यद् बालाके ।
इदं त्रिवॄद् एति सर्वम् अन्योऽन्यम् अभिसम्पद्यमानम् ।
कथᳪ स्विद् यज्ञः पुरुषः प्रजाप्तिर् अन्योऽन्यं नातिरिच्यन्त एते ॥
यद् ऊर्द्वा स्तोमा अनुयन्ति ।
यज्ञम् अभ्यावर्तᳪ सामभिः कल्पमानाः ।
कथᳪ स्वित् ते पुरुषम् आविशन्ति कथं प्राणैः सयुजो भवन्ति ॥
प्रायणीयो ऽतिरात्रः ।
चतुर्विᳪशम् अहश् चत्वारो ऽभिप्लवाः पॄष्ठ्य इत्य् एते ।
कथᳪ स्वित् ते पुरुषम् आविशन्ति कथं प्राणैः सयुजो भवन्ति ॥
अभिजिता स्वरसामानः ।
अभिक्ल्̥^प्ता उभयतो विषुवन्तम् उपयन्ति ।
कथᳪ स्वित् ते पुरुषम् आविशन्ति कथं प्राणैः सयुजो भवन्ति ॥
त्रिवॄत्प्रायाः ।
सत्पदशाभिक्ल्̥^प्तास् त्रयस्त्रिᳪशान्ताश् चतुरुत्तरेण ।
कथᳪ स्वित् ते पुरुषम् आविशन्ति कथं प्राणैः सयुजो भवन्तीति ॥
शिरस्त्रिवॄत् ।
पञ्चदशो ऽस्य ग्रीवा उर आहुः सप्तदशाभिक्ल्̥^प्तम् ।
एकविᳪशमुदरं कल्पयन्ति पार्श्वे पर्शूस्त्रिणवेनाभिक्ल्̥^प्ते ॥
अभिप्लवा उभयतो ऽस्य बाहू ।
पृष्ठं पॄष्ठ्य इति धीरा वदन्ति ।
अनूकम् अस्य चतुरुत्तरेण संवत्सरे ब्राह्मणाः कल्पयन्ति ॥
कर्णाव् अस्याभिजिद् विश्वजिच् च ।
अक्ष्याव् आहुः स्वरसामाभिक्ल्̥^प्ते ।
नस्यं प्राणं विषुवन्तम् आहुर् गोऽआयुषी प्राणाव् एताव् अवाञ्चौ ॥
अङ्गान्य् अस्य दशरात्रम् आहुः ।
मुखं महाव्रतᳪ संवत्सरे ब्राह्मणाः कल्पयन्ति ।
सर्वस्तोमᳪ सर्वसामानम् एतᳪ संवत्सरम् अध्यात्मं प्रविष्टम् ।
समं धीर आत्मना कल्पयित्वा ब्रध्नस्यास्ते विष्टपे ऽजातशोकः ॥
पुरुषो वै संवत्सरः ।
पुरुष इत्य् एकᳪ संवत्सर इत्य् एकम् अत्र तत् समं द्वे वै संवत्सरस्याहोरात्रे द्वाव् इमौ पुरुषे प्राणाव् अत्र तत् समं त्रय ऋतवः संवत्सरस्य त्रय इमे पुरुषे प्राणा अत्र तत् समं चतुरक्षरो वै संवत्सरश् चतुरक्षरो ऽयं यजमानो ऽत्र तत् समं पञ्चर्तवः संवत्सरस्य पञ्चेमे पुरुषे प्राणा अत्र तत् समᳪ षड् ऋतवः संवत्सरस्य षड् इमे पुरुषे प्राणा अत्र तत् समᳪ सप्तर्तवः संवत्सरस्य सप्तेमे पुरुषे प्राणा अत्र तत् समम् ॥
द्वादश वै मासाः संवत्सरस्य ।
द्वादशेमे पुरुषे प्राणा अत्र तत् समं त्रयोदश वै मासाः संवत्सरस्य त्रयोदशेमे पुरुषे प्राणा नाभिस् त्रयोदश्य् अत्र तत् समं चतुर्विᳪशतिर् वै संवत्सरस्यार्धमासाश् चतुर्विᳪशो ऽयं पुरुषो विᳪशत्य् अङ्गुलिश् चतुरङ्गो ऽत्र तत् समᳪ षड्विᳪशतिर् वै संवत्सरस्यार्धमासाः षड्विᳪशो ऽयं पुरुषः प्रतिष्ठे षड्विᳪश्याव् अत्र तत् समम् ॥
