दीर्घसत्त्रᳪ ह वा एत उपयन्ति ।
ये ऽग्निहोत्रं जुह्वत्य् एतद् वै जरामर्यᳪ सत्त्रं यद् अग्निहोत्रं जरया वा ह्य् एवास्मान् मुच्यन्ते मृत्युना वा ॥
तद् आहुः ।
यद् एतस्य दीर्घसत्त्रिणो ऽग्निहोत्रं जुह्वतो ऽन्तरेणाग्नी युक्तं वा वियायात् सं वा चरेयुः किं तत्र कर्म का प्रायश्चित्तिर् इति कुर्वीत हैव निष्कृतिम् अपीष्ट्या यजेत तद् उ तन् नाद्रियेतेमान् वा एष लोकान् अनुवितनुते यो ऽग्नी आधत्ते ॥
तस्यायम् एव लोको गार्हपत्यः ।
अन्तरिक्षलोको ऽन्वाहार्यपचनो ऽसौ लोक आहवनीयः कामं न्वा एषु लोकेषु वयाᳪसि युक्तं चायुक्तं च सं चरन्ति स यदि हास्याप्य् अन्तरेण ग्रामो ऽग्नीन् वियायान् नैव मे का चनार्तिर् अस्ति न रिष्टिर् इति हैव विद्यात् ॥
त्रयो ह त्वाव पशवो ऽमेध्याः ।
दुर्वराह ऐडकः श्वा तेषां यद्य् अधिश्रिते ऽग्निहोत्रे ऽन्तरेण कश्चित् सञ्चरेत् किं तत्र कर्म का प्रायश्चित्तिर् इति तद् धैके गार्हपत्याद् भस्मोपहत्याहवनीयान् निवपन्तो यन्तीदं विष्णुर् विचक्रम इत्य् एतयार्चा यज्ञो वै विष्णुस् तद् यज्ञेनैव यज्ञम् अनुसन्तन्मो भस्मनास्य पदम् अपिवपाम इति वदन्तस् तद् उ तथा न कुर्याद् यो हैनं तत्र ब्रूयाद् आसान्न्वा अयं यजमानस्यावाप्सीत् क्षिप्रे परमासानावप्स्पते ज्येष्ठगृह्यᳪ रोत्स्यतीतीश्वरो ह तथैव स्यात् ॥
इत्थम् एव कुर्यात् ।
उदस्थालीं वैवोदकमण्डलुं वादाय गार्हपत्याद् अग्र आहवनीयान् निनयन् नियाद् इदं विष्णुर् विचक्रम इत्य् एतयैवर्चा यज्ञो वै विष्णुस् तद् यज्ञेनैव यज्ञम् अनुसन्तनोति यद् वै यज्ञस्य रिष्टं यद् अशान्तम् आपो वै तस्य सर्वस्य शान्तिर् अद्भिर् एवैनत् तच् छान्त्या शमयत्य्॥
एतद्॥
एव तत्र कर्म ॥
यस्याग्निहोत्रं॥
दोह्यमानᳪ स्कन्देत् किं तत्र कर्म का प्रायश्चित्तिर् इति स्कन्नप्रायश्चित्तेनाभिमृश्याद्भिर् उपनिनीय परिशिष्टेन जुहुयाद् यद्य् उ नीची स्थाली स्याद् यदि वा भिद्येत स्कन्नप्रायश्चित्तेनैवाभिमॄश्याद्भिर् उपनिनीय यद् अन्यद् विन्देत् तेन जुहुयात् ॥
अथ॥
यत्र स्कन्नᳪ स्यात् ।
तद् अभिमृशेद् अस्कन्न् अधित प्राजनीति यदा वै स्कन्दत्य् अथ धीयते यदा धीयते ऽथ प्रजायते योनिर् वा इयᳪ रेतः पयस् तद् अस्यां योनौ रेतो दधात्य् अनुष्ठ्या हास्य रेतः सिक्तं प्रजायते य एवम् एतद् वेदामुतो वै दिवो वर्षतीहौषधयो वनस्पतयः प्रजायन्ते पुरुषाद् रेत स्कन्दति पशुभ्यस् तत इदᳪ सर्वं प्रजायते तद् विद्याद् भूयसी मे प्रजातिर् अभूद् बहुः प्रजया पशुभिर् भविष्यामि श्रेयान् भविष्यामीति ॥
