प्रजापतिर्देवेभ्यो यज्ञान्व्यादिशत्॥
स आत्मन्नश्वमेधमधत्त ते देवाः प्रजापतिमब्रुवन्नेष वै यज्ञो यदश्वमेधोऽपि नोऽत्रास्तु भग इति तेभ्य एतानन्नहोमान्कल्पयद्यदन्नहोमान्जुहोति देवानेव तत्प्रीणाति॥
आज्येन जुहोति॥
तेजो वा आज्यं तेजसैवास्मिंस्तत्तेजो दधात्याज्येन जुहोत्येतद्वै देवानाम् प्रियं धाम यदाज्यम् प्रियेणैवैनान्धाम्ना समर्धयति॥
सक्तुभिर्जुहोति॥
देवानां वा एतद्रूपं यत्सक्तवो देवानेव तत्प्रीणाति॥
धानाभिर्जुहोति॥
अहोरात्राणां वा एतद्रूपं यद्धानां अहोरात्राण्येव तत्प्रीणाति॥
लाजैर्जुहोति॥
नक्षत्राणां वा एतद्रूपं यल्लजा नक्षत्राण्येव तत्प्रीणाति प्राणाय स्वाहापानाय स्वाहेति नामग्राहं जुहोति नामग्राहमेवैनांस्तत्प्रीणात्येकस्मै स्वाहा द्वाभ्यां स्वाहा शताय स्वाहैकशताय स्वाहेत्यनुपूर्वं जुहोत्यनुपूर्वमेवैनांस्तत्प्रीणात्येकोत्तरा जुहोत्येकवृद्वै स्वर्गो लोक एकधैवैनं स्वर्गं लोकं गमयति पराचीर्जुहोति पराङिव वै स्वर्गो लोकः स्वर्गस्य लोकस्याभिजित्यै॥
ईश्वरो वा एषः॥
पराङ् प्रदघोर्यः पराचीराहुतिर्जुहोति नैकशतमत्येति यदेकशतमतीयादायुषा यजमानं व्यर्धयेदेकशतं जुहोति शतायुर्वै पुरुष आत्मैकशत आयुष्येवात्मन्प्रतितिष्ठति व्युष्ट्यै स्वाहा स्वर्गाय स्वाहेत्युत्तमे आहुती जुहोति रात्रिर्वै व्युष्टिरहः स्वर्गोऽहोरात्रे एव तत्प्रीणाति॥
तदाहुः॥
यदुभे दिवा वा नक्तं वा जुहुयादहोरात्रे मोहयेद्व्युष्ट्यै स्वाहेत्यनुदित आदित्ये जुहोति स्वर्गाय स्वाहेत्युदितेऽहोरात्रयोरव्यतिमोहाय॥
राजा वा एष यज्ञानां यदश्वमेधः॥
यजमानो वा अश्द्यज्ञमारभतेवमेधो यजमानो यज्ञो यदश्वे पशून्नियुनक्ति यज्ञ एव त॥
अश्वं तूपरं गोमृगमिति॥
तान्मध्यमे यूप आलभते सेनामुखमेवास्यैतेन संश्यति तस्माद्राज्ञः सेनामुखम् भीष्मम् भावुकम्॥
कृष्णग्रीवमाग्नेयं रराटे पुरस्तात्॥
पूर्वाग्निमेव तं कुरुते तस्माद्राज्ञः पूर्वाग्निर्भावुकः॥
सारस्वतीम् मेषीमधस्ताद्धन्वोः॥
स्त्रीरेव तदनुगाः कुरुते तस्मात्स्त्रियः पुंसोऽनुवर्त्मानो भावुकाः॥
आश्विनावधोरामौ बाह्वोः॥
बाह्वोरेव बलं धत्ते तस्माद्राजा बाहुबली भावुकः॥
सौमापौष्णं श्यामं नाभ्याम्॥