त्रीणि च वै शतानि षष्टिश् च ।
संवत्सरस्य रात्रयस् त्रीणि च शतानि षष्टिश् च पुरुषस्यास्थीन्य् अत्र तत् समं त्रीणि च शतानि षष्टिश् च संवत्सरस्याहानि त्रीणि च शतानि षष्टिश् च पुरुषस्य मज्जानो ऽत्र तत् समᳪ ॥
सप्त च वै शतानि विᳪशतिश् च ।
संवत्सरस्याहोरात्राणि सप्त च शतानि विᳪशतिश् च पुरुषस्यास्थीनि च मज्जानश् चात्र तत् समम् ॥
दश च वै सहस्राण्य् अष्टौ च शतानि ।
संवत्सरस्य मुहूर्ता यावन्तो मुहूर्तास् तावन्ति पञ्चदश कॄत्वः क्षिप्राणि यावन्ति क्षिप्राणि तावन्ति पञ्चदश कॄत्व एतर्हीणि यावन्त्य् एतर्हीणि तावन्ति पञ्चदश कॄत्व इदानीनि यावन्तीदानीनि तावन्तः पञ्चदश कॄत्वः प्राणा यावन्तः प्राणास् तावन्तो ऽना यावन्तो ऽनास् तावन्तो निमेषा यावन्तो निमेषास् तावन्तो लोमगर्ता यावन्तो लोमगर्तास् तावन्ति स्वेदायनानि यावन्ति स्वेदायनानि तावन्त एते स्तोका वर्षन्ति ॥
एतद् ध स्म वै तद् विद्वान् आह वार्कलिः ।
सार्वभौमं मेघं वर्षन्तं वेदाहम् अस्य वर्षस्य स्तोकान् इति ॥
तद् एष श्लोको ऽभ्युक्तः ।
श्रमाद् अन्यत्र परिवर्तमानस् तिष्ठन्न् आसीनो यदि वा स्वपन्न् अपि ।
अहोरात्राभ्यां पुरुषः समेन कति कॄत्वः प्राणिति चाप चानितीति ॥
तद् एष श्लोकः प्रत्युक्तः ।
शतᳪ शतानि पुरुषः समेनाष्टौ शता यन् मितं तद् वदन्ति ।
अहोरात्राभ्यां पुरुषः समेन तावत् कॄत्वः प्राणिति चाप चानीतीति ॥
देवा ह वै सहस्रसंवत्सराय दिदीक्षेरे ।
तेषां पञ्च शतानि संवत्सराणां पर्यवेतान्य् आसुर् अथेदᳪ सर्वम् एव शश्राम ये स्तोमा यानि पृष्ठानि यानि छन्दाᳪसि ॥
ततो देवाः ।
एतद् यज्ञस्यायातयामापश्यंस् तेनायातयाम्ना या वेदे व्यष्टिर् आसीत् तां व्याश्नुवतायातयामा वा अस्य वेदा अयातयाम्न्या हास्य त्रय्या विद्ययार्त्विज्यं कृतं भवति य एवम् एतद् वेद ॥
तद् एतद् यज्ञस्यायातयाम ।
ओ श्रावयास्तु श्रौषड् यज ये यजामहे वौषड् इति तासां वा एतासां पञ्चानां व्याहृतीनाᳪ सप्तदशाक्षराण्यो श्रावयेति चतुरक्षरम् अस्तु श्रौषड् इति चतुरक्षरं यजेति द्व्यक्षरं ये यजामह इति पञ्चाक्षरम् ॥
