०८

तद्यथा ह वै॥
इदं रथचक्रं वा कौलालचक्रं वाप्रतिष्ठितं क्रन्देदेवं हैवेमे लोका अध्रुवा अप्रतिष्ठिता आसुः॥
स ह प्रजापतिरीक्षां चक्रे॥
कथं न्विमे लोका ध्रुवाः प्रतिष्ठिताः स्युरिति स एभिश्चैव पर्वतैर्नदीभिश्चेमामदृंहद्वयोभिश्च मरीचिभिश्चान्तरिक्षं जीमूतैश्च नक्षत्रैश्च दिवम्॥
स मह इति व्याहरत्॥
पशवो वै महस्तस्माद्यस्यैते बहवो भवन्ति भूयिष्ठमस्य कुले महीयन्ते बहवो ह वा अस्यैते भवन्ति भूयिष्ठं हास्य कुले महीयन्ते तस्माद्यद्येनमायतनाद्बाधेरन्वा प्र वा यापयेयुरग्निहोत्रं हुत्वा मह इत्युपतिष्ठेत प्रति प्रजया पशुभिस्तिष्ठति नायतनाच्च्यवते॥
चत्वारो ह वा अग्नयः॥
आहित उद्धृतः प्रहृतो विहृतोऽयमेव लोक आहितोऽन्तरिक्षलोक उद्धृतो द्यौष्प्रहृतो दिशो विहृतोऽग्निरेवाहितो वायुरुद्धृत आदित्यः प्रहृतश्चन्द्रमा विहृतो गार्हपत्य एवाहित आहवनीय उद्धृतोऽथ यमेतमाहवनीयात्प्राञ्चम् प्रणयन्ति स प्रहृतोऽथ यमेतमुदञ्चम् पशुश्रपणायाहरन्ति यं चोपयङ्भ्यः स विहृतस्तस्मात्प्रहार्येऽग्नौ पशुबन्धेन यजेत॥
तदाहुः॥
किन्देवत्य एष पशुः स्यादिति प्राजापत्यः स्यादित्याहुः प्रजापतिर्वा एतमग्रेऽभ्यपश्यत्तस्मात्प्राजापत्य एवैष पशुः स्यादिति॥
अथो अप्याहुः॥
सौर्य एवैष पशुः स्यादिति तस्मादेतस्मिन्नस्तमिते पशवो बध्यन्ते बध्नन्त्येकान्यथागोष्ठमेक उपसमायन्ति तस्मात्सौर्य एवैष पशुः स्यादिति॥
अथो अप्याहुः॥
ऐन्द्राग्न एवैष पशुः स्यादित्येते वै देवते अन्वन्त्ये देवा यद्यार्तो यजते पारयत एव यदि महसायजते पारयत एव तस्मादैन्द्राग्न एवैष पशुः स्यादिति॥
प्राण एव पशुबन्धः॥
तस्माद्यावज्जीवति नास्यान्यः पशूनामीष्टे बद्धा ह्यास्मिन्नेते भवन्ति॥
स ह प्रजापतिरग्निमुवाच॥
यजै त्वया त्वा लभा इति नेति होवाच वायुम् ब्रूहीति स ह वायुमुवाच यजै त्वया त्वा लभा इति नेति होवाच पुरुषम् ब्रूहीति स ह पुरुषमुवाच यजै त्वया त्वा लभा इति नेति होवाच पशून्ब्रूहीति स ह पशूनुवाच यजै युष्माभिरा वो लभा इति नेति होचुश्चन्द्रमसम् ब्रूहीति स ह चन्द्रमसमुवाच यजै त्वया त्वा लभा इति नेति होवाचादित्यम् ब्रूहीति स हादित्यमुवाच यजै त्वया त्वा लभा इति तथेति होवाच य उ त एते नाचीकमन्त किमु म एतेषु स्यादिति यद्यत्कामयेथा इति तथेति तमालभत सोऽस्यायम् पशुरालब्धः सञ्ज्ञप्तोऽश्वयत्तमेताभिराप्रीभिराप्रीणात्तद्यदेनमेताभिराप्रीभिराप्रीणात्तस्मादाप्रियो नाम तस्मादु पशुं सञ्ज्ञप्तम् ब्रूयाछेतां नु मुहूर्तमिति स यावन्तमश्वमेधेनेष्ट्वा लोकं जयति तावन्तमेतेन जयति॥
तम् प्राची दिक्॥