प्रतिष्ठामेव तां कुरुत इयं वै पूषास्यामेव प्रतितिष्ठति॥
सौर्ययामौ श्वेतं च कृष्णं च पार्श्वयोः॥
कवचे एव ते कुरुते तस्माद्राजा सन्नद्धो वीर्यं करोति॥
त्वाष्ट्रो लोमशसक्थौ सक्थ्योः॥
ऊर्वोरेव बलं धत्ते तस्माद्राजोरुबली भावुकः॥
वायव्यं श्वेतम् पुछे॥
उत्सेधमेव तं कुरुते तस्मादुत्सेधम् प्रज्:! भयेऽभिसंश्रयन्तीन्द्राय स्वपस्याय वेहतम् यज्ञस्य सेन्द्रतायै वैष्णवो वामनो यज्ञो वै विष्णुर्यज्ञ एवान्ततः प्रतितिष्ठति॥
ते वा एते॥
पञ्चदश पर्यङ्ग्याः पशवो भवन्ति पञ्चदशो वै वज्रो वीर्यं वज्रो वज्रेणैवैतद्वीर्येण यजमानः पुरस्तात्पाप्मानमपहते॥
पञ्चदश पञ्चदशो एवेतरेषु॥
पञ्चदशो वै वज्रो वीर्यं वज्रो वज्रेणवैतद्वीर्येण यजमानोऽभितः पाप्मानमपहते॥
तदाहुः॥
अपाहैवैतैः पाप्मानं हता इत्यकृत्स्नं च त्वै प्रजापतिं संस्करोति न चेदं सर्वमवरुन्द्धे॥
सप्तदशैव पशून्मध्यमे यूप आलभेत॥
सप्तदशो वै प्रजापतिम् प्रजापतिरश्वमेधोऽश्वमेधस्यैवाप्त्यै षोडश षोडशेतरेषु षोडशकलं वा इदं सर्वं तदिदं सर्व मवरुन्द्धे॥
तान्कथमाप्रीणीयादित्याहुः॥
समिद्धो अञ्जन्कृदरम् मतीनामिति बार्हदुक्थीभिराप्रीणीयाद्बृहदुक्थो ह वै वामदेव्योऽश्वो वा सामुद्रिरश्वस्याप्रीर्ददर्श ता एतास्ताभिरेवैनमेतदाप्रीणीम इति वदन्तो न तथा कुर्याज्जामदग्नीभिरेवाप्रीणीयात्प्रजापतिर्वै जमदग्निः सोऽश्वमेधः स्वयैवैनं देवतया समर्धयति तस्माज्जामदग्नीभिरेवाप्रीणीयात्॥
तद्धैके॥
एतेषाम् पर्यङ्ग्याणां नाना याज्यापुरोऽनुवाक्याः कुर्वन्ति विन्दाम एतेषामवित्त्येतरेषां न कुर्म इति न तथा कुर्यात्क्षत्रं वा अश्वो विडितरे पशवः प्रतिप्रतिनीं ह ते प्रत्युद्यामिनीं क्षत्राय विशं कुर्वन्त्यथो आयुषा यजमानं व्यर्धयन्ति ये तथा कुर्वन्ति तस्मात्प्राजापत्य एवाश्वो देवदेवत्या इतरे क्षत्रायैव तद्विशं कृता?उकरामनुवर्त्मानं करोत्यथो आयुषैव यजमानं समर्धयति॥
हिरण्मयोऽश्वस्य शासो भवति॥
लोहमयाः पर्यङ्ग्याणामायसा इतरेषां ज्योतिर्वै हिरण्यं राष्ट्रमश्वमेधो ज्योतिरेव तद्राष्ट्रे दधात्यथो हिरण्यज्योतिषैव यजमानः स्वर्गं लोकमेत्यथो अनूकाशमेव तं कुरुते स्वर्गस्य लोकस्य समष्ट्यै॥
अथो क्षत्रं वा अश्वः॥