द्व्यक्षरो वषट्कारः ।
स एष सप्तदशः प्रजापतिर् अधिदेवतं चाध्यात्मं च प्रतिष्ठितः स यो हैवम् एतᳪ सप्तदशं प्रजापतिम् अधिदेवतं चाध्यात्मं च प्रतिष्ठितं वेद प्रतितिष्ठति प्रजया पशुभिर् अस्मिं लोके ऽमृतत्वेनामुष्मिन् ॥
ते ह देवा ऊचुः ।
उप तं यज्ञक्रतुं जानीत यः सहस्रसंवत्सरस्य प्रतिमा को हि तस्मै मनुष्यो यः सहस्रसंवत्सरेण समाप्नुयाद् इति ॥
ते विश्वजितम् एव सर्वपृष्ठम् ।
पॄष्ठ्यस्य षडहस्याञ्जःसवम् अपश्यंस् ते हि स्तोमा भवन्ति तानि पॄष्ठानि तानि छन्दाᳪसि ॥
पॄष्ठ्यम् एव षडहम् ।
द्वादशाहस्याञ्जःसवम् अपश्यंस् ते हि स्तोमा भवन्ति तानि पॄष्ठानि तानि छन्दाᳪसि ॥
द्वादशाहम् एव ।
संवत्सरस्याञ्जःसवम् अपश्यंस् ते हि स्तोमा भवन्ति तानि पॄष्ठानि तानि छन्दाᳪसि ॥
संवत्सरम् एव ।
तापश्चितस्याञ्जःसवमपश्यंस् ते हि स्तोमा भवन्ति तानि पॄष्ठानि तानि छन्दाᳪसि ॥
तापश्चितम् एव ।
सहस्रसंवत्सरस्याञ्जःसवम् अपश्यंस् ते हि स्तोमा भवन्ति तानि पॄष्ठानि तानि छन्दाᳪसि ॥
स वै संवत्सरं दीक्षाभिर् एति ।
संवत्सरम् उपसद्भिः संवत्सरᳪ सुत्याभिः ॥
स यत् संवत्सरं दीक्षाभिर् एति ।
पूर्वार्धम् एव तेन सहस्रसंवत्सरस्यावरुन्द्धे ऽथ यत् संवत्सरम् उपसद्भिर् मध्यम् एव तेन सहस्रसंवत्सरस्यावरुन्द्धे ऽथ यत् संवत्सरᳪ सुत्याभिर् उत्तमार्धम् एव तेन सहस्रसंवत्सरस्यावरुन्द्धे ॥
स वै द्वादश मासान् दीक्षाभिर् एति ।
द्वादशोपसद्भिर् द्वादश सुत्याभिस् तत् षट्त्रिᳪशत्षट्त्रिᳪशदक्षरा वै बृहती बृहत्या वै देवाः स्वर्गे लोके ऽयतन्त बृहत्या स्वर्गं लोकम् आप्नुवंस् तथो एवैष एतद् बृहत्यैव स्वर्गे लोके यतते बृहत्या स्वर्गं लोकम् आप्नोत्य् अथ यो बृहत्यां कामस् तम् एवैतेनैवंविद् अवरुन्द्धे ॥
तद् वा एतत् ।
त्रयᳪ सह क्रियते ऽग्निर् अर्क्यं महद् उक्थᳪ स यत् संवत्सरं दीक्षाभिर् एति संवत्सरम् उपसद्भिस् तेनास्याग्न्यर्काव् आप्तौ भवतो ऽथ यत् संवत्सरᳪ सुत्याभिर् एति तेनो एवास्य महद् उक्थम् आप्तं भवति स वा एष एव सहस्रसंवत्सरस्य प्रतिमा यत् तापश्चित एष प्रजानां प्रजात्यै यत् तापश्चितः ॥
पुरुषᳪ ह नारायणं प्रजापतिर् उवाच ।
