सोमो वै राजा यज्ञः प्रजापतिः ।
तस्यैतास् तन्वो या एता देवता या एता आहुतीर् जुहोति ॥
स यद् यज्ञस्यार्छेत् ।
यां तत् प्रति देवतां मन्येत ताम् अनुसमीक्ष्य जुहुयाद् यदि दीक्षोपसत्स्व् आहवनीये यदि प्रसुत आग्नीध्रे वि वा एतद् यज्ञस्य पर्व स्रᳪसते यद् ध्वलति सा यैव तर्हि तत्र देवता भवति तयैवैतद् देवतया यज्ञं भिषज्यति तया देवतया यज्ञं प्रतिसन्दधाति ॥
स यद्य् एनं मनसाभिध्यातः ।
यज्ञो नोपनमेत् परमेष्ठिने स्वाहेति जुहुयात् परमेष्ठी हि स तर्हि भवत्य् अप पाप्मानᳪ हत उपैनं यज्ञो नमति ॥
अथ यद्य् एनं वाचाभिव्याहृतः ।
यज्ञो नोपनमेत् प्रजापतये स्वाहेति जुहुयात् प्रजापतिर् हि स तर्हि भवत्य् अप पाप्मानᳪ हत उपैनं यज्ञो नमति ॥
अथ यस्य राजानम् अछेत्वा ।
नाहरन्त एयुर् अन्धसे स्वाहेति जुहुयाद् अन्धो हि स तर्हि भवत्य् अप पाप्मानᳪ हत उपैनं यज्ञो नमति ॥
अथ यदि सातः ।
किञ्चिद् आपद्येत सवित्रे स्वाहेति जुहुयात् सविता हि स तर्हि भवत्य् अप पाप्मानᳪ हत उपैनं यज्ञो नमति ॥
अथ यदि दीक्षासु ।
किञ्चिद् आपद्येत विश्वकर्मणे स्वाहेति जुहुयाद् विश्वकर्मा हि स तर्हि भवत्य् अप पाप्मानᳪ हत उपैनं यज्ञो नमति ॥
अथ यदि सोमक्रयण्याम् ।
किञ्चिद् आपद्येत पूष्णे स्वाहेति जुहुयात् पूषा हि स तर्हि भवत्य् अप पाप्मानᳪ हत उपैनं यज्ञो नमति ॥
अथ यदि क्रयायोपोत्थितः ।
किञ्चिद् आपद्येतेन्द्राय च मरुद्भ्यश् च स्वाहेति जुहुयाद् इन्द्रश् च हि स तर्हि मरुतश् च भवत्य् अप पाप्मानᳪ हत उपैनं यज्ञो नमति ॥
अथ यदि पण्यमानः ।
किञ्चिद् आपद्येतासुराय स्वाहेति जुहुयाद् असुरो हि स तर्हि भवत्य् अप पाप्मानᳪ हत उपैनं यज्ञो नमति ॥
अथ यदि कीर्तः ।
किञ्चिद् आपद्येत मित्राय स्वाहेति जुहुयान् मित्रो हि स तर्हि भवत्य् अप पाप्मानᳪ हत उपैनं यज्ञो नमति ॥
अथ यद्य् ऊरावासन्नः ।
किञ्चिद् आपद्येत विष्णवे शिपिविष्टाय स्वाहेति जुहुयाद् विष्णुर्हि स तर्हि शिपिविष्टो भवत्य् अप पाप्मानᳪ हत उपैनं यज्ञो नमति ॥
अथ यदि पर्युह्यमाणः ।
किञ्चिद् आपद्येत विष्णवे नरन्धिषाय स्वाहेति जुहुयाद् विष्णुर् हि स तर्हि नरन्धिषो भवत्य् अप पाप्मानᳪ हत उपैनं यज्ञो नमति ॥
अथ यद्य् आगतः ।
किञ्चिद् आपद्येत सोमाय स्वाहेति जुहुयात् सोमो हि स तर्हि भवत्य् अप पाप्मानᳪ हत उपैनं यज्ञो नमति ॥
अथ यद्य् आसन्द्याम् आसन्नः ।
