०८

इन्द्रस्य वै यत्र ।
इन्द्रियाणि वीर्याणि व्युदक्रामंस् तानि देवा एतेनैव यज्ञेन पुनः समदधुर् यत् पयोग्रहाश् च सुराग्रहाश् च गृह्यन्त इन्द्रियाण्य् एवास्मिंस् तद् वीर्याणि पुनः सन्दधत्य् उत्तरे ऽग्नौ पयोग्रहान् जुह्वति शुक्रेणैवैनं तत् सोमपीथेन समर्धयति ॥
स जुहोति ।
सुरावन्तं बर्हिषदᳪ सुवीरम् इति सुरावान् वा एष बर्हिषद् यज्ञो यत् सौत्रामणी बर्हिषैवैनं यज्ञेन समर्धयति यज्ञᳪ हिन्वन्ति महिषा नमोभिर् इत्य् ऋत्विजो वै महिषा यज्ञो नम ऋत्विग्भिर् एव यज्ञᳪ समर्धयति यज्ञेन यजमानं दधानाः सोमम् इति सोमपीथम् एवास्मिन् दधति दिवि देवतास्व् इति दिव्य् एवैनं देवतासु दधति मदेमेन्द्रम् इति मदाय वाव सोमो मदाय सुरोभाव् एव सोममदं च सुरामदं चावरुन्द्धे यजमानाः स्वर्का इत्य् अर्को वै देवानाम् अन्नम् अन्नं यज्ञो यज्ञेनैवैनम् अन्नाद्येन समर्धयति हुत्वा भक्षयन्ति समृद्धम् एवास्य तद् वर्धयन्ति ॥
स भक्षयति ।
यम् अश्विना नमुचेर् आसुराद् अधीत्य् अश्विनौ ह्य् एतं नमुचेर् अध्याहरताᳪ सरस्वत्य् असुनोद् इन्द्रियायेति सरस्वती ह्य् एतम् असुनोद् इन्द्रियायेमं तᳪ शुक्रं मधुमन्तम् इन्दुम् इति शुक्रो वा एष मधुमान् इन्दुर् यत् सोमः सोमᳪ राजानम् इह भक्षयामीति सोम एवास्य राजा भक्षितो भवति दक्षिणे ऽग्नौ सुराग्रहान् जुह्वति पाप्मनैवैनं तद् व्यावर्तयन्ति ॥
स जुहोति ।
यस् ते रसः सम्भृत ओषधीष्व् इत्य् अपां च वा एष ओषधीनां च रसो यत् सुरापां चैनम् एतद् ओषधीनां च रसेन समर्धयति सोमस्य शुष्मः सुरया सुतस्येति य एव सोमे शुष्मो यः सुरायां तम् एवावरुन्द्धे तेन जिन्व यजमानं मदेनेति तेन प्रीणीहि यजमानं मदेनेत्य् एवैतद् आह सरस्वतीम् अश्विनाव् इन्द्रम् अग्निम् इति देवताभिर् एव यज्ञᳪ समर्धयति देवताभिर् यज्ञन यजमानᳪ हुत्वा भक्षयन्ति व्यृद्धम् एवास्य तत् समर्धयति ॥
स भक्षयति ।
यद् अत्र रिप्तᳪ रसिनः सुतस्येति सुतासुतयोर् एव रसम् अवरुन्द्धे यद् इन्द्रो अपिबच् छचीभिर् इतीन्द्रो ह्य् एतद् अपिबच् छचीभिर् अहं तद् अस्य मनसा शिवेनेत्य् अशिव इव वा एष भक्षो यत् सुरा ब्राह्मणस्य शिवम् एवैनम् एतत् कृत्वात्मन् धत्ते सोमᳪ राजानम् इह भक्षयामीति सोम एवास्य राजा भक्षितो भवति ॥
तद् धैतद् अन्ये ऽध्वर्यवः ।
राजन्यं वा वैश्यं वा परिक्रीणन्ति स एतद् भक्षयिष्यतीति तद् उ तथा न कुर्याद् यो ह वा एतद् भक्षयति तस्य हैवं पित्q;न् पितामहान् एष सोमपीथो ऽन्वेति दक्षिणस्यैवाग्नेस् त्रीन् अङ्गारान् निर्वर्त्य बहिष्परिधि तद् एताभिर् व्याहृतिभिर् जुहुयात् ॥
पितॄभ्यः स्वधायिभ्यः स्वधा नम इति ।
पित्q;न् एव पितृलोके स्वधायां दधाति पितामहेभ्यः स्वधायिभ्यः स्वधा नम इति पितामहान् एव पितामहलोके स्वधायां दधाति प्रपितामहेभ्यः स्वधायिभ्यः स्वधा नम इति प्रपितामहान् एव प्रपितामहलोके स्वधायां दधाति ॥
