पशुबन्धेन यजते॥
पशवो वै पशुबन्धः स यत्पशुबन्धेन यजते पशुमानसानीति तेन गृहेषु यजेत गृहेषु पशून्बध्ना इति तेन सुयवसे यजेत सुयवसे पशून्बध्ना इति जीर्यन्ति ह वै जुह्वतो यजमानस्याग्नयोऽग्नीन्जीर्यतोऽनु यजमानो यजमानमनु गृहाश्च पशवश्च॥
स यत्पशुबन्धेन यजते॥
अग्नीनेवैतत्पुनर्णवान्कुरुतेऽग्नीनाम् पुनर्णवतामनु यजमानमनु गृहाश्च पशवश्चायुष्यो ह वा अस्यैष आत्मनिष्क्रयणो भवति मांसीयन्ति ह वै जुह्वतो यजमानस्याग्नयस्ते यजमानमेव ध्यायन्ति यजमानं सङ्कल्पयन्ति पचन्ति वा अन्येष्वग्निषु वृथामांसमथैतेषां नातोऽन्या मांसाशा विद्यते यस्यो चैते भवन्ति॥
स यत्पशुबन्धेन यजते॥
आत्मानमेवैतन्निष्क्रीणीते वीरेण वीरं वीरो हि पशुर्वीरो यजमान एतदु ह वै परमन्नाद्यं यन्मांसं स परमस्यैवान्नाद्यस्यात्ता भवति तं वै संवत्सरो नानीजनमतीयादायुर्वै संवत्सर आयुरेवैतदमृतमात्मन्धत्ते॥
हविर्यज्ञविधो ह वा अन्यः पशुबन्धः॥
सवविधोऽन्यः स हैष हविर्यज्ञविधो यस्मिन्व्रतमुपनयति यस्मिन्नपः प्रणयति यस्मिन्पूर्णपात्रं निनयति यस्मिन्विष्णुक्रमान्क्रमयत्यथ हैष सवविधो यस्मिन्नेतानि न क्रियन्ते॥
तदाहुः॥
इष्टिः पशुबन्धा३ महायज्ञा३ इति महायज्ञ इति ह ब्रूयादिष्टिं वै तर्हि पशुबन्धमकर्व्येनमकृक्षथा इत्येनम् ब्रूयात्॥
तस्य प्रयाजा एव प्रातःसवनम्॥
अनुयाजास्तृतीयसवनम् पुरोडाश एव माध्यन्दिनं सवनम्॥
तद्धैके॥
वपायां हुतायां दक्षिणा नयन्ति तदु तथा न कुर्याद्यो हैनं तत्र ब्रूयाद्बहिर्धा न्वा अयम् प्राणेभ्यो दक्षिणा अनैषीन्न प्राणानददक्षदन्धो वा स्रामो वा बधिरो वा पक्षहतो वा भविष्यतीतीश्वरो ह तथैव स्यात्॥
इत्थमेव कुर्यात्॥
पुरोडाशेडायामेवोपहूतायां दक्षिणा नयेदैन्द्रो वा अयम् मध्यतः प्राण इममेवैतदैन्द्रम् मध्यतः प्राणं दक्षिणाभिर्दक्षयत्यैन्द्रं वै माध्यन्दिनं सवनम् माध्यन्दिने वै सवने दक्षिणा नीयन्ते तस्मात्पुरोडाशेडायामेवोपहूतायां दक्षिणा नयेत्॥
तदाहुः॥
अध्वर्यो यद्दीक्षितस्य नानवभृथोऽवकल्पते क्वैनमदिदीक्ष इत्यावभृथादनूद्दृंहेयुरध्वर्युश्च प्रतिप्रस्थाता च होता च मैत्रावरुणश्च ब्रह्मा चाग्नीध्रश्चैतैर्वा एष षड्ढोता तमनुद्रुत्य षड्ढोतारं जुहोत्येकामाहुतिं कृत्वा पञ्च वाज्या द्यौष्पृष्ठमन्तरिक्षमात्माङ्गैर्यज्ञम् पृथिवीं शरीरैः॥
वाचस्पतेऽछिद्रया वाचाछिद्रया जुह्वा दिवि देवावृधं होत्रामैरयत्स्वाहेति सैव दीक्षा॥
तदाहुः॥
