ब्रह्मौदनम् पचति॥
रेत एव तद्धत्ते यदाज्यमुछिष्यते तेन रशनामभ्यज्यादत्ते तेजो वा आज्यम् प्राजापत्योऽश्वः प्रजापतिमेव तेजसा समर्धयत्यपूतो वा एषोऽमेध्यो यदश्वः॥
दर्भमयी रशना भवति॥
पवित्रं वै दर्भाः पुनात्येवैनम् पूतमेवैनम् मेध्यमालभते॥
अश्वस्य वा आलब्धस्य॥
रेत उदक्रामत्तत्सुवर्णं हिरण्यमभवद्यत्सुवर्णं हिरण्यं ददात्यश्वमेव रेतसा समर्धयति॥
प्रजापतिर्यज्ञमसृजत॥
तस्य महिमापाक्रामत्स महर्त्विजः प्राविशत्तम् महर्त्विग्भिरन्वैछत्तम् महर्त्विग्भिरन्वविन्दद्यन्महर्त्विजो ब्रह्मौदनम् प्राश्नन्ति महिमानमेव तद्यज्ञस्य यजमानोऽवरुन्द्धे ब्रह्मौदने सुवर्णं हिरण्यं ददाति रेतो वा ओदनो रेतो हिरण्यं रेतसैवास्मिंस्तद्रेतो दधाति शतमानम् भवति शतायुर्वै पुरुषः शतेन्द्रिय आयुरेवेन्द्रियं वीर्यमात्मन्धत्ते चतुष्टयीरपो वसतीवरीर्मध्यमायाह्ने गृह्णाति ता दिग्भ्यः समाहृता भवन्ति दिक्षु वा अन्नमन्नमापोऽन्नेनैवास्मा अन्नमवरुन्द्धे॥
व्यृद्धमु वा एतद्यज्ञस्य॥
यदयजुष्केण क्रियत इमामगृभ्णन्रशनामृतस्येत्यश्वाभिधानीमादत्ते यजुष्कृत्यै यज्ञस्य समृद्ध्यै द्वादशारत्निर्भवति द्वादश मासाः संवत्सरः संवत्सरमेव यज्ञमाप्नोति॥
तदाहुः॥
द्वादशारत्नी रशना कार्या३ त्रयोदशारत्नी३रित्यृषभो वा एष ऋतूनां यत्संवत्सरस्तस्य त्रयोदशो मासो विष्टपमृषभ एष यज्ञानां यदश्वमेधो यथा वा ऋषभस्य विष्टपमेवमेतस्य विष्टपं त्रयोदशमरत्निं रशनायामुपादध्यात्तद्यथ ऋषभस्य विष्टपं संस्त्रियते तादृक्तत्॥
अभिधा असीति॥
तस्मादश्वमेधयाजी सर्वा दिशोऽभिजयति भुवनमसीति भुवनं तज्जयति यन्तासि धर्तेति यन्तारमेवैनं धर्तारं करोति स त्वमग्निं वैश्वानरमित्यग्निमेवैनं वैश्वानरं गमयति सप्रथसं गछेति प्रजयैवैनम् पशुभिः प्रथयति स्वाहाकृत इति वषट्कार एवास्यैष स्वगा त्वा देवेभ्य इति देवेभ्य एवैनं स्वगा करोति प्रजापतय इति प्राजापत्योऽश्वः स्वयैवैनं देवतया समर्धयति॥
ईश्वरो वा एषः॥
आर्तिमार्तोर्यो ब्रह्मणे देवेभ्योऽप्रतिप्रोच्याश्वं बध्नाति ब्रह्मन्नश्वम् भन्त्स्यामि देवेभ्यः प्रजापतये तेन राध्यासमिति ब्रह्माणमामन्त्रयते ब्रह्मण एवैनम् प्रतिप्रोच्य बध्नाति नार्तिमार्छति तं बधान देवेभ्यः प्रजापतये तेन राध्नुहीति ब्रह्मा प्रसौति स्वयैवैनं देवतया समर्धयत्यथ प्रोक्षत्यसावेव बन्धुः॥