किञ्चिद् आपद्येत वरुणाय स्वाहेति जुहुयाद् वरुणो हि स तर्हि भवत्य् अप पाप्मानᳪ हत उपैनं यज्ञो नमति ॥
अथ यद्य् आग्नीध्रगतः ।
किञ्चिद् आपद्येताग्नये स्वाहेति जुहुयाद् अग्निर् हि स तर्हि भवत्य् अप पाप्मानᳪ हत उपैनं यज्ञो नमति ॥
अथ यदि हविर्धानगतः ।
किञ्चिद् आपद्येतेन्द्राय स्वाहेति जुहुयाद् इन्द्रो हि स तर्हि भवत्य् अप पाप्मानᳪ हत उपैनं यज्ञो नमति ॥
अथ यद्य् उपावह्रियमाणः ।
किञ्चिद् आपद्येताथर्वणे स्वाहेति जुहुयाद् अथर्वा हि स तर्हि भवत्य् अप पाप्मानᳪ हत उपैनं यज्ञो नमति ॥
अथ यद्य् अᳪशुषु न्युप्तः ।
किञ्चिद् आपद्येत विश्वेभ्यो देवेभ्यः स्वाहेति जुहुयाद् विश्वे हि स तर्हि देवा भवत्य् अप पाप्मानᳪ हत उपैनं यज्ञो नमति ॥
अथ यद्य् आप्याय्यमानः ।
किञ्चिद् आपद्येत विष्णव आप्रीतपाय स्वाहेति जुहुयाद् विष्णुर् हि स तर्ह्य् आप्रीतपा भवत्य् अप पाप्मानᳪ हत उपैनं यज्ञो नमति ॥
अथ यद्य् अभिषूयमाणः ।
किञ्चिद् आपद्येत यमाय स्वाहेति जुहुयाद् यमो हि स तर्हि भवत्य् अप पाप्मानᳪ हत उपैनं यज्ञो नमति ॥
अथ यदि सम्भ्रियमाणः ।
किञ्चिद् आपद्येत विष्णवे स्वाहेति जुहुयाद् विष्णुर् हि स तर्हि भवत्य् अप पाप्मानᳪ हत उपैनं यज्ञो नमति ॥
अथ यदि पूयमानः ।
किञ्चिद् आपद्येत वायवे स्वाहेति जुहुयाद् वायुर् हि स तर्हि भवत्य् अप पाप्मानᳪ हत उपैनं यज्ञो नमति ॥
अथ यदि पूतः ।
किञ्चिद् आपद्येत शुक्राय स्वाहेति जुहुयाछुक्रो हि स तर्हि भवत्य् अप पाप्मानᳪ हत उपैनं यज्ञो नमति ॥
अथ यदि क्षीरश्रीः ।
किञ्चिद् आपद्येत शुक्राय स्वाहेति जुहुयाछुक्रो हि स तर्हि भवत्य् अप पाप्मानᳪ हत उपैनं यज्ञो नमति ॥
अथ यदि सक्तुश्रीः ।
किञ्चिद् आपद्येत मन्थिने स्वाहेति झुयान् मन्थी हि स तर्हि भवत्य् अप पाप्मानᳪ हत उपैनं यज्ञो नमति ॥
अथ यदि चमसेषून्नीतः ।
किञ्चिद् आपद्येत विश्वेभ्यो देवेभ्यः स्वाहेति जुह्याद् विश्वे हि स तर्हि देवा भवत्य् अप पाप्मानᳪ हत उपैनं यज्ञो नमति ॥
अथ यदि होमायोद्यतः ।
किञ्चिद् आपद्येतासवे स्वाहेति जुहुयाद् असुर् हि स तर्हि भवत्य् अप पाप्मानᳪ हत उपैनं यज्ञो नमति ॥
अथ यदि हूयमानः ।
किञ्चिद् आपद्येत रुद्राय स्वाहेति जुह्याद् रुद्रो हि स तर्हि भवत्य् अप पाप्मानᳪ हत उपैनं यज्ञो नमति ॥
अथ यद्य् अभ्यावृत्तः ।
किञ्चिद् आपद्येत वाताय स्वाहेति जुहुयाद् वातो हि स तर्हि भवत्य् अप पाप्मानᳪ हत उपैनं यज्ञो नमति ॥
अथ यदि प्रतिख्यातः ।