क्षत्रस्यैतद्रूपं यद्धिरण्यं क्षत्रमेव तत्क्षत्रेण समर्धयति॥
अथ यल्लोहमयाः पर्यङ्ग्याणाम्॥
यथा वै राज्ञो राजानो राजकृतः सूतग्रामण्य एवं वा एतेऽश्वस्य यत्पर्यङ्ग्या एवमु वा एतद्धिरण्यस्य यल्लोहं स्वेनैवैनांस्तद्रूपेण समर्धयति॥
अथ यदायसा इतरेषाम्॥
विड्वा इतरे पशवो विश एतद्रूपं यदयो विशमेव तद्विशा समर्धयति वैतस इटसून उत्तरतोऽश्वस्यावद्यन्त्यानुष्टुभो वा अश्व आनुष्टुभैषा दिक्स्वायामेवैनं तद्दिशि दधात्यथ यद्वैतस इटसूनेऽप्सुयोनिर्वा अश्वोऽप्सुजा वेतसः स्वयैवैनं योन्या समर्धयति॥
देवा वा अश्वमेधे पवमानं॥
स्वर्गं लोकं न प्राजानंस्तमश्वः प्राजानाद्यदश्वमेधेऽश्वेन पवमानाय सर्पन्ति स्वर्गस्य लोकस्य प्रज्ञात्यै पुछमन्वारभन्ते स्वर्गस्यैव लोकस्य समष्ट्यै न वै मनुष्यः स्वर्गं लोकमञ्जसा वेदाश्वो वै स्वर्गं लोकमञ्जसा वेद॥
यदुद्गातोद्गायेत्॥
यथाक्षेत्रज्ञोऽन्येन पथा नयेत्तादृक्तदथ यदुद्गातारमवरुध्याश्वमुद्गीथाय वृणीते यथा क्षेत्रज्ञोऽञ्जसा नयेदेवमेवैतद्यजमानमश्वः स्वर्गं लोकमञ्जसा नयति हिङ्करोति सामैव तद्धिङ्करोत्युद्गीथ एव स वडवा उपरुन्धन्ति संशिञ्जते यथोपगातार उपगायन्ति तादृक्तद्धिरण्यं दक्षिणा सुवर्णं शतमानं तस्योक्तम् ब्राह्मणम्॥
प्रजापतिरकामयत॥
उभौ लोकावभिजयेयं देवलोकं च मनुष्यलोकं चेति स एतान्पशूनपश्यद्ग्राम्यांश्च तानालभत तैरिमौ लोकाववारुन्द्ध ग्राम्यैरेव पशुभिरिमं लोकमवारुन्द्धारण्यैरमुमयं वै लोको मनुष्यलोकोऽथासौ देवलोको यद्ग्राम्यान्पशूनालभत इममेव तैर्लोकं यजमानोऽवरुन्द्धे यदारण्यानमुं तैः॥
स यद्ग्राम्यैः संस्थापयेत्॥
समध्वानः क्रामेयुः समन्तिकं ग्रामयोर्ग्रामान्तौ स्यातां नर्क्षीकाः पुरुषव्याघ्राः परिमोषिण आव्याधिन्यस्तस्करा अरण्येष्वाजायेरन्यदारण्यैर्व्यध्वानः क्रामेयुर्विदूरं ग्रामयोर्ग्रामान्तौ स्यातामृक्षीकाः पुरुषव्याघ्राः परिमोषिण आव्याधिन्यस्तस्करा अरण्येष्वाजायेरन्॥
तदाहुः॥
अपशुर्वा एष यदारण्यो नैतस्य होतव्यं यज्जुहुयात्क्षिप्रं यजमानमरण्यम् मृतं हरेयुररण्यभागा ह्यारण्याः पशवो यन्न जुहुयाद्यज्ञवेशसं स्यादिति पर्यग्निकृतानेवोत्सृजन्ति तन्नैव हुतं नाहुतं न यजमानमरण्यम् मृतं हरन्ति न यज्ञवेशसम् भवति॥