अप आनीय निनयति ।
अक्षन् पितर इत्य् अन्नाद्यम् एवैषु दधात्य् अमीमदन्त पितर इति मदयत्य् एवैनान् अतीतृपन्त पितर इति तर्पयत्य् एवैनान् पितरः शुन्धध्वम् इत्य् अनुपूर्वम् एवैनान्त् सर्वान् पावयति पवित्रं वै सौत्रामणी ॥
त्रिभिः पवित्रैः पावयन्ति ।
त्रयो वा इमे लोकाः एभिर् एवैनं लोकैः पुनन्ति ॥
पावमानीभिः पावयन्ति ।
पवित्रं वै पावमान्यः पवित्रेणैवैनं पुनन्ति ॥
तिसॄभिस्तिसृभिः पावयन्ति ।
त्रयो वै प्राणाः प्राण उदानो व्यानस् तैर् एवैनं पुनन्ति ॥
नवभिः पावयन्ति ।
नव वै प्राणाः प्राणैर् एवैनं पुनन्ति प्राणेषु पुनः पूतं प्रतिष्ठापयन्ति ॥
पवित्रेण पावयन्ति ।
अजाविकस्य वा एतद् रूपं यत् पवित्रम् अजाविकेनैवैनं पुनन्ति ॥
वालेन पावयन्ति ।
गोऽश्वस्य वा एतद् रूपं यद् वालो गोऽश्वेनैवैनं पुनन्ति ॥
हिरण्येन पावयन्ति ।
देवानां वा एतद् रूपं यद् धिरण्यं देवानाम् एवैनं रूपेण पुनन्ति ॥
सुरया पावयन्ति ।
सुरा हि पूता पूतयैवैनं पुनन्ति तद् यथा सुरा पूयमाना बलसेन विविच्यत एवम् एवैतद् यजमानः सर्वस्मात् पाप्मनो निमुच्यते य एवं विद्वान्त् सौत्रामण्या यजते यो वैतद् एवं वेद ॥
तद् आहुः ।
याजयितव्यᳪ सौत्रामण्या३ न याजयितव्या३म् इत्य् अनन्तरायᳪ ह्य् एवास्मात् सर्वं पाप्मानम् अपघ्नन्तीति तद् उ ह स्माह रेवोत्तरा स्थपतिः पाटवश् चाक्रो ऽपि प्रदानं प्रदाय याजयितव्यम् एवात्मा वै यज्ञस्य यजमानो ऽङ्गान्य् ऋत्विजो यत्र वा आत्मा पूतः पूतानि तत्राङ्गान्य् उभय एव पुनत उभये पाप्मानम् अपघ्नते तस्माद् अप प्रदानं प्रदाय यजयितव्यम् एवेति ॥
पितृलोकं वा एते ऽन्ववयन्ति ।
ये दक्षिणे ऽग्नौ चरन्त्य् आज्याहुतिं जुहोति यज्ञो वा आज्यं यज्ञाद् एव यज्ञे प्रतितिष्ठन्ति ॥
स जुहोति ।
ये समानाः समनसः पितरो यमराज्ये तेषां लोकः स्वधा नमो यज्ञो देवेषु कल्पताम् इति पित्q;न् एव यमे परिददात्य् अथो पितृलोकम् एव जयति सर्वे यज्ञोपवीतानि कृत्वोत्तरम् अग्निम् उपसमायन्त्य् अयं वै लोक उत्तरो ऽग्निर् अस्मिन्न् एव लोके प्रतितिष्ठन्त्य् आज्याहुतिं जुहोति यज्ञो वा आज्यं यज्ञाद् एव यज्ञे प्रतितिष्ठन्ति ॥
स जुहोति ।
ये समानाः समनसो जीवा जीवेषु मामकाः ।
तेषाᳪ श्रीर् मयि कल्पताम् अस्मिं लोके शतᳪ समा इति स्वानाम् एव श्रियम् अवरुन्द्धे ऽथो ज्योग्जीवातुम् एवैषु दधाति पयः समन्वारब्धेषु जुहोति प्राणो वा अन्नं पयः प्राण एवान्नाद्ये ऽन्ततः प्रतितिष्ठन्ति ॥
स जुहोति ।
द्वे सृती अशृणवं पित्qणाम् अहम् इति द्वे वाव सृती इत्य् आहुर् देवानां चैव पित्qणां चेति ताभ्याम् इदं विश्वम् एजत् समेतीति ताभ्याᳪ होदᳪ सर्वम् एजत् समेति यद् अन्तरा पितरं मातरं चेत्य् असौ वै पितेयं माताभ्याम् एव पित्q;न् देवलोकम् अपिनयत्य् एकाकी हुतोच्छिष्टं भक्षयत्य् एकधैव श्रियम् आत्मन् धत्ते श्रीर् हि पयः ॥
स भक्षयति ।
