०७

विश्वरूपं वै त्वाष्ट्रम् इन्द्रो ऽहन् ।
तं त्वष्टा हतपुत्रो ऽभ्यचरत् सो ऽभिचरणीयम् अपेन्द्रᳪ सोमम् आहरत् तस्येन्द्रो यज्ञवेशसं कृत्वा प्रासहा सोमम् अपिबत् स विष्वङ् व्यार्छत् तस्येन्द्रियं वीर्यम् अङ्गादङ्गाद् अस्रवत् ॥
तस्याक्षिभ्याम् एव तेजो ऽस्रवत् ।
सो ऽजः पशुर् अभवद् धूम्रो ऽथ यत् पक्ष्मभ्यस् ते गोधूमा यद् अश्रुभ्यस् तत् कुवलम् ॥
नासिकाभ्याम् एवास्य वीर्यम् अस्रवत् ।
सो ऽविः पशुर् अभवन् मेषो ऽथ यच् छलेष्मणस् ता उपवाका यत् स्नीहा तद् बदरं ॥
मुखाद् एवास्य बलम् अस्रवत् ।
स गौः पशुर् अभवद् ऋषभो ऽथ ये फेनास् ते यवा यत् स्नेहस् तत् कर्कन्धु ॥
श्रोत्राद् एवास्य यशो ऽस्रवत् ।
तद् एकशफम् अभवद् अश्वो ऽश्वतरो गर्दभः ॥
स्तनाभ्याम् एवास्य शुक्रम् अस्रवत् ।
तत् पयो ऽभवत् पशुनां ज्योतिर् उरस एवास्य हॄदयात् त्विषिर् अस्रवत् स श्येनो ऽपाष्ठिहाभवद् वयसाᳪ राजा ॥
नाभ्या एवास्य शूषो ऽस्रवत् ।
तत् सोसम् अभवन् नायो न हिरण्यᳪ रेतस एवास्य रूपम् अस्रवत् तत् सुवर्णᳪ हिरण्यम् अभवच् छिश्नाद् एवास्य रसो ऽस्रवत् सा परिस्रुद् अभवत् स्फिगीभ्याम् एवास्य भामो ऽस्रवत् सा सुराभवद् अन्नस्य रसः ॥
मूत्राद् एवास्यौजो ऽस्रवत् ।
स वॄको ऽभवद् आरण्याणां पशूनां जूतिर् ऊवध्याद् एवास्य मन्युर् अस्रवत् स व्याघ्रो ऽभवद् आरण्याणां पशूनाᳪ राजा लोहिताद् एवास्य सहो ऽस्रवत् स सिᳪहो ऽभवद् आरण्यानां पशूनाम् ईशः ॥
लोमभ्य एवास्य चित्तम् अस्रवत् ।
ते श्यामाका अभवंस् त्वच एवास्यापचितिर् अस्रवत् सो ऽश्वत्थो वनस्पतिर् अभवन् माᳪसेभ्य एवास्योर्ग् अस्रवत् स उदुम्बरो ऽभवद् अस्थिभ्य एवास्य स्वधास्रवत् स न्यग्रोधो ऽभवन् मज्जभ्य एवास्य भक्षः सोमपीथो ऽस्रवत् ते व्रीहयो ऽभवन्न् एवम् अस्येन्द्रियाणि वीर्याणि व्युदक्रामन् ॥
अथ ह वै तर्हि ।
नमुचिनैवासुरेण सह चचार स ऐक्षत नमुचिर् अपुनर्वा अयम् अभूद् धन्तास्येन्द्रियं वीर्यᳪ सोमपीथम् अन्नाद्यᳪ हराणीति तस्यैतयैव सुरयेन्द्रियं वीर्यᳪ सोमपीथम् अन्नाद्यम् अहरत् स ह न्यर्णः शिश्ये तं देवा उपसञ्जग्मिरे श्रेष्ठो वै नो ऽयम् अभूत् तम् इमं पाप्माविदद् धन्तेमं भिषज्यामेति ॥
ते ऽश्विनाव् अब्रुवन् ।
युवं वै ब्रह्माणौ भिषजौ स्थो युवम् इमं भिषज्यतम् इति ताव् अब्रूताम् अस्तु नौ भाग इति ते ऽब्रुवन् य एषो ऽजः स वां भाग इति तथेति तस्माद् आश्विनो धूम्रो भवति ॥
ते सरस्वतीम् अब्रुवन् ।
