०५

यद् आहुः ।
यद् एष दीर्घसत्त्र्य् अग्निहोत्रं जुह्वत् प्रवसन् म्रियेत जुहुयुर् अस्मा३इ ना३ इति तद् धैके होतव्यं मन्यन्त आगन्तोर् इति तद् उ तथा न कुर्याद् अतस्थानो वा एष तस्मै यद् एनᳪ शवध्याया इव जुहुयुर् यज्ञाय वा एष आहुतिभ्यस् तस्थानः स हैनम् अमृष्यमाणस् तृप्रᳪ सचते ॥
अथ हैक आहुः ।
एवम् एवान्वाहिता अहूयमानाः शयीरन्निति तदु तथा न कुर्यादतस्थानः स हैनममृष्यमाणस्तृप्रᳪ सचते ॥
अथ हैके ऽरण्योः ।
अग्नी समारोह्य निदधति तम् आहृते निर्मन्थन्ति तद् उ तथा न कुर्याद् अतस्थानो वा एष तस्मै यद् एनᳪ शवध्याया इव निर्मन्थेयुर् यज्ञाय वा एष आहुतिभ्यस् तस्थानः स हैनम् अमृष्यमाणस् तृप्रᳪ सचते ॥
इत्थम् एव कुर्यात् ।
निवान्यवत्साम् एष्टवै ब्रूयात् तस्यै पयसा जुहुयाद् आर्तं वा एतत् पयो यन् निवान्यवत्साया आर्तम् एतद् अग्निहोत्रं यन् मृतस्य तद् आर्तेनैव तद् आर्तं निष्कॄत्य श्रेयान् भवति ॥
तद् अप्य् उपमास्ति ।
यद् द्वौ रथौ मृदितौ समागछेताᳪ स्याद् एवान्यतरः स्यदायेति ॥
तस्य वा एतस्याग्निहोत्रस्योपचारः ।
प्राचीनावीती दोहयति यज्ञोपवीती वै देवेभ्यो दोहयत्य् अथैवं पित्qणाम् ॥
नाङ्गारेष्व् अधिश्रयति ।
यद् धाङ्गारेष्व् अधिश्रयेद् देवत्रा कुर्याद् गार्हपत्याद् उष्णं भस्म दक्षिणा निरुह्य तस्मिन्न् एनद् अधिश्रयति पितृदेवत्यम् एवैनत् तत् करोति ॥
नावज्योतयति नापः प्रत्यानयति ।
यद् धावज्योतयेद् यद् अपः प्रत्यानयेद् देवत्रा कुर्यान् न त्रिः प्रतिष्ठापᳪ हरति यत् त्रिः प्रतिष्ठापᳪ हरेद् देवत्रा कुर्यात् सकॄद् एव निकर्षन् हरति पितृदेवत्यम् एवैनत् तत् करोति ॥
नोन्नेष्यामीत्य् आह ।
न चतुर् उन्नयति यद् धोन्नेष्यामीति ब्रूयाद् यच् चतुर् उन्नयेद् देवत्रा कुर्यात् सकॄद् एव तूष्णीं न्यक् पर्यस्यति पितृदेवत्यम् एवैनत् तत् करोति ॥
नोपरिष्टात् समिधम् अभ्यस्य हरति ।
यद् धोपरिष्टात् समिधम् अभ्यस्य हरेद् देवत्रा कुर्याद् अधस्ताद् उपास्य हरति पितृदेवत्यम् एवैनत् तत् करोति ॥
नोत्तरेण गार्हपत्यम् एति ।
यद् धोत्तरेण गार्हपत्यम् इयाद् देवत्रा कुर्याद् दक्षिणेन गार्हपत्यम् एति प्तृदेवत्यम् एवैनत् तत् करोति ॥
अथ यान्य् अमून्य् उदीचीनाग्राणि तॄणानि भवन्ति ।
दक्षिणाग्राणि तानि करोति पितृदेवत्यम् एवैनत् तत् करोत्य् अथाहवनीये समिधम् अभ्याधाय सव्यं जान्व् आच्य सकॄद् एव तूष्णीं न्यक् पर्यस्यति पितृदेवत्यम् एवैनत् तत् करोति नोदिङ्गयति नोपमृष्ते न प्राश्नाति नोदुक्षति प्तृदेवत्यम् एवैनत् तत् करोति ॥
