०४

उद्दालको हारुणिः॥
उदीच्यान्वृतो धावयां चकार तस्य निष्क उपाहित आसैतद्ध स्म वै तत्पूर्वेषां वृतानां धावयतामेकधनमुपाहितम् भवत्युपवल्हाय बिभ्यतां तान्होदीच्यानाम् ब्राह्मणान्भीर्विवेद॥
कौरुपञ्चालो वा अयम् ब्रह्मा ब्रह्मपुत्रः॥
यद्वै नोऽयमर्धं न पर्याददीत हन्तैनम् ब्रह्मोद्यमाह्वयामहा इति केन वीरेणेति स्वैदायनेनेति शौनको ह स्वैदायन आस॥
ते होचुः॥
स्वैदायन त्वया वीरेणेमम् प्रतिसंयतामहा इति स होवाचोपात्र खलु रमताहं न्वेनं वेदानीति तं हाभिप्रपेदे तं हाभिप्रपन्नमभ्युवाद स्वैदायना३ इति हो३ गौतमस्य पुत्रेतीतरः प्रतिशुश्राव तं ह तत एव प्रष्टुं दध्रे॥
स वै गौतमस्य पुत्र वृतो जनं धावयेत्॥
यो दर्शपूर्णमासयोरष्टौ पुरस्तादाज्यभागान्विद्यात्पञ्च मध्यतो हविर्भागान्षट् प्राजापत्यानष्टा उपरिष्टादाज्यभागान्॥
स वै गौतमस्य पुत्र वृतो जनं धावयेत्॥
यस्तद्दर्शपूर्णमासयोर्विद्याद्यस्मादिमाः प्रजा अदन्तका जायन्ते यस्मादासां जायन्ते यस्मादासाम् प्रभिद्यन्ते यस्मादासां संस्तिष्ठन्ते यस्मादासाम् पुनरुत्तमे वयसि सर्व एव प्रभिद्यन्ते यस्मादधर एवाग्रे जायन्तेऽथोत्तरे यस्मादणीयांस एवाधरे प्रथीयांस उत्तरे यस्माद्दंष्ट्रा वर्षीयांसो यस्मात्समा एव जम्भ्याः॥
स वै गौतमस्य पुत्र वृतो जनं धावयेत्॥
यस्तद्दर्शपूर्णमासयोर्विद्याद्यस्मादिमाः प्रजा लोमशा जायन्ते यस्मादासाम् पुनरिव श्मश्रूण्यौपपक्ष्याणि दुर्बीरिणानि जायन्ते यस्माछीर्षण्येवाग्रे पलितो भवत्यथ पुनरुत्तमे वयसि सर्व एव पलितो भवति॥
स वै गौतमस्य पुत्र वृतो जनं धावयेत्॥
यस्तद्दर्शपूर्णमासयोर्विद्याद्यस्मात्कुमारस्य रेतः सिक्तं न सम्भवति यस्मादस्य मध्यमे वयसि सम्भवति यस्मादस्य पुनरुत्तमे वयसि न सम्भवति॥
यो गायत्रीं हरिणीम्॥
ज्योतिष्पक्षां यजमानं स्वर्गं लोकमभिवहन्तीं विद्यादिति तस्मै ह निष्कम् प्रददावनूचानः स्वैदायनासि सुवर्णं वाव सुवर्णविदे ददतीति तं होपगुह्य निश्चक्राम तं ह पप्रछुः किमिवैष गौतमस्य पुत्रोऽभूदिति॥
स होवाच॥
यथा ब्रह्मा ब्रह्मपुत्रो मूर्धास्य विपतेद्य एनमुपवल्हेतेति ते ह तत एव विप्रेयुस्तं ह तत एव समित्प्राणिः प्रतिचक्रम् उप त्वायानीति किमध्येष्यमाण इति यानेव मा प्रश्नानप्राक्षीस्तानेव मे विब्रूहीति स होवाचानुपेतायैव त एनान्ब्रवाणीति॥
तस्मा उ हैतदुवाच॥
