उर्वशी हाप्सराः॥
पुरूरवसमैडं चकमे तं ह विन्दमानोवाच त्रिः स्म माह्नो वैतसेन दण्डेन हतादकामां स्म मा निपद्यासै मो स्म त्वा नग्नं दर्शमेष वै न स्त्रीणामुपचार इति॥
सा हास्मिन्योगुवास॥
अपि हास्माद्गर्भिण्यास तावज्ज्योग्घास्मिन्नुवास ततो ह गन्धर्वाः समूदिरे ज्योग्वा इयमुर्वशी मनुष्येष्ववात्मीदुपजानीत यथेयम् पुनरागछेदिति तस्यै हाविर्द्व्युरणा शयन उपबद्धास ततो ह गन्धर्वा अन्यतरमुरणम् प्रमेथुः॥
सा होवाच॥
अवीर इव बत मेऽजन इव पुत्रं हरन्तीति द्वितीयम् प्रमेथुः सा ह तथैवोवाच॥
अथ हायमीक्षां चक्रे॥
कथं नु तदवीरं कथमजनं स्याद्यत्राहं स्यामिति स नग्न एवानूत्पपात चिरं तन्मेने यद्वासः पर्यधास्यत ततो ह गन्धर्वा विद्युतं जनयां चक्रुस्तं यथा दिवैवं नग्नं ददर्श ततो हैवेयं तिरोबभूव पुनरैमीत्येत्तिरोभूतां स आध्या जल्पन्कुरुक्षेत्रं समया चचारान्यातःप्लक्षेति बिसवती तस्यै हाध्यन्तेन वव्राज तद्ध ता अप्सरस आतयो भूत्वा परिपुप्लुविरे॥
तं हेयं ज्ञात्वोवाच॥
अयं वै स मनुष्यो यस्मिन्नहमवात्समिति ता होचुस्तस्मै वा आविरसामेति तथेति तस्मै हाविरासुः॥
तां हायं ज्ञात्वाभिपरोवाद॥
हये जाये मनसा तिष्ठ घोरे वचांसि मिश्रा कृणवावहै नु न नौ मन्त्रा अनुदितास एते मयस्करन्परतरे चनाहन्नित्युप नु रम सं नु वदावहा इति हैवैनां तदुवाच॥
तं हेतरा प्रत्युवाच॥
किमेता वाचा कृणवा तवाहम् प्राक्रमिषमुषसामग्रियेव॥
पुरूरवः पुनरस्तम् परेहि दुरापना वात इवाहमस्मीति न वै त्वं तदकरोर्यदहमब्रवं दुरापा वा अहं त्वयैतर्ह्यस्मि पुनर्गृहानिहीति हैवैनं तदुवाच॥
अथ हायम् परिद्यून उवाच॥
सुदेवो अद्य प्रपतेदनावृत्परावतम् परमाम् गन्तवाउ॥
अधा शयीत निरृतेरुपस्थेऽधैनं वृका रभसासो अद्युरिति सुदेवोऽद्योद्वा बध्नीत प्र वा पतेत्तदेनं वृका वा श्वानो वाद्युरिति हैव तदुवाच॥
तं हेतरा प्रत्युवाच॥
पुरूरवो मा मृथा मा प्रपप्तो मा त्वा वृकासो अशिवास उ क्षन्॥
न वै स्त्रैणानि सख्यानि सन्ति सालावृकाणां हृदयान्येतेति मैतदादृथा न वै स्त्रैणं सख्यमस्ति पुनर्गृहानिहीति हैवैनं तदुवाच॥
यद्विरूपाचरम्॥
मर्त्येष्ववसं रात्रीः शरदश्चतस्रः॥
घृतस्य स्तोकं सकृदह्नु आश्नां तादेवेदं तातृपाणा चरामीति तदेतदुक्तप्रत्युक्तम् पञ्चदशर्चम् बह्वृचाः प्राहुस्तस्यै ह हृदयमाव्ययां चकार॥
सा होवाच॥
संवत्सरतमीं रात्रिमागछतात्तन्म एकां रात्रिमन्ते शयितासे जात उ तेऽयं तर्हि पुत्रो भवितेति स ह संवत्सरतमीं रात्रिमाजगामेद्धिरण्यविमितानि ततो हैनमेकमूचुरेतत्प्रपद्यस्वेति तद्धास्मै तामुपप्रजिध्युः॥
सा होवाच॥
गन्धर्वा वै ते प्रातर्वरं दातारस्तं वृणासा इति तं वै मे त्वमेव वृणीष्वेति युष्माकमेवैकोऽसानीति ब्रूतादिति तस्मै ह प्रातर्गन्धर्वा वरं ददुः स होवाच युष्माकमेवैकोऽसानीति॥
ते होचुः॥
न वै सा मनुष्येष्वग्नेर्यज्ञिया तनूरस्ति ययेष्ट्वास्माकमेकः स्यादिति तस्मै ह स्थाल्यामोप्याग्निम् प्रददुरनेनेष्ट्वास्माकमेको भविष्यसीति तं च ह कुमारं चादायावव्राज सोऽरण्य एवाग्निं निधाय कुमारेणैव ग्राममेयाय पुनरैमीत्येत्तिरोभूतं योऽग्निरश्वत्थं तं या स्थाली शमीं तां स ह पुनर्गन्धर्वानेयाय॥
ते होचुः॥
संवत्सरं चातुष्प्राश्यमोदनम् पच स एतस्यैवाश्वत्थस्य तिस्रस्तिस्रः समिधो घृतेनान्वज्य समिद्वतीभिर्घृतवतीभिरृग्भिरभ्याधत्तात्स यस्ततोऽग्निर्जनिता स एव स भवितेति॥
ते होचुः॥
परोऽक्षमिव वा एतदाश्वत्थीमेवोत्तरारणिं कुरुष्व शमीमयीमधरारणिं स यस्ततोऽग्निर्जनिता स एव स भवितेति॥