तद् आहुः ।
यद् एष दीर्घसत्त्र्य् अग्निहोत्रं जुह्वत् प्रवसन् म्रियेत कथम् एनम् अग्निभिः कुर्युर् इति तᳪ हैके दग्ध्वाहरन्ति तम् आहृतम् अग्निभिः सङ्घ्रापयन्ति तद् उ तथा न कुर्याद् यथान्यस्यां योनौ रेतः सिक्तं तद् अन्यस्य प्रजिजनयिषेत् तादॄक् तद् अस्थीन्य् एतान्य् आहॄत्य कृष्णाजिने न्युप्य पुरुषविधि विधायोर्णाभिः प्रछाद्याज्येनाभिघार्य तम् अग्निभिः समुपोषेत् तद् एनᳪ स्वाद् योनेः प्रजनयतीति ॥
तᳪ हैके ग्रामाग्निना दहन्ति ।
तद् उ तथा न कुर्याद् एष वै विश्वात् क्रव्याद् अग्निः स हैनम् ईश्वरः सपुत्रᳪ सपशुᳪ समत्तोः ॥
अथ हैके प्रदव्येन दहन्ति ।
तद् उ तथा न कुर्याद् एष वा अशान्तो ऽग्निः स हैनम् ईश्वरः सपुत्रᳪ सपशुं प्रदग्धोः ॥
अथ हैक उल्मुक्येन दहन्ति ।
तद् उ तथा न कुर्याद् एष वै रुद्रियो ऽग्निः स हैनम् ईश्वरः सपुत्रᳪ सपशुम् अभिमन्तोः ॥
अथ हैके ऽन्तरेणाग्नींश् चितिं चित्वा ।
तम् अग्निभिः समुपोषन्त्य् एतद् वै यजमानस्यायतनं यद् अन्तरेणाग्नीन् इति तद् उ तथा न कुर्याद् यो हैनं तत्र ब्रूयान् मध्ये न्वा अयं ग्रामस्याशसनम् अजीजनत क्षिप्रे ऽस्याशसनं जनिष्यते प्रियतमᳪ रोत्स्यतीतीश्वरो ह तथैव स्यात् ॥
अथ ह स्माह नाको मौद्गल्यः ।
मरिष्यन्तं चेद् यजमानं मन्येत यत्रैवास्मा आशसनं जोषितᳪ स्यात् तद् अरण्योर् अग्नी समारोह्य निर्मथ्य जुह्वद् वसेत् स यदास्माल् लोकाद् यजमानः प्रेयात् ॥
अथैनम् अन्तरेणाग्नींश् चितिं चित्वा ।
तम्॥
अग्निभिः॥
समुपोषेद् इति तद् उ तथा न कुर्याद् अतस्थानो वा एष तस्मै यद् एनᳪ शवदह्याया इव जुहुयुर् यज्ञाय वा एष आहुतिभ्यस् तस्थानः स हैनम् अमृष्यमाणस् तृप्रᳪ सचते ॥
इत्थम् एव कुर्यात् ।
तिस्र एव स्थालीर् एष्टवै ब्रूयात् तासु गोमयानि च शुम्बलानि वावधाय नाना त्रिष्व् अग्निषु प्रवृञ्ज्यात् ते ये ततः सन्तापाद् अग्नयो जायेरंस् तैर् एनं दहेयुस् तथाह तैर् एव दग्धो भवति नो प्रत्यक्षम् इव ॥
तस्माद् अप्य् एतद् ऋषिणाभ्यनूक्तम् ।
यो अग्निर् अग्नेर् अध्य् अजायत शोकात् पृथिव्या उत वा दिवस् परि येन प्रजा विश्वकर्मा जजान तम् अग्ने हेडः परि ते वृणक्त्व् इति यथर्क् तथा ब्राह्मणम् ॥
अथैनं विपुरीषं कृत्वा ।