द्वावाघारौ पञ्च प्रयाजा आग्नेय आज्यभागोऽष्टम एतेऽष्टौ पुरस्तादाज्यभागाः सौम्य आज्यभागो हविर्भागाणाम् प्रथमो हविर्हि सोम आग्नेयः पुरोडाशोऽग्नीषोमीय उपांशुयाजोऽग्नीषोमीयः पुरोडाशोऽग्निः स्विष्टकृदेते पञ्च मध्यतो हविर्भागाः॥
प्राशित्रं चेडा च॥
यच्चाग्नीध आदधाति ब्रह्मभागो यजमानभागोऽन्वाहार्य एते षट् प्राजापत्यास्त्रयोऽनुयाजाश्चत्वारः पत्नीसंयाजाः समिष्टयजुरष्टममेतेऽष्टा उपरिष्टादाज्यभागाः॥
अथ यदपुरोऽनुवाक्यकाः प्रयाजा भवन्ति॥
तस्मादिमाः प्रजा अदन्तका जायन्तेऽथ यत्पुरोऽनुवाक्यवन्ति हवींषि भवन्ति तस्मादासां जायन्तेऽथ यदपुरोऽनुवाक्यका अनुयाजा भवन्ति तस्मादासाम् प्रभिद्यन्तेऽथ यत्पुरोऽनुवाक्यवन्तः पत्नीसंयाजा भवन्ति तस्मादासां सन्तिष्ठन्तेऽथ यदपुरोऽनुवाक्यकं समिष्टयजुर्भवति तस्मादासाम् पुनरुत्तमे वयसि सर्व एव प्रभिद्यन्ते॥
अथ यदनुवाक्यामनूच्य॥
याज्यया यजति तस्मादधर एवाग्रे जायन्तेऽथोत्तरेऽथ यद्गायत्रीमनूच्य त्रिष्टुभा यजति तस्मादणीयांस एवाधरे प्रथीयांस उत्तरेऽथ यत्प्राञ्चावाघारावाघारयति तस्माद्दंष्ट्रा वर्षीयांसोऽथ यत्सछन्दसावेव संयाज्ये भवतस्तस्मात्समा एव जम्भ्याः॥
अथ यद्बर्हि स्तृणाति॥
तस्मादिमाः प्रजा लोमशा जायन्तेऽथ यत्पुनरिव प्रस्तरं स्तृणाति तस्मादासाम् पुनरिव श्मश्रूण्यौपपक्ष्याणि दुर्बीरिणानि जायन्तेऽथ यत्केवलमेवाग्रे प्रस्तरमनुप्रहरति तस्माछीर्षण्येवाग्रे पलितो भवत्यथ यत्सर्वमेव बर्हिरनुप्रहरति तस्मात्पुनरुत्तमे वयसि सर्व एव पलितो भवति॥
अथ यदाज्यहविषः प्रयाजा भवन्ति॥
तस्मात्कुमारस्य रेतः सिक्तं न सम्भवत्युदकमिवैव भवत्युदकमिव ह्याज्यमथ यन्मध्ये यज्ञस्य दध्ना पुरोडाशेनेति यजन्ति तस्मादस्य मध्यमे वयसि सम्भवति द्रप्सीवैव भवति द्रप्सीव हि रेतोऽथ यदाज्यहविष एवानुयाजा भवन्ति तस्मादस्य पुनरुत्तमे वयसि न सम्भवत्युदकमिवैव भवत्युदकमिव ह्याज्यम्॥
वेदिरेव गायत्री॥
तस्यै येऽष्टौ पुरस्तादाज्यभागाः स दक्षिणः पक्षो येऽष्टा उपरिष्टादाज्यभागाः स उत्तरः पक्षः सैषा गायत्री हरिणी ज्योतिष्पक्षा यजमानं स्वर्गं लोकमभिवहति य एवमेतद्वेद॥
अथातः स्रुचोरादानस्य॥
तद्धैतदेके कुशला मन्यमाना दक्षिणेनैव जुहूमाददते सव्येनोपभृतं न तथा कुर्याद्यो हैनं तत्र ब्रूयात्प्रतिप्रतिं न्वा अयमध्वर्युर्यजमानस्य द्विषन्तम् भ्रातृव्यमकत्प्रत्युद्यामिनमितीश्वरो ह तथैव स्यात्॥
इत्थमेव कुर्यात्॥
