समुद्रं वा एते प्रतरन्ति ।
ये संवत्सराय दीक्षन्ते तस्य तीर्थम् एव प्रायणीयो ऽतिरात्रस् तीर्थेन हि प्रस्नान्ति तद् यत् प्रायणीयम् अतिरात्रम् उपयन्ति यथा तीर्थेन समुद्रं प्रस्नायुस् तादॄक्तत् ॥
गाधम् एव प्रतिष्ठा चतुर्विᳪशम् अहः ।
यथोपपक्षदघ्नं वा कण्ठदघ्नं वा यतो विश्रम्य प्रस्नान्ति प्रस्नेयो ऽभिप्लवः प्रस्नेयः पॄष्ठ्यः ॥
गाधम् एव प्रतिष्ठाभिजित् ।
यथोपपक्षदघ्नं वा कण्ठदघ्नं वा यतो विश्रम्योत्क्रामन्त्य् ऊरुदघ्न एव प्रथमः स्वरसामा जानुदघ्नो द्वितीयः कुल्फदघ्नस् तृतीयो द्वीपः प्रतिष्ठा विषुवान् कुल्फदघ्न एव प्रथमो ऽर्वाक्सामा जानुदघ्नो द्वितीय ऊरुदघ्नस् तृतीयः ॥
गाधम् एव प्रतिष्ठा विश्वजित् ।
यथोपपक्षदघ्नं वा कण्ठदघ्नं वा यतो विश्रम्य प्रस्नान्ति प्रस्नेयः पॄष्ठ्यः प्रस्नेयो ऽभिप्लवः प्रस्नेयो गोआयुषी प्रस्नेयो दशरात्रः ॥
गाधम् एव प्रतिष्ठा महाव्रतम् ।
यथोपपक्षदघ्नं वा कण्ठदघ्नं वा यतो विश्रम्योत्स्नान्ति तीर्थम् एवोदयनीयो ऽतिरात्रस् तीर्थेन ह्य् उत्स्नान्ति तद् यद् उदयनीयम् अतिरात्रम् उपयन्ति यथा तीर्थेन समुद्रं प्रस्नाय तीर्थेनओत्स्नायुस् तादॄक् तत् ॥
तद् आहुः ।
कति संवत्सरस्यातिरात्राः कत्य् अग्निष्टोमाः कत्य् उक्थ्याः कति षोडशिनः कति षडहा इति द्वाव् अतिरात्रौ षट्शतम् अग्निष्टोमा द्वे चत्वारिᳪशे शते उक्थ्यानाम् इति नु य उक्थ्यान्त् स्वरसाम्न उपयन्ति ॥
अथ ये ऽग्निष्टोमान् ।
द्वादशशतम् अग्निष्टोमा द्वे चतुस्त्रिᳪशे शते उक्थ्यानां द्वादश षोडशिनः षष्टिः षडहा इति नु संवत्सरस्याप्तिः ॥
द्वादश वै मासाः संवत्सरस्य ।
तेषाम् एतत् तेज इन्द्रियं यत् पृष्थानि तद् यन् मासिमासि पृष्थान्य् उपयन्ति मासश एव तत् संवत्सरस्य तेज आप्नुवन्त्य् अथ कथं त्रयोदशस्य मासस्य तेज आप्नुवन्तीत्य् उपरिष्टाद् विषुवतो विश्वजितᳪ सर्वपृष्ठम् अग्निष्टोमम् उपयन्त्य् एवम् उ त्रयोदशस्य मासस्य तेज आप्नुवन्ति ॥
एतद् ध स्म वै तद् विद्वान् आह ।
श्वेतकेतुर् आरुणेयः संवत्सराय न्वा अहं दीक्षिष्य इति तᳪ ह पितोपेक्ष्योवाच वेत्थ न्वायुष्मन्त् संवत्सरस्य गाधप्रतिष्ठा इति वेदेति होवाचैतद्ध तद् विद्वान् उवाच ॥
तद् आहुः ।
कस्माद् उभयतोज्योतिषो ऽभिप्लवा भवन्त्य् अन्यतोज्योतिः पॄष्ठ्य इतीमे वै लोका अभिप्लवा उभयतोज्योतिषो वा इमे लोका अग्निनेत आदित्येनामुत ऋतवः पॄष्ठ्यो ऽन्यतोज्योतिषो वा ऋतव एष एषां ज्योतिर् य एष तपति ॥