ते होचुः॥
परोऽक्षमिव वा एतदाश्वत्थीमेवोत्तरारणिं कुरुष्वाश्वत्थीमधरारणिं स यस्ततोऽग्निर्जनिता स एव स भवितेति॥
स आश्वत्थीमेवोत्तरारणिं चक्रे॥
आश्वत्थीमधरारणिं स यस्ततोऽग्निर्जज्ञे स एव स आस तेनेष्ट्वा गन्धर्वाणामेक आस तस्मादाश्वत्थीमेवोत्तरारणिं कुर्वीताश्वत्थीमधरारणिं स यस्ततोऽग्निर्जायते स एव स भवति तेनेष्ट्वा गन्धर्वाणामेको भवति॥
प्रजापतिर्ह चातुर्मास्यैरात्मानं विदधे॥
स इममेव दक्षिणम् बाहुं वैश्वदेवं हविरकुरुत तस्यायमेवाङ्गुष्ठ आग्नेयं हविरिदं सौम्यमिदं सावित्रं॥
स वै वर्षिष्ठः पुरोडाशो भवति॥
तस्मादियमासां वर्षिष्ठेदं सारस्वतमिदम् पौष्णमथ य एष उपरिष्टाद्धस्तस्य सन्धिस्तन्मारुतमिदं वैश्वदेवं दोर्द्यावापृथिवीयं तद्वा अनिरुक्तम् भवति तस्मात्तदनिरुक्तम्॥
अयमेव दक्षिण ऊरुर्वरुणप्रघासाः॥
तस्य यानि पञ्च हवींषि समायीनि ता इमाः पञ्चाङ्गुलयः कुल्फावेवैन्द्राग्नं हविस्तद्वै द्विदेवत्यम् भवति तस्मादिमौ द्वौ कुल्फाविदं वारुणमिदम् मारुतमनूकं कायस्तद्वा अनिरुक्तम् भवति तस्मात्तदनिरुक्तम्॥
मुखमेवास्यानीकवतीष्टिः॥
मुखं हि प्राणानामनीकमुरः सान्तपनीयोरसा हि समिव तप्यत उदरं गृहमेधीया प्रतिष्ठा वा उदरम् प्रतिष्ठित्या एव शिश्नान्येवास्य क्रैडिनं हविः शिश्नैर्हि क्रीडतीवायमेवावाङ् प्राण आदित्येष्टिः॥
अयमेवोत्तर ऊरुर्महाहविः॥
तस्य यानि पञ्च हवींषि समायीनि ता इमाः पञ्चाङ्गुलयः कुल्फावेवैन्द्राग्नं हविस्तद्वै द्विदेवत्यम् भवति तस्मादिमौ द्वौ कुल्फाविदम् माहेन्द्रमिदं वैश्वकर्मणं तद्वा अनिरुक्तम् भवति तस्मात्तदनिरुक्तमथ यदिदमन्तरुदरे तत्पितृयज्ञस्तद्वा अनिरुक्तम् भवति तस्मात्तदनिरुक्तम्॥
अयमेवोत्तरो बाहुः शुनासीरीयम्॥
तस्य यानि पञ्च हवींषि समायीनि ता इमाः पञ्चाङ्गुलयोऽथ य एष उपरिष्टाद्धस्तस्य सन्धिस्तछुनासीरीयमिदं वायव्यं दोः सौर्यं तद्वा अनिरुक्तम् भवति तस्मात्तदनिरुक्तम्॥
तानि वा एतानि॥
चातुर्मास्यानि त्रिषन्धीनि द्विसमस्तानि तस्मादिमानि पुरुषस्याङ्गानि त्रिषन्धीनि द्विसमस्तानि तेषां वै चतुर्णां द्वयोस्त्रीणि-त्रीणि हवींष्यनिरुक्तानि भवन्ति द्वे-द्वे द्वयोः॥
तेषां वै चतुर्ष्वग्निम् मन्थन्ति॥
तस्माच्चतुर्भिरङ्गैरायुते द्वयोः प्रणयन्ति तस्माद्द्वाभ्यामेत्येवमु ह प्रजापतिश्चातुर्मास्यैरात्मानं विदधे तथो एवैवंविद्यजमानश्चातुर्मास्यैरात्मानं विधत्ते॥
तदाहुः॥
स्वर्गायत्रं वैश्वदेवं हविः स्यात्सर्वत्रैष्टुभं वरुणप्रघासाः सर्वजागतम् महाहविः सर्वानुष्टुभं शुनासीरीयं चतुष्टोमस्याप्स्या इति तदु तथा न कुर्याद्यत्त्वा एतान्यभिसम्पद्यन्ते तेनैवास्य स काम उपाप्तो भवति॥
तानि वा एतानि॥
चातुर्मास्यानि द्वाषष्टानि त्रीणि शतानि बृहत्यः सम्पद्यन्ते तदेभिः संवत्सरं च महाव्रतं चाप्नोत्यथो द्विप्रतिष्ठो वा अयं यजमानो यजमानमेवैतत्स्वर्गे लोक आयातयति प्रतिष्ठापयति॥
शौचेयो ह प्राचीनयोग्यः॥
उद्दाल्ल्कमारुणिमाजगाम ब्रह्मोद्यमग्निहोत्रं विविदिषामीति॥
स होवाच॥
गौतम का तेऽग्निहोत्री को वत्सः किमुपसृष्टा किं संयोजनं किं दुह्यमानं किं दुग्धं किमाह्रियमाणं किमधिश्रितं किमवज्योत्यमानं किमद्भिः प्रत्यानीतं किमुद्वास्यमानं किमुद्वासितं किमुन्नीयमानं किमुन्नीतं किमुद्यतं किं ह्रियमाणं किं निगृहीतम्॥
कां समिधमादधासि का पूर्वाहुतिः किमुपासीषदः किमपैक्षिष्ठाः कोत्तराहुतिः॥
किं हुत्वा प्रकम्पयसि॥