ग्राम्यैः संस्थापयति॥
वि पितापुत्राववस्यतः समध्वानः क्रामन्ति समन्तिकं ग्रामयोर्ग्रामान्तौ भवतो नर्क्षीकाः पुरुषव्याघ्राः परिमोषिण आव्याधिन्यस्तस्करा अरण्येष्वाजायन्ते॥
प्रजापतिरश्वमेधमसृजत॥
सोऽस्मात्सृष्टः पराङैत्स पङ्क्तिर्भूत्वा संवत्सरम् प्राविशत्तेऽर्धमासा अभवंस्तम् पञ्चदशिभिरनुप्रायुङ्क्त तमाप्नोत्तमाप्त्वा पञ्चदशिभिरवारुन्द्धार्धमासानां वा एषा प्रतिमा यत्पञ्चदशिनो यत्पञ्चदशिन आलभतेऽर्धमासानेव तैर्यजमानोऽवरुन्द्धे॥
तदाहुः॥
अनवरुद्धो वा एतस्य संवत्सरो भवति योऽन्यत्र चातुर्मास्येभ्यः संवत्सरं तनुत इत्येष वै साक्षात्संवत्सरो यच्चातुर्मास्यानि यच्चातुर्मास्यान्पशूनालभते साक्षादेव तत्संवत्सरमवरुन्द्धे वि वा एष प्रजया पशुभिरृध्यतेऽप स्वर्गं लोकं राध्नोति योऽन्यत्रैकादशिनेभ्यः संवत्सरं तनुत इत्यैष वै सम्प्रति स्वर्गो लोको यदेकादशिनी प्रजा वै पशव एकादशिनी यदैकादशिनान्पशूनालभते न स्वर्गं लोकमपराध्नोति न प्रजया पशुभिर्व्यृद्यते॥
प्रजापतिर्विराजमसृजत॥
सास्मात्सृष्टा पराच्येत्साश्वम् मेध्यम् प्राविशत्तां दशिभिरनुप्रायुङ्क्त तामाप्नोत्तामाप्त्वा दशिभिरवारुन्द्ध यद्दशिन आलभते विराजमेव तैर्यजमानोऽवरुन्द्धे शतमालभते शतायुर्वै पुरुषः शतेन्द्रिय आयुरेवेन्द्रियं वीर्यमात्मन्धत्ते॥
एकादश दशत आलभते॥
एकादशाक्षरा वै त्रिष्टुबिन्द्रियमु वै वीर्यं त्रिष्टुबिन्द्रियस्यैव वीर्यस्यावरुद्ध्या एकादश दशत आलभते दश वै पशोः प्राणा आत्मैकादशः प्राणैरेव पशून्त्समर्धयति वैश्वदेवा भवन्ति वैश्वदेवो वा अश्वोऽश्वस्यैव सर्वत्वाय बहुरूपा भवन्ति तस्माद्बहुरूपाः पशवो नानारूपा भवन्ति तस्मान्नानारूपाः पशवः॥
युञ्जन्ति ब्रध्नमरुषं चरन्तमिति॥
असौ वा आदित्यो ब्रध्नोऽरुषोऽमुमेवास्मा आदित्यं युनक्ति स्वर्गस्य लोकस्य समष्ट्यै॥
तदाहुः॥
पराङ्वा एतस्माद्यज्ञ एति यस्य पशुरुपाकृतोऽन्यत्र वेदेरेतीत्येतं स्तोतरनेन पथा पुनरश्वमावर्तयासि न इति वायुर्वै स्तोता तमेवास्मा एतत्परस्ताद्दधाति तथा नात्येति॥
अप वा एतस्मात्॥
तेज इन्द्रियम् पशवः श्रीः क्रामन्ति योऽश्वमेधेन यजते॥
वसवस्त्वाञ्जन्तु॥