स प्रोक्षति॥
प्रजापतये त्वा जुष्टम् प्रोक्षामीति प्रजापतिर्वै देवानां वीर्यवत्तमो वीर्यमेवास्मिन्दधाति तस्मादश्वः पशूनां वीर्यवत्तमः॥
इन्द्राग्निभ्यां त्वा जुष्टम् प्रोक्षामीति॥
इन्द्राग्नी वै देवानामोजस्वितमा ओज एवास्मिन्दधाति तस्मादश्वः पशूनामोजस्वितमः॥
वायवे त्वा जुष्टम् प्रोक्षामीति॥
वायुर्वै देवानामाशिष्ठो जवमेवास्मिन्दधाति तस्मादश्वः पशूनामाशिष्ठः॥
विश्वेभ्यस्त्वा देवेभ्यो जुष्टम् प्रोक्षामीति॥
विश्वे वै देवा देवानां यशस्वितमा यश एवास्मिन्दधाति तस्मादश्वः पशूनां यशस्वितमः सर्वेभ्यस्त्वा देवेभ्यो जुष्टम् प्रोक्षामीति॥
तदाहुः॥
यत्प्राजापत्योऽश्वोऽथ कथाप्यन्याभ्यो देवताभ्यः प्रोक्षतीति सर्वा वै देवता अश्वमेधेऽन्वायत्ता यदाह सर्वेभ्यस्त्वा देवेभ्यः प्रोक्षामीति सर्वा एवास्मिन्देवता अन्वायातयति तस्मादश्वमेधे सर्वा देवता अन्वायत्ताः पाप्मा वा एतम् भ्रातृव्य ईप्सति योऽश्वमेधेन यजेत वज्रोऽश्वः परो मर्तः परः श्वेति श्वानं चतुरक्षं हत्वाधस्पदमश्वस्योपप्लावयति वज्रेणैवैनमवक्रामति नैनम् पाप्मा भ्रातृव्य आप्नोति॥
यथा वै हविषोऽहुतस्य स्कन्देत्॥
एवमेतत्पशो स्कन्दति यं निक्तमनालब्धमुत्सृजन्ति यत्स्तोकीया जुहोति सर्वहुतमेवैनं जुहोत्यस्कन्दायास्कन्नं हि तद्यद्धुतस्य स्कन्दति सहस्रं जुहोति सहस्रसम्मितो वै स्वर्गो लोकः स्वर्गस्य लोकस्याभिजित्यै॥
तदाहुः॥
यन्मिता जुहुयात्परिमितमवरुन्धीतेत्यमिता जुहोत्यपरिमितस्यैवावरुद्ध्या उवाच ह प्रजापति स्तोकीयासु वा अहमश्वमेधं संस्थापयामि तेन संस्थितेनैवात ऊर्ध्वं चरामीति॥
अग्नये स्वाहेति॥
अग्नय एवैनं जुहोति सोमाय स्वाहेति सोमायैवैनं जुहोत्यपाम् मोदाय स्वाहेत्यद्भ्य एवैनं जुहोति सवित्रे स्वाहेति सवित्र एवैनं जुहोति वायवे स्वाहेति वायव एवैनं जुहोति विष्णवे स्वाहेति विष्णव एवैनं जुहोतीन्द्राय स्वाहेतीन्द्रायैवैनं जुहोति बृहस्पतये स्वाहेति बृहस्पतय एवैनं जुहोति मित्राय स्वाहेति मित्रायैवैनं जुहोति वरुणाय स्वाहेति वरुणायैवैनं जुहोत्येतावन्तो वै सर्वे देवास्तेभ्य एवैनं जुहोति पराचीर्जुहोति पराङिव वै स्वर्गो लोकः स्वर्गस्य लोकस्याभिजित्यै॥