अस्यां पुरीषं प्रतिष्ठापयति पुरीषं वा इयं तत् पुरीष एवैतत् पुरीषं दधाति या ह वा अस्यैषा वृकला सपुरीषा तस्यै ह विदग्धायै सृगालः सम्भवति नेत् सृगालः सम्भवद् इति तद् उ तथा न कुर्यात् क्षोधुका हास्य प्रजा भवति तम् अन्तरतः प्रक्षालयाज्येनान्वनक्ति मेध्यम्॥
एवैनत्॥
तत् करोति ॥
अथास्य सप्तसु प्राणायतनेषु ।
सप्त हिरण्यशकलान् प्रत्यस्यति ज्योतिर् वा अमॄतᳪ हिरण्यं ज्योतिर् एवास्मिंस् तद् अमॄतं दधाति ॥
अथैनम् अन्तरेणाग्नींश् चितिं चित्वा ।
कृष्णाजिनम् उत्तरलोम प्राचीनग्रीवं प्रस्तीर्य तस्मिन्न् एनम् उत्तानं निपाद्य जुहूं घृतेन पूर्णां दक्षिणे पाणाव् आदधाति सव्य उपभॄतम् उरसि ध्रुवां मुखे ऽग्निहोत्रहवणीं नासिकयोः स्रुवौ कर्णयोः प्राशित्रहरणे शीर्षंश्चमसं प्रणीताप्राणयनं पार्श्वयोः शूर्पे उदरे पात्रीᳪ समवत्तधानीं पृषदाज्यवतीᳪ शिश्नस्यान्ते शम्यामाण्डयोरन्ते वृषारवावन्वगुलूखलं च मुसलं चान्तरेणोरू अन्यानि यज्ञपात्राणि दक्षिणे पाणौ स्फ्यम् ॥
स एष यज्ञायुधी यजमानः ।
यथा बिभ्यदामोषमतीयाद् एवम् एव यो ऽस्य स्वर्गे लोको भवति तम् अभ्यत्येति तम् एते सन्ताप्या अग्नयो यथा पुत्राः पितरं प्रोषुषम् आगतᳪ शिवम् उपस्पृशन्त्य् एवᳪ शिवᳪ हैवैतम् उपस्पृशन्ति प्र हैवैनं कल्पयन्ति ॥
तं यदि गार्हपत्यः पूर्वः प्राप्नुयात् ।
तद् विद्यात् प्रतिष्ठ एनम् अग्निः पूर्वः प्रापत् प्रतिष्ठास्यति प्रत्य् एव ते ऽस्मिं लोके स्थास्यन्ति ये ऽस्मात् प्रत्यञ्च इति ॥
अथ यद्य् आहवनीयः ।
तद् विद्यान् मुख्य एनम् अग्निः पूर्वः प्रापन् मुखतो लोकान् अजैषीन् मुखम् एव ते ऽस्मिं लोके भविष्यन्ति ये ऽस्मात् प्रत्यञ्च इति ॥
अथ यद्य् अन्वाहार्यपचनः ।
तद् विद्याद् अन्नाद एनम् अग्निः पूर्वः प्रापद् अन्नम् अत्स्यत्य् अन्नम् एव ते ऽस्मिं लोके ऽत्स्यन्ति ये ऽस्मात् प्रत्यञ्च इति ॥
अथ यदि सर्वे सकॄत् ।
तद् विद्यात् कल्याणं लोकम् अजैषीद् इत्य् एतान्य् अस्मिन् विज्ञानानि ॥
तां वा एताम् ।
यजमानात्माहुतिम् अन्ततो जुहोति स यो ऽस्य स्वर्गे लोको जितो भवति तत आहुतिमयो ऽमॄतः सम्भवति ॥
अथ यान्य् अश्ममयानि च मृन्मयानि च भवन्ति ।
तानि ब्राह्मणाय दद्याच् छवोद्वहम् उ ह तं मन्यन्ते यस् तानि प्रतिगृह्णात्य् अप एवैनान्य् अभ्यवहरेयुर् आपो वा अस्य सर्वस्य प्रतिष्ठा तद् एनम् अप्स्व् एव प्रतिष्ठापयति ॥
अथैताम् आहुतिं जुहोति ।
पुत्रो वा भ्राता वा यो वान्यो ब्राह्मणः स्याद् अस्मात् त्वम् अधि जातो ऽसि त्वद् अयं जायतां पुनः असौ स्वर्गाय लोकाय स्वाहेत्य् अनपेक्षम् एत्याप उपस्पृशन्ति ॥