देवचक्रे वा एते पृष्ठ्योप्रतिष्ठिते ।
यजमानस्य पाप्मानं तृᳪहतो परिप्लवेते स यो हैवं विदुषां दीक्षितानां पापकᳪ सत्त्रे कीर्तयत्य् एते हास्य देवचक्रे शिरश् छिन्त्तो दशरात्र उद्भिः पृष्ठ्याभिप्लवौ चक्रे ॥
तद् आहुः ।
यत् समे एव चक्रे भवतो ऽथैते विषमा स्तोमाः कथम् अस्यैते समा स्तोमास्तोमा उपेता भवन्तीति यद् एव षड् अन्यान्य् अहानि षड् अन्यानि तेनेति ब्रूयात् ॥
पृष्ठ्याभिप्लवौ तन्त्रे कुर्वीतेति ह स्माह पैङ्ग्यः ।
तयो स्तोत्राणि च शस्त्राणि च सञ्चारयेद् इति स यत् सञ्चारयति तस्माद् इमे प्राणा नाना सन्त एकोतयः समानम् ऊतिम् अनुसञ्चरन्त्य् अथ यन् न सञ्चारयेत् प्रमायुको यजमानः स्याद् एष ह वै प्रमायुको यो ऽन्धो वा बधिरो वा ॥
नवाग्निष्टोमा मासि सम्पद्यन्ते ।
नव वै प्राणाः प्राणान् एवैष्व् एतद् दधाति तथा सर्वम् आयुर् यन्ति तथो ह न पुरायुषो ऽस्माल् लोकात् प्रयन्ति ॥
एकविᳪशतिर् उक्थ्याः ।
द्वादश वै मासाः संवत्सरस्य पञ्चर्तवस् त्रयो लोकास् तद् विᳪशतिर् एष एवैकविᳪशो य एष तपत्य् एताम् अभिसम्पदᳪ स एतया सम्पदा मासिमासि स्वर्गं लोकᳪ रोहति मासशः स्वर्गं लोकᳪ समश्नुत एकविᳪशं च स्तोमं बृहतीं च छन्दः ॥
चतुस्त्रिᳪशद् अग्निष्टोमा मासि सम्पद्यन्ते ।
त्रयस्त्रिᳪशद् वै देवाः प्रजापतिश् चतुस्त्रिᳪशः सर्वासां देवतानाम् आप्त्या एक उक्थ्यः षोडशिमान् अन्नं वा उक्थ्यो वीर्यᳪ षोडशी ॥
एतेन वै देवाः ।
वीर्येणान्नेन सर्वान् कामान् आप्नुवन्त् सर्वान् कामान् आश्नुवत तथो एवैष एतेन वीर्येणान्नेन सर्वान् कामान् आप्नोति सर्वान् कामान् अश्नुते तस्मात् पृष्ठ्याभिप्लवा उपैवेयात् संवत्सराय दीक्षित एतस्मै कामाय ॥
अथादित्याश् च ह वा अङ्गिरसश् च ।
उअभये प्राजापत्या अस्पर्द्धन्त वयं पूर्वे स्वर्गं लोकम् एष्यामो वयं पूर्व इति ॥
त आदित्याः ।
चतुर्भि स्तोमैश् चतुर्भिः पृष्ठैर् लघुभिः सामभिः स्वर्गं लोकम् अभ्यप्लवन्त यद् अभ्यलवन्त तस्माद् अभिप्लवाः ॥
अन्वञ्च इवाङ्गिरसः ।
सर्वै स्तोमैः सर्वैः पृष्ठैर् गुरुभिः सामभि स्वर्गं लोकम् अस्पृशन् यद् अस्पृशंस् तस्मात् पॄष्ठ्यः ॥
अभिप्लवः षडहः ।
