०१

अयं वै यज्ञो यो ऽयं पवते ।
तम् एत ईप्सन्ति ये संवत्सराय दीक्षन्ते तेषां गृहपतिः प्रथमो दीक्षते ऽयं वै लोको गृहपतिर् अस्मिन् वै लोक इदᳪ सर्वं प्रतिष्ठितं गृहपता उ वै ससत्त्रिणः प्रतिष्ठिताः प्रतिष्ठायाम् एवैतत् प्रतिष्ठाय दीक्षन्ते ॥
अथ ब्रह्माणं दीक्षयति ।
चन्द्रमा वै ब्रह्मा सोमो वै चन्द्रमाः सौम्या ओषधय ओषधीस् तद् अनेन लोकेन सन्दधाति तस्माद् एताव् अन्तरेणान्यो न दीक्षेत स यद् धैताव् अन्तरेणान्यो दीक्षेतौषधीस् तद् अनेन लोकेन नानाकुर्याद् उछोषुका ह स्युस्॥
तस्माद् एताव् अन्तरेणान्यो न दीक्षेत ॥
अथोद्गातारं दीक्षयति ।
पर्जन्यो वा उद्गाता पर्जन्याद् उ वै वॄष्टिर् जायते वॄष्टिं तद् ओषधिभ्यः सन्दधाति तस्माद् एताव् अन्तरेणान्यो न दीक्षेत स यद् धैताव् अन्तरेणान्यो दीक्षेत वॄष्टिं तद् ओषधिभिर् नानाकुर्याद् अवर्षुको ह स्यात् तस्माद् एताव् अन्तरेणान्यो न दीक्षेत ॥
अथ होतारं दीक्षयति ।
अग्निर् वै होताधिदेवतं वाग् अध्यात्मम् अन्नं वॄष्टिर् अग्निं च तद् वाचं चान्नेन सन्दधाति तस्माद् एताव् अन्तरेणान्यो न दीक्षेत स यद् धैताव् अनतरेणान्यो न दीक्षेतैतांश् चतुरो ऽध्वर्युर् दीक्षयति ॥
अथाध्वर्युं प्रतिप्रस्थाता दीक्षयति ।
मनो वा अध्वर्युर् वाग् घोता मनश् च तद् वाचं च सन्दधाति तस्माद् एताव् अन्तरेनान्यो न दीक्षेत स यद् धैताव् अन्तरेणान्यो दीक्षेत मनश् च तद् वाचं च नानाकुर्यात् प्रमायुका ह स्युस् तस्माद् एताव् अन्तरेणान्यो न दीक्षेत ॥
अथ ब्रह्मणे ब्राह्मणाछᳪसिनं दीक्षयति ।
तᳪ हि सो ऽन्व् अथोद्गात्रे प्रस्तोतारं दीक्षयति तᳪ हि सो ऽन्व् अथ होत्रे मैत्रावरुणं दीक्षयति तं हि सो ऽन्व् एतांश् चतुरः प्रतिप्रस्थाता दीक्षयति ॥
अथाध्वर्यवे प्रतिप्रस्थातारं नेष्टा दीक्षयति ।
तᳪ हि सो ऽन्व् एतेषां वै नवानां क्ल्̥^;प्तिम् अन्व् इतरे कल्पन्ते नव वै प्राणाः प्राणान् एवैष्व् एतद् दधाति तथा सर्वम् आयुर् यन्ति तथो ह न पुरायुषो ऽस्माल् लोकात् प्रयन्ति ॥
अथ ब्रह्मणे पोतारं दीक्षयति ।