अध्वर्यो यद्दीक्षितस्य नानवभृथोऽवकल्पते क्वैनमवभृथमवनेष्यसीति स यद्धृदयशूलेन चरन्ति स हैवैतस्यावभृथः॥
मधुको ह स्माह पैङ्ग्यः॥
विसोमेन वा एके पशुबन्धेन यजन्ते ससोमेनैके दिवि वै सोम आसीत्तं गायत्री वयो भूत्वाहरत्तस्य यत्पर्णमछिद्यत तत्पर्णस्य पर्णत्वमिति न्वा एतद्ब्राह्मणमुद्यते विसोमेन वा एके पशुबन्धेन यजन्ते ससोमेनैके स हैष विसोमेन पशुबन्धेन यजते योऽन्यम् पालाशाद्यूपं कुरुतेऽथ हैष ससोमेन पशुबन्धेन यजते यः पालाशं यूपं कुरुते तस्मात्पालाशमेव यूपं कुर्वीत॥
स य एष बहुसारः॥
स हापशव्यस्तस्मात्तादृशम् पशुकामो यूपं न कुर्वीताथ य एष फल्गुप्रासहः स ह पशव्यस्तस्मात्तादृशम् पशुकामो यूपं कुर्वीत॥
अथ यस्यैतद्वक्रस्य सतः॥
शूल-इवाग्रम् भवति स ह कपोती नाम स यो ह तादृशं यूपं कुरुते पुरा हायुषोऽमुं लोकमेति तस्मात्तादृशमायुष्कामो यूपं न कुर्वीत॥
अथ य एष आनतः॥
उपरिष्टादपनतो मध्ये सोऽशनायै रूपं स यो ह तादृशं यूपं कुरुतेऽशनायुका हास्य भार्या भवन्ति तस्मात्तादृशमन्नाद्यकामो यूपं न कुर्वीताथ य एष आनत उपरिष्टादुपनतो मध्ये सोऽन्नाद्यस्य रूपं तस्मात्तादृशमन्नाद्यकामो यूपं कुर्वीत॥
स यत्पशुना यक्ष्यमाणः॥
एकारत्निं यूपं कुरुत इममेव तेन लोकं जयत्यथ यद्द्व्यरत्निमन्तरिक्षलोकमेव तेन जयत्यथ यत्त्र्यरत्निं दिवमेव तेन जयत्यथ यच्चतुरर्त्निं दिश एव तेन जयति स वा एष त्र्यरत्निर्वैव चतुररत्निर्वा पशुबन्धयूपो भवत्यथ योऽत ऊर्ध्वः सौम्यस्यैव सोऽध्वरस्य॥
तदाहुः॥
यजेदाज्यभागौ ना३ इति यजेदित्याहुश्चक्षुषी वा एते यज्ञस्य यदाज्यभागौ किमृते पुरुषश्चक्षुर्भ्यां स्यादिति यावद्वै भागिनं स्वेन भागधेयेन न निर्भजन्त्यनिर्भक्तो वै स तावन्मन्यतेऽथ यदैव तं स्वेन भागधेयेन निर्भजन्त्यथैव स निर्भक्तो मन्यते स यत्रैतद्धोतान्वाहास्ना रक्षः संसृजतादिति तदेनं स्वेन भागधेयेन निर्भजति॥
एतद्वै पशोः सञ्ज्ञप्यमानस्य॥
हृदयं शुक्समवैति हृदयाछूलं तद्ये सह हृदयेन पशुं श्रपयन्ति पुनः पशुं शुगनुविष्पन्देत पार्श्वत एवैनत्काष्ठे प्रतृद्य श्रपयेत्॥
उपस्तृणीत आज्यम्॥
तत्पृथिव्यै रूपं करोति हिरण्यशकलमवदधाति तदग्ने रूपं करोति वपामवदधाति तदन्तरिक्षस्य रूपं करोति हिरण्यशकलमवदधाति तदादित्यस्य रूपं करोत्यथ यदुपरिष्टादभिघारयति तद्दिवो रूपं करोति सा वा एषा पञ्चावत्ता वपा भवति पाङ्क्तो यज्ञः पाङ्क्तः पशुः पञ्चर्तवः संवत्सरस्य तस्मात्पञ्चावत्ता वपा भवति॥