अथ यत्रावभिन्नᳪ स्यात् ।
तद् उदस्थालीं वैवोदकमण्डलुं वा निनयेद् यद् वै यज्ञस्य रिष्टं यद् अशान्तम् आपो वै तस्य सर्वस्य शान्तिर् अद्भिर् एवैनत् तच् छान्त्या शमयति भूर् भुवः स्वर् इत्य् एताभिर् व्याहृतिभिर् एता वै व्याहृतयः सर्वप्रायश्चित्तीस् तद् अनेन सर्वेण प्रायश्चित्तिं कुरुते तानि कपालानि सञ्चित्य यत्र भस्मोद्धृतᳪ स्यात् तन् निवपेद् एतद् एव तत्र कर्म ॥
तद् आहुः ।
यस्याग्निहोत्री दोह्यमानोपविशेत् किं तत्र कर्म का प्रायश्चित्तिर् इति ताᳪ हैके यजुषोत्थापयन्त्य् उदस्थाद् देव्य् अदितिर् इतीयं वा अदितिर् इमाम् एवास्मा एतद् उत्थापयाम इति वदन्त आयुर् यज्ञपताव् अधाद् इत्य् आयुर् एवास्मिंस् तद् दध्म इति वदन्तस् तां तस्याम् आहुत्यां ब्राह्मणाय दद्याद् यम् अनभ्यागमिष्यन् मन्येतार्तिं वा एषा पाप्मानं यजमानस्य प्रतिदृश्योपाविक्षद् आर्तिम् एवास्मिंस् तत् पाप्मानं प्रतिमुञ्चाम इति वदन्तः ॥
तद् उ होवाच याज्ञवल्क्यः ।
अश्रद्दधानेभ्यो हैभ्यो गौर् अपक्रामत्य् आर्त्यो वा आहुतिं विध्यन्तीत्थम् एव कुर्याद् दण्डेनैवैनां विपिष्योत्थापयेद् इति तद् यथैवादो धावयतो ऽश्वो वाश्वतरो वा गदायेत बलीवर्दो वा युक्तस् तेन दण्डप्रजितेन तोत्त्रप्रजितेन यम् अध्वानᳪ समीप्सति तᳪ समश्नुत एवम् एवैतया दण्डप्रजितया तोत्त्रप्रजितया यᳪ स्वर्गं लोकᳪ समीप्सति तᳪ समश्नुते ॥
अथ होवाचारुणिः ।
द्यौर् वा एतस्याग्निहोत्रस्याग्निहोत्र्य् अयम् एव वत्सो यो ऽयं पवत इयम् एवाग्निहोत्रस्थाली न वा एवं विदुषो ऽग्निहोत्री नश्यति क्व ह्य् असौ नश्येन् नैवं विदुषो ऽग्निहोत्रीवत्सो नश्यति क्व ह्य् एष नश्येन् नैवं विदुषो ऽग्निहोत्रस्थाली भिद्यते क्व हीयं भिद्येत श्रियो वै पर्जन्यो वर्षति तद् विद्याच् छ्रेमाणं मे महिमानम् अधारयमाणोपाविक्षच् छ्रेयान् भविष्यामीति ताम् आत्मन्य् एव कुर्वीतात्मन्य् एव तच् छ्रियं धत्त इति ह स्माहारुणिर् एतद् एव तत्र कर्म ॥
तद् आहुः ।
यस्याग्निहोत्री दोह्यमाना वाश्येत किं तत्र कर्म का प्रायश्चित्तिर् इति स्तम्बम् आछिद्य ग्रासयेद् एतद् एव तत्र कर्म ॥