उभाभ्यामेव प्राणिभ्यां जुहूम् परिगृह्योपभृत्यधिनिदध्यात्तस्य नोपमीमांसास्ति तत्पशव्यमायुष्यं ते असंशिञ्जयन्नाददीत यत्संशिञ्जयेदयोगक्षेमो यजमानमृछेत्तस्मादसंशिञ्जयन्नाददीत॥
अथातोऽतिक्रमणस्य॥
वज्रेण ह वा अन्योऽध्वर्युर्यजमानस्य पशून्विधमति वज्रेण हास्मा अन्य उपसमूहत्येष ह वा अध्वर्युर्वज्रेण यजमानस्य पशून्विधमति य आश्रावयिष्यन्दक्षिणेनातिक्रामति सव्येनाश्राव्याथ हास्मा एष उपसमूहति य आश्रावयिष्यन्त्सव्येनातिक्रामति दक्षिणेनाश्राव्यैष हास्मा उपसमूहति॥
अथातो धारणस्य॥
तद्धैतदेके कुशला मन्यमानाः प्रगृह्य बाहू स्रुचौ धारयन्ति न तथा कुर्याद्यो हैनं तत्र ब्रूयाछूलौ न्वा अयमध्वर्युर्बाहू अकृत शूलबाहुर्भविष्यतीतीश्वरो ह तथैव स्यादथ हैष मध्यमः प्राणस्तस्मादु तमुपन्यच्येवैव धारयेत्॥
अथात आश्रावणस्य॥
षडु वा आश्रावितानि न्यक्तिर्यगूर्ध्वं कृपणम् बहिःश्र्यन्तःश्रि॥
एतद्ध वै न्यक्॥
योऽयमुच्चैरादाय शनैर्निदधाति स यमिच्छेत्पापीयान्त्स्यादिति तस्योच्चैरादाय शनैर्निदध्यात्तेन स पापीयान्भवति॥
अथ हैतत्तिर्यक्॥
योऽयं यावतैवादत्ते तावता निदधाति स यमिच्छेन्नैव श्रेयान्त्स्यान्न पापीयानिति तस्य यावतैवाददीत तावता निदध्यात्तेन स नैव श्रेयान्न पापीयान्भवति॥
अथ हैतदूर्ध्वम्॥
योऽयं शनैरादायोच्चैर्निदधाति स यमिच्छेछ्रेयान्त्स्यादिति तस्य शनैरादायोच्चैर्निदध्यात्तेन स श्रेयान्भवति॥
अथ हैतत्कृपणम्॥
योऽयमणु दीर्घमस्वरमाश्रावयति यो हैनं तत्र ब्रूयात्कृपणं न्वा अयमध्वर्युर्यजमानमकद्द्विषतो भ्रातृव्यस्योपावसायिनमितीश्वरो ह तथैव स्यात्॥
अथ हैतद्बहिःश्रि॥
योऽयमपव्यादायौष्ठा उच्चैरस्वरमाश्रावयति श्रीर्वै स्वरो बाह्यत एव तछ्रियं धत्तेऽशनायुको भवति॥
अथ हैतदन्तःश्रि॥
योऽयं सन्धायौष्ठा उच्चैः स्वरवदाश्रावयति श्रीर्वै स्वरोऽन्तरत एव तछ्रियं धत्तेऽन्नादो भवति॥
स वै मन्द्रमिवोरसि॥
परास्तभ्योभयतोबार्हतमुच्चैरन्ततो निदध्यात्तस्य नोपमीमांसास्ति तत्पशव्यमायुष्यम्॥
अथातो होमस्य॥
तद्धैतदेके कुशला मन्यमानाः प्राचीं स्रुचमुपावहृत्य हुत्वा पर्याहृत्योपभृत्यधिनिदधति न तथा कुर्याद्यो हैनं तत्र ब्रूयादनुयुवं न्वा अयमध्वर्युर्यजमानमकद्द्विषतो भ्रातृव्यस्यान्ववसायिनमितीश्वरो ह तथैव स्यात्॥
पार्श्वत उ हैके॥