किं स्रुचम् परिमृज्य कूर्चे न्यमार्जीः किं द्वितीयम् परिमृज्य दक्षिणतो हस्तमुपासीषदः किम् पूर्वम् प्राशीः किं द्वितीयं किमुत्सृप्यापाः किं स्रुच्यप आनीय निरौक्षीः किं द्वितीयं किं तृतीयमेतां दिशमुदौक्षीः किं जघनेनाहवनीयमपो न्यनैषीः किं समतिष्ठिपो यदि वा एतद्विद्वानग्निहोत्रमहौषीरथ ते हुतं यद्यु वा अविद्वानहुतमेव त इति॥
स होवाच॥
इडैव मे मानव्यग्निहोत्री वायव्यो वत्सः सजूरुपसृष्टा विराट् संयोजनमाश्विनं दुह्यमानं वैश्वदेवं दुग्धं वायव्यमाह्रियमाणमाग्नेयमधिश्रितमैन्द्राग्नमवज्योत्यम्नानं वारुणमद्भिः प्रत्यानीतं वायव्यमुद्वास्यमानं द्यावापृथिव्यमुद्वासितमाश्विनमुन्नीयमानं वैश्वदेवमुन्नीतम् महादेवायोद्यतं वायव्यं ह्रियमाणं वैष्णवं निगृहीतम्॥
अथ यां समिधमादधामि॥
आहुतीनां सा प्रतिष्ठा या पूर्वाहुतिर्देवांस्तयाप्रैषं यदुपासीषदम् बार्हस्पत्यं तद्यदपैक्षिषीमं चामुं च लोकौ तेन समधां योत्तराहुतिर्मां तया स्वर्गे लोकेऽधाम्॥
अथ यद्धुत्वा प्रकम्पयामि॥
वायव्यं तद्यत्स्रुचम् परिमृज्य कूर्चे न्यमार्जिषधिवनस्पतींस्तेनाप्रैषं यद्द्वितीयम् परिमृज्य दक्षिणतो हस्तमुपासीषदं पितॄंस्तेनाप्रैषं यत्पूर्वम् प्राशिषम् मां तेनाप्रैषं यद्द्वितीयम् प्रजां तेनाथ यदुत्सृप्यापाम् पशूंस्तेनाप्रैषं यत्स्रुच्यप आनीय निरौक्षिषं सर्पदेवजनांस्तेनाप्रैषं यद्द्वितीयं गन्धर्वाप्सरसस्तेनाथ यत्तृतीयमेतां दिशमुदौक्षिषं स्वर्गस्य लोकस्य तेन द्वारं व्यवारिषं यज्जघनेनाहवनीयमपो न्यनैषमस्मै लोकाय तेन वृष्टिमदां यत्समतिष्ठिपं यत्पृथिव्या ऊनं तत्तेनापूपुरमित्येतन्नौ भगवन्त्सहेति होवाच॥
शौचेयो ज्ञप्तः॥
प्रक्ष्यामि त्वेव भगवन्तमिति पृछैव प्राचीनयोग्येति स होवाच यस्मिन्काल उद्धृतास्तेऽग्नयः स्युरुपावहृतानि पात्राणि होष्यन्त्स्या अथ त आहवनीयोऽनुगछेद्वेत्थ तद्भयं यदत्र जुह्वतो भवतीति वेदेति होवाच पुरा चिरादस्य ज्येष्ठः पुत्रो म्रियेत यस्यैतदविदितं स्याद्विद्याभिस्त्वेवाहमतारिषमिति किं विदितं का प्रायश्चित्तिरिति प्राण उदानमप्यगादिति गार्हपत्य आहुतिं जुहुयां सैव प्रायश्चित्तिर्न तदागः कुर्वीयेत्येतन्नौ भगवन्त्सहेति होवाच॥
शौचेयो ज्ञप्तः॥
प्रक्ष्यामि त्वेव भगवन्तमिति पृछैव प्राचीनयोग्येति स होवाच यत्र त एतस्मिन्नेव काले गार्हपत्योऽनुगद्वेत्थ तद्भयं यदत्र जुह्वतो भवतीति वेदेति होवाच पुरा चिरादस्य गृहपतिर्म्रियेत यस्यैतदविदितं स्याद्विद्याभिस्त्वेवाहमतारिषमिति किं विदितं का प्रायश्चित्तिरित्युदानः प्राणमप्यगादित्याहवनीय आहुतिं जुहुयां सैव प्रायश्चित्तिर्न तदागः कुर्वीयेत्येतन्नौ भगवन्त्सहेति होवाच॥
शौचेयो ज्ञप्तः॥
प्रक्ष्यामि त्वेव भगवन्तमिति पृछैव प्राचीनयोग्येति स होवाच यत्र त एतस्मिन्नेव कालेऽन्वा?आर्यपचनोऽनुगछेद्वेत्थ तद्भयं यदत्र जुह्वतो भवतीति वेदेति होवाच पुरा चिरादस्य सर्वे पशवो म्रियेरन्यस्यैतदविदितं स्याद्विद्याभिस्त्वेवाहमतारिषमिति किं विदितं का प्रायश्चित्तिरिति व्यान उदानमप्यगादिति गार्हपत्य आहुतिं जुहुयां सैव प्रायश्चित्तिर्न तदागः कुर्वीयेत्येतन्नौ भगवन्त्सहेति होवाच॥
शौचेयो ज्ञप्तः॥
