०३

प्रजापतेरक्ष्यश्वयत्॥
तत्परापतत्ततोऽश्वः समभवद्यदश्वयत्तदश्वस्याश्वत्वं तद्देवा अश्वमेधेनैव प्रत्यदधुरेष ह वै प्रजापतिं सर्वं करोति योऽश्वमेधेन यजते सर्व एव भवति सर्वस्य वा एषा प्रायश्चित्तिः सर्वस्य भेषजं सर्वं वा एतेन पाप्मानं देवा अतरन्नपि वा एतेन ब्रह्महत्यामतरंस्तरति सर्वम् पाप्मानं तरति ब्रह्महत्यां योऽश्वमेधेन यजते॥
उत्तरं वै तत्प्रजापतेरक्ष्यश्वयत्॥
तस्मादुत्तरतोऽश्वस्यावद्यन्ति दक्षिणतोऽन्येषाम् पशूनाम्॥
वैतसः कटो भवति॥
अप्सुयोनिर्वा अश्वोऽप्सुजा वेतसः स्वयैवैनं योन्या समर्धयति॥
चतुष्टोम स्तोमो भवति॥
सरड्वा अश्वस्य सक्थ्याबृहत्तद्देवाश्चतुष्टोमेनैव स्तोमेन प्रत्यदधुर्यच्चतुष्टोम स्तोमो भवत्यश्वस्यैव सर्वत्वाय सर्वस्तोमोऽतिरात्र उत्तममहर्भवति सर्वं वै सर्वस्तोमोऽतिरात्रः सर्वमश्वमेधः सर्वस्याप्त्यै सर्वस्यावरुद्ध्यै॥
परमेण वा एष स्तोमेन जित्वा॥
चतुष्टोमेन कृतेनायानामुत्तरेऽहन्नेकविंशे प्रतिष्ठायाम् प्रतितिष्ठत्येकविंशात्प्रतिष्ठाया उत्तरमहरृतूनन्वारोहत्यृतवो वै पृष्ठान्यृतवः संवत्सर ऋतुष्वेव संवत्सरे प्रतितिष्ठति॥
शक्वर्यः पृष्ठम् भवन्ति॥
अन्यदन्यच्छन्दोऽन्येऽन्ये वा अत्र पशव आलभ्यन्त उतेव ग्राम्या उतेवारण्या यछक्वर्यः पृष्ठम् भवन्त्यश्वस्यैव सर्वत्वायान्ये पशव आलभ्यन्तेऽन्येऽन्ये हि स्तोमाः क्रियन्ते॥
तदाहुः॥
नैते सर्वे पशवो यदजावयश्चारण्याश्चैते वै सर्वे पशवो यद्गव्या इति गव्या उत्तमेऽहन्नालभत एते वै सर्वे पशवो यद्गव्याः सर्वानेव पशूनालभते वैश्वदेवा भवन्ति वैश्वदेवो वा अश्वोऽश्वस्यैव सर्वत्वाय बहुरूपा भवन्ति तस्माद्बहुरूपाः पशवो नानारूपा भवन्ति तस्मान्नानारूपाः पशवः॥
यत्तिस्रोऽनुष्टुभो भवन्ति॥
तस्मादश्वस्त्रिभिस्तिष्ठंस्तिष्ठति यच्चतस्रो गायत्र्यस्तस्मादश्वः सर्वैः पद्भिः प्रतिदधत्पलायते परमं वा एतच्छन्दो यदनुष्टुप्परमोऽश्वः पशूनाम् परमश्चतुष्टोम स्तोमानाम् परमेणैवैनम् परमतां गमयति॥
शक्वर्यः पृष्ठम् भवन्ति॥
अन्यदन्यच्छन्दोऽन्येऽन्ये हि स्तोमाः क्रियन्ते यछक्वर्यः पृष्ठम् भवन्त्यश्वस्यैव सर्वत्वाय॥
एकविंशम् मध्यममहर्भवति॥
असौ वा आदित्य एकविंशः सो ऽश्वमेधः स्वेनैवैनं स्तोमेन स्वायां देवतायाम् प्रतिष्ठापयति॥
वामदेव्यम् मैत्रावरुणसाम भवति॥
प्रजापतिर्वै वामदेव्यम् प्राजापत्योऽश्वः स्वयैवैनं देवतया समर्धयति॥
पार्थुरश्मम् ब्रह्मसाम भवति॥
रश्मिना वा अश्वो यत ईश्वरो वा अश्वोऽयतोऽधृतो प्रतिष्ठितः पराम् परावतं गन्तोर्यत्पार्थुरश्मम् ब्रह्मसाम भवत्यश्वस्यैव धृत्यै॥
सङ्कृत्यछावाकसाम भवति॥