गायत्रेण छन्दसेति महिष्यभ्यनक्ति तेजो वा आज्यं तेजो गायत्री तेजसी एवास्मिन्त्समीची दधाति॥
रुद्रास्त्वाञ्जन्तु॥
त्रैष्टुभेन छन्दसेति वावाता तेजो वा आज्यमिन्द्रियं त्रिष्टुप्तेजश्चैवास्मिन्निन्द्रियं च समीची दधाति॥
आदित्यास्त्वाञ्जन्तु॥
जागतेन छन्दसेति परिवृक्ता तेजो वा आज्यम् पशवो जगती तेजश्चैवास्मिन्पशूंश्च समीची दधाति॥
पत्न्योऽभ्यञ्जन्ति॥
श्रियै वा एतद्रूपं यत्पत्न्यः श्रियमेवास्मिंस्तद्दधति नास्मात्तेज इन्द्रियम् पशवः श्रीरपक्रामन्ति॥
यथा वै हविषोऽहुतस्य स्कन्देत्॥
एवमेतत्पशो स्कन्दति यस्य निक्तस्य लोमानि शीयन्ते यत्काचानावयन्ति लोमान्येवास्य सम्भरन्ति हिरण्मया भवन्ति तस्योक्तं ब्राह्मणमेकश तमेकशतं काचानावयन्ति शतायुर्वै पुरुष आत्मैकशत आयुष्येवात्मन्प्रतितिष्ठति भूर्भुवः स्वरिति प्राजापत्याभिरावयन्ति प्राजापत्योऽश्वः स्वयैवैनं देवतया समर्धयन्ति लाजी३ञ्छाची३न्यव्ये गव्य इत्यतिरिक्तमन्नमश्वायोपावहरति प्रजामेवान्नादीं कुरुत एतदन्नमत्त देवा एतदन्नमद्धि प्रजापत इति प्रजामेवान्नाद्येन समर्धयति॥
अप वा एतस्मात्॥
तेजो ब्रह्मवर्चसं क्रामति योऽश्वमेधेन यजते होता च ब्रह्मा च ब्रह्मोद्यं वदत आग्नेयो वै होता बार्हस्पत्यो ब्रह्मा ब्रह्म बृहस्पतिस्तेजश्चैवास्मिन्ब्रह्मवर्चसं च समीची धत्तो यूपमभितो वदतो यजमानो वै यूपो यजमानमेवैतत्तेजसा च ब्रह्मवर्चसेन चोभयतः परिधत्तः॥
कः स्विदेकाकी चरतीति॥
असौ वा आदित्य एकाकी चरत्येष ब्रह्मवर्चसम् ब्रह्मवर्चसमेवास्मिंस्तद्धत्तः॥
क उ स्विज्जायते पुनरिति॥
चन्द्रमा वै जायते पुनरायुरेवास्मिंस्तद्धत्तः॥
किं स्विद्धिमस्य भेषजमिति॥
अग्निर्वै हिमस्य भेषजं तेज एवास्मिंस्तद्धत्तः॥
किम्वावपनम् महदिति॥
अयं वै लोकं आवपनम् महदस्मिन्नेव लोके प्रतितिष्ठति॥
का स्विदासीत्पूर्वचित्तिरिति॥
द्यौर्वै वृष्टिः पूर्वचित्तिर्दिवमेव वृष्टिमवरुन्द्धे॥
किं स्विदासीद्बृहद्वय इति॥
अश्वो वै बृहद्वय आयुरेवावरुन्द्धे॥
का स्विदासीत्पिलिप्पिलेति॥
श्रीर्वै पिलिप्पिला श्रियमेवावरुन्द्धे॥
का स्विदासीत्पिशङ्गिलेति॥
अहोरात्रे वै पिशङ्गिले अहोरात्रयोरेव प्रतितिष्ठति॥
नियुक्तेषु पशुषु॥
