन होतारं हिरण्मये कूर्चे यजमानो दक्षिणतो ब्रह्मा चोद्गाता च हिरण्मय्योः कशिपुनोः पुरस्तात्प्रत्यङ्ङध्वर्युर्हिरण्मये वा कूर्चे हिरण्मये वा फलके॥
समुपविष्टेष्वध्वर्युः सम्प्रेष्यति॥
होतर्भूतान्याचक्ष्व भूतेष्विमं यजमानमध्यूहेति सम्प्रैषितो होताध्वर्युमामन्त्रयते पारिप्लवमाख्यानमाख्यास्यन्नध्वर्यविति हवै होतरित्यध्वर्युः॥
मनुर्वैवस्वतो राजेत्याह॥
तस्य मनुष्या विशस्त इम आसत इत्यश्रोत्रिया गृहमेधिन उपसमेता भवन्ति तानुपदि=\अत्यृचो वेदः सोऽयमित्यृचां सूक्तं व्याचक्षाण इवानुद्रवेद्वीणागणगिन उपसमेता भवन्ति तानध्वर्युः सम्प्रेष्यति वीणागणगिन इत्याह पुराणैरिमं यजमानं राजभिः साधुकृद्भिः सङ्गायतेति तं ते तथा सङ्गायन्ति तद्यदेनमेवं सङ्गायन्ति पुराणैरेवैनं तद्राजभिः साधुकृद्भिः सलोकं कुर्वन्ति॥
सम्प्रैष्याध्वर्युः प्रक्रमान्जुहोति॥
अन्वाहार्यपचने वाश्वस्य वा पदम् परिलिख्य यतरथास्य तत्रावृद्भवति पूर्वा त्वेव स्थितिः॥
सावित्र्या एवेष्टेः॥
पुरस्तादनुद्रुत्य सकृदेव रूपाण्याहवनीये जुहोत्यथ सायं धृतिषु हूयमानासु राजन्यो वीणागाथी दक्षिणत उत्तरमन्द्रामुदाघ्नंस्तिस्रः स्वयंसम्भृता गाथा गायतीत्ययुध्यतेत्यमुं सङ्ग्राममजयदिति तस्योक्तम् ब्राह्मणम्॥
अथ श्वो भूते द्वितीयेऽहन्॥
एवमेवैतासु सावित्रीष्विष्टिषु संस्थितास्वेषैवावृदध्वर्यविति हवै होतरित्येवाध्वर्युर्यमो वैवस्वतो राजेत्याह तस्य पितरो विशस्त इम आसत इति स्थविरा उपसमेता भवन्ति तानुपदिशति यजूंषि वेदः सोऽयमिति यजुषामनुवाकं व्याचक्षाण इवानुद्रवेदेवमेवाध्वर्युः सम्प्रेष्यति न प्रक्रमान्जुहोति॥
अथ तृतीयेऽहन्॥
एवमेवैतास्विष्टिषु संस्थितास्वेषैवावृदध्वर्यविति हवै होतरित्येवाध्वर्युर्वरुण आदित्यो राजेत्याह तस्य गन्धर्वा विशस्त इम आसत इति युवानः शोभना उपसमेता भवन्ति तानुपदिशत्यथर्वाणो वेदः सोऽयमित्यथर्वणामेकम् पर्व व्याचक्षाण इवानुद्रवेदेवमेवाध्वर्युः सम्प्रेष्यति न प्रक्रमान्जुहोति॥
अथ चतुर्थेऽहन्॥
एवमेवैतास्विष्टिषु संस्थितास्वेषैवावृदध्वर्यविति हवै होतरित्येवाध्वर्युः सोमो वैष्णवो राजेत्याह तस्याप्सरसो विशस्ता इमा आसत इति युवतयः शोभनाः उपसमेता भवन्ति ता उपदिशत्यङ्गिरसो वेदः सो यमित्यङ्गिरसामेकम् पर्व व्याचक्षाण इवानुद्रवेदेवमेवाध्वर्युः सम्प्रेष्यति न प्रक्रमान्जुहोति॥
अथ पञ्चमेऽहन्॥
एवमेवैतास्विष्टिषु संस्थितास्वेषैवावृदध्वर्यविति हवै होतरित्येवाध्वर्युरर्बुदः काद्रवेयो राजेत्याह तस्य सर्पा विशस्त इम आसत इति सर्पाश्च सर्वविदश्चोपसमेता भवन्ति तानुपदिशति सर्पविद्या वेदः सोऽयमिति सर्पविद्याया एकम् पर्व व्याचक्षाण इवानुद्रवेदेवमेवाध्वर्युः सम्प्रेष्यति न प्रक्रमान्जुहोति॥