ईश्वरो वा एषः॥
पराङ् प्रदघोर्यः पराचीराहुतीर्जुहोति पुनरावर्ततेऽस्मिन्नेव लोके प्रतितिष्ठत्येतां ह वाव स यज्ञस्य संस्थितिमुवाचास्कन्दायास्कन्नं हि तद्यद्धुतस्य स्कन्दति॥
यथा वै हविषोऽहुतस्य स्कन्देत्॥
एवमेतत्पशो स्कन्दति यम् प्रोक्षितमनालब्धमुत्सृजन्ति यद्रूपाणि जुहोति सर्वहुतमेवैनं जुहोत्यस्कन्दायास्कन्नं हि तद्यद्धुतस्य स्कन्दति हिङ्काराय स्वाहा हिङ्कृताय स्वाहेत्येतानि वा अश्वस्य रूपाणि तान्येवावरुन्द्धे॥
तदाहुः॥
अनाहुतिर्वै रूपाणि नैता होतव्या इत्यथो खल्वाहुरत्र वा अश्वमेधः सन्तिष्ठते यद्रूपाणि जुहोति होतव्या एवेति बहिर्धा वा एतमायतनात्करोति भ्रातृव्यमस्मै जनयति यस्यानायतनेऽन्यत्राग्नेराहुतीर्जुहोति॥
सावित्र्या एवेष्टेः॥
पुरस्तादनुद्रुत्य सकृदेव रूपाण्याहवनीये जुहोत्यायतन एवाहुतीर्जुहोति नास्मै भ्रातृव्यं जनयति यज्ञमुखे-यज्ञमुखे जुहोति यज्ञस्य सन्तत्या अव्यवछेदाय॥
तदाहुः॥
यद्यज्ञमुखे-यज्ञमुखे जुहुयात्पशुभिर्व्यृध्येत पापोयान्त्स्यात्सकृदेव होतव्या न पशुभिर्व्यृध्यते न पापीयान्भवत्यष्टाचत्वारिंशतं जुहोत्यष्टाचत्वारिंशदक्षरा जगती जागताः पशवो जगत्यैवास्मै पशूनवरुन्द्ध एकमतिरिक्तं जुहोति तस्मादेकः प्रजास्वर्धुकः॥
प्रजापतिरश्वमेधमसृजत॥
सोऽस्मात्सृष्टः पराङैत्स दिशोऽनुप्राविशत्तं देवाः प्रैषमैछंस्तमिष्टिभिरनुप्रायुञ्जत तमिष्टिभिरन्वैछंस्तमिष्टिभिरन्वविन्दन्यदिष्टिभिर्यजतेऽश्वमेव तन्मेध्यं यजमानोऽन्विच्छति॥
सावित्र्यो भवन्ति॥
इयं वै सविता यो वा अस्यां निलयते योऽन्यत्रैत्यस्यां वाव तमनुविन्दन्ति न वा इमां कश्चन तिर्यङ्नोर्ध्वोऽत्येतुमर्हति यत्सावित्र्यो भवन्त्यश्वस्यैवानुवित्त्यै॥
तदाहुः॥
प्र वा एतदश्वो मीयते यत्पराङेति न ह्येनम् प्रत्यावर्तयन्तीति यत्सायं धृतीर्जुहोति क्षेमो वै धृतिः क्षेमो रात्रिः क्षेमेणैवैनं दाधार तस्मात्सायम् मनुष्याश्च पशवश्च क्षेम्या भवन्त्यथ यत्प्रातरिष्टिभिर्यजत इछत्येवैनं तत्तस्माद्दिवा नष्टैष एति यद्वेव सायं धृतीर्जुहोति प्रातरिष्टिभिर्यजते योगक्षेममेव तद्यजमानः कल्पयते तस्माद्यत्रैतेन यज्ञेन यजन्ते कॢप्तः प्रजानां योगक्षेमो भवति॥
अप वा एतस्मात्॥