प्राणेत्यनुप्राणत्प्राणमेवास्मिंस्तददधात्तं दक्षिणा दिग्व्यानेत्यनुप्राणद्व्यानमेवास्मिंस्तददधात्तम् प्रतीची दिगपानेत्यनुप्राणदपानमेवास्मिंस्तददधात्तमुदीची दिगुदानेत्यनुप्राणदुदानमेवास्मिंस्तददधात्तमूर्ध्वा दिक्समानेत्यनुप्राणत्समानमेवास्मिंस्तददधात्तस्मादु पुत्रं जातमकृत्तनाभिम् पञ्च ब्राह्मणान्ब्रूयादित्येनमनुप्राणितेति यद्यु तान्न विन्देदपि स्वयमेवानुपरिक्राममनुप्राण्यात्स सर्वमायुरेत्या हैव जरायै जीवति॥
स प्राणमेवाग्नेरादत्त॥
तस्मादेष नानुपध्मातो नानुपज्वलितो ज्वलत्यात्तो ह्यस्य प्राण आ ह वै द्विषतो भ्रातृव्यस्य प्राणं दत्ते य एवं वेद॥
रूपमेव वायोरादत्त॥
तस्मादेतस्य लेलयत इवैवोपशृण्वन्ति न त्वेनम् पश्यन्त्यात्तं ह्यस्य रूपमा ह वै द्विषतो भ्रातृव्यस्य रूपं दत्ते य एवं वेद॥
चित्तमेव पुरुषस्यादत्त॥
तस्मादाहुर्देवचित्तं त्वावतु मा मनुष्यचित्तमित्यात्तं ह्यस्य चित्तमा ह वै द्विषतो भ्रातृव्यस्य चित्तं दत्ते य एवं वेद॥
चक्षुरेव पशूनामादत्त॥
तस्मादेते चाकश्यमाना इवैव न जानन्त्यथ यदैवोपजिघ्रन्त्यथ जानन्त्यात्तं ह्येषां चक्षुरा ह वै द्विषतो भ्रातृव्यस्य चक्षुर्तत्ते य एवं वेद॥
भामेव चन्द्रमस आदत्त॥
तस्मादेतयोः सदृशयोः सतोर्नतरां चन्द्रमा भात्यात्ता ह्यस्य भा आ ह वै द्विषतो भ्रातृव्यस्य भां दत्ते य एवं वेद तद्यदादत्त तस्मादादित्यः॥
केशिगृहपतीनामु ह॥
सम्राड्दुघां शार्दूलो जघान स ह ससत्त्रिण आमन्त्रयां चक्रे केह प्रायश्चित्तिरिति ते होचुर्नेह प्रायश्चित्तिरस्ति खण्डिक एवौद्भारिरस्य प्रायश्चित्तिं वेद स उ त एतादृक्चैव कामयतेऽतश्च पापीय इति॥
स होवाच॥
सङ्ग्रहीतर्युङ्ग्धि मे स्यन्त्स्यामि स यद्यह मे वक्ष्यति समाप्स्यामि यद्यु मा मारयिष्यति यज्ञं विकृष्टमनु विक्रक्ष्य इति॥
स ह युक्त्वा ययावाजगाम॥
तं ह प्रतिख्यायोवाच यन्न्वेतान्येवाजिनानि मृगेषु भवन्त्यथैषाम् पृष्टीरपिशीर्य पचामहे कृष्णाजिनम् मे ग्रीवास्वाबद्धमित्येव मेदमधृषोऽभ्यवस्यन्त्तू३ मिति॥
नेति होवाच॥
सम्राड्दुघां वै मे भगवः शार्दूलोऽवधीत्स यद्यह मे वक्ष्यसि समाप्स्यामि यद्यु मा मारयिष्यसि यज्ञं विकृष्टमनु विक्रक्ष्य इति॥
स होवाच॥
आमन्त्रणीयान्न्वामन्त्रया इति तान्हामन्त्र्योवाच यद्यस्मै वक्ष्याम्यमुष्यैवेदम् प्रजा भविष्यति न मम लोकी त्वहम् भविष्यामि यद्यु वा अस्मै न वक्ष्यामि ममैवेदम् प्रजा भविष्यति नामुष्य लोकी त्वसौ भविष्यतीति ते होचुर्मा भगवो वोचोऽयं वाव क्षत्रियस्य लोक इति स होवाच वक्ष्याम्येवामूर्वै रात्रयो भूयस्य इति॥
तस्मा उ हैतदुवाच॥
स्पृतीर्हुत्वान्यामाजतेति ब्रूतात्सा ते सम्राड्दुघा स्यादिति चन्द्रात्ते मन स्पृणोमि स्वाहा सूर्यात्ते चक्षु स्पृणोमि स्वाहा वातात्ते प्राणान्त्स्पृणोमि स्वाहा दिग्भ्यस्ते श्रोत्रं स्पृणोमि स्वाहाद्भ्यस्ते लोहितं स्पृणोमि स्वाहा पृथिव्यै ते शरीरं स्पृणोमि स्वाहेत्यथान्यामाजतेति ब्रूतात्सा ते सम्राड्दुघा स्यादिति ततो हैव स उत्ससाद कैशिनीरेवेमा अप्येतर्हि प्रजा जायन्ते॥