तद् आहुः ।
यस्याग्निहोत्री लोहितं दुहीत किं तत्र कर्म का प्रायश्चित्तिर् इति व्युत्क्रामतेत्य् उक्त्वा मेक्षाणं कृत्वान्वाहार्यपचनं परिश्रयितवै ब्रूयात् तस्मिन्न् एनच् छ्रपयित्वा तस्मिंस् तूष्णीं जुहुयाद् अनिरुक्तम् अनिरुक्तो वै प्रजापतिः प्राजापत्यम् अग्निहोत्रᳪ सर्वं वा अनिरुक्तं तद् अनेन सर्वेण प्रायश्चित्तिं कुरुते तां तस्याम् आहुत्यां ब्राह्मणाय दद्याद् यम् अनभ्यागमिष्यन् मन्येतार्तिं वा एषा पाप्मानं यजमानस्य प्रतिदॄश्य दुहे या लोहितं दुह आर्तिम् एवास्मिंस् तत् पाप्मानं प्रतिमुञ्चत्य् अथ यद् अन्यद् विन्देत् तेन जुहुयाद् अनार्तेनैव तद् आर्तं यज्ञस्य निष्करोत्य् एतद् एव तत्र कर्म ॥
तद् आहुः ।
यस्याग्निहोत्रं दोह्यमानम् अमेध्यम् आपद्येत किं तत्र कर्म का प्रायश्चित्तिर् इति तद् धैके होतव्यं मन्यन्ते प्रयतम् एतन् नैतस्याहोमो ऽवकल्पते न वै देवाः कस्माच् चन बीभत्सन्ते बीभत्सन्ता३इ तु देवा इत्थम् एव कुर्याद् गार्हपत्याद् उष्णं भस्म निरुह्य तस्मिन्न् एनद् उष्णे भस्मंस् तूष्णीं निनयेद् अद्भिर् उपनिनयत्य् अद्भिर् एनद् आप्नोत्य् अथ यद् अन्यद् विन्देत् तेन जुहुयाद् एतद् एव तत्र कर्म ॥
तद् आहुः ।
यस्याग्निहोत्रं दोहितम् अमेध्यम् आपद्येत किं तत्र कर्म का प्रायश्चित्तिर् इति य एवैते ऽङ्गारा निरूढा येष्व् अधिश्रयिष्यन् भवति तान् प्रत्युह्य तस्मिन्न् एनद् उष्णे भस्मंस् तूष्णीं निनयेद् अद्भिर् उपनिनयत्य् अद्भिर् एनद् आप्नोत्य् अथ यद् अन्यद् विन्देत् तेन जुहुयाद् एतद् एव तत्र कर्म ॥
तद् आहुः ।
यस्याग्निहोत्रम् अधिश्रितम् अमेध्यम् आपद्येत किं तत्र कर्म का प्रायश्चित्तिर् इति य एवैते ऽङ्गारा निरूढा येष्व् अधिश्रितं भवति तेष्व् एनत् तूष्णीं जुहुयात् तद् धुतम् अहुतं यद् अहैनत् तेषु जुहोति तेन हुतं यद् व् एनांस् तेनैवानुगमयति तेनाहुतम् अद्भिर् उपनिनयत्य् अद्भिर् एनद् आप्नोत्य् अथ यद् अन्यद् विन्देत् तेन जुहुयाद् एतद् एव तत्र कर्म ॥
तद् आहुः ।
यद् अधिश्रिते ऽग्निहोत्रे यजमानो म्रियेत किं तत्र कर्म का प्रायश्चित्तिर् इति तद् एवैनद् अभिपर्याधाय विष्पन्दयेद् अथो खल्व् आहुर् एतावती सर्वस्य हविर्यज्ञस्य प्रायश्चित्तिर् इत्य् एतद् एव तत्र कर्म ॥
तद् आहुः ।