किञ्चिद् आपद्येत नृचक्षसे स्वाहेति जुहुयान् नृचक्षा हि स तर्हि भवत्य् अप पाप्मानᳪ हत उपैनं यज्ञो नमति ॥
अथ यदि भक्ष्यमाणः ।
किञ्चिद् आपद्येत भक्षाय स्वाहेति जुहुयाद् भक्षो हि स तर्हि भवत्य् अप पाप्मानᳪ हत उपैनं यज्ञो नमति ॥
अथ यदि नाराशᳪसेषु सन्नः ।
किञ्चिद् आपद्येत पितॄभ्यो नाराशᳪसेभ्यः स्वाहेति जुहुयात् पितरो हि स तर्हि नाराशᳪसा भवत्य् अप पाप्मानᳪ हत उपैनं यज्ञो नमति ॥
अथ यद्य् अवभृथायोद्यतः ।
किञ्चिद् आपद्येत सिन्धवे स्वाहेति जुहुयात् सिन्धुर् हि स तर्हि भवत्य् अप पाप्मानᳪ हत उपैनं यज्ञो नमति ॥
अथ यद्य् अभ्यवह्रियमाणः ।
किञ्चिद् आपद्येत समुद्राय स्वाहेति जुहुयात् समुद्रो हि स तर्हि भवत्य् अप पाप्मानᳪ हत उपैनं यज्ञो नमति ॥
अथ यदि प्रप्लुतः ।
किञ्चिद् आपद्येत सलिलाय स्वाहेति जुहुयात् सलिलो हि स तर्हि भवत्य् अप पाप्मानᳪ हत उपैनं यज्ञो नमति ॥
ता वा एताः ।
चतुस्त्रिᳪशतम् आज्याहुतीर् जुहोति त्रयस्त्रिᳪशद् वै देवाः प्रजापतिश् चतुस्त्रिᳪश एतद् उ सर्वैर् देवैर् यज्ञं भिषज्यति सर्वैर् देवैर् यज्ञं प्रतिसन्दधाति ॥
ता ब्रह्मैव जुहुयात् ।
नाब्रह्मा ब्रह्मा वै यज्ञस्य दक्षिणत आस्ते ब्रह्मा यज्ञं दक्षिणतो गोपायति यदि तु ब्रह्मा न विद्याद् अपि य एव कश् च विद्यात् स जुहुयाद् ब्रह्माणं त्वामन्त्र्य ब्रह्मणातिसृष्टस् तासां वा एतासां व्याहृतीनां बन्धुता वसिष्ठो ह विराजं विदां चकार ताᳪ हेन्द्रो ऽभिदध्यौ ॥
स होवाच ।
ऋषे विराजᳪ ह वै वेत्थ तां मे ब्रूहीति स होवाच किं मम ततः स्याद् इति सर्वस्य च ते यज्ञस्य प्रायश्चित्तिं ब्रूयाᳪ रूपं च त्वा दर्शयेयेति स होवाच यन् नु मे सर्वस्य यज्ञस्य प्रायश्चित्तिं ब्रूयाः किम् उ स स्याद् यं त्वᳪ रूपं दर्शयेथा इति जीवस्वर्ग एवास्माल् लोकात् प्रेयाद् इति ॥
ततो हैताम् ऋषिर् इन्द्राय विराजम् उवाच ।
इयं वै विराड् इति तस्माद् यो ऽस्यै भूयिष्ठं लभते स एव श्रेष्ठो भवति ॥
अथ हैताम् इन्द्र ऋषये ।
प्रायश्चित्तिम् उवाचाग्निहोत्राद् अग्र आ महत उक्थात् ता ह स्मैताः पुरा व्याहृतीर् वसिष्ठा एव विदुस् तस्माद् ध स्म पुरा वासिष्ठ एव ब्रह्मा भवति यतस् त्व् एना अप्य् एतर्हि य एव कश् चाधीते ततो ऽप्य् एतर्हि य एव कश् च ब्रह्मा भवति स ह वै ब्रह्मा भवितुम् अर्हति स वा ब्रह्मन्न् इत्य् आमन्त्रितः प्रतिशृणुयाद् य एवम् एता व्याहृतीर् वेद ॥