०९

एतस्माद् वै यज्ञात् पुरुषो जायते ।
स यद् ध वा अस्मिं लोके पुरुषो ऽन्नम् अत्ति तद् एनम् अमुष्मिं लोके प्रत्यत्ति स वा एष परिस्रुतो यज्ञस् तायते ऽनाद्या वै ब्राह्मणेन परिस्रुत् स एतस्माद् अनाद्याज् जायते तᳪ हामुष्मिं लोके ऽन्नं न प्रत्यत्ति तस्माद् एष ब्राह्मणयज्ञ एव यत् सौत्रामणी ॥
तस्य लोमान्य् एव शष्पाणि ।
त्वक् तोक्मानि माᳪसं लाजा अस्थि कारोतरो मज्जा मासरᳪ रसः परिस्रुन् नग्नहुर् लोहितᳪ रेतः पयो मूत्रᳪ सुरोवध्यं बल्कसम् ॥
हॄदयम् एवास्यैन्द्रः पुरोडाशः ।
यकृत् सावित्रः क्लोमा वारुणो मतस्ने एवास्याश्वत्थं च पात्रम् औदुम्बरं च पित्तं नैयग्रोधम् आन्त्राणि स्थाल्यो गुदा उपशयानि श्येनपत्त्रे प्लीहासन्दी नाभिः कुम्भो वनिष्टुः प्लाशिः शतातृण्णा तद् यत् सा बहुधा वितृण्णा भवति तस्मात् प्लाशिर् बहुधा विकृत्तो मुखᳪ सतं जिह्वा पवित्रं चप्यं पायुर् वस्तिर् वालः ॥
अङ्गान्य् एवास्याश्विनः पशुः ।
आत्मा सारस्वती रूपम् ऐन्द्र ऋषभस् तस्माद् आहुर् गावः पुरुषस्य रूपम् इत्य् आयुर् हिरण्यं तच् छतमानं भवति तस्माच् छतायुः पुरुषः ॥
चक्षुषी एवास्याश्विनौ ग्रहौ ।
पक्ष्माणि गोधूमसक्तवश् च कुवलसक्तवश् च नासिके एवास्य सारस्वतौ ग्रहाव् अथ यानि नासिकयोर् लोमानि तान्य् उपवाकसक्तवश् च बदरसक्तवश् च श्रोत्रे एवास्यैन्द्रौ ग्रहाव् अथ यानि कर्णयोर् लोमानि यानि च भ्रुवोस् तानि यवसक्तवश् च कर्कन्धुसक्तवश् च ॥
अथ यान्य् उपस्थे लोमानि ।
यानि चाधस्तात् तानि वृकलोमान्य् अथ यान्य् उरसि लोमानि यानि च निकक्षयोस् तानि व्याघ्रलोमानि केशाश् च श्मश्रूणि च सिᳪहलोमानि ॥
त्रयः पशवो भवन्ति ।
त्रेधाविहितो वा अयं पुरुषस्यात्मात्मानम् एवास्य तै स्पृणोति यद् अवाङ् नाभेस् तद् आश्विनेन यद् ऊर्ध्वं नाभेर् अवाचीनᳪ शीर्ष्णस् तत् सारस्वतेन शिर ऐन्द्रेण यथारूपम् एव यथादेवतम् आत्मानं मृत्यो स्पृत्वामॄतं कुरुते ॥
त्रयः पुरोडाशा भवन्ति ।
त्रेदःविहितं वा इदं पुरुषस्य वयो वय एवास्य तै स्पृणोति पूर्ववयसम् एवैन्द्रेण मध्यवयसᳪ सावित्रेणोत्तमवयसं वारुणेन यथारूपम् एव यथादेवतं वयो मृत्यो स्पृत्वामॄतं कुरुते ॥
षड् ग्रहा भवन्ति ।
षड् वा इमे शीर्षन् प्राणाः प्राणान् एवास्य तै स्पृणोति चक्षुषी एवाश्विनाभ्यां नासिके सारस्वताभ्याᳪ श्रोत्रे ऐन्द्राभ्यां यथारूपम् एव यथादेवतम् आत्मानं मृत्यो स्पृत्वामॄतं कुरुते ॥
सन्तता याज्यापुरोऽनुवाक्या भवन्ति ।