त्वं वै भैष्ज्यम् असि त्वम् इमं भिषज्येति साब्रवीद् अस्तु मे भाग इति ते ऽब्रुवन् य एषो ऽविः स ते भाग इति तथेति तस्मात् सारस्वतो मेषो भवति ॥
अथाब्रुवन् ।
एताव् अद्वा अस्मिन्न् एतर्हि यावद् अयम् ऋषभो ऽस्यैवायम् अस्त्व् इति तथेति तस्माद् ऐन्द्र ऋषभो भवति ॥
ताव् अश्विनौ च सरस्वती च ।
इन्द्रियं वीर्यं नमुचेर् आहॄत्य तद् अस्मिन् पुनर् अदधुस् तं पाप्मनो ऽत्रायन्त सुत्रातं बतैनं पाप्मनो ऽत्रास्महीति तद् वाव सौत्रामण्य् अभवत् तत् सौत्रामण्यै सौत्रामणीत्वं त्रायते मृत्योर् आत्मानम् अप पाप्मानᳪ हते य एवम् एतत् सौत्रामण्यै सौत्रामणीत्वं वेद त्रयस्त्रिᳪशद् दक्षिणा भवन्ति त्रयस्त्रिᳪशद् धि तं देवता अभिषज्यंस् तस्माद् आहुर् भेषजं दक्षिणा इति ॥
अप वा एतस्मात् ।
तेज इन्द्रियं वीर्यं क्रामति यᳪ सोमो ऽतिपवत ऊर्ध्वं चावाञ्चं वा ॥
तद् आहुः ।
अन्नं वा एतद् ब्राह्मणस्य यत् सोमो न वै सोमेन ब्राह्मणः सोमवामी स यो वा अलं भूत्यै सन् भूतिं न प्राप्नोति यो वालं पशुभ्यः सन् पशून् न विन्दते स सोमवामी पशवो हि सोम इति ॥
स एतम् आश्विनं धुम्रम् आलभेत ।
सारस्वतं मेषम् ऐन्द्रम् ऋषभम् अश्विनौ वै देवानां भिषजौ ताभ्याम् एवैनं भिषज्यति सरस्वती भेषजं तयैवास्मै भेषजं करोतीन्द्र इन्द्रियं वीर्यं तेनैवास्मिन्न् इन्द्रियं वीर्यं दधाति ॥
चक्षुर् वा अशिविनौ तेजः ।
यद् आश्विनो भवति चक्षुर् एवास्मिंस् तत् तेजो दधात्य् अथो श्रोत्रᳪ समानᳪ हि चक्षुश् च श्रोत्रं च ॥
प्राणः सरस्वती वीर्यम् ।
यत् सारस्वतो भवति प्राणम् एवास्मिंस् तद् वीर्यं दधात्य् अथो अपानᳪ समानᳪ हि प्राणश् चापानश् च ॥
वाग् इन्द्रो बलम् ।
यद् ऐन्द्रो भवति वाचम् एवास्मिंस् तद् बलं दधात्य् अथो मनः समानᳪ हि वाक् च मनश् च ॥
आशिविनीर् अजाः ।
सारस्वतीर् अवीर् ऐन्द्रीर् गाव इत्य् आहुर् यद् एते पशव आलभ्यन्त एताभिर् एव देवताभिर् एतान्य् अपशून् अवरुन्द्धे ॥
वडबानुशिशुर् भवति ।
यश एवैकशफम् अवरुन्द्ध आरण्यानां पशूनां लोमानि भवन्त्य् आरण्यानां पशूनाम् अवरुद्ध्यै वृकलोमानि भवत्य् ओज एव जूतिम् आरण्याणां पशूनाम् अवरुन्द्धे व्याघ्रलोमानि भवन्ति मन्युम् एव राज्यम् आरण्यानां पशूनाम् अवरुन्द्धे सिᳪहलोमानि भवन्ति सह एवेशाम् आरण्यानां पशूनाम् अवरुन्द्धे ॥
व्रीहिययश् च श्यामाकाश् च भवन्ति ।
गोधूमाश् च कुवलानि चोपवाकाश् च बदराणि च यवाश् च कर्कन्धूनि शष्पाणि च तोक्मानि चोभयम् एव ग्राम्यं चान्नम् आरण्यं चावरुन्द्धे ऽथो उभयेनैवान्नेन यथारूपम् इन्द्रियं वीर्यम् आत्मन् धत्ते ॥