यस्याग्निहोत्रᳪ स्रुच्य् उन्नीतᳪ स्कन्देत् किं तत्र कर्म का प्रायश्चित्तिर् इति स्कन्नप्रायश्चित्तेनाभिमॄश्याद्भिर् उपनिनीय परिशिष्टेन जुहुयाद् यद्य् उ नीची स्रुक् स्याद् यदि वा भिद्येत स्कन्नप्रायश्चित्तेनैवाभिमॄश्याद्भिर् उपनिनीय यत् स्थाल्यां परिशिष्टᳪ स्यात् तेन जुहुयात् ॥
तद् धैके ।
प्रतिपरेत्य यत् स्थाल्यां परिशिष्टं भवति तेन जुह्वति तद् उ तथा न कुर्यात् स्वर्ग्यं वा एतद् यद् अग्निहोत्रं यो हैनं तत्र ब्रूयात् प्रति न्वा अयᳪ स्वर्गाल् लोकाद् अवारुक्षन् नास्येदᳪ स्वर्ग्यम् इव भविष्यतीतीश्वरो ह तथैव स्यात् ॥
इत्थम् एव कुर्यात् ।
तद् एवोपविशेद् यत् स्थाल्यां परिशिष्टᳪ स्यात् तद् अस्मा उन्नीयाहरेयुस् तद् धैक उपवहन्ते हुतोच्छिष्टं वा एतद् यातयाम वा एतन् नैतस्य होतव्यम् इति तद् उ तन् नाद्रियेत यदा वा एतद् अयातयामाथैनद् धविरातञ्चनं कुर्वते तस्माद् यत् स्थाल्यां परिशिष्टᳪ स्यात् तद् अस्मा उन्नीयाहरेयुर् यद्य् उ तत्र न स्याद् यद् अन्यद् विन्देत् तद् अग्नाव् अधिश्रित्यावज्योत्यापः प्रत्यानीयोद्वास्य तद् अदो हैवोन्नेष्यामीत्य् उक्तं भवत्य् अथात्र यथोन्नीतम् एवास्मा उन्नीयाहरेयुस् तेन कामं जुहुयाद् एतद् एव तत्र कर्म ॥
तद् आहुः ।
यस्याग्निहोत्रᳪ स्रुच्य् उन्नीतम् अमेध्यम् आपद्येत किं तत्र कर्म का प्रायश्चित्तिर् इति तद् धैके होतव्यं मन्यन्ते प्रयतम् एतन् नैतस्याहोमो ऽवकल्पते न वै देवाः कस्माच् चन बीभत्सन्त इति तद् धैक उत्सिच्य छर्दयन्ति तद् उ तथा न कुर्याद् यो हैनं तत्र ब्रूयात् परासिञ्चत न्वा अयम् अग्निहोत्रं क्षिप्रे ऽयं यजमानः परासेक्ष्यत इतीश्वरो ह तथैव स्याद् इत्थम् एव कुर्याद् आहवनीये समिधम् अभ्याधायाहवनीयाद् एवोष्णं भस्म निरुह्य तस्मिन्न् एनद् उष्णे भस्मंस् तूष्णीं निनयेद् अद्भिर् उपनिनयत्य् अद्भिर् एनद् आप्नोत्य् अथ यद् अन्यद् विन्देत् तेन जुहुयाद् एतद् एव तत्र कर्म ॥
तद् आहुः ।
यस्याग्निहोत्रᳪ स्रुच्य् उन्नीतम् उपरिष्टाद् अववर्षेत् किं तत्र कर्म का प्रायश्चित्तिर् इति तद् विद्याद् उपरिष्टान् मा शुक्रम् आगन्न् उप मां देवाः प्राभूवञ् छ्रेयान् भविष्यामीति तेन कामं जुहुयाद् एतद् एव तत्र कर्म ॥
तद् आहुः ।