समानदेवत्याः प्राणानाᳪ सन्तत्या अव्यवछेदाय सर्वाः पुरोऽनुवाया भवन्ति सर्वा याज्यास् तस्मात् प्राणाः सर्वे पराञ्चः सर्वे प्रत्यञ्चः सर्वाः प्रथमा भवन्ति सर्वा मध्यमाः सर्वा उत्तमास् तस्मात् प्राणाः सर्वे प्रथमाः सर्वे मध्यमाः सर्व उत्तमाः सर्वेषां ग्रहाणां द्वे याज्यापुरोऽनुवाक्ये भवतः प्राणोदानयोस् तद् रूपं प्राणोदानाव् एवावरुन्द्धे तस्मात् सर्वे प्राणाः प्राणोदानयोर् एव प्रतिष्ठिताः ॥
स वा एष आत्मैव यत् सौत्रामणी ।
मन एव प्रत्यक्षाद् वाग् यजमानस् तस्यात्मेव वेदिः प्रजोत्तरवेदिः पशवो बर्हिर् अङ्गान्य् ऋत्विजो ऽस्थीनीध्म आज्यं मज्जा मुखम् अग्निर् अन्नम् आहुतिर् वयः सᳪस्था तस्मात् सौत्रामण्येजानो वय उपगछति ॥
तद् यौ ह वा इमौ पुरुषाव् इवाक्ष्योः ।
एताव् एवाश्विनाव् अथ यत् कृष्णं तत् सारस्वतं यच् छुक्लं तद् ऐन्द्रं तद् यद् आश्विने पशौ सत्यथैता देवताः सह यजत्य् एतान्य् एवैतत् सार्धं कृत्वात्मन् धत्ते ॥
मन एवेन्द्रः ।
वाक् सरस्वती श्रोत्रे अश्विनौ यद् वै मनसा ध्यायति तद् वाचा वदति यद् वाचा वदति तत् कर्णाभ्याᳪ शृणोति तद् यत् सारस्वते पशौ सत्यथैता देवताः सह यजत्य् एतान्य् एवैतत् सार्धं कृत्वात्मन् धत्ते ॥
प्राण एवेन्द्रः ।
जिह्वा सरस्वती नासिके अश्विनौ यद् वै प्राणेनान्नम् आत्मन् प्रणयते तत् प्राणस्य प्राणत्वं जिह्वया वा अन्नस्य रसं विजानाति नासिके उ वै प्राणस्य पन्थास् तद् यद् ऐन्द्रे पशौ सत्यथैता देवताः सह यजत्य् एतान्य् एवैतत् सार्धं कृत्वात्मन् धत्ते ॥
हॄदयम् एवेन्द्रः ।
यकृत् सविता क्लोमा वरुणस् तद् यद् ऐन्द्रे पुरोडाशे सत्यथैता देवताः सह यजत्य् एतान्य् एवैतत् सार्धं कृत्वात्मन् धत्ते ॥
प्राण एव सविता ।
व्यानो वरुणः शिश्नम् इन्द्रो यद् वै प्राणेनान्नम् अत्ति तद् व्यानेन व्यनिति शिश्नेन वा अन्नस्य रसᳪ रेतः सिञ्चति तद् यत् सावित्रे पुरोडाशे सत्यथैता देवताः सह यजत्य् एतान्य् एवैतत् सार्धं कृत्वात्मन् धत्ते ॥
योनिर् एव वरुणः ।
रेत इन्द्रः सवितैव रेतसः प्रजनयिता तद् यद् वारुणे पुरोडाशे सत्यथैता देवताः सह यजत्य् एतान्य् एवैतत् सार्धं कृत्वात्मन् धत्ते स य एवम् एतद् वेदैता एव देवता अनुसम्भवत्य् एता देवता अनु प्रजायत आ प्रजया पशुभिः प्यायते प्रत्य् अस्मिं लोके तिष्ठत्य् अभि स्वर्गं लोकं जयति य एवं विद्वान्त् सौत्रामण्या यजते यो वैतद् एवं वेद ॥
अवभृथम् इष्ट्वा यन्ति ।
अवभृथं वै सोमेनेष्ट्वा यन्ति सोम एष यत् सौत्रामणी ॥
यद् देवा देवहेडनम् इति ।
देवकृताद् एवैनम् एनसो मुञ्चति यदि दिवा यदि नक्तम् इति यद् एवाहोरात्राभ्याम् एनः करोति तस्माद् एवैनं मुञ्चति यदि जाग्रद् यदि स्वप्न इति मनुष्या वै जागरितं पितरः सुप्तं मनुष्यकिल्विषाच् चैवैनं पितृकिल्विषाच् च मुञ्चति ॥