सीसेन शष्पाणि क्रीणाति ।
ऊर्णाभिस् तोक्मानि सूत्रैर् व्रीहीन् उभयोर् वा एतद् रूपम् अयसश् च हिरण्यस्य च यत् सीसम् उभयᳪ सौत्रामणीष्टिश् च पशुबन्धश् चोभयस्यावरुद्ध्यै ॥
ऊर्णासूत्रेण क्रीणाति ।
तद् वा एतत् स्त्रीणां कर्म यद् ऊर्णासूत्रं कर्म वा इन्द्रियं वीर्यं तद् एतद् उत्सन्नᳪ स्त्रीषु तद् यद् एवेन्द्रियं वीर्यम् उत्सन्नᳪ स्त्रीषु तद् एवावरुन्द्धे ॥
तद् धैतद् अन्ये ऽध्वर्यवः ।
सीसेन क्लीबाच् छष्पाणि क्रीणन्ति तत् तद् इति न वा एष स्त्री न पुमान् यत् क्लीबो नेष्टिर् न पशुबन्धः सौत्रामणीति वदन्तस् तद् उ तथा न कुर्याद् उभयं वै सौत्रामणीष्टिश् च पशुबन्धश् च व्यृद्धम् उ वा एतन् मनुष्येषु यत् क्लीबो यज्ञमुख एव ते यज्ञस्य व्यृद्धिं दधति ये तथा कुर्वन्ति सोमविक्रयिण एव क्रीणीयात् सोमो वै सौत्रामणी यज्ञमुख एव तत् सोमरूपं करोति यज्ञस्य समृद्ध्यै ॥
शतातृण्णा कुम्भी भवति ।
बहुधेव हि स व्यस्रवद् अथो शतोन्मानो वै यज्ञो यज्ञम् एवावरुन्द्धे सतं भवति सदेवावरुन्द्धे चप्यं भवत्य् अन्नाद्यस्यैवावरुद्ध्यै पवित्रं भवति पुनन्ति ह्य् एनं वालो भवति पाप्मनो व्यावृत्त्यै सुवर्णᳪ हिरण्यं भवति रूपस्यैवारुद्ध्यै शतमानं भवति शतायुर् वै पुरुषः शतेन्द्रिय आयुर् एवेन्द्रियं वीर्यम् आत्मन् धत्ते ॥
आश्वत्थं पात्रं भवति ।
अपचितिम् एवावरुन्द्ध औदुम्बरं भवत्य् उर्जम् एवावरुन्द्धे नैयग्रोधं भवति स्वधाम् एवावरुन्द्धे स्याल्यो भवन्ति पृथिव्या एवान्नाद्यम् अवरुन्द्धे ॥
पालाशान्य् उपशयानि भवन्ति ।
ब्रह्म वै पलाशो ब्रमणैव स्वर्गं लोकं जयत्य् अपाष्ठिहस्य पत्रे भवतस् त्विषिम् एव राज्यं वयसाम् अवरुन्द्धे षट्त्रिᳪशद् एतानि भवन्ति षट्त्रिᳪशदक्षरा वै बृहती बार्हताः पशवो बृहत्यैवास्मै पशून् अवरुन्द्धे ॥
तद् आहुः ।
अन्यदेवत्याः पशवो भवन्त्य् अन्यदेवत्याः पुरोडाशा विलोमैतत् क्रियते कथम् एतत् सलोम भवतीत्य् ऐन्द्रः पशूनाम् उत्तमो भवत्य् ऐन्द्रः पुरोडाशानां प्रथम इन्द्रियं वै वीर्यम् इन्द्र इन्द्रियेणैवास्मा इन्द्रियं वीर्यᳪ सन्दधातीन्द्रियेणेन्द्रियं वीर्यम् अवरुन्द्धे ॥
सावित्रः पुरोडाशो भवति ।
सवितृप्र्सूततायै वारुणो भवति वरुणो वा एतं गृह्णाति यः पाप्मना गृहीतो भवति वरुणेनैवैनं वरुण्यान् मुञ्चत्य् अन्त्यो भवत्य् अन्तत एवैनं वरुणपाशात् प्रमुञ्चति ॥
एकादशकपाल ऐन्द्रो भवति ।