इदᳪ हविः प्रजननं मे अस्त्व् इति प्रजननᳪ हि यदि पयो यदि सोमो दशवीरम् इति प्राणा वै दश वीराः प्राणान् एवात्मन् धत्ते सर्वगणम् इत्य् अङ्गानि वै सर्वे गणा अङ्गान्य् एवात्मन् धत्ते स्वस्तय आत्मसनीत्य् आत्मानम् एव सनोति प्रजासनीति प्रजाम् एव सनोति पशुसनीति पशून् एव सनोति लोकसनीति लोकाय वै यजते नमेव जयत्य् अभयसनीति स्वर्गो वै लोको ऽभयᳪ स्वर्ग एव लोके ऽन्ततः प्रतितिष्ठत्य् अग्निः प्रजां बहुलां मे करोत्व् अन्नं पयो रेतो ऽस्मासु धत्तेति तद् य एवैनम् एते याजयन्ति तान् एतद् आहैतन् मयि सर्वं धत्तेति हिरण्येन मार्जयन्ते ऽमॄतं वै हिरण्यम् अमॄत एवान्ततः प्रतितिष्ठन्ति ॥
प्रजापतिर् यज्ञम् असृजत ।
तम् आहरत् तेनायजत तेनेष्ट्वा रिरिचान इवामन्यत स एतं यज्ञक्रतुम् अपश्यत् सौत्रामणीं तेनायजत ततो वै स पुनर् आप्यायत रिच्यत इव वा एष यः सोमेन यजते वीव ह्य् अस्य वित्तं वेदो हरन्ति ॥
सोमेनेष्ट्वा सौत्रामण्या यजेत ।
यथा धेनुर् दुग्धा पुनर् आप्यायेतैवᳪ हैव पुनर् आप्यायत आ प्रजया पशुभिः प्यायते प्रत्य् अस्मिं लोके तिष्ठत्य् अभि स्वर्गं लोकं जयति य एवं विद्वान्त् सौत्रामण्या यजते यो वैतद् एवं वेद ॥
तद् धैतत् पप्रछ ।
सुप्ला सार्ञ्जयः प्रतीदर्शमैभावतं यन् न दीक्षयेव दीक्षते न सोमाᳪशव इव न्युप्यन्ते ऽथ कथᳪ सौत्रामणी सोमयज्ञो भवतीति ॥
स होवाच ।
शिरो वा एतद् यज्ञस्य यद् व्रतम् आत्मा दीक्षैतत् खलु वै व्रतस्य रूपं यत् सत्यम् एतद् दीक्षायै यच् छ्रद्धा मनो यजमानस्य रूपं वाग् यज्ञस्येति ॥
स यद् वाचा व्रतम् उपैति ।
आत्मन्य् एवैतद् यज्ञस्य शिरः प्रतिदधाति सत्यᳪ श्रद्धायां दधाति यजमानं यज्ञे ॥
तस्माद् एतस्य यज्ञस्य ।
व्रतम् एव दीक्षा वॄषो वै व्रतं योषा दीक्षा वॄषा सत्यं योषा श्रद्धा वॄषा मनो योषा वाग् वॄषा पत्न्यै यजमानस् तस्माद् यत्रैव पतिस् तत्र जायाथो यज्ञमुख एव तन् मिथुनानि करोति प्रजात्यै ॥
एते खलु वा एतस्य यज्ञस्य ।
सोमाᳪशव इत्य् आहुर् यच् छष्पाणि तोक्मानि लाजा इति ॥
प्रातःसवनस्यैतद् रूपम् ।
यच् छष्पाण्य् अयं वै लोकः प्रातःसवनᳪ स आश्विन आश्विनेन पयसा प्रथमाᳪ रात्रिं परिषिञ्चति स्वेनैवैनम् एतल् लोकेन स्वया देवतया स्वेन रूपेण प्रातःसवनेन समर्धयति ॥
माध्यन्दिनस्यैतत् सवनस्य रूपम् ।
यत् तोक्मान्य् अन्तरिक्षं वै माध्यन्दिनᳪ सवनं तत् सारस्वतᳪ सारस्वतेन पयसा द्वितीयाᳪ रात्रिं परिषिञ्चति स्वेनैवैनम् एतल् लोकेन स्वया देवतया स्वेन रूपेण माध्यन्दिनेन सवनेन समर्धयति ॥
तृतीयसवनस्यैतद् रूपम् ।
यल् लाजा द्यौर् वै तृतीयसवनᳪ सैन्द्र्यैन्द्रेण पयसा तृतीयाᳪ रात्रिं परिषिञ्चति स्वेनैवैनम् एतल् लोकेन स्वया देवतया स्वेन रूपेण तृतीयसवनेन समर्धयति ॥
एकस्यै दुग्धेन ।
प्रथमाᳪ रात्रिं परिषिञ्चति द्वयोर् दुग्धेन द्वितीयां तिसृणां दुग्धेन तृतीयां यथारूपम् एवैनं यथादेवतᳪ सवनैः समर्धयति ॥