तᳪ हि सो ऽन्व् अथोद्गात्रे प्रतिहर्तारं दीक्षयति तᳪ हि सो ऽन्व् अथ होत्रे ऽछावाकं दीक्षयति तᳪ हि सो ऽन्व् एतांश् चतुरो नेष्टा दीक्षयति ॥
अथाध्वर्यवे नेष्टारम् उन्नेता दीक्षयति ।
तᳪ हि सो ऽन्व् अथ ब्रह्मण आग्नीध्रं दीक्षयति तᳪ हि सो ऽन्व् अथोद्गात्रे सुब्रह्मण्यां दीक्षयति तᳪ हि सो ऽन्व् अथ होत्रे ग्रावस्तुतं दीक्षयति तᳪ हि सो ऽन्व् एतांश् चतुर उन्नेता दीक्षयति ॥
अथोन्नेतारᳪ ।
स्नातको वा ब्रह्मचारी वान्यो वादीक्षितो दीक्षयति न पूतः पावयेद् इति ह्य् आहुः सैषानुपूर्वदीक्षा स यत्र हैवं विद्वाᳪसो दीक्षन्ते दीक्षमाणा हैव ते यज्ञं कल्पयन्ति यज्ञस्य क्ल्̥^प्तिम् अनु सत्त्रिणां योगक्षेमः कल्पते सत्त्रिणां योगक्षेमस्य क्ल्̥^प्तिम् अन्व् अपि तस्यार्धस्य योगक्षेमः कल्पते यस्मिन्न् अर्धे यजन्ते ॥
तेषां वा उन्नेतोत्तमो दीक्षते ।
प्रथमो ऽवभृथाद् उदायताम् उदैति प्राणो वा उन्नेता प्राणम् एवैष्व् एतद् उभयतो दधाति तथा सर्वम् आयुर् यन्ति तथो ह न पुरायुषो ऽस्माल् लोकात् प्रयन्ति सैषानुपूर्वदीक्षा स यत्र हैवं विद्वाᳪसो दीक्षेरंस् तद् एव दीक्षेत ॥
श्रद्धाया वै देवाः ।
दीक्षां निरमिमतादित्यै प्रायणीयᳪ सोमात् क्रयं विष्णोर् आतिथ्यम् आदित्यात् प्रवर्ग्यᳪ स्वधाया उपसदो ऽग्नीषोमाभ्याम् उपवसथम् अस्माल् लोकात् प्रायणीयम् अतिरात्रᳪ ॥
संवत्सराच् चतुर्विᳪशम् अहः ।
ब्रह्मणो ऽभिप्लवं क्षत्रात् पृष्ठ्यम् अग्नेर् अभिजितम् अद्भ्यः स्वरसाम्न आदित्याद् विषुवन्तम् उक्ताः स्वरसामान इन्द्राद्विश्वजितम् उक्तौ पृष्ठ्याभिप्लवौ मित्रावरुणाभ्यां गोआयुषी विश्वेभ्यो देवेभ्यो दशरात्रं दिग्भ्यो दाशरात्रिकं पॄष्ठ्यᳪ षडहम् एभ्यो लोकेभ्यश् छन्दोमान् ॥
संवत्सराद् दशमम् अहः ।
प्रजापतेर् महाव्रतᳪ स्वर्गाल् लोकाद् उदयनीयम् अतिरात्रं तद् एतत् संवत्सरस्य जन्म स यो हैवम् एतत् संवत्सरस्य जन्म वेदा हास्माच् छ्रेयान् जायते सात्मा भवति संवत्सरो भवति संवत्सरो भूत्वा देवान् अप्येति ॥
यद् वै दीक्षन्ते ।
अग्नाविष्णू एव देवते यजन्ते ऽग्नाविष्णू देवते भवन्त्य् अग्नाविष्ण्वोः सायुज्यᳪ सलोकतां जयन्ति ॥
अथ यत् प्रायणीयेन यजन्ते॥