स्रुचमुपावहृत्य हुत्वा पर्याहृत्योपभृत्यधिनिदधति न तथा कुर्याद्यो हैनं तत्र ब्रूयादतीर्थेन न्वा अयमध्वर्युराहुतीः प्रारौत्सीत्सं वा शरिष्यते घुणिर्वा भविष्यतीतीश्वरो ह तथैव स्यात्॥
इत्थमेव कुर्यात्॥
प्राचीमेव स्रुचमुपावहृत्य हुत्वा तेनैवाधिहृत्योपभृत्यधिनिदध्यात्तस्य नोपमीमांसास्ति तत्पशव्यमायुष्यम्॥
प्रदग्धाहुतिर्ह वा अन्योऽध्वर्युः॥
आहुतीर्हान्यः सन्तर्पयत्येष ह वै प्रदग्धाहुतिरध्वयुर्योऽयमाज्यं हुत्वावदानानि जुहोत्येतं ह वै तददृश्यमाना वागभ्युवाद प्रदग्धाहुतिर्न्वा अयमध्वर्युरित्यथ हैना एष सन्तर्पयति योऽयमाज्यं हुत्वावदानानि जुहोत्यथ पुनरन्तत आज्येनाभिजुहोत्येष हैनाः सन्तर्पयति तासां सन्तृप्तानां देवा हिरण्मयांश्चमसान्पूरयन्ते॥
तदु होवाच याज्ञवल्क्यः॥
यद्वा उपस्तीर्यावदायाभिघारयति तदेवैनाः सन्तर्पयति तासां सन्तृप्तानां देवा हिरण्मयांश्चमसान्पूरयन्तेऽयस्थूणगृहपतीनां वै शौल्बायनोऽध्वर्युरास॥
स होवाच॥
इदमहेदं सत्त्रं कृशपश्वल्पाज्यमथायं गृहपतिरस्मीति मन्यत इति॥
स होवाच॥
अध्वर्यवा वै नोऽक्रुक्ष एते वै ते स्रुचौ ये त्वं संवत्सरं नाशक आदातुं यद्वै त्वाहमेतयोरनुशिष्याम् प्र प्रजया पशुभिर्जायेथा अभि स्वर्गं लोकं वहेरिति॥
स होवाच॥
उप त्वायानीति स होवाचात्र वाव खल्वर्हसि यो नः संवत्सरेऽध्वर्युरभूरनुपेतायैव त एतद्ब्रवाणीति तस्मा उ हैतदेव स्रुचोरादानमुवाच यदेतद्व्याख्याम् तस्मादेवंविदमेवाध्वर्युं कुर्वीतनानेवंविदम्॥
प्रजापतिर्वै प्रजाः सृजमानोऽतप्यत॥
तस्माछ्रान्तात्तपानाछ्रीरुदक्रामत्सा दीप्यमाना भ्राजमाना लेलायन्त्यतिष्ठतां दीप्यमानाम् भ्राजमानां लेलायन्तीं देवा अभ्यध्यायन्॥
ते प्रजापतिमब्रुवन्॥
हनामेमामेदमस्या ददामहा इति स होवाच स्त्री वा एषा यछ्रीर्न वै स्त्रियं घ्नन्त्युत त्वा अस्या जीवन्त्या एवाददत इति॥
तस्या अग्निरन्नाद्यमादत्त॥
सोमो राज्यं वरुणः साम्राज्यम् मित्रः क्षत्रमिन्द्रो बलम् बृहस्पतिर्ब्रह्मवर्चसं सविता राष्ट्रम् पूषा भगं सरस्वती पुष्टिं त्वष्टा रूपाणि॥
सा प्रजापतिमब्रवीत्॥
आ वै म इदमदिषतेति स होवाच यज्ञेनैनान्पुनर्याचस्वेति॥
सैतां दशहविषमिष्टिमपश्यत्॥
आग्नेयमष्टाकपालम् पुरोडाशं सौम्यं चरुं वारुणं दशकपालम् पुरोडाशम् मैत्रं चरुमैन्द्रमेकादशकपालम् पुरोडाशम् बार्हस्पत्यं चरुं सावित्रं द्वादशकपालं वाष्टाकपालं वा पुरोडाशम् पौष्णं चरुं सारस्वतं चरुं त्वाष्ट्रं दशकपालम् पुरोडाशम्॥