उत्सन्नयज्ञ इव वा एष यदश्वमेधः किं वा ह्येतस्य क्रियते किं वा न यत्सङ्कृत्यछावाकसाम भवत्यश्वस्यैव सर्वत्वाय सर्वस्तोमोऽतिरात्र उत्तममहर्भवति सर्वं वै सर्वस्तोमोऽतिरात्रः सर्वमश्वमेधः सर्वस्याप्त्यै सर्वस्यावरुद्ध्यै॥
एकविंशोऽग्निर्भवति॥
एकविंश स्तोम एकविंशतिर्यूपा यथा वा ऋषभा वा वृषाणो वा संस्फुरेरन्नेवमेते स्तोमाः समृछन्ते यदेकविंशास्तान्यत्समर्पयेदार्तिमार्छेद्यजमानो हन्येतास्य यज्ञः॥
द्वादश एवाग्निः स्यात्॥
एकादश यूपा यद्द्वादशोऽग्निर्भवति द्वादश मासाः संवत्सरः संवत्सरमेव यज्ञमाप्नोति यदेकादश यूपा विराड्वा एषा सम्मीयते यदेकादशिनी तस्यै य एकादश स्तन एवास्यै स दुह एवैनां तेन॥
तदाहुः॥
यद्द्वादशोऽग्निः स्यादेकादश यूपा यथा स्थूरिणा यायात्तादृक्तदित्येकविंश एवाग्निर्भवत्येकविंश स्तोम एकविंशतिर्यूपास्तद्यथा प्रष्टिभिर्यायात्तादृक्तत्॥
शिरो वा एतद्यज्ञस्य यदेकविंशः॥
यो वा अश्वमेधे त्रीणि शीर्षाणि वेद शिरो ह राज्ञाम् भवत्येकविंशोऽग्निर्भवत्येकविंश स्तोम एकविंशतिर्यूपा एतानि वा अश्वमेधे त्रीणि शीर्षाणि तानि य एवं वेद शिरो ह राज्ञाम् भवति यो वा अश्वमेधे तिस्रः ककुदो वेद ककुद्ध राज्ञाम् भवत्येकविंशोऽग्निर्भवत्येकविंश स्तोम एकविंशतिर्यूपा एता अश्वमेधे तिस्रः ककुदस्ता य एवं वेद ककुद्ध राज्ञाम् भवति॥
सर्वाभ्यो वै देवताभ्योऽश्व आलभ्यते॥
यत्प्राजापत्यं कुर्याद्या देवता अपिभागास्ता भागधेयेन व्यर्धयेछादं दद्भिरवकां दन्तमूलैरित्याज्यमवदाना कृत्वा प्रत्याख्यायं देवताभ्य आहुतीर्जुहोति या एव देवता अपिभागास्ता भागधेयेन समर्धयत्यरण्येऽनूच्यान्हुत्वा द्यावापृथिव्यामुत्तमामाहुतिं जुहोति द्यावापृथिव्योर्वै सर्वा देवताः प्रतिष्ठितास्ता एवैतत्प्रीणाति देवासुराः संयत्ता आसन्॥
तेऽब्रुवन्॥
अग्नयः स्विष्टकृतोऽश्वस्य वयमुद्धारमुद्धरामहै तेनासुरानभिभविष्याम इति ते लोहितमुदहरन्त भ्रातृव्याभिभूत्यै यत्स्विष्टकृद्भ्यो लोहितं जुहोति भ्रातृव्याभिभूत्यै भवत्यात्मना परास्य द्विषन्भ्रातृव्यो भवति य एवं वेद॥
गोमृगकण्ठेन प्रथमामाहुतिं जुहोति॥
पशवो वै गोमृगा रुद्रः स्विष्टकृत्पशूनेव रुद्रादन्तर्दधाति तस्माद्यत्रैषाश्वमेध आहुतिर्हूयते न तत्र रुद्रः पशूनभिमन्यते॥
अश्वशफेन द्वितीयामाहुतिं जुहोति॥
पशवो वा एकशफा रुद्रः स्विष्टकृत्पशूनेव रुद्रादन्तर्दधाति तस्माद्यत्रैषाश्वमेध आहुतिर्हूयते न तत्र रुद्रः पशूनभिमन्यते॥
अयस्मयेन चरुणा तृतीयामाहुतिं जुहोति॥
आयस्यो वै प्रजा रुद्रः स्विष्टकृत्प्रजा एव रुद्रादन्तर्दधाति तस्माद्यत्रैषाश्वमेध आहुतिर्हूयते न तत्र रुद्रः प्रजा अभिमन्यते॥
सर्वेषु वै लोकेषु॥