एकादशाक्षरा वै त्रिष्टुब् इन्द्रियम् उ वै वीर्यं त्रिष्टुब् इन्द्रियस्यैव वीर्यस्यावरुद्ध्यै ॥
द्वादशकपालः सावित्रो भवति ।
द्वादश वै मासाः संवत्सरस्य संवत्सरं वा अन्नाद्यम् अन्वायत्तᳪ संवत्सराद् एवास्मा अन्न्नाद्यम् अवरुन्द्धे ॥
दशकपालो वारुणो भवति ।
दशाक्षरा वै विराड् अन्नं विराड् वरुणो ऽन्नपतिर् वरुणेनैवास्मा अन्नम् अवरुन्द्धे मध्यत एतैः पुरोडाशैः प्रचरति मध्यं वा एतेषां योनिः स्वाद् एवैनान् योनेः प्रजनयति ॥
वडवानुशिशुर् दक्षिणा भवति ।
उभयं वा एषा जनयत्य् अश्वं चाश्वतरं चोभयᳪ सौत्रामणीष्टिश् च पशुबन्धश् चोभयस्यैवावरुद्ध्यै ॥
इन्द्रस्येन्द्रियम् अन्नस्य रस्ः ।
सोमस्य भक्षᳪ सुरयासुरो नमुचिर् अहरत् सो ऽश्विनौ च सरस्वतीं चोपाधावच् छेपानो ऽस्मि नमुचये न त्वा दिवा न नक्तᳪ हनानि न दण्डेन न धन्वना न पृथेन न मुष्टिना न शुष्केण नार्द्रेणाथ म इदम् अहार्षीद् इदं म आजिहीर्षथेति ॥
ते ऽब्रुवन् ।
अस्तु नो ऽत्राप्य् अथाहरामेति सह न एतद् अथाहरतेत्य् अब्रवीद् इति ॥
ताव् अश्विनौ च सरस्वती च अपां फेनं वज्रम् असिञ्चन् न शुष्को नार्द्र इति तेनेन्द्रो नमुचेर् आसुरस्य व्युष्टायाᳪ रात्राव् अनुदित आदित्ये न दिवा न नक्तम् इति शिर उदवासयत् ॥
तस्माद् एतद् ऋषिनाभ्यनूक्तम् ।
अपां फेनेन नमुचेः शिर इन्द्रोदवर्तयः विश्वा यद् अजय स्पॄध इति पाप्मा वै नमुचिः पाप्मानं वाव तद् द्विषन्तं भ्रातृव्यᳪ हत्वेन्द्रियं वीर्यम् अस्यावृङ्क्त स यो भ्रातृव्यवान्त् स्यात् स सौत्रामण्या यजेत पाप्मानम् एव तद् द्विषन्तं भ्रातृव्यᳪ हत्वेन्द्रियं वीर्यम् अस्य वृङ्क्ते तस्य शीर्षांश् छिन्ने लोइह्तमिश्रः सोमो ऽतिष्ठत् तस्माद् अबीभत्सन्त त एतद् अन्धसोर् विपानम् अपश्यन्त् सोमो राजामॄतᳪ सुत इति तेनैनᳪ स्वदयित्वात्मन्न् अदधत ॥
स्वाद्वीं त्वा स्वादुनेति सुराᳪ सन्दधाति ।
स्वदयत्य् एवैनां तीव्रां तीव्रेणेतीन्द्रियम् एवास्मिन् दधात्य् अमॄताम् अमॄतेनेत्य् आयुर् एवास्मिन् दधाति मधुमतीं मधुमतेति रसम् एवास्यां दधाति सृजामि सᳪ सोमेनेति सोमरूपम् एवैनां करोति ॥
सोमो ऽस्य् अश्विभ्यां पच्यस्व ।
सरस्वत्यै पच्यस्वेन्द्राय सुत्राम्णे पच्यस्वेत्य् एता वा एतं देवता अग्रे यज्ञँ समभरंस् ताभिर् एवैनँ सम्भरत्य् अथो एता एवैतद् देवता भागधेयेन समर्धयत्य् आसुनोति सुत्यायै तिस्रो रात्रीर् वसति तिस्रो हि रात्रीः सोमः क्रीतो वसति सोमरूपम् एवैनां करोति ॥
द्वे वेदी भवतः ।