परीतो षिञ्चता सुतम् इति ।
परिषिञ्चति सुत्यायै सोमो य उत्तमᳪ हविर् इत्य् उत्तमं वा एतद् धविर् यत् सोम उत्तमम् एवैनᳪ हविष् करोति दधन्वा यो नर्यो अप्स्व् अन्तरेत्य् अद्भिश् च ह्य् एषो ऽन्तरेण च सूयते सुषाव सोमम् अद्रिभिर् इत्य् अद्रिभिर् वै सोमः सूयते ऽद्रिभिर् एवैनᳪ सुनोति सोमसुत्यायै ॥
तद् आहुः ।
उभयोर् वा एतद् रूपᳪ सुतस्य चासुतस्य व यत् सौत्रामण्य् अपाम् एष ओषधीनाᳪ रसो यत् पयस् तत् सुतस्य रूपम् अन्नस्यैष रसो यत् परिस्रुत् तद् आसुतस्य रूपम् उभाभ्याम् एवैनँ सवाभ्याँ सुनोत्य् उभाभ्याँ सवाभ्याम् अवरुन्द्धे ॥
तद् आहुः ।
यद् ग्रावभिः सोमः सूयते ऽथ कथँ सौत्रामणीति प्रैषाप्रीभिर् इति ब्रूयाद् बार्हता वै प्रैषा बार्हता ग्रावाणो ग्रावभिर् वै सोमः सूयते ग्रावभिर् एवैनँ सुनोति सोमसुत्यायै ॥
सर्वे पयस्वन्तो भवन्ति ।
पयसा हि सूयते सर्वे सोमवन्तो भवन्ति सोमरूपतायै सर्वे परिस्रुन्मन्तो भवन्ति परिस्रुता हि सूयते सर्वे घृतवन्तो भवन्त्य् एतद् वै प्रत्यक्षाद् यज्ञरूपं यद् घृतं प्रत्यक्षाद् एवैनं यज्ञरूपं करोति सर्वे मधुमन्तो भवन्त्य् एतद् वै प्रत्यक्षात् सोमरूपं यन् मधु प्रत्यक्षाद् एवैनँ सोमरूपं करोति ॥
सर्व आश्विना भवन्ति ।
भैषज्याय सर्वे सारस्वता अन्नाद्यस्येवावरुद्ध्यै सर्व ऐन्द्रा इन्द्रियस्यैव वीर्यस्यावरुद्ध्यै ॥
यद् व् एव सर्व आश्विना भवन्ति ।
सर्वे सारस्वताः सर्व ऐन्द्रा एता वा एतं देवता अग्रे यज्ञँ समभरंस् ताभिर् एवैनँ सम्भरत्य् अथो एता एवैतद् देवता भागधेयेन समर्धयति ॥
सन्तता याज्यापुरोऽनुवाक्या भवन्ति ।
समानदेवत्याः प्रजानाँ सन्तत्या अव्यवच्छेदाय सर्वा आश्विन्यो भवन्ति सर्वाः सारस्वत्यः सर्वा ऐन्द्र्यः समानी बन्धुता ॥
अनुष्टुभ आप्रियो भवन्ति वाग्वा अनुष्टुब्वाचो वै सोमः सूयते वाचैवैनँ सुनोति सोमसुत्यायै सर्वा आश्विन्यो भवन्ति सर्वाः सारस्वत्यः सर्वा ऐन्द्र्यः समानी बन्धुता ॥
जागता अनुप्रैषा भवन्ति ।
इयं वै जगत्यनया वै सोमः सूयते ऽनयैवैनँ सुनोति सोमसुत्यायै सर्व आश्विना भवन्ति सर्वे सारस्वताः सर्व ऐन्द्राः समानी बन्धुता ॥
स वा एष प्रत्यक्षात् सोमयज्ञ एव यत् सौत्रामणी ।
तं यद्य् एकाकी यजमानो भक्षयेद् इष्टिर् वैव स्यात् पशुबन्धो वा सर्व ऋत्विजो भक्षयन्ति सर्वे वा ऋत्विजः सोमं भक्षयन्ति सोमरूपतायै ॥
आश्विनम् अध्वर्यवो भक्षयन्ति ।
अश्विनौ वै देवानाम् अध्वर्यू स्वम् एवैतद् भागधेयह्ँ स्व आयतने भक्षयन्ति ॥
सारस्वतँ होता ब्रह्मा मैत्रावरुणः ।
वाग् वै यज्ञस्य होता हॄदयं ब्रह्मा मनो मैत्रावरुणः स्वम् एवैतद् भागधेयह्ँ स्व आयतने भक्षयन्ति ॥
ऐन्द्रं यजमानो भक्षयति ।
ऐन्द्रो वा एष यज्ञो यत् सौत्रामणीन्द्रायतन एष एतर्हि यो यजते स्वम् एवैतद् भागधेयँ स्व आयतने भक्षयति ॥
चक्षुर् वा आश्विनो ग्रहः ।