यद् ग्रामे यद् अरण्य इति ।
ग्रामे वा ह्य् अरण्ये वैनः क्रियते तस्माद् एवैनं मुञ्चति यत् सभायाम् इति सभ्याद् एवैनम् एनसो मुञ्चति यद् इन्द्रिय इति दैवाद् एवैनम् एनसो मुञ्चति यच् छूद्रे यद् अर्ये यद् एनश् चकमा वयं यद् एकस्याधि धर्मणि तस्यावयजनम् असीति सर्वस्माद् एवैनम् एतस्माद् एनसो मुञ्चति ॥
यद् आपो अघ्न्या इति ।
वरुणेति शपामहे ततो वरुण नो मुञ्चेति वरुण्याद् एवैनम् एनसो मुञ्चत्य् अवभृथ निचुम्पुण निचेर् उरसि निचुम्पुण इति यो ह वा अयम् अपाम् आवर्तः स हावभृथः स हैष वरुणस्य पुत्रो वा भ्राता वा तम् एवैतत् स्तौत्य् अव देवैर् देवकृतम् एनो यक्षीति देवकृतम् एवैनो ऽवयजते ऽव मर्त्यैर् मर्त्यकृतम् इति मर्त्यकृतम् एवैनो ऽवयजते पुरुराव्णो देव रिषस् पाहीति सर्वाभ्यो मार्तिभ्यो गोपायेत्य् एवैतद् आह ॥
समुद्रे ते हॄदयम् अप्स्व् अन्तर् इति ।
आपो वै समुद्रो रसो वा आपस् तद् एनम् एतेन रसेन सᳪसृजति सं त्वा विशन्त्व् ओषधीर् उताप इति तद् एनम् एतेनोभयेन रसेन सᳪसृजति यश् चौषधिषु यश् चाप्सु द्वौ विक्रमा उदङ्ङ् उत्क्रामत्य् एतावती वै मनुष्ये जूतिर् यावान् विक्रमस् तद् यावत्य् एवास्मिन् जूतिस् तयैव पाप्मानं विजहाति ॥
सुमित्रिया न आप ओषधयः सन्त्व् इति ।
अञ्जलिनाप उपाचति वज्रो वा आपो वज्रेणैवैतन् मित्रधेयं कुरुते दुर्मित्रियास् तस्मै सन्तु यो ऽस्मान् द्वेष्टि यं च वयं द्विष्म इति याम् अस्य दिशं द्वेष्यः स्यात् तां दिशं परासिञ्चेत् तेनैव तं पराभावयति ॥
द्रुपदाद् इव मुमुचानः ।
स्विन् नः स्नातो मलाद् इव पूतं पवित्रेणेवाज्यम् आपः शुन्धन्तु मैनस इति वासो ऽपप्लावयति यथेषीकां मुञ्जाद् विवृहेद् एवम् एनᳪ सर्वस्मात् पाप्मनो विवृहति स्नाति तम एवापहते ॥
उद् वयं तमसस् परीति ।
पाप्मा वै तमः पाप्मानम् एव तमो ऽपहते स्वः पश्यन्त उत्तरम् इत्य् अयं वै लोको ऽद्भ्य उत्तरो ऽस्मिन्न् एव लोके प्रतितिष्ठति देवं देवत्रा सूर्यम् अगन्म ज्योतिर् उत्तमम् इति स्वर्गो वै लोकः सूर्यो ज्योतिर् उत्तमᳪ स्वर्ग एव लोके ऽन्ततः प्रतितिष्ठत्य् अनपेक्षम् एत्याहवनीयम् उपतिष्ठते ॥
अपो अद्यान्वचारिषम् इति ।
अपाम् एव रसम् अवरुन्द्धे रसेन समसृक्ष्महीत्य् अपाम् एव रसम् आत्मन् धत्ते पयस्वान् अग्न आगमं तं मा सᳪसृज वर्चसा प्रजया च धनेन चेत्य् आशिषम् एवैतद् आशास्ते ॥
एधो ऽस्य् एधिषीमहीति समिधम् आदत्ते ।