श्री राष्ट्रं क्रामति योऽश्वमेधेन यजते यदा वै पुरुषः श्रियं गछति वीणास्मै वाद्यते ब्राह्मणौ वीणागाथिनौ संवत्सरं गायतः श्रियै वा एतद्रूपं यद्वीणा श्रियमेवास्मिंस्तद्धत्तः॥
तदाहुः॥
यदुभौ ब्राह्मणौ गायेतामपास्मात्क्षत्रं क्रामेद्ब्रह्मणो वा एतद्रूपं यद्ब्राह्मणो न वै ब्रह्मणि क्षत्रं रमत इति॥
यदुभौ राजन्यौ॥
अपास्माद्ब्रह्मवर्चसं क्रामेत्क्षत्रस्य वा एतद्रूपं यद्राजन्यो न वै क्षत्रे ब्रह्मवर्चसं रमत इति ब्राह्मणोऽन्यो गायति राजन्योऽन्यो ब्रह्म वै ब्राह्मणः क्षत्रं राजन्यस्तदस्य ब्रह्मणा च क्षत्रेण चोभयतः श्रीः परिगृहीता भवति॥
तदाहुः॥
यदुभौ दिवा गायेताम् प्रभ्रंशुकास्माछ्रीः स्याद्ब्रह्मणो वा एतद्रूपं यदहर्यदा वै राजा कामयतेऽथ ब्राह्मणं जिनाति पापीयांस्तु भवति॥
यदुभौ नक्तम्॥
अपास्माद्ब्रह्मवर्चसं क्रामेत्क्षत्रस्य वा एतद्रूपं यद्रात्रिर्न वै क्षत्रे ब्रह्मवर्चसं रमत इति दिवा ब्राह्मणो गायति नक्तं राजन्यस्तथो हास्य ब्रह्मणा च क्षत्रेण चोभयतः श्रीः परिगृहीता भवतीति॥
अयजतेत्यददादिति ब्राह्मणो गायतीष्टापूर्तं वै ब्राह्मणस्येष्टापूर्तेनैवैनं स समर्धयतीत्ययुध्यतेत्यमुं सङ्ग्राममजयदिति राजन्यो युद्धं वै राजन्यस्य वीर्यं वीर्येणैवैनं स समर्धयति तिस्रोऽन्यो गाथा गायति तिस्रोऽन्यः षट् सम्पद्यन्ते षडृतवः संवत्सर ऋतुष्वेव संवत्सरे प्रतितिष्ठति ताभ्यां शतं ददाति शतायुर्वै पुरुषः शतेन्द्रिय आयुरेवेन्द्रियं वीर्यमात्मन्धत्ते॥
विभूर्मात्रा प्रभूः पित्रेति॥
इयं वै मातासौ पिताभ्यामेवैनम् परिददात्यश्वोऽसि हयोऽसीति शास्त्येवैनं तत्तस्माछिष्टाः प्रजा जायन्तेऽत्योऽसि मयोऽसीत्यत्येवैनं नयति तस्मादश्वः पशूनां श्रैष्ठ्यं गछत्यर्वासि सप्तिरसि वाज्यसीति यथायजुरेवैतद्वृषासि नृमणा असीति मिथुनत्वाय ययुर्नामासि शिशुर्नामासीत्येतद्वा अश्वस्य प्रियं नामधेयम् प्रियेणैवैनं नाम्नाभिवदति तस्मादप्यामित्रौ सङ्गत्य नाम्ना चेदभिवदतोऽन्योऽन्यं समेव जानाते॥
आदित्यानाम् पत्वान्विहीति॥
आदित्यानेवैनं गमयति देवा आशापाला एतं देवेभ्योऽश्वम् मेधाय प्रोक्षितं रक्षतेति शतं वै तल्प्या राजपुत्रा आशापालास्तेभ्य एवैनम् परिददातीह रन्तिरिह रमतामिह धृतिरिह स्वधृतिः स्वाहेति संवत्सरमाहुतीर्जुहोति षोडश नवतीरेता वा अश्वस्य बन्धनं ताभिरेवैनम् बध्नाति तस्मादश्वः प्रमुक्तो बन्धनमागछति षोडश नवतीरेता वा अश्वस्य बन्धनं ताभिरेवैनम् बध्नाति तस्मादश्वः प्रमुक्तो बन्धनं न जहाति॥
