०६

भृगुर्ह वै वारुणिः॥
वरुणम् पितरं विद्ययातिमेने तद्ध वरुणो विदां चकारातिवै मा विद्यया मन्यत इति॥
स होवाच॥
प्राङ् पुत्रक व्रजतात्तत्र यत्पश्येतद्दृष्ट्वा दक्षिणा व्रजतात्तत्र यत्पश्येस्तद्दृष्ट्वा प्रत्यग्व्रजतात्तत्र यत्पश्येस्तद्दृष्ट्वोदग्व्रजतात्तत्र यत्पश्येस्तद्दृष्ट्वैतयोः पूर्वयोरुत्तरमन्ववान्तरदेशं व्रजतात्तत्र यत्पश्येस्तन्म आचक्षीथा इति॥
स ह तत एव प्राङ् प्रवव्राज॥
एदु पुरुषैः पुरुषान्पर्वाण्येषाम् पर्वशः संव्रश्चम् पर्वशो विभजमानानिदं तवेदम् ममेति स होवाच भीष्मम् बत भोः पुरुषान्न्वा एतत्पुरुषाः पर्वाण्येषां संव्रश्चम् पर्वशो व्यभक्षतेति ते होचुरित्थं वा इमेऽस्मानमुष्मिंलोकेऽसचन्त तान्वयमिदमिह प्रतिसचामहा इति स होवाचास्तीह प्रायश्चित्ती३रित्यस्तीति का-ति पिता ते वेदेति॥
स ह तत एव दक्षिणा प्रवव्राज॥
एदु पुरुषैः पुरुषान्पर्वाण्येषाम् पर्वशः सङ्कर्तम् पर्वशो विभजमानानिदं तवेदम् ममेति स होवाच भीष्मम् बत भोः पुरुषान्न्वा एतत्पुरुषाः पर्वाण्येषाम् पर्वशः सङ्कर्तम् पर्वशो व्यभक्षतेति ते होचुरित्थं वा इमेऽस्मानमुष्मिंलोकेऽसचन्त तान्वयमिदमिह प्रतिसचामहा इति स होवाचास्तीह प्रायश्चित्ती३रित्यस्तीति का-ति पितैव ते वेदेति॥
स ह तत एव प्रत्यङ् प्रवव्राज॥
एदु पुरुषैः पुरुषांस्तूष्णीमासीनांस्तूष्णीमासीनैरद्यमानान्त्स होवाच भीष्मम् बत भोः पुरुषान्न्वा एतत्पुरुषास्तूष्णीमासीनांस्तूष्णीमासीना अदन्तीति ते होचुरित्थं वा इमेऽस्मानमुष्मिंलोकेऽसचन्त तान्वयमिदमिह प्रतिसचामहा इति स होवाचास्तीह प्रायश्चित्ती३रित्यस्तीति का-ति पितैव ते वेदेति॥
स ह तत एवोदङ् प्रवव्राज॥
एदु पुरुषैः पुरुषानाक्रन्दयत आक्रन्दयद्भिरद्यमानान्त्स होवाच भीष्मम् बत भोः पुरुषान्न्वा एतत्पुरुषा आक्रन्दयत आक्रन्दयन्तोऽदन्तीति ते होचुरित्थं वा इमेऽस्मानमु॥
स ह तत एवैतयोः पूर्वयोः॥
उत्तरमन्ववान्तरदेशम् प्रवव्राजेदु स्त्रियौ कल्याणीं चातिकल्याणीं च ते अन्तरेण पुरुषः कृष्णः पिङ्गाक्षो दण्डपाणिस्तस्थौ तं हैनं दृष्ट्वा भीर्विवेद स हेत्य संविवेश तं ह पितोवाचाधीष्व स्वाध्यायं कस्मान्नु स्वाध्यायं नाधीष इति स होवाच किमध्येष्ये न किं चनास्तीति तद्ध वरुणो विदां चकाराद्राग्वा इति॥
स होवाच॥
यान्वै तत्प्राच्यां दिश्यद्राक्षीः पुरुषैः पु रुषान्पर्वाण्येषाम् पर्वशः संव्रश्चम् पर्वशो विभजमानानिदं तवेदम् ममेति वनस्पतयो वै ते अभूवन्त्स यद्वनस्पतीनां समिधमादधाति तेन वनस्पतीनवरुन्द्धे तेन वनस्पतीनां लोकं जयति॥
अथ यानेततद्दक्षिणायां दिश्यद्राक्षीः॥
पुरुषैः पुरुषान्पर्वाण्येषाम् पर्वशः सङ्कर्तम् पर्वशो विभजमानानिदं तवेदम् ममेति पशवो वै ते अभूवन्त्स यत्पयसा जुहोति तेन पशूनवरुन्धे तेन पशूनां लोकं जयति॥
अथ यानेतत्प्रतीच्यां दिश्यद्राक्षीः॥
पुरुषैः पुरुषांस्तूष्णीमासीनांस्तूष्णीमासीनैरद्यमानानोषधयो वै ता अभूवन्त्स यत्तृणेनावज्योतयति तेनौषधीरवरुन्द्धे तेनौषधीनां लोकं जयति॥