मृत्यवोऽन्वायत्तास्तेभ्यो यदाहुतीर्न जुहुयाल्लोके-लोक एनम् मृत्युर्विन्देद्यन्मृत्युभ्य आहुतीर्जुहोति लोके-लोक एव मृत्युमपजयति॥
तदाहुः॥
यदमुष्मै स्वाहामुष्मै स्वाहेति जुह्वत्सञ्चक्षीत बहुम् मृत्युममित्रं कुर्वीत मृत्यव आत्मानमपिदध्यादिति मृत्यवे स्वाहेत्येकस्मा एवैकामाहुतिं जुहोत्येको ह वा अमुष्मिंलोके मृत्युरशनायैव तमेवामुष्मिंलोकेऽपजयति॥
ब्रह्महत्यायै स्वाहेति द्वितीयामाहुतिं जुहोति॥
अमृत्युर्ह वा अन्यो ब्रह्महत्यायै मृत्युरेष ह वै साक्षान्मृत्युर्यद्ब्रह्महत्या साक्षादेव मृत्युमपजयति॥
एतां ह वै मुण्डिभ औदन्यः॥
ब्रह्महत्यायै प्रायश्चित्तिं विदां चकार यद्ब्रह्मैहत्याया आहुतिं जुहोति मृत्युमेवाहुत्या तर्पयित्वा परिपाणं कृत्वा ब्रह्मघ्ने भेषजं करोति तस्माद्यस्यैषाश्वमेध आहुतिर्हूयतेऽपि योऽस्यापरीषु प्रजायाम् ब्राह्मैणं हन्ति तस्मै भेषजं करोति॥
अश्वस्य वा आलब्धस्य॥
मेध उदक्रामत्तदश्वस्तोमीयमभवद्यदश्वस्तोमीयं जुहोत्यश्वमेव मेधसा समर्धयति॥
आज्येन जुहोति॥
मेधो वा आज्यम् मेधोऽश्वस्तोमीयम् मेधसैवास्मिंस्तन्मेधो दधात्याज्येन जुहोत्येतद्वै देवानाम् प्रियं धाम यदाज्यम् प्रियेणैवैनान्धाम्ना समर्धयति॥
अश्वस्तोमीयं हुत्वा द्विपदा जुहोति॥
अश्वो वा अश्वस्तोमीयम् पुरुषो द्विपदा द्विपाद्वै पुरुषो द्विप्रतिष्ठस्तदेनम् प्रतिष्ठया समर्धयति॥
तदाहुः॥
अश्वस्तोमीयम् पूर्वं होतव्यां३ द्विपदा३ इति पशवो वा अश्वस्तोमीयम् पुरुषो द्विपदा यदश्वस्तोमीयं हुत्वा द्विपदा जुहोति तस्मात्पुरुष उपरिष्टात्पशूनधितिष्ठति॥
षोडशाश्वस्तोमीया जुहोति॥
षोडशकला वै पशवः सा पशूनाम् मात्रा पशूनेन मात्रया समर्धयति यत्कनीयसीर्वा भूयसीर्वा जुहुयात्पशून्मात्रया व्यर्धयेत्षोडश जुहोति षोडशकला वै पशवः सा पशूनाम् मात्रा पशूनेव मात्रया समर्धयति नान्यामुत्तमामाहुतिं जुहोति यदन्यामुत्तमामाहुतिं जुहुयात्प्रतिष्ठायै च्यवेत द्विपदा उत्तमा जुहोति प्रतिष्ठा वै द्विपदाः प्रत्येव तिष्ठति जुम्बकाय स्वाहेत्यवभृथ उत्तमामाहुतिं जुहोति वरुणो वै जुम्बकः साक्षादेव वरुणमवयजते शुक्लस्य खलतेर्विक्लिधस्य पिङ्गाक्षस्य मूर्धनि जुहोत्येतद्वै वरुणस्य रूपं रूपेणैव वरुणमवयजते॥
द्वादश ब्रह्मौदनानुत्थाय निर्वपति॥
द्वादशभिर्वेष्टिभिर्यजते तदाहुर्यज्ञस्य वा एतद्रूपं यदिष्टयो यदिष्टिभिर्यजेतोपनामुक एनं यज्ञः स्यात्पापीयांस्तु स्याद्यातयामानि वा एतदीजानस्य छन्दांसि भवन्ति तानि किमेतावदाशु प्रयुञ्जीत सर्वा वै संस्थिते यज्ञे वागाप्यते सात्राप्ता यातयाम्नी भवति क्रूरीकृतेव हि भवत्यरुष्कृता वाग्वै यज्ञस्तस्मान्न प्रयुञ्जीतेति॥
द्वादशैव ब्रह्मौदनानुत्थाय निर्वपेत्॥