राष्ट्रं वा अश्वमेधः॥
राष्ट्र एते व्यायछन्ते येऽश्वं रक्षन्ति तेषां य उदृचं गछन्ति राष्ट्रेणैव ते राष्ट्रम् भवन्त्यथ ये नोदृचं गछन्ति राष्ट्रात्ते व्यवछिद्यन्ते तस्माद्राष्ट्र्यश्वमेधेन यजेत परा वा एष सिच्यते योऽबलोऽश्वमेधेन यजते यद्यमित्रा अश्वं विन्देरन्यज्ञोऽस्य विच्छिद्येत पापीयान्त्स्याछतं कवचिनो रक्षन्ति यज्ञस्य सन्तत्या अव्यवछेदाय न पापीयान्भवत्यथान्यमानीय प्रोक्षेयुः सैव तत्र प्रायश्चित्तिः॥
प्रजापतिरकामयत॥
अश्वमेधेन यजेयेति सोऽश्राम्यत्स तपोऽतप्यत तस्य श्रान्तस्य तप्तस्य सप्तधात्मनो देवता अपाक्रामन्त्सा दीक्षाभवत्स एतानि वैश्वदेवान्यपश्यत्तान्यजुहोत्तैर्वै स दीक्षामवारुन्द्ध यद्वैश्वदेवानि जुहोति दीक्षामेव तैर्यजमानोऽवरुन्द्धेऽन्वहं जुहोत्यन्वहमेव दीक्षामवरुन्द्धे सप्त जुहोति सप्त वै ता देवता अपाक्रामंस्ताभिरेवास्मै दीक्षामवरुन्द्धे॥
अप वा एतेभ्यः प्राणाः क्रामन्ति॥
ये दीक्षामतिरेचयन्ति सप्ताहम् प्रचरन्ति सप्त वै शीर्षण्याः प्राणाः प्राणा दीक्षा प्राणैरेवास्मै प्राणान्दीक्षामवरुन्द्धे त्रेधा विभज्य देवतां जुहोति त्र्यावृतो वै देवास्त्र्यावृत इमे लोका ऋद्ध्यामेव वीर्य एषु लोकेषु प्रतितिष्ठति॥
एकविंशतिः सम्पद्यन्ते॥
द्वादश मासाः पञ्चर्तवस्त्रय इमे लोका असावादित्य एकविंशस्तद्दैवं क्षत्रं सा श्रीस्तदाधिपत्यं तद्ब्रध्नस्य विष्टपं तत्स्वाराज्यमश्नुते॥
त्रिंशतमौद्ग्रभणानि जुहोति॥
त्रिंशदक्षरा विराड्विराडु कृत्स्नमन्नं कृत्स्नस्यैवान्नाद्यस्यावरुद्ध्यै चत्वार्यौद्ग्रभणानि जुहोति त्रीणि वैश्वदेवानि सप्त सम्पद्यन्ते सप्त वै शीर्षण्याः प्राणाः प्राणा प्राणैरेवास्मै प्राणान्दीक्षामवरुन्द्धे पूर्णाहुतिमुत्तमां जुहोति प्रत्युत्तब्ध्यै सयुक्त्वाय॥
प्रजापतिरश्वमेधमसृजत॥
स सृष्टः प्रर्चमव्लीनात्प्र साम तं वैश्वदेवान्युदयछन्यद्वैश्वदेवानि जुहोत्यश्वमेधस्यैवोद्यत्यै॥
काय स्वाहा॥
कस्मै स्वाहा कतमस्मै स्वाहेति प्राजापत्यम् मुख्यं करोति प्रजापतिमुखाभिरेवैनं देवताभिरुद्यछति॥