एधो ह वा अग्नेः समित् समिद् असि तेजो ऽसि तेजो मयि धेहीत्य् आहवनीये समिधम् अभ्यादधात्य् अग्निम् एवैतया समिन्द्धे स एनᳪ समिद्धस् तेजसा समिन्द्धे ॥
आदित्यं चरुं यक्ष्यमाणो निर्वपति ।
आदित्यम् ईजान इयं वा अदितिर् अस्याम् एव यज्ञं तनुते ऽस्याम् इष्ट्वा प्रतितिष्ठति धेनुर् दक्षिणेयं वै धेनुर् इमाम् एव सर्वान् कामान् दुहे वत्सं पूर्वस्यां ददाति मातरम् उत्तरस्यां यदा वै वत्सो मातरं धयत्य् अथ सा प्रत्ता दुहे प्रत्ताम् एवेमाᳪ सर्वान् कामान् दुहे ॥
तद् आहुः ।
प्रेव वा एषो ऽस्माल् लोकाच् च्यवते यो ऽपो ऽवभृतम् अभ्यवैतीत्य् अवभृथाद् उदेत्य मैत्रावरुण्या पयस्यया यजते ऽयं वै लोको मित्रो ऽसौ वरुणो यद् एवेदम् अन्तरेण तत् पयस्या तद् यन् मैत्रावरुण्या पयस्यया यजत एष्व् एवैतल् लोकेषु प्रतितिष्ठति प्राणो वै मित्रो ऽपानो वरुणो ऽन्नम् एव पयस्या तद् यन् मैत्रावरुण्या पयस्यया यजते प्राण एवान्नाये ऽन्ततः प्रतितिष्ठति ॥
दुष्टरीतुर् ह पौᳪसायनः ।
दशपुरुषᳪराज्याद् अपरुद्ध आस रेवोत्तरसम् उ ह पाटवं चाक्रᳪ स्थपतिᳪ सॄञ्जया अपरुरुधुः ॥
स होवाच ।
दुष्टरीतुं पौᳪसायनᳪ सौत्रामण्या त्वा याजयानि यद् इदᳪ सॄञ्जयेषु राष्ट्रं तत् त्वयि धास्यामीति तथेति तयैनम् अयाजयत् ॥
तद् उ ह बल्हिकः प्रातिपीयः शुश्राव ।
कौरव्यो राजा यो ह वा अयं दुष्टरीतुः पौᳪसायनो दशपुरुषᳪराज्याद् अपरुद्धो ऽभूत् तम् अयं चाक्र स्थपतिः सौत्रामण्या याजयिष्यति यद् इदᳪ सॄञ्जयेषु राष्ट्रं तद् धास्मिन् धास्यतीति ॥
स होवाच ।
तन् न्वा अहं तं वेदिष्यामि यदि स तस्मिन् राष्ट्रं धास्यति बहिर्धा वैनᳪ राष्ट्राद् धास्यतीति स आजगाम यस्यां वेलायां ग्रहा गृह्यन्ते ॥
स होवाच ।
स्थपते चाक्र नाहवनीये सुरा होतव्येत्य् आहुर् नान्यत्राहवनीयाद् यद्य् आहवनीये सुराᳪ होष्यसि पापवस्यसं करिष्यसि जामि यज्ञस्य यद्य् अन्यत्राहवनीयाद् बहिर्धैनᳪ राष्ट्राद् धास्यसि नैनᳪ राष्ट्रे धास्यसि नास्मिन् राष्ट्र धास्यसीति ॥
स होवाच ।
नाहवनीये सुराᳪ होष्यामि नान्यत्राहवनीयान् न पापवस्यसं करिष्यामि न जामि यज्ञस्य नैनं बहिर्धा राष्ट्राद् धास्यामि राष्ट्र एनं धास्यामि राष्ट्रम् अस्मिन् धास्यामीति ॥
स होवाच ।
कथᳪ हि करिष्यसी३ इति स हैतद् उवाचासुरेषु वा एषो ऽग्रे यज्ञ आसीत् सौत्रामणी स देवान् उपप्रैत् सो ऽप आगछत् तम् आपः प्रत्यनन्दंस् तस्माद् उ श्रेयाᳪसम् आगतं प्रत्य् एव नन्दन्ति तᳪ होचुर् एह्य् एव भगव इति ॥
स होवाच ।