प्रक्ष्यामि त्वेव भगवन्तमिति पृछैव प्राचीनयोग्येति स होवाच यत्र त एतस्मिन्नेव काले सर्वेऽग्नयोऽनुगछेयुर्वेत्थ तद्भयं यदत्र जुह्वतो भवतीति वेदेति होवाच पुरा चिरादस्यादायादं कुलं स्याद्यस्यैतदविदितं स्याद्विद्याभिस्त्वेवाहमतारिषमिति किं विदितं का प्रायश्चित्तिरिति पुरा चिरादग्निम् मथित्वा यां दिशं वातो वायात्तां दिशमाहवनीयमुद्धृत्य वायव्यामाहुतिं जुहुयां स विद्यां समृद्धम् मेऽग्निहोत्रं सर्वदेवत्यं वायुं ह्येव सर्वाणि भूतान्यपियन्ति वायोः पुनर्विसृज्यन्ते सैव प्रायश्चित्तिर्न तदागः कुर्वीयेत्येतन्नौ भगवन्त्सहेति होवाच॥
शौचेयो ज्ञप्तः॥
प्रक्ष्यामि त्वेव भगवन्तमिति पृछैव प्राचीनयोग्येति स होवाच यत्र त एतस्मिन्नेव काले निवाते सर्वेऽग्नयोऽनुगछेयुर्वेत्थ तद्भयं यदत्र जुह्वतो भवतीति वेदेति होवाचाप्रियमेवास्मिंलोके पश्येताप्रियममुष्मिन्यस्यैतदविदितं स्याद्विद्याभिस्त्वेवाहमतारिषमिति किं विदितं का प्रायश्चित्तिरिति पुरा चिरादग्निम् मथित्वा प्राञ्चमाहवनीयमुद्धृत्य जघनेनाहवनीयमुपविश्याहमेवैनत्पिबेयं स विद्यां समृद्धम् मेऽग्निहोत्रं सर्वदेवत्यम् ब्राह्मणं ह्येव सर्वाणि भूतान्यपियन्ति ब्राह्मणात्पुनर्विसृज्यन्ते सैव प्रायश्चित्तिर्न तदागः कुर्वीयेत्यथ वा अहमेतन्नावेदिषमिति होवाच॥
शौचेयो ज्ञप्तः॥
इमानि समित्काष्ठान्युपायानि भगवन्तमिति स होवाच यदेवं नावक्ष्यो मूर्धा ते व्यपतिष्यदेह्युपेहीति तथेति तं होपनिन्ये तस्मै हैतां शोकतरां व्याहृतिमुवाच यत्सत्यं तस्मादु सत्यमेव वदेत्॥
ब्रह्मचर्यमागामित्याह॥
ब्रह्मण एवैतदात्मानं निवेदयति ब्रह्मचार्यसानीत्याह ब्रह्मण एवैतदात्मानम् परिददात्यथैनमाह को नामासीति प्रजापतिर्वै कः प्राजापत्यमेवैनं तत्कृत्वोपनयते॥
अथास्य हस्तं गृह्णाति॥
इन्द्रस्य ब्रह्मचार्यस्यग्निराचार्यस्तवाहमाचार्यस्तवासावित्येते वै श्रेष्ठे बलिष्ठे देवते एताभ्यामेवैनं श्रेष्ठाभ्याम् बलिष्ठाभ्यां देवताभ्याम् परिददाति तथा हास्य ब्रह्मचारी न कां चनार्तिमार्छति न स यएवं वेद॥
अथैनम् भूतेभ्यः परिददाति॥
प्रजापतये त्वा परिददामि देवाय त्वा सवित्रे परिददामीत्येते वै श्रेष्ठे वर्षिष्ठे देवते एताभ्यामेवैनं श्रेष्ठाभ्यां वर्षिष्ठाभ्यां देवताभ्याम् परिददाति तथा हास्य ब्रह्मचारी न कां चनार्तिमार्छति न स य एवं वेद॥
अद्भ्यस्त्वौषधीभ्यः परिददामीति॥
तदेनमद्भ्यश्चौषधिभ्यश्च परिददाति द्यावापृथिवीभ्यां त्वा परिददामीति तदेनमाभ्यां द्यावापृथिवीभ्याम् परिददाति ययोरिदं सर्वमधि विश्वेभ्यस्त्वा भूतेभ्यः परिददाम्यरिष्ट्या इति तदेनं सर्वेभ्यो भूतेभ्यः परिददात्यरिष्ट्यै तथा हास्य ब्रह्मचारी न कां चनार्तिमार्छति न स य एवं वेद॥
ब्रह्मचार्यसीत्याह॥
ब्रह्मण एवैनं तत्परिददात्यपोऽशा नेत्यमृतं वा आपोऽमृतमशानेत्येवैनं तदाह कर्म कुर्विति वीर्यं वै कर्म वीर्यं कुर्वित्येवैनं तदाह समिधमाधेहीति समिन्त्स्वात्मानं तेजसा ब्रह्मवर्चसेनेत्येवैनं तदाह मा शुषुप्था इति मा मृथा इत्येवैनं तदाहापोऽशानेत्यमृतं वा आपोऽमृतमशानेत्येवैनं तदाह तदेनमुभयतोऽमृतेन परिगृह्णाति तथा हास्य ब्रह्मचारी न कां चनार्तिमार्छति न स य एवं वेद॥
अथास्मै सावित्रीमन्वाह॥
तां ह स्मैताम् पुरा संवत्सरेऽन्वाहुः संवत्सरसम्मिता वै गर्भाः प्रजायन्ते जात एवास्मिंस्तद्वाचं दध्म इति॥
अथ षट्सु मासेषु॥
षड्वा ऋतवः संवत्सरस्य संवत्सरसम्मिता वै गर्भाः प्रजायन्ते जात एवास्मिंस्तद्वाचं दध्म इति॥
अथ चतुर्विंशत्यहे॥
चतुर्विंशतिर्वै संवत्सरस्यार्धमासाः संवत्सरसम्मिता वै गर्भाः प्रजायन्ते जात एवास्मिंस्तद्वाचं दध्म इति॥
अथ द्वादशाहे॥
द्वादश वै मासाः संवत्सरस्य संवत्सरसम्॥
अथ षडहे॥
षद्वा ऋतवः संवत्सरस्य संवत्सरसं॥
अथ त्र्यहे॥