प्राणः सारस्वतो वाग् ऐन्द्र आश्विनात् सारस्वते ऽवनयति चक्षुर् एवास्य तत् प्राणैः सन्दधाति सारस्वताद् ऐन्द्रे प्राणान् एवास्य तद् वाचा सन्दधात्य् अथो प्राणान् एवास्य तद् वाचि प्रतिष्ठापयति तस्मात् सर्वे प्राणा वाचि प्रतिष्ठिताः ॥
त्रय आश्विनं भक्षयन्ति ।
अध्वर्युः प्रतिप्रस्थाताग्नीध्रस् त्रिवॄद् वा इदं चक्षुः शुक्लं कृष्णं कनीनका यथारूपम् एवास्मिंश् चक्षुर् दधाति ॥
त्रयः सारस्वतँ ।
होता ब्रह्मा मैत्रावरुणस् त्रेधाविहितो वा अयं प्राणः प्राण उदानो व्यान इति यथारूपम् एवास्मिन् प्राणं दधाति ॥
एकाक्यैन्द्रं यजमानो भक्षयति ।
एकधा वा एषा प्राणानाँ श्रीर् यद् वाग् एकधैव वाचँ श्रियम् आत्मन् धत्ते तस्मात् सौत्रामण्येजान एकधा स्वानाँ श्रेष्ठो भवत्य् अथो य एवम् एतद् वेद ॥
ऋतवो वा ऋत्विजः ।
मासा भक्षाः षड् ऋत्विजो भक्षयन्ति षड् वा ऋतव ऋत्विग्भिर् एवर्तून् अवरुन्द्धे ॥
द्वादश भक्षा भवन्ति ।
द्वादश मासा भक्षैर् एव मासान् अवरुन्द्धे पुनःपुनर् अभिनिर्वर्तम् ऋत्विजो भक्षयन्ति तस्माद् ऋतवश् च मासाश् चान्योऽन्यम् अभिनिवर्तन्ते ॥
त्रयोदशं यजमानो भक्षयति ।
यो ह वा एष त्रयोदशो मास एष एव प्रत्यक्षात् संवत्सर एतम् एवाप्त्वावरुन्द्धे स वा एष संवत्सर एव यत् सौत्रामणी तेन सर्वं जयति सर्वम् अवरुन्द्धे ॥
त्रयः पशवो भवन्ति ।
त्रयो वा इमे लोका इमान् एव तैर् लोकान् अवरुन्द्ध इमम् एव लोकम् आश्विनेनान्तरिक्षँ सारस्वतेन दिवम् ऐन्द्रेण यथारूपम् एव यथादेवतम् इमां लोकान् जयति चाव च रुन्द्धे ॥
त्रयः पुरोडाशा भवन्ति ।
त्रयो वा ऋतव ऋतून् एवैतैर् अवरुन्द्धे ग्रीष्मम् एवैन्द्रेण वर्षाः सावित्रेण हेमन्तं वारुणेन यथारूपम् एव ययादेवतम् ऋतून् जयति चाव च रुन्द्धे ॥
षड् ग्रहा भवन्ति ।
षड् वा ऋतव ऋतून् एवैतैर् अवरुन्द्धे वसन्तग्रीष्माव् एवाश्विनाभ्यां वर्षाशरदौ सारस्वताभ्याँ हेमन्तशिशिराव् ऐन्द्राभ्यां यथारूपम् एव यथादेवतम् ऋतून् जयति चाव च रुन्द्धे ॥
सन्तता याज्यापुरोऽनुवाक्या भवन्ति ।
समानदेवत्या ऋतूनाँ सन्तत्या अव्यवच्छेदाय सर्वाः पुरोऽनुवाक्या भवन्ति सर्वा याज्यास् तस्माद् ऋतवः सर्वे पराञ्चः सर्वे प्रत्यञ्चः सर्वाः प्रथमा भवन्ति सर्वा मध्यमाः सर्वा उत्तमास् तस्माद् ऋतवः सर्वे प्रथमाः सर्वे मध्यमाः सर्व उत्तमाः सर्वेषां ग्रहाणां द्वे याज्यापुरोऽनुवाक्ये भवतो ऽहोरात्रयोस् तद् रूपम् अहोरात्रे एवावरुन्द्धे तस्माद् ऋतवश् च मासाश् चाहोरात्रयोर् एव प्रतिष्ठिताः ॥
स वा एष संवत्सर एव यत् सौत्रामणी ।
चन्द्रमा एव प्रत्यक्षाद् आदित्यो यजमानस् तस्येयम् एव पृथिवी वेदिर् अन्तरिक्षम् उत्तरवेदिर् द्यौर् बर्हिर् दिश ऋत्विजो वनस्पतय इध्म आप आज्यम् ओषधय आहुतयो ऽग्निर् एवाग्निः संवत्सरः सँस्था तद् वा इदँ सर्वँ संवत्सर एव यद् इदं किं च तस्मात् सौत्रामण्येजानः सर्वं जयति सर्वम् अवरुन्द्धे ॥