षड् ढ्य् अहानि भवन्त्य् अभिप्लवः पञ्चाहः पञ्च ह्य् अहानि भवन्ति यद् ध्य् एव प्रथमम् अहस् तद् उत्तमम् अभिप्लवश् चतुरहश् चत्वारो हि स्तोमा भवन्ति त्रिवॄत् पञ्चदशः सप्तदश एकविᳪश इत्य् अभिप्लवस् त्र्यहस् त्र्यावृद् धि ज्योतिर् गौर् आयुर् अभिप्लवो द्व्यहो द्वे ह्य् एव सामनी भवतो बृहद्रथन्तरे एवाभिप्लव एकाह एकाहस्यो हि स्तोमैस् तायते चतुर्णाम् उक्थ्यानां द्वादश स्तोत्राणि द्वादश शस्त्राण्य् अतियन्ति स सप्तमो ऽग्निष्टोम एवम् उ सप्ताग्निष्टोमाः सम्पद्यन्ते ॥
प्रोतिर् ह कौशाम्बेयः ।
कौसुर्बिन्दिर् उद्दालक आरुणौ ब्रह्मचर्यम् उवास तᳪ हाचार्यः पप्रछ कुमार कति ते पिता संवत्सरस्याहान्य् अमन्यतेति ॥
दशेति होवाच ।
दश वा इति होवाच दशाक्षरा विराड् वैराजो यज्ञः ॥
कति त्व् एवेति ।
नवेति होवाच नव वा इति होवाच नव वै प्राणाः प्राणैर् उ यज्ञस् तायते ॥
कति त्व् एवेति ।
अष्टेति होवाचाष्टौ वा इति होवाचाष्टाक्षरा गायत्री गायत्रो यज्ञः ॥
कति त्व् एवेति ।
सप्तेति होआच सप्त वा इति होवाच सप्त छन्दाᳪसि चतुरुत्तराणि छन्दोभिर् उ यज्ञस् तायते ॥
कति त्व् एवेति ।
षड् इति होवाच षड् वा इति होवाच षडृतवः संवत्सरः संवत्सरो यज्ञः समानम् एतद् अहर् यत् प्रायणीयोदयनीयौ ॥
कति त्व् एवेति ।
पञ्चेति होवाच पञ्च वा इति होवाच पाङ्क्तो यज्ञः पाङ्क्तः पशुः पञ्चर्तवः संवत्सरस्य संवत्सरो यज्ञः समानम् एतद् अहर् यच् चतुर्विᳪशमहाव्रते ॥
कति त्व् एवेति ।
चत्वारीति होवाच चत्वारि वा इति होवाच चतुष्पादाः पशवः पशवो यज्ञः समानम् एतद् अहर् यत् पृष्ठ्याभिप्लवौ ॥
कति त्व् एवेति ।
त्रीणीति होवाच त्रीणि वा इति होवाच त्रीणि छन्दाᳪसि त्रयो लोकास् त्रिसवनो यज्ञः समानम् एतद् अहर् यद् अभिजिद्विश्वजितौ ॥
कति त्व् एवेति ।
द्वे इति होवाच द्वे वा इति होवाच द्विपाद् वै पुरुषः पुरुषो यज्ञः समानम् एतद् अहर् यत् स्वरसामानः ॥
कति त्व् एवेति ।
एकम् इति होवाचाहर् एवेति तद् एतद् अहरहर् इति सर्वᳪ संवत्सरᳪ सैषा संवत्सरस्योपनिषत् स यो हैवम् एताᳪ संवत्सरस्योपनिषदं वेदा हास्माच् छ्रेयान् जायते सात्मा भवति संवत्सरो भवति संवत्सरो भूत्वा देवान् अप्येति ॥
स वा एष संवत्सरो बृहतीम् अभिसम्पन्नः ।