अथ यानेतदुदीच्यां दिश्यद्राक्षीः॥
पुरुषैः पुरुषानाक्रन्दयत आक्रन्दयद्भिरद्यमानानापो वै ता अभूवन्त्स यदपः प्रत्यानयति तेनापोऽवरुन्द्धे तेनापां लोकं जयति॥
अथ ये एते॥
स्त्रियावद्राक्षीः कल्याणीं चातिकल्याणीं च सा या कल्याणी सा श्रद्धा स यत्पूर्वामाहुतिं जुहोति तेन श्रद्धामवरुन्द्धे तेन श्रद्धां जयत्यथ यातिकल्याणी साश्रद्धा स यदुत्तरामाहुतिं जुहोति तेनाश्रद्धामवरुन्द्धे तेनाश्रद्धां जयति॥
अथ य एने सोऽन्तरेण पुरुषः॥
कृष्णः पिङ्गाक्षो दण्डपाणिरस्थात्क्रोधो वै सोऽभूत्स यत्स्रुच्यप आनीय निनयति तेन क्रोधमवरुन्द्धे तेन क्रोधं जयति स य एवं विद्वानग्निहोत्रं जुहोति तेन सर्वं जयति सर्वमवरुन्द्धे॥
जनको ह वै वैदेहो॥
ब्राह्मणैर्धावयद्भिः समाजगाम श्वेतकेतुनारुणेयेन सोमशुष्मेण सात्ययज्ञिना याज्ञवल्क्येन तान्होवाच कथं-कथमग्निहोत्रं जुहुथेति॥
स होवाच॥
श्वेतकेतुरारुणेयो घर्मावेव सम्राडहमजस्रौ यशसा विष्यन्दमानावन्योऽन्यस्मिन्जुहोमीति कथं तदित्यादित्यो वै घर्मस्तं सायमग्नौ जुहोम्यग्निर्वै घर्मस्तम् प्रातरादित्ये जुहोमीति किं स भवति य एवं जुहोत्यजस्र एव श्रिया यशसा भवत्येतयोश्च देवतयोः सायुज्यं सलोकतां जयतीति॥
अथ होवाच शोमशुष्मः सात्ययज्ञिः॥
तेज एव सम्राडहं तेजसि जुहोमीति कथं तदित्यादित्यो वै तेजस्तं सायमग्नौ जुहोम्यग्निर्वै तेजस्तम् प्रातरादित्ये जुहोमीति किं स भवति य एवं जुहोतीति तेजस्वी यशस्व्यन्नादो भवत्येतयोश्चैव देवतयोः सायुज्यं सलोकतां जयतीति॥
अथ होवाच याज्ञवल्क्यः॥
यदहमग्निमुद्धराम्यग्निहोत्रमेव तदुद्यछाम्यादित्यं वा अस्तं यन्तं सर्वे देवा अनुयन्ति ते म एतमग्निमुद्धृतं दृष्ट्वोपावर्तन्तेऽथाहम् पात्राणि निर्णिज्योपवाप्याग्निहोत्रीं दोहयित्वा पश्यन्पश्यतस्तर्पयामीति त्वं नेदिष्ठं याज्ञवल्क्याग्निहोत्रस्यामीमांसिष्ठा धेनुशतं ददामीति होवाच न त्वेवैनयोस्त्वमुत्क्रात्रिं न गतिं न प्रतिष्ठां न तृप्तिं न पुनरावृत्तिं न लोकम् प्रत्युत्थायिनमित्युक्त्वा रथमास्थाय प्रधावयां चकार॥
ते होचुः॥
अति वै नोऽयं राजन्यबन्धुरवादीद्धन्तैनम् ब्रह्मोद्यमाह्वयामहा इति स होवाच याज्ञवल्क्यो ब्राह्मणा वै वयं स्मो राजन्यबन्धुरसौ यद्यमुं वयं जयेम कमजैष्मेति ब्रूयामाथ यद्यसावस्मान्जयेद्ब्राह्मणान्राजन्यबन्धुरजैषीदिति नो ब्रूयुर्मेदमादृढ्वमिति तद्धास्य जज्ञुरथ ह याज्ञवल्क्यो रथमास्तायानुप्रधावयां चकार तं हान्वाजगाम स होवाचाग्निहोत्रं याज्ञवल्क्य वेदितू३मित्यग्निहोत्रं सम्राडिति॥
ते वा एते॥
आहुती हुते उत्क्रामतः ते अन्तरिक्षमाविशतस्ते अन्तरिक्षमेवाहवनीयं कुर्वाते वायुं समिधम् मरीचीरेव शुक्रामाहुतिं ते अन्तरिक्षं तर्पयतस्ते तत उत्क्रामतः॥
ते दिवमाविशतः॥
ते दिवमेवाहवनीयं कुर्वाते आदित्यं समिधं चन्द्रमसमेव शुक्रामाहुतिं ते दिवं तर्पयतस्ते तत आवर्तेते॥
ते इमामाविशतः॥
ते इमामेवाहवनीयं कुर्वाते अग्निं समिधमोषधीरेव शुक्रामाहुतिं ते इमां तर्पयतस्ते तत उत्क्रामतः॥