यत् पूर्वस्याम् आहुत्याᳪ हुतायाम् अथाग्निर् अनुगछेत् किं तत्र कर्म का प्रायश्चित्तिर् इति यं प्रतिवेशᳪ शकलं विन्देत् तम् अभ्यस्याभिजुहुयाद् दारौदाराव् अग्निर् इति वदन् दारौदारौ ह्य् एवाग्निर् यद्य् उ अस्य हॄदयं व्य् एव लिखेद् धिरण्यम् अभिजुहुयाद् अग्नेर् वा एतद् रेतो यद् धिरण्यं य उ वै पुत्रः स पिता यः पिता स पुत्रस् तस्माद् धिरण्यम् अभिजुहुयाद् एतद् एव तत्र कर्म ॥
तद् आहुः ।
यस्याहवनीय उद्धृतः पुराग्निहोत्राद् अनुगछेत् किं तत्र कर्म का प्रायश्चित्तिर् इति गार्हपत्याद् एवैनं प्राञ्चम् उद्धॄत्योपसमाधायाग्निहोत्रं जुहुयात् स यद्य् अपि शतम् एव कृत्वः पुनःपुनर् उद्धृतो ऽनुगछेद् गार्हपत्याद् एवैनं प्राञ्चम् उद्धॄत्योपसमाधायाग्निहोत्रं जुहुयाद् एतद् एव तत्र कर्म ॥
तद् आहुः ।
यस्य गार्हपत्यो ऽनुगछेत् किं तत्र कर्म का प्रायश्चित्तिर् इति तं हैक उल्मुकाद् एव निर्मन्थन्ति यतो वै पुरुषस्यान्ततो नश्यति ततो वै स तस्य प्रायश्चित्तिम् इछत इति वदन्तस् तद् उ तथा न कुर्याद् उल्मुकᳪ ह वै वादाय चरेयुर् उल्मुकस्य वावव्रश्चम् इत्थम् एव कुर्याद् उल्मुकाद् अङ्गारम् आदाय तम् अरण्योर् अभिविमथ्नीयाद् उप ह तं कामम् आप्नोति य उल्मुकमथ्य उपो तं यो ऽरण्योर् एतद् एव तत्र कर्म ॥
तद् आहुः ।
यस्याग्नाव् अग्निम् अभ्युद्धरेयुः किं तत्र कर्म का प्रायश्चित्तिर् इतीश्वरौ वा एतौ सम्पद्याशान्तौ यजमानस्य प्रजां च पशूंश् च निर्दहस् तद् अभिमन्त्रयेत समितᳪ सङ्कल्पेथाᳪ सम्प्रियौ रोचिष्णू सुमनस्यमानौ इषम् ऊर्जम् अभि संवसानौ ॥ सं वां मनाᳪसि सं व्रता सम् उ चित्तान्य् आकरम् अग्ने पुरीष्याधिपा भव त्वं न इषम् ऊर्जं यजमानाय धेहीति शान्तिम् एवाभ्याम् एतद् वदति यजमानस्य प्रजायै पशूनाम् अहिँसायै ॥
यद्य् उ अस्य हॄदयं व्य् एव लिखेत् ।
अग्नये ऽग्निमते ऽष्टाकपालं पुरोडाशं निर्वपेत् तस्यावॄत् सप्तदश सामिधेनीर् अनुब्रूयाद् वार्त्रघ्नाव् आज्यभागौ विराजौ संयाज्ये अथैते याज्यानुवाक्ये अग्निनाग्निः समिध्यते कविर् गृहपतिर् युवा हव्यवाड् जुह्वास्य इत्य् अथ याज्या त्वँ ह्य् अग्ने अग्निना विप्रो विप्रेण सन्त् सता सखा सख्या समिध्यस इति शान्तिम् एवाभ्याम् एतद् वदति यजमानस्य प्रजायति पशूनाम् अहिँसाया एतद् एव तत्र कर्म ॥
तद् आहुः ।