द्वाव् आर्क्ष्यताम् अह्नाᳪ षडहौ द्वौ पृष्ठ्याभिप्लवौ गोआयुषी दशरात्रस् तत् षट्त्रिᳪशत् षट्त्रिᳪशदक्षरा वै बृहती बृहत्या वै देवाः स्वर्गे लोके ऽयन्त बृहत्या स्वर्गं लोकम् आप्नुवंस् तथो एवैष एतद् बृहत्यैव स्वर्गे लोके यतते बृहत्या स्वर्गं लोकम् आप्नोत्य् अथ यो बृहत्यां कामस् तम् एवैतेनैवंविद् अवरुन्द्धे ॥
यद् वै चतुर्विᳪशम् अहः ।
दशरात्रस्य वै तत् सप्तमं वा नवमं वाभिप्लवात् पॄष्ठ्यो निर्मितः पॄष्ठ्याद् अभिजिद् अभिजितः स्वरसामानः स्वरसामभ्यो विषुवान् विषुवतः स्वरसामानः स्वरसामभ्यो विश्वजिद् विश्वजितः पॄष्ठ्यः पॄष्ठ्याद् अभिप्लवो ऽभिप्लवाद् गोआयुषी गोआयुर्भ्यां दशरात्रः ॥
अथैतद् अहर् आर्क्ष्यत् ।
यन् महाव्रतं पञ्चविᳪशो ह्य् एतस्य स्तोमो भवति नाक्षराच् छन्दो व्येत्य् एकस्मान् न द्वाभ्यां न स्तोत्रियया स्तोमः ॥
अभिप्लवं पूर्वं पुरस्ताद् विषुवत उपयन्ति ।
पॄष्ठ्यम् उत्तरं पुत्रा वा अभिप्लवः पिता पॄष्ट्यस् तस्मात् पूर्ववयसे पुत्राः पितरम् उपजीवन्ति पॄष्ठ्यम् उपरिष्टाद् विषुवतः पूर्वम् उपयन्त्य् अभिप्लवम् उत्तरं तस्माद् उत्तरवयसे पुत्रान् पितोपजीवन्त्य् उप ह वा एनं पूर्ववयसे पुत्राः जीवन्त्य् उपोत्तरवयसे पुत्रान् जीवति य एवम् एतद् वेद ॥
तद् आहुः ।
यच् चतुर्विᳪशम् अहर् उपेत्य प्रेयात् कथम् अनागूर्ती भवतीति यद् एवादः प्रायणीयम् अतिरात्रम् उपयन्ति तेनेति ब्रूयात् ॥
तद् आहुः ।
यद् द्वादश मासाः संवत्सरस्याथैतद् अहर् अत्येति यद् वैषुवतम् अवरेषाम् एता३त् परेषाम् इत्य् अवरेषां चैव परेषां चेति ह ब्रूयाद् आत्मा वै संवत्सरस्य विषुवान् अङ्गानि मासा यत्र वा आत्मा तद् अङ्गानि यत्रो अङ्गानि तद् आत्मा न वा आत्माङ्गान्य् अतिरिच्यते नात्मानम् अङ्गान्य् अतिरिच्यन्त एवम् उ हैतद् अवरेषां चैव परेषां च भवति ॥
अथ ह वा एष महासुपर्ण एव यत् संवत्सरः ।
तस्य यान् पुरस्ताद् विषुवतः षण् मासान् उपयन्ति सो ऽन्यतरः पक्षो ऽथ यान् षड् उपरिष्टात् सो ऽन्यतर आत्मा विषुवान् यत्र वा आत्मा तत् पक्षौ यत्र वा पक्षौ तद् आत्मा न वा आत्मा पक्षाव् अतिरिच्यते नात्मानं पक्षाव् अतिरिच्येते एवम् उ हैतद् अवरेषां चैव परेषां च भवति ॥
तद् आहुः ।
यत् पुरस्ताद् विषुवत ऊर्ध्वान्त् स्तोमान् षण् मासान् उपयन्ति षड् उपरिष्टाद् आवृत्तान् कथम् अस्यैत ऊर्ध्वा स्तोमा उपेता भवन्तीति यम् एवामुम् ऊर्ध्वस्तोमं दशरात्रम् उपयन्ति तेनेति ब्रूयाद् देवेभ्यो ह वै महाव्रतं न तस्थे कथम् ऊर्ध्वै स्तोमैर् विषुवन्तम् उपागातावृत्तैर् माम् इति ॥