अदितिम् एव देवतां यजन्ते ऽदितिर् देवता भवन्त्य् अदितेः सायुज्यᳪ सलोकतां जयन्ति॥

अथ यत् क्रयेण चरन्ति ।
सोमम् एव देवतां यजन्ते सोमो देवता भवन्ति सोमस्य सायुज्यᳪ सलोकतां जयन्ति॥

अथ यद् आतिथ्येन यजन्ते ।
विष्णुम् एव देवतां यजन्ते विष्णुर् देवता भवन्ति विष्णोः सायुज्यᳪ सलोकतां जयन्ति॥

अथ यत् प्रवर्ग्येण यजन्ते ।
आदित्यम् एव देवतां यजन्त आदित्यो देवता भवन्त्य् आदित्यस्य सायुज्यᳪ सलोकतां जयन्ति॥

अथ यद् उपसद उपयन्ति ।
एता एव देवता यजन्ते या एता उपसत्स्व् एता देवता भवन्त्य् एतासां देवतानाᳪ सायुज्यᳪ सलोकतां जयन्ति॥

अथ यद् अग्नीषोमीयेण पशुना यजन्ते ।
अग्नीषोमाव् एव देवते यजन्ते ऽग्नीषोमौ देवते भवन्त्य् अग्नीषोमयोः सायुज्यᳪ सलोकतां जयन्ति॥

अथ यत् प्रायणीयम् अतिरात्रम् उपयन्ति ।
अहोरात्रे एव देवते यजन्ते ऽहोरात्रे देवते भवन्त्य् अहोरात्रयोः सायुज्यᳪ सलोकतां जयन्ति॥

अथ यच् चतुर्विᳪशम् अहर् उपयन्ति संवत्सरम् एव देवतां यजन्ते संवत्सरो देवता भवन्ति संवत्सरस्य सायुज्यᳪ सलोकतां जयन्ति॥

अथ यद् अभिप्लवᳪ षडहम् उपयन्ति ।
अर्धमासांश् च मासांश् च देवता यजन्ते ऽर्धमासाश् च मासाश् च देवता भवन्त्य् अर्धमासानां च मासानां च सायुज्यᳪ सलोकतां जयन्ति॥

अथ यत् पॄष्ठ्यᳪ षडहम् उपयन्ति ।
ऋतून् एव देवता यजन्त ऋतवो देवता भवन्त्य् ऋतूनाᳪ सायुज्यᳪ सलोकतां जयन्ति॥

अथ यद् अभिजितम् उपयन्ति ।
अग्निम् एव देवतां यजन्ते ऽग्निर् देवता भवन्त्य् अग्नेः सायुज्यᳪ सलोकतां जयन्ति॥

अथ यत् स्वरसाम्न उपयन्ति ।
अप एव देवतां यजन्त आपो देवता भवन्त्य् अपाᳪ सायुज्यᳪ सलोकतां जयन्ति॥

अथ यद् विषुवन्तम् उपयन्ति ।
आदित्यम् एव देवतां यजन्त आदित्यो देवता भवन्त्य् आदित्यस्य सायुज्यᳪ सलोकतां जयन्त्य् उक्ताः स्वरसामानः ॥
अथ यद् विश्वजितम् उपयन्ति ।
इन्द्रम् एव देवतां यजन्त इन्द्रो देवता भवन्तीन्द्रस्य सायुज्यᳪ सलोकतां जयन्त्य् उक्तौ पृष्ठ्याभिप्लवौ ॥
अथ यद् गोआयुषी उपयन्ति ।
मित्रावरुणाव् एव देवते यजन्ते मित्रावरुणौ देवते भवन्ति मित्रावरुणयोः सायुज्यᳪ सलोकतां जयन्ति॥

अथ यद् दशरात्रम् उपयन्ति ।
विश्वान् एव देवान् देवतां यजन्ते विश्वे देवा देवता भवन्ति विश्वेषां देवानाᳪ सायुज्यᳪ सलोकतां जयन्ति॥

अथ यद् दाशरात्रिकं पॄष्ठ्यᳪ षडहम् उपयन्ति ।
दिश एव देवता यजन्ते दिशो देवता भवन्ति दिषाँ सायुज्यँ सलोकतां जयन्ति॥