बिभेमि वै प्रणयत मेति कस्माद् भगवो बिभेषीत्य् असुरेभ्य इति तथेति तम् आपः प्राणयंस् तस्माद् यो वधत्रो भवति स बिभ्यतं प्रणयति यद् आपः प्राणयंस् तस्माद् आपः प्रणीतास् तत् प्रणीतानां प्रणीतात्वं प्रति ह तिष्ठति य एवम् एतत् प्रणीतानां प्रणीतात्वं वेद ॥
तद् इष्टाः प्रयाजा आसुः ।
अपर्यग्निकृतम् अथासुरा अन्वाजग्मुस् ते देवाः पर्यग्निनैवासुरान्त् सपत्नान् भ्रातृव्यान् यज्ञाद् अन्तरायंस् तथो एवैप एतत् पर्यग्निनैव द्विषन्तं भ्रातृव्यं यज्ञाद् अन्तरेति ॥
देवयोनिर् वा एष यद् आहवनीयः ।
तस्यैताव् अमृतपक्षौ याव् एताव् अभितो ऽग्नी तद् यद् आहवनीये यज्ञं तन्वते देवयोनाव् एवैतद् देवेभ्यो यज्ञं तन्वत उप हैनं पुनर्यज्ञो नमति नास्माद् यज्ञो व्यवछिद्यते य एवम् एतद् वेद यस्य वैवं विदुष एतत् कर्म क्रियते ॥
उत्तरे ऽग्नौ पयोग्रहान् जुह्वति ।
उत्तरे ऽग्नौ पशूञ् छ्रपयन्ति पशून् एव तन् मर्त्यान्त् सतो ऽमृतयोनौ दधाति मर्त्यान्त् सतो ऽमृतयोनेः प्रजनयत्य् अप ह वै पशूनां पुनर्मृत्युं जयति नास्माद् यज्ञो व्यवछिद्यते य एवम् एतद् वेद यस्य वैवं विदुष एतत् कर्म क्रियते ॥
दक्षिणे ऽग्नौ सुराग्रहान् जुह्वति ।
दक्षिणे ऽग्नौ पावयन्ति पवित्राभिस् त्रिषंयुक्ताभिः पित्q;न् एव तन् मर्त्यान्त् सतो ऽमृतयोनौ दधाति मर्त्यान्त् सतो ऽमृतयोनेः प्रजनयत्य् अप ह वै पित्qणां पुनर्मृत्युं जयति नास्माद् यज्ञो व्यवछिद्यते य एवम् एतद् वेद यस्य वैवं विदुष एतत् कर्म क्रियते ॥
तद् यद् एताव् अग्नी आहवनीयाद् विह्रियेते ।
तेनाहवनीयाव् अथ यद् आहवनीयं पुनर् नाश्नुवाते तेनानाहवनीयौ तेनोभौ होमा उपाप्नोति यश् चाहवनीये यश्चानाहवनीये यच् च हुतं यच् चाहुतम् पुनर् हायम् इत्वोवाच न तद् अस्मि यत् सॄञ्जयानाᳪ राष्ट्रं दुष्टरीतोस् तद् अद्य तथायं चाक्र स्थपतिर् यज्ञे ऽकर् इति ॥
उत्तरे ऽग्नौ पशुभिः पुरोडाशैः पयोग्रहैर् इति चरन्ति ।
यद् उ चान्यत् तेन देवान् एव तद् देवलोके प्रीणाति त एनं प्रीताः प्रीणत्य् अथो देवलोकम् एव जयति ॥
दक्षिणे ऽग्नौ सुराग्रहान् जुह्वति ।
दक्षिणे ऽग्नौ पावयन्ति पवित्राभिस् त्रिषंयुक्ताभिः पित्q;न् एव तत् पितृलोके प्रीणाति त एनं प्रीताः प्रीणन्त्य् अथो पितृलोकम् एव जयति ॥
स वा एष आत्मैव यत् सौत्रामणी ।
तस्मात् सा निरुक्ता निरुक्तो ह्य् आत्मा लोको वयोधास् तस्मात् सो ऽनिरुक्तो ऽनिरुक्तो हि लोक आत्मा वै यज्ञस्य सौत्रामणी बाहू ऐन्द्रश् च वयोधाश् च तद् यद् एताव् अभितः पशू भवतस् तस्माद् इमाव् आत्मानम् अभितो बाहू यथो वै पशुर् एवं यूपस् तद् यद् एतᳪ सौत्रामणिकं यूपम् एतौ यूपाव् अभितो भवतस् तस्माद् व् इमाव् आत्मानम् अभितो बाहू ॥