यस्याहवनीये ऽननुगते गार्हपत्यो ऽनुगछेत् किं तत्र कर्म का प्रायश्चित्तिर् इति तँ हैके तत एव प्राञ्चम् उद्धरन्ति प्राणा वा अग्नयः प्राणान् एवास्मा एतद् उद्धराम इति वद्न्तस् तद् उ तथा न कुर्याद् यो हैनं तत्र ब्रूयात् प्राचो न्वा अयं यजमानस्य प्राणान् प्रारौत्सीन् मरिष्यत्य् अयं यजमान इतीश्वरो ह तथैव स्यात् ॥
अथ हैके प्रत्यञ्चम् आहरन्ति ।
प्राणोदानाव् इमाव् इति वदन्तस् तद् उ तथा न कुर्यात् स्वर्ग्यं वा एतद् यद् अग्निहोत्रं यो हैनं तत्र ब्रूयात् प्रति न्वा अयँ स्वर्गाल् लोकाद् अवारुक्षन् नास्येदँ स्वर्ग्यम् इव भविष्यतीतीश्वरो ह तथैव स्यात् ॥
अथ हैके ऽन्यं गार्हपत्यं मन्थन्ति ।
तद् उ तथा न कुर्याद् यो हैनं तत्र ब्रूयाद् अग्नेर् न्वा अयम् अधि द्विषन्तं भ्रातृव्यम् अजीजनत क्षिप्रे ऽस्य द्विषन् भ्रातृव्यो जनिष्यते प्रियतमँ रोत्स्यतीतीश्वरो ह तथैव स्यात् ॥
अथ हैके ऽनुगमय्यान्यं मन्थन्ति ।
तस्याशां नेयाद् अपि यत् परिशिष्टम् अभूत् तद् अजीजसत नास्य दायादश्चन परिशेक्ष्यत इतीश्वरो ह तथैव स्यात् ॥
इत्थम् एव कुर्यात् ।
अरण्योर् अग्नी समारोह्योदङ्ङ् उदवसाय निर्मथ्य जुह्वद् वसेत् तथा ह न कां चन परिचक्षां करोति नवावसान उ अस्याभितोरात्रँ हुतं भवति ॥
अथ प्रातर् भस्मान्य् उद्धॄत्य ।
गोमयेनालिप्यारण्योर् एवाग्नी समारोह्य प्रत्यवस्यति मथित्वा गार्हपत्यम् उद्धॄत्याहवनीयम् आहॄत्यान्वाहार्यपचनम् अग्नये पथिकॄते ऽष्टाकपालं पुरोडाशं निर्वपेत् तस्यावॄत् ता एव सप्तदश सामिधेनीर् अनुब्रूयाद् वार्त्रघ्नाव् आज्यभागौ विराजौ संयाज्ये अथैते याज्यानुवाक्ये वेत्था हि वेधो अध्वनः पथश् च देवाञ्जसा अग्ने यज्ञेषु सुक्रतव् इत्य् अथ याज्या देवानाम् अपि पन्थाम् अगन्म यच् छक्नवाम तद् अनुप्रवोढुम् अग्निर् विद्वान्त् स यज्ञात् सेद् उ होता सो अध्वरान्त् स ऋतून् कल्पयातीत्य् अग्निर् वै पथिकॄत् पथाम् अपिनेता स एवैनं यज्ञपथम् अपिनयत्य् एतद् एव तत्र कर्म ॥
तद् आहुः ।
यस्याग्नयः सँसृज्येरन् किं तत्र कर्म का प्रायश्चित्तिर् इति स यदि परस्ताद् दहन्न् अभीयात् तद् विद्यात् परस्तान् मा शुक्रम् आगन्न् उप मां देवाः प्राभूवञ् छ्रेयान् भविष्यामीति यद्य् उ अस्य हॄदयं व्य् एव लिखेद् अग्नये विविचये ऽष्टाकपालं पुरोडाशं निर्वपेत् तस्यावॄत् ता एव सप्तदश सामिधेनीर् अनुब्रूयाद् वार्त्रघ्नाव् आज्यभागौ विराजौ संयाज्ये अथैते