अथ षष्ठेऽहन्॥
एवमेवैतास्विष्टिषु संस्थितास्वेषैवावृदध्वर्यविति हवै होतरित्येवाध्वर्युः कुबेरो वैश्रवणो राजेत्याह तस्य रक्षांसि विशस्तानीमान्यासत इति सेलगाः पादकृत उपसमेता भवन्ति तानुपदिशति देवजनविद्या वेदः सोऽयमिति देवजनविद्याया एकम् पर्व व्याचक्षाण इवानुद्रवेदेवमेवाध्वर्युः सम्प्रेष्यति न प्रक्रमान्जुहोति॥
अथ सप्तमेऽहन्॥
एवमेवैतास्विष्टिषु संस्थितास्वेषैवावृदध्वर्यविति हवै होतरित्येवाध्वर्युरसितो धान्वो राजेत्याह तस्यासुरा विशस्त इम आसत इति कुसीदिन उपसमेता भवन्ति तानुपदिशति माया वेदः सोऽयमिति काञ्चिन्मायां कुर्यादेवमेवाध्वर्युः सम्प्रेष्यति न प्रक्रमान्जुहोति॥
अथाष्टमेऽहन्॥
एवमेवैतास्विष्टिषु संस्थितास्वेषैवावृदध्वर्यविति हवै होतरित्येवाध्वर्युर्मत्स्यः साम्मदो राजेत्याह तस्योदकेचरा विशस्त इम आसत इति मत्स्याश्च मत्स्यहनश्चोपसमेता भवन्ति तानुपदिशतीतिहासो वेदः सोऽयमिति कञ्चिदितिहासमाचक्षीतैवमेवाध्वर्युः सम्प्रेष्यति न प्रक्रमान्जुहोति॥
अथ नवमेऽहन्॥
एवमेवैतास्विष्टिषु संस्थितास्वेषैवावृदध्वर्यविति हवै होतरित्येवाध्वर्युस्तार्क्ष्यो वैपश्यतो राजेत्याह तस्य वयांसि विशस्तानीमान्यासत इति वयांसि च वायोविद्यिकाश्चोपसमेता भवन्ति तानुपदिशति पुराणं वेदः सोऽयमिति किञ्चित्पुराणमाचक्षीतैवमेवाध्वर्युः सम्प्रेष्यति न प्रक्रमान्जुहोति॥
अथ दशमेऽहन्॥
एवमेवैतास्विष्टिषु संस्थितास्वेषैवावृदध्वर्यविति हवै होतरित्येवाध्वर्युर्धर्म इन्द्रो राजेत्याह तस्य देवा विशस्त इम आसत इति श्रोत्रिया अप्रतिग्राहका उपसमेता भवन्ति तानुपदिशति सामानि वेदः सोऽयमिति साम्नां दशतम् ब्रूयादेवमेवाध्वर्युः सम्प्रेष्यति न प्रक्रमान्जुहोतीति॥
एतत्पारिप्लवम्॥
सर्वाणि राज्यान्याचष्टे सर्वा विशः सर्वान्वेदान्त्सर्वान्देवान्त्सर्वाणि भूतानि सर्वेषां ह वै स एतेषां राज्यानां सायुज्यं सलोकतामश्नुते सर्वासां विशामैश्वर्यमाधिपत्यं गछति सर्वान्वेदानवरुन्द्धे सर्वान्देवान्प्रीत्वा सर्वेषु भूतेष्वन्ततः प्रतितिष्ठति यस्यैवंविदेतद्धोता पारिप्लवमाख्यानमाचष्टे यो वैतदेवं वेदैतदेव समानमाख्यानम् पुनः पुनः संवत्सरम् परिप्लवते तद्यत्पुनः पुनः परिप्लवते तस्मात्पारिप्लवं षट्त्रिंशतं दशाहानाचष्टे षट्त्रिंशदक्षरा बृहती बार्हताः पशवो बृहत्यैवास्मै पशूनवरुन्द्धे॥
संवत्सरे पर्यवेते दीक्षा॥
प्राजापत्यमालभ्योत्सीदन्तीष्टयः पुरोहितस्याग्निषु यजेतेत्यु हैक आहुः किमु दीक्षितो यजेत द्वादश दीक्षा द्वादशोपसदस्तिस्रः सुत्यास्तत्त्रिणवमभिसम्पद्यते वज्रो वै त्रिणवः क्षत्रमश्वः क्षत्रं राजन्यो वज्रेण खलु वै क्षत्रं स्पृतं तद्वज्रेणैव क्षत्रं स्पृणोति॥