त्रयो वा ऋतवः संवत्सरस्य संवत्सरसं॥
तदपि श्लोकं गायन्ति॥
आचार्यो गर्भी भवति हस्तमाधाय दक्षिणम्॥
तृतीयस्यां स जायते सावित्र्या सह ब्राह्मण इति सद्यो ह त्वाव ब्राह्मणायानुब्रूयादाग्नेयो वै ब्राह्मणः सद्यो वा अग्निर्जायते तस्मात्सद्य एव ब्राह्मणायानुब्रूयात्॥
तां हैतामेके॥
सावित्रीमनुष्टुभमन्वाहुर्वाग्वा अनुष्टुप्तदस्मिन्वाचं दध्म इति न तथा कुर्याद्यो हैनं तत्र ब्रूयादा न्वा अयमस्य वाचमदित मूको भविष्यतीतीश्वरो ह तथैव स्यात्तस्मादेतां गायत्रीमेव सावित्रीमनुब्रूयात्॥
अथ हैके दक्षिणतः॥
तिष्ठते वासीनाय वान्वाहुर्न तथा कुर्याद्यो हैनं तत्र ब्रूयाद्बुल्बं न्वा अयमिममजीजनत बुल्बो भविष्यतीतीश्वरो ह तथैव स्यात्तस्मात्पुरस्तादेव प्रतीचे समीक्षमाणायानुब्रूयात्॥
तां वै पछोऽन्वाह॥
त्रयो वै प्राणाः प्राण उदानो व्यानस्तानेवास्मिंस्तद्दधात्यथार्धर्चशो द्वौ वा इमौ प्राणौ प्राणोदानावेव प्राणोदानावेवास्मिंस्तद्दधात्यथ कृत्स्नामेको वा अयम् प्राणः कृत्स्न एव प्राणमेवास्मिंस्तत्कृत्स्नं दधाति॥
तदाहुः॥
न ब्रह्मणम् ब्रह्मचर्यमुपनीय मिथुनं चरेद्गर्भो वा एष भवति यो ब्रह्मचर्यमुपैति नेदिमम् ब्रह्मणं विषिक्ताद्रेतसो जनयानीति॥
तदु वा आहुः॥
काममेव चरेद्द्वय्यो वा इमाः प्रजा दैव्यश्चैव मनुष्यश्च ता वा इमा मनुष्यः प्रजाः प्रजननात्प्रजायन्ते छन्दांसि वै दैव्यः प्रजास्तानि मुखतो जनयते तत एतं जनयते तस्मादु काममेव चरेत्॥
तदाहुः॥
न ब्रह्मचारी सन्मध्वश्नीयादोषधीनां वा एष परमो रसो यन्मधु नेदन्नाद्यस्यान्तं गछानीत्यथ ह स्माह श्वेतकेतुरारुणेयो ब्रह्मचारी सन्मध्वश्नंस्त्रय्यै वा एतद्विद्यायै शिष्टं यन्मधु स तु रसो यस्येदृक्शिष्टमिति यथा ह वा ऋचं वा यजुर्वा साम वाभिव्याहरेत्तादृक्तद्य एवं विद्वान्ब्रह्मचारी सन्मध्वश्नाति तस्मादु काममेवाश्नीयात्॥
देवान्वा ऊर्ध्वान्त्स्वर्गं लोकं यतः॥
असुरास्तमसान्तरदधुस्ते होचुर्न वा अस्यान्येन सत्त्रादपघातोऽस्ति हन्त सत्त्रमासामहा इति॥
ते शताग्निष्टोमं सत्त्रमुपेयुः॥
ते यावदासीनः परापश्येत्तावतस्तमोऽपाघ्नतैवमेव शतोक्थ्येन यावत्तिष्ठन्परापश्येत्तावतस्तमोऽपाघ्नत॥
ते होचुः॥
अप वाव तमो हन्महे न त्वेव सर्वमिव हन्त प्रजापतिम् पितरम् प्रत्ययामेति ते प्रजापतिम् पितरम् प्रतीत्योचुरसुरा वै नो भगव ऊर्ध्वान्त्स्वर्गं लोकं यतस्तमसान्तरदधुः॥
ते शताग्निष्टोमं सत्त्रमुपैम॥
ते यावदासीनः परापश्येत्तावतस्तमोऽपाहन्मह्येवमेव शतोक्थ्येन यावत्तिष्ठन्परापश्येत्तावतस्तमोऽपाहन्महि प्र नो भगवञ्छाधि यथासुरांस्तमोऽपहत्य सर्वम् पाप्मानमपहत्य स्वर्गं लोकम् प्रज्ञास्याम इति॥
स होवाच॥
असर्वक्रतुभ्यां वै यज्ञाभ्यामगन्त यदग्निष्टोमेन चोक्थ्येन च शतातिरात्रं सत्त्रमुपेत तेनासुरांस्तमोऽपहत्य सर्वम् पाप्मानमपहत्य स्वर्गं लोकम् प्रज्ञास्यथेति॥
ते शतातिरात्रं सत्त्रमुपेयुः॥
तेनासुरांस्तमोऽपहत्य सर्वम् पाप्मानमपहत्य स्वर्गं लोकम् प्रजज्ञुस्तेषामर्वाक्पञ्चाशेष्वेवाहःस्वहरभि रात्रिसामानि परीयू रात्रिमभ्यहःसामानि॥
ते होचुः॥
अमुहाम वै न प्रजानीमो हन्त प्रजापतिमेव पितरम् प्रत्ययामेति ते प्रजापतिमेव पितरम् प्रतीत्योचुरहन्नो रात्रिसामानि रात्र्यामह्नो भवन्ति नः॥
विपश्चिद्यज्ञान्मुग्धान्विद्वान्धीरोऽनुशाधि न इति॥
तान्हैतदुपजगौ॥
महाहिमिव वै ह्रदाद्बलीयानन्ववेत्य अनुत्त स्वादास्थानात्ततः सत्त्रं न तायत इति॥
आश्विनं वै वः शस्यमानम्॥