द्वौ वाव लोकाव् इत्य् आहुर् देवलोकश् चैव पितृलोकश् चेत्य् उत्तरान्या भवति दक्षिणान्योत्तरो वै देवलोको दक्षिणः पितृलोक उत्तरयैव देवलोकम् अवरुन्द्धे दक्षिणया पितृलोकम् ॥
पयश् च सुरा च भवतः ।
सोमो वै पयो ऽन्नँ सुरा पयसैव सोमपीथम् अवरुन्द्धे सुरयान्नाद्यं क्षत्रं वै पयो विट् सुरा सुरां पूत्वा पयः पुनाति विश एव तत् क्षत्रं जनयति विशो हि क्षत्रं जायते ॥
वायोः पूतः पवित्रेण ।
प्रत्यङ्क् सोमो अतिद्रुत इति सोमातिपूतस्य पुनाति यथारूपम् एवैनं पुनातीन्द्रस्य युज्यः सखेति यद् एवास्य तेनेन्द्रियं वीर्यम् अतिक्रान्तं भवति तद् अस्मिन् पुनर् दधाति ॥
वायोः पूतः पवित्रेण ।
प्राङ्क् सोमो अतिद्रुत इति सोमवामिनः पुनाति यथारूपम् एवैनं पुनातीन्द्रस्य युज्यः सखेति यद् एवास्य तेनेन्द्रियं वीर्यम् अतिक्रान्तं भवति तद् अस्मिन् पुनर् दधाति ॥
पुनाति ते परिस्रुतम् इति ।
समृद्धिकामस्य पुनाति समृद्ध्यै सोमँ सूर्यस्य दुहितेति श्रद्धा वै सूर्यस्य दुहिता श्रद्धयैष सोमो भवति श्रद्धयैवैनँ सोमं करोति वारेण शश्वता तनेति वालेन ह्य् एषा पूयते ॥
ब्रह्म क्षत्रं पवत इति पयः पुनाति ।
ब्रह्मण एव तत् क्षत्रं जनयति ब्रह्मणो हि क्षत्रं जायते तेज इन्द्रियम् इति तेज एवास्मिन्न् इन्द्रियं वीर्यं दधाति सुरया सोम इति सुरया हि सोमः सुत आसुत इत्य् आसुताद् धि सूयते मदायेति मदाय वाव सोमो मदाय सुरोभाव् एव सोममदं च सुरामदं चावरुन्द्धे शुक्रेण देव देवताः पिपृग्धीति शुक्रेण देव देवताः प्रीणीहीत्य् एवैतद् आह रसेनान्नं यजमानाय धेहीति रसम् एवान्नं यजमाने दधाति पूर्वे पयोग्रहा गृह्यन्ते ऽपरे सुराग्रहा विशं तत् क्षत्रस्यानुवर्त्मानं करोति ॥
कुविद् अङ्ग यवमन्तो यवं चिद् इति ।
पयोग्रहान् गृह्णाति सोमाँशवो वै यवाः सोमः पयः सोमेनैवैनँ सोमं करोत्य् एकया गृह्णात्य् एकधैव यजमाने श्रियं दधाति श्रीर् हि पयः ॥
नाना हि वां देवहितँ सदस्कृतम् इति ।
सुराग्रहान् गृह्णाति नाना हि सोमश् च सुरा च देवहितम् इति देवहिते ह्य् एते नाना सदस्कृतम् इति द्वे हि वेदी भवतो मा सँसृक्षाथां परमे व्योमन्न् इति पाप्मनैवैनं व्यावर्तयति सुरा त्वम् असि शुष्मिणीति सुराम् एव सुरां करोति सोम एष इति सोमम् एव सोमं करोति मा मा हिँसीः स्वां योनिम् आविशन्तीति यथायोन्य् एवैनां व्यावर्तयत्य् आत्मनो ऽहिँसाया एकया गृह्णात्य् एकधैव यजमाने यशो दधाति यशो हि सुरा ॥
क्षत्रं वै पयोग्रहाः ।