यजस्वयजस्वेति स होवाच यजस्वयजस्वेति वाव त्वं माम् आत्थ त्रिर् अयक्षि वसवः प्रातःसवनेनागू रुद्राः माध्यन्दिनेन सवनेनादित्यास् तृतीयसवनेनाथ मम यज्ञवास्त्व् एव यज्ञवास्ताव् एवाहम् आस इति ॥
स होवाच ।
यजस्वैवाहं वै ते तद् वक्ष्यामि यथा त उक्थानि मणिर् इव सूत्र ओतानि भविष्यन्ति सूत्रम् इव वा मणाव् इति ॥
तस्मा उ हैतद् उवाच ।
प्रातःसवने बहिष्पवमान उद्गातारम् अन्वारभासै श्येनो ऽसि गायत्रछन्दा अनु त्वारभे स्वस्ति मा सम्पारयेति ॥
अथ माध्यन्दिने पवमाने ।
उद्गातारम् अन्वारभासै सुपर्णो ऽसि त्रिष्टुप्छन्दा अनु त्वारभे स्वस्ति मा स यारयेति ॥
अथ त्रितीयसवन आर्भवे पवमाने ।
उद्गातारम् अन्वारभासा ऋभुर् असि जगच्छन्दा अनु त्वारभे स्वस्ति मा सम्पारयेति ॥
अथ सᳪस्थितेषुसᳪस्थितेषु सवनेषु जपेः ।
मयि भर्गो मयि महो मयि यशो मयि सर्वम् इति ॥
अयं वै लोका भर्गः ।
अन्तरिक्षलोको महो द्यौर् यशो ये ऽन्ये लोकास् तत् सर्वम् ॥
अग्निर् वै भर्गः ।
वायुर् मह आदित्यो यशो ये ऽन्ये देवास् तत् सर्वम् ॥
ऋग्वेदो वै भर्गः ।
यजुर्वेदो महः सामवेदो यशो ये ऽन्ये वेदास् तत् सर्वम् ॥
वाग् वै भर्गः ।
प्राणो महश् चक्षुर् यशो ये ऽन्ये प्राणास् तत् सर्वम् ॥
तद् विद्यात् ।
सर्वां लोकान् आत्मन्न् अधिषि सर्वेषु लोकेष्व् आत्मानम् अधाᳪ सर्वान् देवान् आत्मन्न् अधिषि सर्वेषु देवेष्व् आत्मानम् अधाᳪ सर्वान् वेदान् आत्मन्न् अधिषि सर्वेषु वेदेष्व् आत्मानम् अधाᳪ सर्वान् प्राणान् आत्मन्न् अधिषि सर्वेषु प्राणेष्व् आत्मानम् अधाम् इत्य् अक्षिता वै लोका अक्षिता देवा अक्षिता वेदा अक्षिताः प्राणा अक्षितᳪ सर्वम् अक्षिताद् ध वा अक्षितम् उपसङ्क्रामत्य् अप पुनर्मृत्युं जयति सर्वम् आयुर् एति य एवम् एतद् वेद ॥
सावित्रᳪ ह स्मैतं पूर्वे पशुम् आलभन्ते ।
अथैतर्हि प्राजापत्यं यो ह्य् एव सविता स प्रजापतिर् इति वदन्तस् तस्मात् सन्न्युप्याग्नींस् तेन यजेरन् गृहपतेर् एवाग्निषु ययेदं जाघन्या पत्नीः संयाजयन्ति तस्यां नो ऽप्य् असद् इति ते ततो यदानिकामं दीक्षन्ते ॥
तद् उ वा आहुः ।
नानाधिष्ण्या एव स्युर् यदि दीक्षितस्योपतपेत् पार्श्वतो ऽग्निहोत्रं जुह्वद् वसेत् स यद्य् अगदो भवति सᳪसॄज्यैनं पुनर् उपह्वयन्ते यद्य् उ म्रियते स्वैर् एव तम् अग्निभिर् दहन्त्य् अशवाग्निभिर् इतरे यजमाना आसत इति तद् अहैवाहिताग्नेः कर्म समानधिष्ण्यास् त्व् एव भवन्ति तस्य तद् एव ब्राह्मणं यत् पुरश्चरणे ॥