ते पुरुषमाविशतः॥
तस्य मुखमेवाहवनीयं कुर्वाते जिह्वां समिधमन्नमेव शुक्रामाहुतिं ते पुरुषं तर्पयतः स य एवं विद्वानश्नात्यग्निहोत्रमेवास्य हुतम् भवति ते तत उत्क्रामतः॥
ते स्त्रियमाविशतः॥
तस्या उपस्थमेवाहवनीयं कुर्वाते धारकां समिधं धारका ह वै नामैषैतया ह वै प्रजापतिः प्रजा धारयां चकार रेत एव शुक्रामाहुतिं ते स्त्रियं तर्पयतः स य एवं विद्वान्मिथुनमुपैत्यग्निहोत्रमेवास्य हुतम् भवति यस्ततः पुत्रो जायते स लोकः प्रत्युत्थाय्येतदग्निहोत्रं याज्ञवल्क्य नातः परमस्तीति होवाच तस्मै ह याज्ञवल्क्यो वरं ददौ स होवाच कामप्रश्न एव मे त्वयि याज्ञवल्क्यासदिति ततो ब्रह्मा जनक आस॥
जनको ह वैदेहो॥
बहुदक्षिणेन यज्ञेनेजे स ह गवां सहस्रमवरुन्धन्नुवाचैता वो ब्राह्मणा यो ब्रह्मिष्ठः स उदजतामिति॥
स होवाच याज्ञवल्क्यो॥
ऽर्वाचीरेता इति ते होचुस्त्वं स्विन्नो याज्ञवल्क्य ब्रह्मिष्ठोऽसी३ इति स होवाच नमोऽस्तु ब्रह्मिष्ठाय गोकामा एव वयं स्म इति॥
ते होचुः॥
को न इमम् प्रक्ष्यतीति स होवाच विदग्धः शाकल्योऽहमिति तं ह प्रतिख्यायोवाच त्वां स्विच्छाकल्य ब्राह्मणा उल्मुकावक्षयणमक्रता३इति॥
स होवाच कति देवा याज्ञवल्क्येति त्रयश्च त्री च शता त्रयश्च त्री च सहस्रेत्योमिति होवाच कत्येव देवा याज्ञवल्क्येति त्रयस्त्रिंशदित्योमिति होवाच कत्येव देवा याज्ञवल्क्येति त्रय इत्योमिति होवाच कत्येव देवा याज्ञवल्क्येति द्वावित्योमिति होवाच कत्येव देवा याज्ञवल्क्येत्यध्यर्ध इत्योमिति होवाच कत्येव देवा याज्ञवल्क्येत्येक इत्योमिति होवाच कतमे ते त्रयश्च त्री च शता त्रयश्च त्री च सहस्रेति॥
स होवाच॥
महिमान एवैषामेते त्रयस्त्रिंशत्त्वेव देवा इति कतमे ते त्रयस्त्रिंशदित्यष्टौ वसव एकादश रुद्रा द्वादशादित्यास्त एकत्रिंशदिन्द्रश्चैव प्रजापतिश्च त्रयस्त्र्ंशाविति॥
कतमे वसव इति॥
अग्निश्च पृथिवी च वायुश्चान्तरिक्षं चादित्यश्च द्यौश्च चन्द्रमाश्च नक्षत्राणि चैते वसव एते हीदं सर्वं वासयन्ते ते यदिदं सर्वं वासयन्ते तस्माद्वसव इति॥
कतमे रुद्रा इति॥
दशेमे पुरुषे प्राणा आत्मैकादशस्ते यदास्मान्मर्त्याछरीरादुत्क्रामन्त्यथ रोदयन्ति तद्यद्रोदयन्ति तस्माद्रुद्रा इति॥
कतम आदित्या इति॥
द्वादश मासाः संवत्सरस्यैत आदित्या एते हीदं सर्वमाददाना यन्ति ते यदिदं सर्वमाददाना यन्ति तस्मादादित्या इति॥
कतम इन्द्रः कतमः प्रजापतिरिति॥
स्तनयित्नुरेवेन्द्रो यज्ञः प्रजापतिरिति कतम स्तनयित्नुरित्यशनिरिति कतमो यज्ञ इति पशव इति॥
कतमे ते त्रयो देवा इति॥
इम एव त्रयो लोका एषु हीमे सर्वे देवा इति कतमौ तौ द्वौ देवावित्यन्नं चैव प्राणश्चेति कतमोऽध्यर्ध इति योऽयम् पवत इति कतम एको देव इति प्राण इति॥
स होवाच॥
अनतिप्रश्न्याम् मा देवतामत्यप्राक्षीः पुरेतिथ्यै मरिष्यसि न तेऽस्थीनि चन गृहान्प्राप्स्यन्तीति स ह तथैव ममार तस्य हाप्यन्यन्मन्यमानाः परिमोषिणोऽस्थीन्यपजह्रुस्तस्मान्नोपवादी स्यादुत ह्येवंवित्परो भवति॥