याज्यानुवाक्ये वि ते विष्वग् वाताजूतासो अग्ने भामासः शुचे शुचयश् चरन्ति तुविम्रक्षासो दिव्या नवग्वा वनावनन्ति धृषता रुजन्त इत्य् अथ याज्या त्वाम् अग्ने मानुषीर् ईडते विशो होत्राविदं विविचिँ रत्नधातमम् गुहा सन्तँ सुभग विश्वदर्शतं तुविष्वणसँ सुयजं घृतश्रियम् इत्य् अथो ह यो द्विषतो भ्रातृव्याद् व्याविवृत्सेत तत्काम एतया यजेत वि हैवास्माद् वर्तत एतद् एव तत्र कर्म ॥
यद् व् अयम् इतो दहन्न् अभीयात् ।
तद् विद्याद् अभि द्विषन्तं भ्रातृव्यं भविष्यामि श्रेयान् भविष्यामीति यद्य् उ अस्य हॄदयं व्य् एव लिखेद् अग्नये संवर्गायाष्टाकपालं पुरोडाशं निर्वपेत् तस्यावॄत् ता एव सप्तदश सामिधेनीर् अनुब्रूयाद् वार्त्रघ्नाव् आज्यभागौ विराजौ संयाज्ये अथैते याज्यानुवाक्ये परस्या अधि संवतो ऽवरा२ँ अभ्यातर यत्राहम् अस्मि ता२ँ अवेत्य् अथ याज्या मा नो अस्मिन् महाधने परावर्ग्भारभॄद् यथा स वर्गँ सँ रयिं जयेत्यथो ह यो द्विष्तो भ्रातृव्यात् संविवृक्षेत तत्काम एतया यजेत सँ हैवास्माद् वृङ्क्त एतद् एव तत्र कर्म ॥
तद् आहुः ।
यस्य वैद्युतो दहेत् किं तत्र कर्म का प्रायश्चित्तिर् इति तद् विद्याद् उपरिष्टान् मा शुक्रम् आगन्न् उप मां देवाः प्राभूवञ् छ्रेयान् भविष्यामीति यद्य् उ अस्य हॄदयं व्य् एव लिखेद् अग्नये ऽप्सुमते ऽष्टाकपालं पुरोडाशं निर्वपेत् तस्यावॄत् ता एव सप्तदश सामिधेनीर् अनुब्रूयाद् वार्त्रघ्नाव् आज्यभागौ विराजौ संयाज्ये अथैते याज्यानुवाक्ये अप्स्व् अग्ने सधिष् टव सौषधीर् अनुरुध्यसे गर्भे सन् जायसे पुनर् इत्य् अथ याज्या गर्भे अस्योषधीनां गर्भो वनस्पतीनाम् गर्भा विश्वस्य भूतस्याग्ने गर्भो अपाम् असीति शान्तिम् एवाभ्याम् एतद् वदति यजमानस्य प्रजायै पशूनाम् अहिँसाया एतद् एव तत्र कर्म ॥
तदाहुः ।
यस्याग्नयो ऽमेध्यैरग्निभिः सँसृज्येरन्किं तत्र कर्म का प्रायश्चित्तिरित्यग्नये शुचये ऽष्टाकपालं पुरोडाशं निर्वपेत्तस्यावृत्ता एव सप्तदश सामिधेनीर् अनुब्रूयाद् वार्त्रघ्नाव् आज्यभागौ विराजौ संयाज्ये अथैते याज्यानुवाक्ये अग्निः शुचिव्रततमः शुचिर्विप्रः शुचिः कविः॥
शुची रोचत आहुत इत्यथ याज्योदग्ने शुचयस्तव शुक्रा भ्राजन्त ईरते तव ज्योतीँष्यर्चय इति शान्तिम् एवाभ्याम् एतद् वदति यजमानस्य प्रजायै पशूनाम् अहिँसाया एतद् एव तत्र कर्म ॥