तद् आहुः ।
यत् संवत्सराय संवत्सरसदो दीक्षन्ते कथम् एषाम् अग्निहोत्रम् अनन्तरितं भवतीति व्रतेनेति ब्रूयात् ॥
तद् आहुः ।
यत् संवत्सराय संवत्सरसदो दीक्षन्ते कथम् एषां पौर्णमासᳪ हविर् अनन्तर्हितं भवतीत्य् आज्येन च पुरोडाशेन चेति ब्रूयात् ॥
तद् आहुः ।
यत् संवत्सराय संवत्सरसदो दीक्षन्ते कथम् एषां पितृयज्ञो ऽनन्तरितो भवतीत्य् औपासनैर् इति ब्रूयात् ॥
तद् आहुः ।
यत् संवत्सराय संवत्सरसदो दीक्षन्ते कथम् एषाम् आमावास्यᳪ हविर् अनन्तरितं भवतीति दध्ना च पुरोडाशेन चेति ब्रूयात् ॥
तद् आहुः ।
यत् संवत्सराय संवत्सरसदो दीक्षन्ते कथम् एषाम् आग्रयणेष्टिर् अनन्तरिता भवतीति सौम्येन चरुणेति ब्रूयात् ॥
तद् आहुः ।
यत् संवत्सराय संवत्सरसदो दीक्षन्ते कथम् एषां चातुर्मास्यान्य् अनन्तरितानि भवन्तीति पयस्ययेति ब्रूयात् ॥
तद् आहुः ।
यत् संवत्सराय संवत्सरसदो दीक्षन्ते कथम् एषां पशुबन्धो ऽनन्तरितो भवतीति पशुना च पुरोडाशेन चेति ब्रूयात् ॥
तद् आहुः ।
यत् संवत्सराय संवत्सरसदो दीक्षन्ते कथम् एषाँ सोमो ऽनन्तरितो भवतीति सवनैर् इति ब्रूयात् ॥
ते वा एवम् एते यज्ञक्रतवः ।
संवत्सरम् अपियन्ति स यो हैवम् एतां यज्ञक्रतूनाँ संवत्सरे ऽपीतिं वेदाप्य् अस्य स्वर्गे लोके भवति ॥
संवत्सरस्य समता वेदितव्या ।
एकं पुरस्ताद् विषुवतो ऽतिरात्रम् उपयन्त्य् एकम् उपरिष्टात् त्रयःपञ्चाशतं पुरस्ताद् विषुवतो ऽग्निष्टोमान् उपयन्ति त्रयःपञ्चाशतम् उपरिष्टाद् विँशतिशतं पुरस्ताद् विषुवत उक्थ्यान्य् अहान्य् उपयन्ति विँशतिशतम् उपरिष्टाद् इति नु य उक्थ्यान्त् स्वरसाम्न उपयन्ति ॥
अथ ये ऽग्निष्टोमान् ।
षट्पञ्चाशतं पुरस्ताद् विषुवतो ऽग्निष्टोमान् उपयन्ति षट्पञ्चाशतम् उपरिष्टात् सप्तदशँ शतं पुरस्ताद् विषुवत उक्थ्यान्य् अहान्य् उपयन्ति सप्तदशम् उपरिष्टात् षट् पुरस्ताद् विषुवतः षोडशिन उपयन्ति षड् उपरिष्टात् त्रिँशतं पुरस्ताद् विषुवतः षड् अहान् उपयन्ति त्रिँशतम् उपरिष्टाद् एषा हास्य समता समेन ह वा अस्यावृद्धेनान्यूनेनानतिरिक्तेनायनेनेतं भवति य एवम् एतद् वेद ॥