दीक्षणीयायां संस्थितायाम्॥
सायं वाचि विसृष्टायां वीणागणगिन उपसमेता भवन्ति तानध्वर्युः सम्प्रेष्यति वीणागणगिन इत्याह देवैरिमं यजमानं सङ्गायतेति तं ते तथा सङ्गायन्ति॥
अहरहर्वाचि विसृष्टायाम्॥
अग्नीषोमीयाणामन्ततः संस्थायाम् परिहृतासु वसतीवरीषु तद्यदेनं देवैः सङ्गायन्ति देवैरेवैनं तत्सलोकं कुर्वन्ति॥
प्रजापतिना सुत्यासु॥
एवमेवाहरहः परिहृतास्वेव वसतीवरीषूदवसानीयायामन्ततः संस्थितायां तद्यदेनम् प्रजापतिना सङ्गायन्ति प्रजापतिनैवैनम् तदन्ततः सलोकं कुर्वन्ति॥
एकविंशतिर्यूपाः॥
सर्व एकविंशत्यरत्नयो राज्जुदालोऽग्निष्ठो भवति पैतुदारवावभितः षड्बैल्वास्त्रय इत्थात्त्रय इत्थात्षट् खादिरास्त्रय एवेत्थात्त्रय इत्थात्षट् पालाशास्त्रय एवेत्थात्त्रय इत्थात्॥
तद्यदेत एवं यूपा भवन्ति॥
प्रजापतेः प्राणेषूत्क्रान्तेषु शरीरं श्वयितुमध्रियत तस्य यः श्लेष्मासीत्स सार्धं समवद्रुत्य मध्यतो नस्त उदभिनत्स एष वनस्पतिरभवद्रज्जुदालस्तस्मात्स श्लेष्मणाः श्लेष्मणो हि समभवत्तेनैवैनं तद्रूपेण समर्धयति तद्यत्सोऽग्निष्ठो भवति मध्यं वा एतद्यूपानां यदग्निष्ठो मध्यमेतत्प्राणानां यन्नासिके स्व एवैनं तदायतने दधाति॥
अथ यदापोमयं तेज आसीत्॥
यो गन्धः स सार्धं समवद्रुत्य चक्षुष्ट उदभिनत्स एष वनस्पतिरभवत्पोतुदारुस्तस्मात्स सुरभिर्गन्धाद्धि समभवत्तस्मादु ज्वलनस्तेजसो हि समभवत्तेनैवैनं तद्रूपेण समर्धयति तद्यत्तावभितोऽग्निष्ठम् भवतस्तस्मादिमे अभितो नासिकां चक्षुषी स्व एवैनौ तदायतने दधाति॥
अथ यत्कुन्तापमासीत्॥
यो मज्जा स सार्धं समवद्रुत्य श्रोत्रत उदभिनत्स एष वनस्पतिरभवद्बिल्वस्तस्मात्तस्यान्तरतः सर्वमेव फलमाद्यम् भवति तस्मादु हारिद्र इव भवति हारिद्र इव हि मज्जा तेनैवैनं तद्रूपेण समर्धयत्यन्तरे पैतुदारुवौ भवतो बाह्ये बैल्वा अन्तरे हि चक्षुषी बाह्ये श्रोत्रे स्व एवैनांस्तदायतने दधाति॥
अस्थिभ्य एवास्य खदिरः समभवत्॥
तस्मात्स दारुणो बहुसारो दारुणमिव ह्यस्थि तेनैवैनं तद्रूपेण समर्धयत्यन्तरे बैल्वा भवन्ति बाह्ये खादिरा अन्तरे हि मज्जानो बाह्यान्यस्थीनि स्व एवैनांस्तदायतने दधाति॥
मांसेभ्य एवास्य पलाशः समभवत्॥
तस्मात्स बहुरसो लोहितरसो लोहितमिव हि मांसं तेनैवैनं तद्रूपेण समर्धयत्यन्तरे खादिरा भवन्ति बाह्ये पालाश अन्तराणि ह्यस्थीनि बाह्यानि मांसानि स्व एवैनांस्तदायतने दधाति॥
अथ यदेकविंशतिर्भवन्ति॥
एकविंशत्यरत्नय एकविंशो वा एष तपति द्वादश मासाः पञ्चर्तवस्त्रय इमे लोका असावादित्य एकविंशः सोऽश्वमेध एष प्रजापतिरेवमेतम् प्रजापतिं यज्ञं कृत्स्नं संस्कृत्य तस्मिन्नेकविंशतिमग्नीषोमीयान्पशूनालभते तेषां समानं कर्मेत्येतत्पूर्वेद्युः कर्म॥