प्रातरनुवाकमास्थानादनुत्त यमास्थानादनुद्ध्वं धीराः सन्तो अधीरवत्॥
प्रशास्त्रा तमुपेत शनैरप्रतिशंसतेति॥
ते होचुः॥
कथं नु भगवः शस्तं कथमप्रतिशस्तमिति स होवाच यत्र होताश्विनं शंसन्नाग्नेयास्य क्रतोर्गायत्रस्य छन्दसः पारं गछात्तत्प्रतिप्रस्थाता वसतीवरीः परिहृत्य मैत्रावरुणस्य हविर्धानयोः प्रातरनुवाकमुपाकुरुतादुच्चैर्होता शंसति शनैरितरो जञ्जप्यमान इवान्वाह तन्न वाचा वाचम् प्रत्येति न छन्दसा छन्दः॥
परिहिते प्रातरनुवाके॥
यथायतनमेवोपांश्वन्तर्यामौ हुत्वा द्रोणकलशे पवित्रम् प्रपीड्यं निदधाति तिरोऽह्नयैश्चरित्वा प्रत्यञ्चः प्रतिपरेत्य तिरोह्नयानेव भक्षयाध्वा अथानुपूर्वं यज्ञपुछं संस्थाप्य य ऊर्ध्वा अन्तर्यामाद्ग्रहास्तान्गृहीत्वा विप्रुषां होमं हुत्वा सन्तनिं च बहिष्पवमानेन स्तुत्वाहरेव प्रतिपद्याध्वा इति॥
तदेतेऽभि श्लोकाः॥
चतुर्भिः सैन्धवैर्युक्तैर्धीरा व्यजहुस्तमः॥
विद्वांसो ये शतक्रतु देवाः सत्त्रमतन्वतेति॥
चत्वारो ह्यत्र युक्ता भवन्ति द्वौ होतारौ द्वावध्वर्यू॥
पवेर्नु शक्वेव हनूनि कल्पयन्नह्नोरन्तौ व्यतिषजन्त धीराः॥
न दानवा यज्ञियं तन्तुमेषां विजानीमो विततम् मोहयन्ति नः॥
पूर्वस्याह्नः परिषिंषन्ति कर्म तदुत्तरेणाभिवितन्वतेऽह्ना॥
दुर्विज्ञानं काव्यं देवतानां सोमाः सोमैर्व्यतिषक्ताः प्लवन्ते॥
समानान्त्सदमुक्षन्ति हयान्काष्ठभृतो यथा॥
पूर्णान्परिस्रुतः कुम्भान्जनमेजयसादन इत्यसुररक्षसान्यपेयुः॥
पञ्चैव महायज्ञाः॥
तान्येव महासत्त्राणि भूतयज्ञो मनुष्ययज्ञः पितृयज्ञो देवयज्ञो ब्रह्मयज्ञ इति॥
अहरहर्भूतेभ्यो बलिं हरेत्॥
तथैतम् भूतयज्ञं समाप्नोत्यहरहर्दद्यादोदपात्रात्तथैतम् मनुष्ययज्ञं समाप्नोत्यहरहः स्वधाकुर्यादोदपात्रात्तथैतम् पितृयज्ञं समाप्नोत्यहरहः स्वाहाकुर्यादा काष्ठात्तथैतं देवयज्ञं समाप्नोति॥
अथ ब्रह्मयज्ञः॥
स्वाध्यायो वै ब्रह्मयज्ञस्तस्य वा एतस्य ब्रह्मयज्ञस्य वागेव जुहूर्मन उपभृच्चक्षुर्ध्रुवा मेधा स्रुवः सत्यमवभृथः स्वर्गो लोक उदयनं यावन्तं ह वा इमाम् पृथिवीं वित्तेन पूर्णां ददंलोकं जयति त्रिस्तावन्तं जयति भूयांसं चाक्षय्यं य एवं विद्वानहरहः स्वाध्यायमधीते तस्मात्स्वाह्यायोऽध्येतव्यः॥
पयाअहुतयो ह वा एता देवानाम्॥
यदृचः स य एवं विद्वानृचोऽहरहः स्वाध्यायमधीते पयाअहुतिभिरेव तद्देवांस्तर्पयति त एनं तृप्तास्तर्पयन्ति योगक्षेमेण प्राणेन रेतसा सर्वात्मना सर्वाभिः पुण्याभिः सम्पद्भिर्घृतकुल्या मधुकुल्याः पितॄन्त्स्वधा अभिवहन्ति॥
आज्याहुतयो ह वा एता देवानाम्॥
यद्यजूंषि स य एवं विद्वान्यजूंष्यहरहः स्वाध्यायमधीत आज्याहुतिभिरेव तद्देवांस्तर्पयति त एनं तृप्तास्तर्पयन्ति योगक्षेमेण प्राणेन रे॥
सोमाहुतयो ह वा एता देवानाम्॥
यत्सामानि स य एवं विद्वान्त्सामान्यहरहः स्वाध्यायमधीते सोमाहुतिभिरेव तद्देवांस्तर्पयति त एनं तृप्तास्तर्पयन्ति योगक्षेमेण प्राणेन रे॥
मेदाअहुतयो ह वा एता देवानाम्॥
यदथर्वाङ्गिरसः स य एवं विद्वानथर्वाङ्गिरसोऽहरहः स्वाध्यायमधीते मेदाअहुतिभिरेव तद्देवांस्तर्पयति त एनं तृप्तास्तर्पयन्ति योगक्षेमेण प्राणेन रे॥
मध्वाहुतयो ह वा एता देवानाम्॥
यदनुशासनानि विद्या वाकोवाक्यमितिहासपुराणं गाथा नाराशंस्यः स य एवं विद्वाननुशासनानि विद्या वाकोवाक्यमितिहासपुराणं गाथा नाराशंसीरित्यहरहः स्वाध्यायमधीते मध्वाहुतिभिरेव तद्देवांस्तर्पयति त एनं तृप्तास्तर्पयन्ति योगक्षेमेण प्राणेन रे॥