त्वष्टा हतपुत्रः ।
अभिचरणीयम् अपेन्द्रँ सोमम् आहरत् तस्येन्द्रो यज्ञवेशसं कृत्वा प्रासहा सोमम् अपिबत् स विष्वङ् व्यार्छत् तस्य मुखात् प्राणेभ्यः श्रीयशसान्य् ऊर्ध्वान्य् उदक्रामंस् तानि पशून् प्राविशंस् तस्मात् पशवो यशो यशो ह भवति य एवं विद्वान्त् सौत्रामण्याभिषिच्यते ॥
ततो ऽस्मा एतम् अश्विनौ च सरस्वती च ।
यज्ञँ समभरन्त् सौत्रामणीं भैषज्याय तयैनम् अभ्यषिञ्चंस् ततो वै स देवानाँ श्रेष्ठो ऽभवच् छ्रेष्ठः स्वानां भवति य एनयाभिषिच्यते ॥
कृष्णाजिने ऽभिषिञ्चति ।
यज्ञो वै कृष्णाजिनं यज्ञ एवैनम् एतद् अभिषिञ्चति लोमतश् छन्दाँसि वै लोमानि छन्दःस्व् एवैनम् एतद् अभिषिञ्चति ॥
आसन्द्याम् अभिषिञ्चति ।
आसन्दीसद् वै साम्राज्यँ साम्राज्येनैवैनँ साम्राज्यं गमयति ॥
औदुम्बरी भवति ।
ऊर्ग् वा उदुम्बर ऊर्ज्य् एवाध्यभिषिच्यते जानुसमिता भवति जानुसम्मितो वा अयं लोको ऽस्मा उ वै लोकाय क्षत्रियो ऽभिषिच्यते क्षत्रम् उ वा एष भवति यः सौत्रामण्याभिषिच्यते तस्माज् जानुसम्मितापरिमिता तिरश्ची ॥
राष्ट्रं वा आसन्दी ।
अपरिमितसमृद्धम् उ वै राष्ट्रं मुञ्जविवयना भवति यज्ञिया हि मुञ्जा द्वा उत्तरस्यां वेद्यां पादौ भवतो द्वौ दक्षिणस्याम् अयं वै लोक उत्तरा वेदिर् दक्षिणा पितृलोकस् तद् एनम् उभयोर् लोकयोर् अध्य् अभिषिञ्चति ॥
एतद् ध स्म वै तद् विद्वान् आह ।
गौरीवितिः शाक्त्यः क्षत्रम् इवाह किल वयम् अमुष्मिं लोके भविता स्म इति शश्वद् धास्मा ऋषभो याज्ञतुरः प्रोवाच श्विक्नानाँ राजा ॥
स आसन्दीम् आस्तृणाति ।
क्षत्रस्य योनिर् असि क्षत्रस्य नाभिर् असीति क्षत्रस्य वा एषा योनिः क्षत्रस्य नाभिः ॥
अथैनां कृष्णाजिनेनास्तृणाति ।
मा त्वा हिँसीन् मा मा हिँसीर् इति यज्ञो वै कृष्णाजिनं यज्ञस्य चैवात्मनश् चाहिँसायै ॥
अथाधिरोहति ।
वारुण्यर्चा वरुणो वै देवानाँ राजा स्वयैवैनम् एतद् देवतयाभिषिञ्चति निषसाद धृतव्रतो वरुणः पस्त्यास्व् आ ।
साम्राज्याय सुक्रतुर् इति ॥
अथ सुवर्णरजतौ रुक्मौ व्युपास्यति ।
मृत्योः पाहि विद्योत् पाहीति वॄष्टिर् वै विराट् तस्या एते घोरे तन्वौ विद्युच् च ह्रादुनिश् च ततः सुवर्ण एव रुक्मो विद्युतो रूपँ रजतो ह्रादुनेस् ताभ्याम् एवास्मै देवताभ्याँ शर्म यछति तस्मात् सौत्रामण्येजानस्यैताभ्यां देवताभ्यां न शङ्का भवत्य् अथो य एवम् एतद् वेद ॥
पशूनां वसयाभिषिञ्चति ।
श्रीर् वै पशूनां वसा श्रियैवैनम् एतत् पशूनाँ रसेनाभिषिञ्चत्य् अथो परमं वा एतद् अन्नाद्यं यद् वसा परमेणैवैनम् एतद् अन्नाद्येनाभिषिञ्चति ॥
शफग्रहा भवन्ति ।
शफैर् वै पशवः प्रतितिष्ठन्ति प्रतिष्ठाम् एवैनं गमयति त्रयस्त्रिँशद् ग्रहा भवन्ति त्रयस्त्रिँशद् वै सर्वा देवताः सर्वाभिर् एवैनम् एतद् देवताभिर् अभिषिञ्चति जगतीभिर् जुहोति जागता वै पशवो जगत्यैवास्मै पशून् अवरुन्द्धे षोडशभिर् ऋग्भिर् जुहोति षोडशकला वै पशवो ऽनुकलम् एवास्मिन् छ्रियं दधति ॥