तद् आहुः ।
यस्याहवनीयम् अनुद्धृतम् आदित्यो ऽभ्यस्तमियात् किं तत्र कर्म का प्रायश्चित्तिर् इत्य् एते वै रश्मयो विश्वे देवास् ते ऽस्माद् अपप्रयन्ति तद् अस्मै व्यृध्यते यस्माद् देवा अपप्रयन्ति ताम् अनु व्यृद्धिं यश् च वेद यश् च न ता उभाव् आहतुर् अनुद्धृतम् अस्याभ्यस्तमगाद् इति तत्रेत्थं कुर्याद् धरितँ हिरण्यं दर्भे प्रबध्य पश्चाद् धर्तवै ब्रूयात् तद् एतस्य रूपं क्रियते य एष तपत्य् अहर् वा एतद् अह्नो रूपं क्रियते पवित्रं दर्भाः पवयत्य् एवैनं तद् अथेध्मम् आदीप्य प्राञ्चँ हर्तवै ब्रूयाद् ब्राह्मण आर्षेय उद्धरेद् ब्राह्मणो वा आर्षेयः सर्वा देवताः सर्वाभिर् एवैनं तद् देवताभिः समर्धयति तम् उपसमाधाय प्रतिपरेत्य गार्हपत्य आज्यम् अधिश्रित्योद्वास्योत्पूयावेक्ष्य चतुर्गृहीतम् आज्यं गृहीत्वा समिधम् उपसङ्गॄह्य प्राङ् उदाद्रवत्य् अथाहवनीये समिधम् अभ्याधाय दक्षिणं जान्व् आच्य जुहोति विश्वेभ्यो देवेभ्यः स्वाहेति स यथा ब्राह्मणम् आवसथवासिनं क्रुद्धं यन्तम् उक्षवेहतोपमन्त्रयेतैवम् एवैतद् विश्वान् देवान् उपमन्त्रयते जानन्ति हैनम् उप हैनम् आवर्तन्त एतद् एव तत्र कर्म ॥
तद् आहुः ।
यस्याहवनीयम् अनुद्धृतम् आदित्यो ऽभ्युदियात् किं तत्र कर्म का प्रायश्चित्तिर् इत्य् एते वै रश्मयो विश्वे देवास् ते ऽस्माद् ऊषिवाँसो ऽपप्रयन्ति तद् अस्मै व्यृध्यते यस्माद् देवा अपप्रयन्ति ताम् अनु व्यृद्धिं यश् च वेद यश् च न ता उभाव् आहतुर् अनुद्धृतम् अस्याभ्युदगाद् इति तत्रेत्थं कुर्याद् रजतँ हिरण्यं दर्भे प्रबध्य पुरस्ताद् धर्तवै ब्रूयात् तच् चन्द्रमसो रूपं क्रियते रात्रिर् वै चन्द्रमास् तद् रात्रे रूपं क्रियते पवित्रं दर्भाः पवयत्य् एवैनं तद् अथेध्मम् आदीप्यान्वञ्चँ हर्तवै ब्रूयाद् ब्राह्मण आर्षेय उद्धरेत् ब्राह्मणो वा आर्षेयः सर्वा देवताः सर्वाभिर् एवैनं तद् देवताभिः समर्धयति तम् उपसमाधाय प्रतिपरेत्य गार्हपत्य आज्यम् अधिश्रित्योद्वास्योत्पूयावेक्ष्य यथागृहीतम् आज्यं गृहीत्वा समिधम् उपसङ्गॄह्य प्राङ् उदाद्रवत्य् अथाहवनीये समिधम् अभ्याधाय दक्षिणं जान्व् आच्य जुहोति विश्वेभ्यो देवेभ्यः स्वाहेति सो ऽसाव् एव बन्धुर् न ह वै तत्र का चनार्तिर् न रिष्टिर् भवति यत्रैषा प्रायश्चित्तिः क्रियत एतद् एव तत्र कर्म ॥