तस्य वा एतस्य ब्रह्मयज्ञस्य॥
चत्वारो वषट्कारा यद्वातो वाति यद्विद्योतते यत्स्तनयति यदवस्फूर्जति तस्मादेवंविद्वाते वाति विद्योतमाने स्तनयत्यवस्फूर्जत्यधीयीतैव वषट्काराणामछम्बट्कारायाति ह वै पुनर्मृत्युम् मुच्यते गछति ब्रह्मणः सात्मतां स चेदपि प्रबलमिव न शक्नुयादप्येकं देवपदमधीयीतैव तथा भूतेभ्यो न हीयते॥
अथातः स्वाध्यायप्रशंसा॥
प्रिये स्वाध्यायप्रवचने भवतो युक्तमना भवत्यपराधीनोऽहरहरर्थान्त्साधयते सुखं स्वपिति परमचिकित्सक आत्मनो भवतीन्द्रियसंयमश्चैकारामता च प्रज्ञाऋद्धिर्यशो लोकपक्तिः प्रज्ञा वर्धमाना चतुरो धर्मान्ब्राह्मणमभिनिष्पादयति ब्राह्मण्यम् प्रतिरूपचर्यां यशो लोकपक्तिं लोकः पच्यमानश्चतुर्भिर्धर्मैर्ब्राह्मणम् भुनक्त्यर्चया च दानेन चाज्येयतया चावध्यतया च॥
ये ह वै के च श्रमाः॥
इमे द्यावापृथिवी अन्तरेण स्वाध्यायो हैव तेषाम् परमता काष्ठा य एवं विद्वान्त्स्वाध्यायमधीते तस्मात्स्वाध्यायोऽध्येतव्यः॥
यद्यद्ध वा अयं छन्दसः॥
स्वाध्यायमधीते तेन-तेन हैवास्य यज्ञक्रतुनेष्टम् भवति य एवं विद्वान्त्स्वाध्यायमधीते तस्मात्स्वाध्यायोऽध्येतव्यः॥
यदि ह वा अप्यभ्यक्तः॥
अलङ्कृतः सुहितः सुखे शयने शयानः स्वाध्यायमधीत आ हैव स नखाग्रेभ्यस्तप्यते य एवं विद्वान्त्स्वाध्यायमधीते तस्मात्स्वाध्यायोऽध्येतव्यः॥
मधु ह वा ऋचः॥
घृतं ह सामान्यमृतं यजूंषि यद्ध वा अयं वाकोवाक्यमधीते क्षीरौदनमांसौदनौ हैव तौ॥
मधुना ह वा एष देवांस्तर्पयति॥
य एवं विद्वानृचोऽहरहः स्वाध्यायमधीते त एनं तृप्तास्तर्पयन्ति सर्वैः कामैः सर्वैर्भोगैः॥
घृतेन ह वा एष देवांस्तर्पयति॥
य एवं विद्वान्त्सामान्यहरहः स्वाध्यायमधीते त एनं तृप्ता॥
अमृतेन ह वा एष देवांस्तर्पयति॥
य एवं विद्वान्यजूंष्यहरहः स्वाध्यायमधीते त एनं तृप्ता॥
क्षीरौदनमांसौदनाभ्यां ह वा एष देवांस्तर्पयति॥
य एवं विद्वान्वाकोवाक्यमितिहासपुराणमित्यहरहः स्वाध्यायमधीते त एनं तृप्ता॥
यन्ति वा आपः॥
एत्यादित्य एति चन्द्रमा यन्ति नक्षत्राणि यथा ह वा एता देवता नेयुर्न कुर्युरेवं हैव तदहर्ब्राह्मणो भवति यदहः स्वाध्यायं नाधीते तस्मात्स्वाध्यायोऽध्येतव्यस्तस्मादप्यृचं वा यजुर्वा साम वा गाथां वा कुंव्यां वाभिव्याहरेद्व्रतस्याव्यवछेदाय॥
प्रजापतिर्वा इदमग्र आसीत्॥
एक एव सोऽकामयत स्याम् प्रजायेयेति सोऽश्राम्यत्स तपोऽतप्यत तस्माछ्रान्तात्तेपानात्त्रयो लोका असृज्यन्त पृथिव्यन्तरिक्षं द्यौः॥
स इमांस्त्रींलोकानभितताप॥
तेभ्यस्तप्तेभ्यस्त्रीणि ज्योतींष्यजायन्ताग्निर्योऽयम् पवते सूर्यः॥
स इमानि त्रीणि ज्योतींष्यभितताप॥
तेभ्यस्तप्तेभ्यस्त्रयो वेदा अजायन्ताग्नेरृग्वेदो वायोर्यजुर्वेदः सूर्यात्सामवेदः॥
स इमांस्त्रीन्वेदानभितताप॥
तेभ्यस्तप्तेभ्यस्त्रीणि शुक्राण्यजायन्त भूरित्यृग्वेदाद्भुव इति यजुर्वेदात्स्वरिति सामवेदात्तदृग्वेदेनैव होत्रमकुर्वत यजुर्वेदेनाध्वर्यवं सामवेदेनोद्गीथं यदेव त्रय्यै विद्यायै शुक्रं तेन ब्रह्मत्वमथोच्चक्राम॥
ते देवाः प्रजापतिमब्रुवन्॥
यदि न ऋक्तो वा यजुष्टो वा सामतो वा यज्ञो ह्वलेत्केनैनम् भिषज्येमेति॥
स होवाच॥
यद्यृक्तो भूरिति चतुर्गृहीतमाज्यं गृहीत्वा गार्हपत्ये जुहवथ यदि यजुष्टो भुव इति चतुर्गृहीतमाज्यं गृहीत्वाग्नीध्रीये जुहवथान्वाहार्यपचने वा हविर्यज्ञे यदि सामतः स्वरिति चतुर्गृहीतमाज्यं गृहीत्वाहवनीये जुहवथ यद्यु अविज्ञातमसत्सर्वाण्यनुद्रुत्याहवनीये जुहवथ तदृग्वेदेनैवर्ग्वेदम् भिषज्यति यजुर्वेदेन यजुर्वेदं सामवेदेन सामवेदं स यथा पर्वणा पर्व सन्दध्यादेवं हैव स सन्दधाति य एताभिर्भिषज्यत्यथ यो हातोऽन्येन भिषज्यति यथा शीर्णेन शीर्णं सन्धित्सेद्यथा वा शीर्णे गरमभिनिदध्यादेवं तत्तस्मादेवंविदमेव ब्रह्माणं कुर्वीत नानेवंविदम्॥