सीसेन तन्त्रं मनसा मनीषिण इति ।
द्वौद्वौ समासँ हुत्वा सते सँस्रवान्त् समवनयत्य् अहोरात्राण्य् एवैतद् अर्धमासान् मासान् ऋतून्त् संवत्सरे प्रतिष्ठापयति तानीमान्य् अहोरात्राण्य् अर्धमासा मासा ऋतवः संवत्सरे प्रतिष्ठिताः ॥
वैतसः सतो भवति ।
अप्सुयोनिर् वै वेतस आपो वै सर्वा देवताः सर्वाभिर् एवैनम् एतद् देवताभिर् अभिषिञ्चति ॥
सर्वसुरभ्य् उन्मर्दनं भवति ।
परमो वा एष गन्धो यत् सर्वसुरभ्य् उन्मर्दनं गन्धेनैवैनम् एतद् अभिषिञ्चति ॥
पुरस्ताद् प्रत्यङ्ङ् अभिषिञ्चति ।
पुरस्ताद् धि प्रत्यग् अन्नम् अद्यते शीर्षतः शीर्षतो ह्य् अन्नम् अद्यत आ मुखाद् अन्ववस्रावयति मुखेन ह्य् अन्नम् अद्यते सर्वतः परिक्रामँ सर्वाभ्य एवास्मिन्न् एतद् दिग्भ्यो ऽन्नाद्यं दधाति तस्मात् सौत्रमण्येजानस्य सर्वासु दिक्ष्व् अन्नाद्यम् अवरुद्धं भवत्य् अथो य एवम् एतद् वेद ॥
आश्विनेन प्रथमेन यजुषाभिषिञ्चति ।
अथ सारस्वतेनाथैन्द्रेणैताभिर् एवैनम् एतद् देवताभिर् अभिषिञ्चति तँ हैक एताभिश् च देवताभिर् अभिषिञ्चन्ति भूर् भुवः स्वर् इत्य् एताभिर् उ च व्याहृतिभिर् एता वै व्याहृतय इदँ सर्वं तद् एनम् अनेन सर्वेणाभिषिञ्चाम इति न तथा कुर्याद् एताभिर् एवैनं देवताभिर् अभिषिञ्चेद् एता उ ह्य् एव देवता इदँ सर्वम् ॥
पुरस्तात् स्विष्टकॄतो ऽभिषिञ्चति ।
क्षत्रं वै स्विष्टकॄत् क्षत्रेणैवैनम् एतद् अभिषिञ्चत्य् अन्तरा वनस्पतिं च स्विष्टकॄतं चाभिषिञ्चति सोमो वै वनस्पतिर् अग्निः स्विष्टकॄद् अग्नीषोमाभ्याम् एवैनम् एतत् परिगॄह्याभिषिञ्चति तस्माद् ये चैतद् विदुर् ये च न त आहुः क्षत्रियो वाव क्षत्रियस्याभिषेक्तेति ॥
अथैनं जानुमात्रे धारयन्ति ।
अथ नाभिमात्रे ऽथ मुखमात्र एष्व् एवास्मा एतल् लोकेष्व् आयतनानि कल्पयत्य् अभिषेको वा एष यद् वाजपेयम् अभिषेकः सौत्रामणी तद् यथैवादो वाजपेये यूपँ रोहति तद् एवैतद् रूपं क्रियते ॥
तद् आहुः ।
प्रेव वा एषो ऽस्माल् लोकाच् च्यवते यः सौत्रामण्याभिषिच्यत इति कृष्णाजिने प्रत्यवरोहति यज्ञो वै कृष्णाजिनं यज्ञ एवान्ततः प्रतितिष्ठति ॥
प्रति क्षत्रे प्रति तिष्ठामि राष्ट्र इति ।
क्षत्र एव राष्ट्रे प्रतितिष्ठति क्षत्राद् राष्ट्राद् अप्रभ्रँशाय प्रत्य् अश्वेषु प्रति तिष्ठामि गोष्व् इति गोऽश्व एव प्रतितिष्ठैत् गोऽश्वाद् अप्रभ्रँशाय प्रत्य् अङ्गेषु प्रति तिष्ठाम्य् आत्मन्न् इत्य् अङ्गेष्व् एवात्मन् प्रतितिष्ठत्य् अङ्गेभ्य आत्मनो ऽप्रभ्रँशाय प्रति प्राणेषु प्रतितिष्ठामि पुष्ट इति प्राणेष्व् एव पुष्टे प्रतितिष्ठति प्राणेभ्यः पुष्टाद् अप्रभ्रँशाय प्रति द्यावापृथिव्योः प्रतितिष्ठामि यज्ञ इति तद् अनयोर् द्यावापृथिव्योः प्रतितिष्ठति ययोर् इदँ सर्वम् अधि ॥
अथ साम गायति ।