प्रोक्षणीरध्वर्युरादत्तेऽश्वम् प्रोक्षिष्यन्नन्वारब्धे यजमान आध्वरिकं यजुरनुद्रुत्याश्वमेधिकं यजुः प्रतिपद्यते॥
वायुष्ट्वा पचतैरवत्विति॥
वायुरेवैनम् पचत्यसितग्रीवश्छागैरित्यग्निर्वा असितग्रीवोऽग्निरेवैनं छागैः पचति॥
न्यग्रोधश्चमसैरिति॥
यत्र वै देवा यज्ञेनायजन्त त एतांश्चमसान्न्यौब्जंस्ते न्यञ्चो न्यग्रोधा रोहन्ति॥
शल्मलिर्वृद्ध्येति॥
शल्मलौ वृद्धिं दधाति तस्माछल्मलिर्वनस्पतीनां वर्षिष्थं वर्धते॥
एष स्य राथ्यो वृषेति॥
अश्वेनैव रथं सम्पादयति तस्मादश्वो नान्यद्रथाद्वहति॥
षड्भिश्चतुर्भिरेदगन्निति॥
तस्मादश्वस्त्रिभिस्तिष्ठंस्तिष्ठत्यथ युक्तः सर्वैः पद्भिः सममायुते॥
ब्रह्माकृष्णश्च नोऽवत्विति॥
चन्द्रमा वै ब्रह्माकृष्णश्चन्द्रमस एवैनम् परिददाति नमोऽग्नय इत्यग्नय एव नमस्करोति॥
संशितो रश्मिना रथ इति रश्मिनैव रथं सम्पादयति तस्माद्रथः पर्युतो दर्शनीयतमो भवति॥
संशितो रश्मिना हय इति॥
रश्मिनैवाश्वं सम्पादयति तस्मादश्वो रश्मिना प्रतिहृतो भूयिष्ठं रोचते॥
संशितो अप्स्वप्सुजा इति॥
अप्सुयोनिर्वा अश्वः स्वयैवैनं योन्या समर्धयति ब्रह्मा सोमपुरोगव इति सोमपुरोगवमेवैनं स्वर्गं लोकं गमयति॥
स्वयं वाजिंस्तन्वं कल्पयस्वेति॥
स्वयं रूपं कुरुष्व यादृशमिच्छसीत्येवैनं तदाह स्वयं यजस्वेति स्वाराज्यमेवास्मिन्दधाति स्वयं जुषस्वेति स्वयं लोकं रोचयस्व यावन्तमिच्छसीत्येवैनं तदाह महिमा तेऽन्येन न सन्नश इत्यश्वमेव महिम्ना समर्धयति॥
न वा उ एतन्म्रियसे न रिष्यसीति॥
प्रश्वासयत्येवैनं तद्देवां इदेषि पथिभिः सुगेभिरिति देवयानानेवैनम् पथो दर्शयति यत्रासते सुकृतो यत्र ते ययुरिति सुकृद्भिरेवैनं सलोकं करोति तत्र त्वा देवः सविता दधात्विति सवितैवैनं स्वर्गे लोके दधाति प्रजापतये त्वा जुष्टम् प्रोक्षामीत्युपांश्वथोपगृह्णाति॥
अग्निः पशुरासीत्॥
तेनायजन्त स एतं लोकमजयद्यस्मिन्नग्निः स ते लोको भविष्यति तं जेष्यसि पिबैता अप इति यावानग्नेर्विजयो यावांलोको यावदैश्वर्यं तावांस्ते विजयस्तावांलोकस्तावदैश्वर्यम् भविष्यतीत्येवैनं तदाह॥
वायुः पशुरासीत्॥
तेनायजन्त स एतं लोकमजयद्यस्मिन्वायुः स ते लोको भविष्यति तं जेष्यसि पिबैता अप इति यावान्वायोर्विजयो यावांलोको॥