स्वाहाधिमाधीताय स्वाहा॥
मनः प्रजापतये स्वाहा चित्तं विज्ञातायेति यदेव पूर्वासाम् ब्राह्मणं तदत्र॥
अदित्यै स्वाहा॥
अदित्यै मह्यै स्वाहादित्यै सुमृडीकायै स्वाहेतीयं वा अदितिरनयैवैनमुद्यछति॥
सरस्वत्यै स्वाहा॥
सरस्वत्यै पावकायै स्वाहा सरस्वत्यै बृहत्यै स्वाहेति वाग्वै सरस्वती वाचैवैनमुद्यछति॥
पूष्णे स्वाहा॥
पूष्णे प्रपथ्याय स्वाहा पूष्णे नरन्धिषाय स्वाहेति पशवो वै पूषा पशुभिरेवैनमुद्यछति॥
त्वष्ट्रे स्वाहा॥
त्वष्ट्रे तुरीपाय स्वाहा त्वष्ट्रे पुरुरूपाय स्वाहेति त्वष्टा वै पशूनाम् मिथुनानां रूपकृद्रूपैरेवैनमुद्यछति॥
विष्णवे स्वाहा॥
विष्णवे निभूयपाय स्वाहा विष्णवे शिपिविष्टाय स्वाहेति यज्ञो वै विष्णुर्यज्ञेनैवैनमुद्यछति विश्वो देवस्य नेतुरिति पूर्णाहुतिमुत्तमां जुहोतीयं वै पूर्णाहुतिरस्यामेवान्ततः प्रतितिष्ठति॥
आ ब्रह्मन्॥
ब्राह्मणो ब्रह्मवर्चसी जायतामिति ब्राह्मण एव ब्रह्मवर्चसं दधाति तस्मात्पुरा ब्राह्मणो ब्रह्मवर्चसी जज्ञे॥
आ राष्ट्रे राजन्यः॥
शूर इषव्योऽतिव्याधी महारथो जायतामिति राजन्य एव शौर्यम् महिमानं दधाति तस्मात्पुरा राजन्यः शूर इषव्योऽतिव्याधी महारथो जज्ञे॥
दोग्ध्री धेनुरिति॥
धेन्वामेव पयो दधाति तस्मात्पुरा धेनुर्दोग्ध्री जज्ञे॥
वोढानड्वानिति॥
अनडुह्येव बलं दधाति तस्मात्पुरानड्वान्वोढा जज्ञे॥
आशुः सप्तिरिति॥
अश्व एव जवं दधाति तस्मात्पुराश्वः सर्ता जज्ञे॥
पुरन्धिर्येषेति॥
योषित्येव रूपं दधाति तस्माद्रूपिणी युवतिः प्रिया भावुका॥
जिष्णू रथेष्ठा इति॥
राजन्य एव जैत्रम् महिमानं दधाति तस्मात्पुरा राजन्यो जिष्णुर्जज्ञे॥
सभेयो युवेति॥
एष वै सभेयो युवा यः प्रथमवयसी तस्मात्प्रथमवयसी स्त्रीणाम् प्रियो भावुकः॥
आस्य यजमानस्य वीरो जायतामिति॥
यजमानस्यैव प्रजायां वीर्यं दधाति तस्मात्पुरेजानस्य वीरो जज्ञे॥
निकामे नः पर्जन्यो वर्षत्विति॥
निकामेनिकामे वै तत्र पर्जन्यो वर्षति यत्रैतेन यज्ञेन यजन्ते फलवत्यो न ओषधयः पच्यन्तामिति फलवत्यो वै तत्रौषधयः पच्यन्ते यत्रैतेन यज्ञेन यजन्ते योगक्षेमो नः कल्पतामिति योगक्षेमो वै तत्र कल्पते यत्रैतेन यज्ञेन यजन्ते तस्माद्यत्रैतेन यज्ञेन यजन्ते कॢप्तः प्रजानां योगक्षेमो भवति॥