क्षत्रं वै साम क्षत्रेणैवैनम् एतद् अभिषिञ्चत्य् अथो साम्राज्यं वै साम साम्राज्येनैवैनँ साम्राज्यं गमयति सर्वेषां वा एष वेदानाँ रसो यत् साम सर्वेषाम् एवैनम् एतद् वेदानाँ रसेनाभिषिञ्चति ॥
बृहत्यां गायति ।
बृहत्यां वा असाव् आदित्यः श्रियां प्रतिष्ठायां प्रतिष्ठितस् तपति बृहत्याम् एवैनम् एतच् छ्रियां प्रतिष्ठायां प्रतिष्ठापयति ॥
ऐन्द्र्यां बृहत्यां गायति ।
ऐन्द्रो वा एष यज्ञो यत् सौत्रामणीन्द्रायतन एष एतर्हि यो यजते स्व एवैनम् एतद् आयतने ऽभिषिञ्चति ॥
अथ यस्मात् सँशानानि नाम ।
एतैर् वै सामभिर् देवा इन्द्रम् इन्द्रियाय वीर्याय समश्यंस् तथो एवैतम् ऋत्विजो यजमानम् एतैर् एव सामभिर् इन्द्रियाय वीर्याय सँश्यन्ति सँश्रवसे विश्रवसे स्तयश्रवसे श्रवस् इति सामानि भवन्त्य् एष्व् एवैनम् एतल् लोकेषु श्रावयन्ति चतुर्निधनं भवति चतस्रो वै दिशः सर्वास्व् एवैनम् एतद् दिक्षु प्रतिष्ठापयन्ति सर्वे निधनम् उपावयन्ति संविदाना एवास्मिञ् छ्रियं दधति ॥
तद् आहुः ।
यद् एतत् साम गीयते ऽथ क्वैतस्य सामन् उक्थं का प्रतिष्ठा व्यृद्धँ हि तद् यत् स्तुतम् अननुशस्तम् इति ॥
त्रया देवा एकादशेति ।
एतद् वा एतस्य साम्न उक्थम् एष प्रतिष्ठा ॥
अथो त्रया देवा एकादशेति त्रयस्त्रिँशं ग्रहं जुहोति त्रया हि देवा एकादश त्रयस्त्रिँशाः सुराधस इत्य् एवैतद् आह देवस्य सवितुः सव इति देवेन सवित्रा प्रसूता इत्य् एवैतद् आह देवा देवैर् अवन्तु मेति देवा ह्य् एतं देवैर् अभिषिञ्चन्ति ॥
प्रथमा द्वितीयैर् इति प्रथमा ह्य् एतं द्वितीयैर् अभिषिञ्चन्ति द्वितीयास् तृतीयैर् इति द्वितीया ह्य् एतं तृतीयैर् अभिषिञ्चन्ति तृतीयाः सत्येनेति तृतीया ह्य् एतँ सत्येनाभिषिञ्चन्ति सत्यं यज्ञेनेति सत्यँ ह्य् एतं यज्ञेनाभिषिञ्चति यज्ञो यजुर्भिर् इति यज्ञो ह्य् एतं यजुर्भिर् अभिषिञ्चति यजूँषि सामभिर् इति यजूँषि ह्य् एतँ सामभिर् अभिषिञ्चन्ति सामान्य् ऋग्भिर् इति सामानि ह्य् एतम् ऋग्भिर् अभिषिञ्चन्त्य् ऋचः पुरोऽनुवाक्याभिर् इत्य् ऋचो ह्य् एतं पुरोऽनुवाक्याभिर् अभिषिञ्चन्ति पुरोऽनुवाक्या याज्याभिर् इति पुरोऽनुवाक्या ह्य् एतं याज्याभिर् अभिषिञ्चन्ति याज्या वषट्कारैर् इति याज्या ह्य् एतं वषट्कारैर् अभिषिञ्चन्ति वषट्कारा आहुतिभिर् इति वषट्कारा ह्य् एतम् आहुतिभिर् अभिषिञ्चन्त्य् आहुतयो मे कामान्त् समर्धयन्तु भूः स्वाहेति तद् एनम् एताभिर् देवताभिः परोऽवरम् अभिषिच्याथास्मा आहुतिभिः सर्वान् कामान्त् समर्धयत्य् अथर्त्विक्षूपहवम् इष्ट्वा भक्षयत्य् ऋतवो वा ऋत्विज ऋतुष्व् एवैतद् उपहवम् इछते ॥
स भक्षयति ।
लोमानि प्रयतिर् मम त्वङ् म आनतिर् आगतिः ।
माँसं म उपनतिर् वस्व् अस्थि मज्जा म आनतिर् इति प्रेव वा एष लोकाँश् च देवताश् च विशति य सौत्रामण्याभिषिच्यते तद् एतद् अवान्तराम् आत्मानम् उपह्वयते तथा कृत्स्न एव सर्वतनूः साङ्गः सम्भवति ॥