सूर्यः पशुरासीत्॥
तेनायजन्त स एतं लोकमजयद्यस्मिन्त्सूर्यः स ते लोको भविष्यति तं जेष्यसि पिबैता अप इति यावान्त्सूर्यस्य विजयो यावांलोको यावदैश्वर्यं तावांस्ते विजयस्तावांलोकस्तावदैश्वर्यम् भविष्यतीत्येवैनं तदाह तर्पयित्वाश्वम् पुनः संस्कृत्य प्रोक्षणीरितरान्पशून्प्रोक्षति तस्यातः॥
देवा वा उदञ्चः॥
स्वर्गं लोकं न प्राजानंस्तमश्वः प्राजानाद्यदश्वेनोदञ्चो यन्ति स्वर्गस्य लोकस्य प्रज्ञात्यै वासोऽधिवासं हिरण्यमित्यश्वायोपस्तृणन्ति यथा नान्यस्मै पशवे तस्मिन्नेनमधि सञ्ज्ञपयन्त्यन्यैरेवैनं तत्पशुभिर्व्याकुर्वन्ति॥
घ्नन्ति वा एतत्पशुम्॥
यदेनं सञ्ज्ञपयन्ति प्राणाय स्वाहापानाय स्वाहा व्यानाय स्वाहेति सञ्ज्ञप्यमान आहुतीर्जुहोति प्राणानेवास्मिन्नेतद्दधाति तथो हास्यैतेन जीवतैव पशुनेष्टं भवति॥
अम्बे अम्बिकेऽम्बालिके॥
न मा नयति कश्चनेति पत्नीरुदानयत्यह्वतैवैना एतदथो मेध्या एवैनाः करोति॥
गणानां त्वा गणपतिं हवामह इति॥
पत्न्यः परियन्त्यपह्नुवत एवास्मा एतदतो न्येवास्मै ह्नुवतेऽथो ध्रुवत एवैनं त्रिः परियन्ति त्रयो वा इमे लोका एभिरेवैनं लोकैर्धुवते त्रिः पुनः परियन्ति षट् सम्पद्यन्ते षड्वा ऋतव ऋतुभिरेवैनं धुवते॥
अप वा एतेभ्यः प्राणाः क्रामन्ति॥
ये यज्ञे धुवनं तन्वते नव कृत्वः परियन्ति नव वै प्राणाः प्राणानेवात्मन्दधते नैभ्यः प्राणा अपक्रामन्त्याहमजानि गर्भधमा त्वमजासि गर्भधमिति प्रजा वै पशवो गर्भः प्रजामेव पशूनात्मन्धत्ते ता उभौ चतुरः पदः सम्प्रसारयावेति मिथुनस्यावरुद्ध्यै स्वर्गे लोके प्रोर्णुवाथामित्येष वै स्वर्गो लोको यत्र पशुं सञ्ज्ञपयन्ति तस्मादेवमाह वृषा वाजी रेतोधा रेतो दधात्विति मिथुनस्यैवावरुद्ध्यै॥
अप वा एतस्मात्॥
श्री राष्ट्रं क्रामति योऽश्वमेधेन यजते॥
ऊर्ध्वामेनामुछ्रापयेति॥
श्रीर्वै राष्ट्रमश्वमेधः श्रियमेवास्मै राष्ट्रमूर्ध्वमुछ्रयति॥
गिरौ भारं हरन्निवेति॥
श्रीर्वै राष्ट्रस्य भारः श्रियमेवास्मै राष्ट्रं सन्नह्यत्यथो श्रियमेवास्मिन्राष्ट्रमधिनिदधाति॥
अथास्यै मध्यमेधतामिति॥
श्रीर्वै राष्ट्रस्य मध्यं श्रियमेव राष्ट्रे मध्यतोऽन्नाद्यं दधाति॥
शीते वाते पुनन्निवेति॥