तदाहुः॥
यदृचा होत्रं क्रियते यजुषाध्वर्यवं साम्नोद्गीथोऽथ केन ब्रह्मत्वमित्यनया त्रय्या विद्ययेति ह ब्रूयात्॥
प्रजापतिर्ह वा एष यदंशुः॥
सोऽस्यैष आत्मैवात्मा ह्ययम् प्रजापतिर्वागेवादाभ्यः स यदंशुः गृहीत्वादाभ्यं गृह्णात्यात्मानमेवास्यैतत्संस्कृत्य तस्मिन्नेतां वाचम् प्रतिष्ठापयति॥
अथ मनो ह वा अंशुः॥
वागदाभ्यः प्राण एवांशुरुदानोऽदाभ्यश्चक्षुरेवांशुः श्रोत्रमदाभ्यस्तद्यदेतौ ग्रहौ गृह्णन्ति सर्वत्वायैव कृत्स्नतायै॥
अथ देवाश्च ह वा असुराश्च॥
उभये प्राजापत्या अस्पर्धन्त त एतस्मिन्नेव यज्ञे प्रजापतावस्पर्धन्तास्माकमयं स्यादस्माकमयं स्यादिति॥
ततो देवाः अर्चन्तः श्राम्यन्तश्चेरुस्त एतं ग्रहं ददृशुरेतमदाभ्यं तमगृह्णत ते सवनानि प्रावृहन्त ते सर्वं यज्ञं समवृञ्जतान्तरायन्नसुरान्यज्ञात्॥
ते होचुः॥
अदभाम वा एनानिति तस्माददाभ्यो न वै नोऽदभन्निति तस्माददाभ्यो वाग्वा अदाभ्यः सेयमदब्धा वाक्तस्माद्वेवादाभ्य एवं ह वै द्विषतो भ्रातृव्यस्य सर्वं यज्ञं संवृङ्क्त एवं द्विषन्तम् भ्रातृव्यं सर्वस्माद्यज्ञान्निर्भजति बहिर्धा करोति य उ एवमेतद्वेद॥
स येनैव पात्रेणांशुं गृह्णाति॥
तस्मिन्नेव पात्रे निग्राभ्याभ्योऽप आनीय तस्मिन्नेतानंशून्गृह्णाति॥
उपयामगृहीतोऽसि॥
अग्नये त्वा गायत्रछन्दसं गृह्णामीति गायत्रम् प्रातःसवनं तत्प्रातःसवनम् प्रवृहतीन्द्राय त्वा त्रिष्टुप्छन्दसं गृह्णामीति त्रैष्टुभम् माध्यन्दिनं सवनं तन्माध्यन्दिनं सवनम् प्रवृहति विश्वेभ्यस्त्वा देवेभ्यो जगच्छन्दसं गृह्णामीति जागतं तृतीयसवनं तत्तृतीयसवनम् प्रवृहत्यनुष्टुप्तेऽभिगर इति यद्वा ऊर्ध्वं सवनेभ्यस्तदानुष्टुभं तदेवैतत्प्रवृहति तन्नाभिषुणोति वज्रो वै ग्रावा वागदाभ्यो नेद्वज्रेण वाचं हिनसानीति॥
अंशूनेवाधूनोति॥
व्रेशीनां त्वा पत्मन्नाधूनोमि कुकूननानां त्वा पत्मन्नाधूनोमि भन्दनानां त्वा पत्मन्नाधूनोमि मदिन्तमानां त्वा पत्मन्नाधूनोमि मधुन्तमानां त्वा पत्मन्नाधूनोमीत्येता वै दैवीरापस्तद्याश्चैव दैवीरापो याश्चेमा मानुष्यस्ताभिरेवास्मिन्नेतदुभयीभी रसं दधाति॥
शुक्रं त्वा शुक्र आधूनोमीति॥
शुक्रं ह्येतछुक्र आधूनोत्यह्नो रूपे सूर्यस्य रश्मिष्विति तदह्नश्चैवैनमेतद्रूपे सूर्यस्य च रश्मिष्वाधूनोति॥
ककुभं रूपं वृषभस्य रोचते बृहदिति॥
एतद्वै ककुभं रूपं वृषभस्य रोचते बृहद्य एष तपति शुक्रः शुक्रस्य पुरोगाः सोमः सोमस्य पुरोगा इति तछुक्रमेवैतछुक्रस्य पुरोगां करोति सोमं सोमस्य पुरोगां यत्ते सोमादाभ्यं नाम जागृवि तस्मै त्वा गृह्णामीत्येतद्ध वा अस्यादाभ्यं नाम जागृवि यद्वाक्तद्वाचमेवैतद्वाचे गृह्णाति॥
अथोपनिष्क्रम्य जुहोति॥
तस्मै ते सोम सोमाय स्वाहेति तत्सोममेवैतत्सोमाय जुहोति तथो वाचमग्नौ न प्रवृणक्त्यथ हिरण्यमभिव्यनित्यसावेव बन्धुस्तस्य तावतीरेव दक्षिणा यावतीरंशोः॥
अथांशून्पुनरप्यर्जति॥
उशिक्त्वं देव सोमाग्नेः प्रियम् पाथोऽपीहि वशी त्वं देव सोमेन्द्रस्य प्रियं पाथोऽपीह्यस्मत्सखा त्वं देव सोम विश्वेषां देवानाम् प्रियम् पाथोऽपीहीति सवनानि वा अदः प्रवृहति तान्येवैतत्पुनराप्याययत्ययातयामानि करोति तैरयातयामैर्यज्ञं तन्वते॥