विट् सुराग्रहा यद् अव्यतिषक्तान् गृह्णीयाद् विशं क्षत्राद् व्यवछिन्द्यात् क्षत्रं विशः पापवस्यसं कुर्याद् यज्ञस्य व्यृद्धिं व्यतिषक्तान् गृह्णाति विशम् एव क्षत्रेण सन्दधाति क्षत्रं विशा पापवस्यसस्य व्यावृत्त्यै यज्ञस्य समृद्ध्यै ॥
प्राणा वै पयोग्रहाः ।
शरीरँ सुराग्रहा यद् अव्यतिषक्तान् गृह्णीयाच् छरीरं प्राणेभ्यो व्यवछिन्द्यात् प्राणां छरीरात् प्रमायुको यजमानः स्याद् व्यतिषक्तान् गृह्णाति शरीरम् एव प्राणैः सन्दधाति प्राणाञ् छरीरेणाथो आयुर् एवास्मिन् दधाति तस्मात् सौत्रामण्येजानः सर्वम् आयुर् एत्य् अथो य एवम् एतद् वेद ॥
सोमो वै पयोग्रहाः ।
अन्नँ सुराग्रहा यत् पयोग्रहाश् च सुराग्रहाश् च गृह्यन्ते सोमपीथं चैवान्नाद्यं चावरुन्द्धे ॥
पशवो वै पयोग्रहाः ।
अन्नँ सुराग्रहा यत् पयोग्रहाश् च सुराग्रहाश् च गृह्यन्ते पशूंश् चैवान्नाद्यं चावरुन्द्धे ॥
ग्राम्या वै पशवः पयोग्रहाः ।
आरण्याः सुराग्रहा यत् पयोग्रहाश् च सुराग्रहाश् च गृह्यन्ते ग्राम्यांश् चैव पशून् आरण्यांश् चावरुन्द्धे ग्राम्येण चान्नेनारण्येन च पयोग्रहाञ् छ्रीणाति तस्माद् ग्राम्याणां पशूनां ग्राम्यं चैवान्नाद्यम् आरण्यं चावरुद्धम् ॥
तद् आहुः ।
एतस्यै वा एतद् अघलायै देवतायै रूपं यद् एते घोरा आरण्याः पशवो यद् एतेषां पशूनां लोमभिः पयोग्रहाञ् छ्रीणीयाद् रुद्रस्यास्ये पशून् अपिदध्याद् अपशुर् यजमानः स्याद् यन् न श्रीणीयाद् अनवरुद्धा अस्य पशवः स्यू रुद्रो हि पशूनाम् ईष्ट इति सुराग्रहान् एवैतेषां पशूनां लोमभिः श्रीणाति सुरायाम् एव तद् रौद्रं दधाति तस्मात् सुरां पीत्वा रौद्रमना अथो आरण्येष्व् एव पशुषु रुद्रस्य हेतिं दधाति ग्राम्याणां पशूनाम् अहिँसाया अवरुद्धा अस्य पशवो भवन्ति न रुद्रस्यास्ये पशून् अपिदधाति ॥
या व्याघ्रं विषूचिका ।
उभौ वॄकं च रक्षति श्येनं पतत्रिणँ सिँहँ सेमं पात्वँहसः ॥ यद् आपिपेष मातरं पुत्रः प्रमुदितो धयन् एतत् तद् अग्ने अनृणो भवाम्य् अहतौ पितरौ मयेति ॥
अध्वर्युश् च प्रतिप्रस्थाता च ।
जघनेन वेदिं प्राञ्चम् आवृत्तं यजमानँ श्येनपत्त्राभ्याम् ऊर्ध्वं चावाञ्चं च पावयतः प्राणोदानयोस् तद् रूपं प्राणोदानाव् एवावरुन्द्ध ऊर्ध्वश् च ह्य् अयम् अवाङ् च प्राण आत्मानम् अनुसञ्चरति सम्पॄच स्थ सं मा भद्रेण पृङ्क्तेति पयोग्रहान्त् सम्मृशति श्रियैवैनं यशसा समर्धयति विपॄच स्थ वि मा पाप्मना पृङ्क्तेति सुराग्रहान् पाप्मनैवैनं व्यावर्तयति ॥