क्षेमो वै राष्ट्रस्य शीतं क्षेममेवास्मै करोति॥
यकासकौ शकुन्तिकेति॥
विड्वै शकुन्तिकाहलगिति वञ्चतीति विशो वै राष्ट्राय वञ्चन्त्याहन्ति गभे पसो निगल्गलीति धारकेति विड्वै गभो राष्ट्रम् पसो राष्ट्रमेव विश्याहन्ति तस्माद्राष्ट्रो विशं घातुकः॥
माता च ते पिता च त इति॥
इयं वै मातासौ पिताभ्यामेवैनं स्वर्गं लोकं गमयत्यग्रं वृक्षस्य रोहत इति श्रीर्वै राष्ट्रस्याग्रं श्रियमेवैनं राष्ट्रस्याग्रं गमयति प्रतिलामीति ते पिता गभे मुष्टिमतंसयदिति विड्वै गभो राष्ट्रम् मुष्टी राष्ट्रमेव विश्याहन्ति तस्माद्राष्ट्री विषं घातुकः॥
यद्धरिणो यवमत्तीति॥
विड्वै यवो राष्ट्रं हरिणो विशमेव राष्ट्रायाद्यां करोति तस्माद्राष्ट्रो विशमत्ति न पुष्टम् पशु मन्यत इति तस्माद्राजा पशून्न पुष्यति शूद्रा यदर्यजारा न पोषाय न धनायतीति तस्माद्वैशीपुत्रं नाभिषिञ्चति॥
अप वा एतेभ्यः प्राणाः क्रामन्ति॥
ये यज्ञेऽपूतां वाचं वदन्ति दधिक्राव्णो अकारिषमिति सुरभिमतीमृचमन्ततोऽन्वाहुर्वाचमेव पुनते नैभ्यः प्राणा अपक्रामन्ति॥
यदसिपथान्कल्पयन्ति॥
सेतुमेव तं सङ्क्रमणं यजमानः कुरुते स्वर्गस्य लोकस्य समष्ट्यै॥
सूचीभिः कल्पयन्ति॥
विशो वै सूच्यो राष्ट्रमश्वमेधो विशं चैवास्मिन्राष्ट्रं च समीची दधति हिरण्यमय्यो भवन्ति तस्योक्तम् ब्राह्मणम्॥
त्रय्यः सूच्यो भवन्ति॥
लोहमय्यो रजता हरिण्यो दिशो वै लोहमय्योऽवान्तरदिशो रजता ऊर्ध्वा हरिण्यस्ताभिरेवैनं कल्पयन्ति तिरश्चीभिष्चोर्ध्वाभिश्च बहुरूपा भवन्ति तस्माद्बहुरूपा दिशो नानारूपा भवन्ति तस्मान्नानारूपा दिशः॥
प्रजापतिरकामयत॥
महान्भूयान्त्स्यामिति स एतावश्वमेधे महिमानौ ग्रहावपश्यत्तावजुहोत्ततो वै स महान्भूयानभवत्स यः कामयेत महान्भूयान्त्स्यामिति स एतावश्वमेधे महिमानौ ग्रहौ जुहुयान्महान्हैव भूयान्भवति॥
वपामभितो जुहोति॥
यजमानो वा अश्वमेधो राजा महिमा राज्येनैवैनमुभयतः परिगृह्णाति पुरस्तात्स्वाहाकृतयो वा अन्ये देवा उपरिष्टात्स्वाहाकृतयोऽन्ये तानेवैतत्प्रीणाति स्वाहा देवेभ्यो देवेभ्यः स्वाहेति राज्ञा वपाम् परिजयति ये चैवास्मिंलोके देवा य उ चामुष्मिंस्तानेवैतत्प्रीणाति त एनमुभये देवाः प्रीताः स्वर्गं लोकमभिवहन्ति॥