ते ह देवा ऊचुः ।
उप तं यज्ञक्रतुं जानीत य ऊर्ध्वस्तोमो येनेदम् आप्नवामेति त एतम् ऊर्ध्वस्तोमं दशरात्रम् अपश्यन्त् संवत्सरविधं तस्य यः पॄष्ठ्यः षडह ऋतवः स इमे लोकाश् छन्दोमाः संवत्सरो दशमम् अहस् तेनैनद् आप्न्वंस् तद् एभ्यो ऽतिष्ठत् तिष्ठते ह वा अस्मै महाव्रतं य एवम् एतद् वेद ॥
अथ वा अतो ऽह्नाम् अभ्यारोहः ।
प्रायणीयेनातिरात्रेणोदयनीयम् अतिरात्रम् अभ्यारोहन्ति चतुर्विᳪशेन महाव्रतम् अभिप्लवेन परम् अभिप्लवं पॄष्ठ्येन परं पॄष्ठ्यम् अभिजिता विश्वजितᳪ स्वरसामभिः परान्त् स्वरसाम्नो ऽथैतद् अहर् अनभ्यारूढं यद् वैषुवतम् अभि ह वै श्रेयाᳪसँ रोहति नैन पापीयान् अभ्यारोहति य एवम् एतद् वेद ॥
अथ वा अतो ऽह्नां निवाहः ।
प्रायणीयो ऽतिरात्रश् चतुर्विँशायाह्ने निवहति चतुर्विँशम् अहर् अभिप्लवायाभिप्लवः पॄष्ठ्याय पॄष्ठ्यो ऽभिजिते ऽभिजित् स्वरसामभ्यः स्वरसामानो विषुवते विषुवान्त् स्वरसामभ्यः स्वरसामानो विश्वजिते विश्वजित् पॄष्ठ्याय पॄष्ठ्यो ऽभिप्लवायाभिप्लवो गोआयुर्भ्यां गोआयुषी दशरात्राय दशरात्रो महाव्रताय महाव्रतम् उदयनीयायातिरात्रायोदयनीयो ऽतिरात्रः स्वर्गाय लोकाय प्रतिष्ठाया अन्नाद्याय ॥
तानि वा एतानि ।
यज्ञारण्यानि यज्ञक्षत्राणि तानि शतँशतँ रथाह्न्यान्य् अन्तरेण तानि ये ऽविद्वाँस उपयन्ति यथारण्यान्यां मुग्धांश् चरतो ऽशनाया वा पिपासा वा पाप्मानो रक्षाँसि सचन्ते ऽथ ये विद्वाँसो यथा प्रवाहात् प्रवाहम् अभयाद् अभयम् एवँ हैव ते देवतायै देवताम् उपसंयन्ति ते स्वस्ति स्वर्गं लोकँ समश्नुवते ॥
तद् आहुः ।
कति संवत्सरस्याहानि परञ्चि कत्य् अर्वाञ्चीति स यानि सकॄत्सकृद् उपयन्ति तानि पराञ्च्य् अथ यानि पुनःपुनस् तान्य् अर्वाञ्च्य् अर्वाञ्चीति ह त्व् एवैनान्य् उपासीत षडहयोर् ह्य् आवृत्तिम् अन्व् आवर्तते ॥
पुरुषो वै संवत्सरः ।
तस्य प्राण एव प्रायणीयो ऽतिरात्रः प्राणेन हि प्रयन्ति वाग् एवारम्भणीयम् अहर् वाचा ह्य् आरभन्ते यद्यद् आरभन्ते ॥
अयम् एव दक्षिणो हस्तो ऽभिप्लवः षडहः ।
तस्येदम् एव प्रथमम् अहस् तस्येदम् एव प्रातःसवनम् इदं माध्यन्दिनँ सवनम् इदं तृतीयसवनं गायत्र्या आयतने तस्माद् इयम् आसाँ ह्रसिष्ठा ॥
इदम् एव द्वितीयम् अहः ।