अथ यच् छन्दोमान् उपयन्ति ।
इमान् एव लोकान् देवता यजन्त इमे लोका देवता भवन्त्य् एषां लोकानाँ सायुज्यँ सलोकतां जयन्ति॥

अथ यद् दशमम् अहर् उपयन्ति ।
संवत्सरम् एव देवतां यजन्ते संवत्सरो देवता भवन्ति संवत्सरस्य सायुज्यँ सलोकतां जयन्ति॥

अथ यन् महाव्रतम् उपयन्ति ।
प्रजापतिम् एव देवतां यजन्ते प्रजापतिर् देवता भवन्ति प्रजापतेः सायुज्यँ सलोकतां जयन्ति॥

अथ यद् उदयनीयम् अतिरात्रम् उपयन्ति ।
संवत्सरम् एव तद् आप्त्वा स्वर्गे लोके प्रतितिष्ठन्ति तान् यदि पृछेयुः काम् अद्य देवतां यजध्वे का देवता स्थ कस्यां देवतायां वसथेत्य् अत एवैकतमां ब्रूयुर् यस्यै तु नेदिष्ठँ स्युर् एते ह वै सति सद एते हि सतीषु देवतासु सीदन्तो यन्ति सत्त्रसदो हैवेतरे स यो हैवं विदुषां दीक्षितानां पापकँ सत्त्रे कीर्तयेद् एतेभ्यस् त्वा देवताभ्य आवृश्चाम इत्य् एनं ब्रूयुः स पापीयान् भवति श्रेयाँस आत्मना ॥
स एष संवत्सरस् त्रिमहाव्रतः ।
चतुर्विँशे महाव्रतं विषुवति महाव्रतं महाव्रत एव महाव्रतं तँ ह स्मैतं पूर्व उपयन्ति त्रिमहाव्रतं ते तेजस्विन आसुः सत्यवादिनः सँशितव्रता अथ य उ हैनम् अप्य् एतर्हि तथोपेयुर् यथामपात्रम् उदक आसिक्ते विम्रित्येद् एवँ हैव ते विम्रित्येयुर् उपयुपयन्ति तद् एषाँ सत्येन श्रमेण तपसा श्रद्धया यज्ञेनाहुतिभिर् अवरुद्धं भवति ॥
पुरुषो वै संवत्सरः तस्य पादाव् एव प्रायणीयो ऽतिरात्रः पादाभ्याँ हि प्रयन्ति तयोर् यच् छुक्लं तद् अह्नो रूपं यत् कृष्णं तद् रात्रेर् नखान्य् एवौषधिवनस्पतीनाँ रूपम् ऊरू चतुर्विँशम् अहर् उरो ऽभिप्लवः पृष्ठं पॄष्ठ्यः ॥
अयम् एव दक्षिणो बाहुर् अभिजित् ।
इम एव दक्षिणे त्रयः प्राणाः स्वरसामानो मूर्धा विषुवान् इम एवोत्तरे त्रयः प्राणाः स्वरसामानः ॥
अयम् एवोत्तरो बाहुर् विश्वजित् ।
उक्तौ पृष्ठ्याभिप्लवौ याव् अवाञ्चौ प्राणौ ते गोआयुषी अङ्गानि दशरात्रो मुखं महाव्रतँ हस्ताव् एवोदयनीयो ऽतिरात्रो हस्ताभ्याँ ह्य् उद्यन्ति तयोर् यच् छुक्लं तद् अह्नो रूपं यत् कृष्णं तद् रात्रेर् नखान्य् एव नक्षत्राणाँ रूपँ स एष संवत्सरो ऽध्यात्मं प्रतिष्ठितः स यो हैवम् एतँ संवत्सरम् अध्यात्मं प्रतिष्ठितं वेद प्रतितिष्ठति प्रजया पशुभिर् अस्मिं लोके ऽमृतत्वेनामुष्मिन् ॥