प्रजापतिर्वा ओदनः प्रजापतिः संवत्सरः प्रजापतिर्यज्ञः संवत्सरमेव यज्ञमाप्नोत्युपनामुक एनं यज्ञो भवति न पापीयान्भवति॥
एष वै प्रभूर्नाम यज्ञः॥
यत्रैतेन यज्ञेन यजन्ते सर्वमेव प्रभूतम् भवति॥
एष वै विभूर्नाम यज्ञः॥
यत्रैतेन यज्ञेन यजन्ते सर्वमेव विभूतम् भवति॥
एष वै व्यष्टिर्नाम यज्ञः॥
यत्रैतेन यज्ञेन यजन्ते सर्वमेव व्यष्टम् भवति॥
एष वै विधृतिर्नाम यज्ञः॥
यत्रैतेन यजन्ते सर्वमेव विधृतम् भवति॥
एष वै व्यावृत्तिर्नाम यज्ञः॥
यत्रैतेन यज्ञेन यजन्ते सर्वमेव व्यावृत्तम् भवति॥
एष वा ऊर्जस्वान्नाम यज्ञः॥
यत्रैतेन यज्ञेन यजन्ते सर्वमेवोर्जस्वद्भवति॥
एष वै पयस्वान्नाम यज्ञः॥
यत्रैतेन यज्ञेन यजन्ते सर्वमेव पयस्वद्भवति॥
एष वै ब्रह्मवर्चसी नाम यज्ञः॥
यत्रैतेन यज्ञेन यजन्त आ ब्राह्मणो ब्रह्मवर्चसी जायते॥
एष वा अतिव्याधी नाम यज्ञः॥
यत्रैतेन यज्ञेन यजन्त आ राजन्योऽतिव्याधी जायते॥
एष वै दीर्घो नाम यज्ञः॥
यत्रैतेन यज्ञेन यजन्त आ दीर्घारण्यं जायते॥
एष वै कॢप्तिर्नाम यज्ञः॥
यत्रैतेन यज्ञेन यजन्ते सर्वमेव कॢप्तम् भवति॥
एष वै प्रतिष्ठा नाम यज्ञः॥
यत्रैतेन यज्ञेन यजन्ते सर्वमेव प्रतिष्ठितम् भवति॥
अथातः प्रायश्चित्तीनाम्॥
यद्यश्वो वडवां स्कन्देद्वायव्यम् पयोऽनुनिर्वपेद्वायुर्वै रेतसां विकर्ता प्राणो वै वायुः प्राणो हि रेतसां विकर्ता रेतसैवास्मिंस्तद्रेतो दधाति॥
अथ यदि स्रामो विन्देत्॥
पौष्णं चरुमनुनिर्वपेत्पूषा वै पशूनामीष्टे स यस्यैव पशवो यः पशूनामीष्टे तमेवैतत्प्रीणात्यगदो हैव भवति॥
अथ यद्यक्षतामयो विन्देत्॥
वैश्वानरं द्वादशकपालम् भूमिकपालम् पुरोडाशमनुनिर्वपेदियं वै वैश्वानर इमामेवैतत्प्रीणात्यगदो हैव भवति॥
अथ यद्यक्ष्यामयो विन्देत्॥
सौर्यं चरुमनुनिर्वपेत्सूर्यो वै प्रजानां चक्षुर्यदा ह्येवैष उदेत्यथेदं सर्वं चरति चक्षुषैवास्मिंस्तच्चक्षुर्दधाति स यच्चरुर्भवति चक्षुषा ह्ययमात्मा चरति॥
अथ यद्युदके म्रियेत॥
वारुणं यवमयं चरुमनुनिर्वपेद्वरुणो वा एतं गृह्णाति योऽप्सु म्रियते सा यैवैनं देवता गृह्णाति तामेवैतत्प्रीणाति सास्मै प्रीतान्यमालम्भायानुमन्यते तयानुमतमालभते स यद्यवमयो भवति वरुण्या हि यवाः॥
अथ यदि नश्येत्॥
त्रिहविषमिष्टिमनुनिर्वपेद्द्यावापृथिव्यमेककपालम् पुरोडाशं वायव्यम् पयः सौर्यं चरुं यद्वै किं च नश्यत्यन्तरैव तद्द्यावापृथिवी नश्यति तद्वायुरुपवात्यादित्योऽभितपति नैताभ्यो देवताभ्य ऋते किं चन नश्यति सैषा पृथगेव नष्टवेदनी स यद्यस्याप्यन्यन्नश्येदेतयैव यजेतानु हैवैनद्विन्दत्यथ यद्यमित्रा अश्वं विन्देरन्यदि वा म्रियेत यदि वाप्स्वन्यमानीय प्रोक्षेयुः सैव तत्र प्रायश्चित्तिः॥