तस्येदम् एव प्रातःसवनम् इदं माध्यन्दिनँ सवनम् इदं तृतीयसवनं त्रिष्टुभ आयतने तस्माद् इयम् अस्यै वर्षीयसी ॥
इदम् एव तृतीयम् अहः ।
तस्येदम् एव प्रातःसवनम् इदं माध्यन्दिनँ सवनम् इदं तृतीयसवनं जगत्या आयतने तस्माद् इयम् आसां वर्षिष्ठा ॥
इदम् एव चतुर्थम् अहः ।
तस्येदम् एव प्रातःसवनम् इदं माध्यन्दिनँ सवनम् इदं तृतीयसवनं विराज आयतने ऽन्नं वै विराट् तस्माद् इयम् आसाम् अन्नादितमा ॥
इदम् एव पञ्चमम् अहः ।
तस्येदम् एव प्रातःसवनम् इदं माध्यन्दिनँ सवनम् इदं तृतीयसवनं पङ्क्तेर् आयतने पृथुर् इव वै पङ्क्तिस् तस्माद् अयम् आसां प्रथिष्ठः ॥
इदम् एव षष्ठम् अहः ।
तस्येदम् एव प्रातःसवनम् इदं माध्यन्दिनँ सवनम् इदं तृतीयसवनम् अतिच्छन्दस आयतने तस्माद् अयम् आसां वर्षिष्ठो गायत्रम् एतद् अहर् भवति तस्माद् इदं फलकँ ह्रसिष्ठँ स इतो ऽभिप्लवः षडहः स इतः स इतः स इत आत्मा पॄष्ठ्यः ॥
एतद् ध स्म वै तद् विद्वान् आह पैङ्ग्यः ।
प्लवन्त इव वा अभिप्लवास् तिष्ठतीव पॄष्ठ्य इति प्लवत इव ह्य् अयम् अङ्गैस् तिष्ठतीवात्मनेति ॥
शिर एवास्य त्रिवॄत् ।
तस्मात् तत् त्रिविधं भवति त्वग् अस्थि मस्तिष्कः ॥
ग्रीवा पञ्चदसः ।
चतुर्दश वा एतासां करूकराणि वीर्यं पञ्चदशं तस्माद् एताभिर् अण्वीभिः सतीभिर् उरुं भारँ हरति तस्माद् ग्रीवाः पञ्चदशः ॥
उरः सप्तदशः अष्टाव् अन्ये जत्रवो ऽष्टाव् अन्य उरः सप्तदशं तस्मादुरः सप्तदशः ॥
उदरम् एकविँशः ।
विँशतिर् वा अन्तर् उदरे कुन्तापान्य् उदरम् एकविँशं तस्माद् उदरम् एकविँशः ॥
पार्श्वे त्रिणवः ।
त्रयोदशान्याः पर्शवस् त्रयोदशान्याः पार्श्वे त्रिणवे तस्मात् पार्श्वे त्रिणवः ॥
अनूकं त्रयस्त्रिँशः ।
द्वात्रिँशद् वा एतस्य करूकराण्य् अनूकं त्रयस्त्रिँशं तस्माद् अनूकं त्रयस्त्रिँशः ॥
अयम् एव दक्षिणः कर्णो ऽभिजित् ।
यद् इदम् अक्ष्णः शुक्लँ स प्रथमः स्वरसामा यत् कृष्णँ स द्वितीयो यन् मण्डलँ स द्वितीयो यच् छुक्लँ स तृतीयः ॥
अयम् एवोत्तरः कर्णो विश्वजित् ।
उक्तौ पृष्ठ्याभिप्लवौ याव् अवञ्चौ प्राणौ ते गोआयुषी अङ्गानि दशरात्रो मुखं महाव्रतम् उदान एवोदयनीयो ऽतिरात्र उदानेन ह्य् उद्यन्ति स एष संवत्सरो ऽध्यात्मं प्रतिष्ठितः स यो हैवम् एतँ संवत्सरम् अध्यात्मं प्रतिष्ठितं वेद प्रतितिष्ठति प्रजया पशुभिर् अस्मिं लोके ऽमृतत्वेनामुष्मिन् ॥