तानेतयानुवाक्ययान्ववदत्॥
अग्निः सोमो वरुणो मित्र इन्द्रो बृहस्पतिः सविता यः सहस्री पूषा नो गोभिरवसा सरस्वती त्वष्टा रूपाणि समनक्तु यज्ञैरिति ते प्रत्युपातिष्ठन्त॥
तानेतया याज्यया॥
परस्तात्प्रतिलोमम् प्रत्यैत्त्वष्टा रूपाणि ददती सरस्वती पूषा भगं सविता मे ददातु॥
बृहस्पतिर्दददिन्द्रो बलम् मे मित्रं क्षत्रं वरुणः सोमो अग्निरिति ते पुनर्दानायाध्रियन्त॥
सैतानुपहोमानपश्यत्॥
अग्निरन्नादोऽन्नपतिरन्नाद्यमस्मिन्यज् ञे मयि दधातु स्वाहेत्याहुतिमेवादायाग्निरुदक्रामत्पुनरस्या अन्नाद्यमददात्॥
सोमो राजा राजपतिः॥
राज्यमस्मिन्यज्ञे मयि दधातु स्वाहेत्याहुतिमेवादाय सोम उदक्रामत्पुनरस्यै राज्यमददात्॥
वरुणः सम्राट् सम्राट्पतिः॥
साम्राज्यमस्मिन्यज्ञे मयि दधातु स्वाहेत्याहुतिमेवादाय वरुण उदक्रामत्पुनरस्यै साम्राज्यमददात्॥
मित्रः क्षत्रं क्षत्रपतिः॥
क्षत्रमस्मिन्यज्ञे मयि दधातु स्वाहेत्याहुतिमेवादाय मित्र! उदक्रामत्पुनरस्यै क्षत्रमददात्॥
इन्द्रो बलम् बलपतिः॥
बलमस्मिन्यज्ञे मयि दधातु स्वाहेत्याहुतिमेवादायेन्द्र उदक्रामत्पुनरस्यै बलमददात्॥
बृहस्पतिर्ब्रह्म ब्रहस्पतिः॥
ब्रह्मवर्चसमस्मिन्यज्ञे मयि दधातु स्वाहेत्याहुतिमेवादाय बृहस्पतिरुदक्रामत्पुनरस्यै ब्रह्मवर्चसमददात्॥
सविता राष्ट्रं राष्ट्रपतिः॥
राष्ट्रमस्मिन्यज्ञे मयि दधातु स्वाहेत्याहुतिमेवादाय सवितोदक्रामत्पुनरस्यै राष्ट्रमददात्॥
पूषा भगम् भगपतिः॥
भगमस्मिन्यज्ञे मयि दधातु स्वाहेत्याहुतिमेवादाय पूषोदक्रामत्पुनरस्यै भगमददात्॥
सरस्वती पुष्टिम् पुष्टिपतिः॥
पुष्टिमस्मिन्यज्ञे मयि दधातु स्वाहेत्याहुतिमेवादाय सरस्वत्युदक्रामत्पुनरस्यै पुष्टिमददात्॥
त्वष्टा रूपाणां रूपकृद्रूपपतिः॥
रूपेण पशूनस्मिन्यज्ञे मयि दधातु स्वाहेत्याहुतिमेवादाय त्वष्टोदक्रामत्पुनरस्यै रूपेण पशूनददात्श दक्षिणा दशन्दशिनी विराट् श्रीर्विराट् श्रियां हश दक्षिणा दशन्दशिनी विराट् श्रीर्विराट् श्रियां ह॥
ता वा एताः॥
दश देवता दश हवींषि दशाहुतयो दइतद्विराज्यन्नाद्ये प्रतितिष्ठति॥
तस्यै पञ्चदश सामिधेन्यो भवन्ति॥
उपांशु देवता यजति पञ्च प्रयाजा भवन्ति त्रयोऽनुयाजा एकं समिष्टयजुः पुष्टिमन्तावाज्यभागावग्निना रयिमश्नवत्पोषमेव दिवे-दिवे यशसं वीरवत्तमम्॥
गयस्फानो अमीवहा वसुवित्पुष्टिवर्धनः॥
सुमित्रः सोम नो भवेति॥
सहस्रवत्यौ संयाज्ये नू नो रास्व सहस्रवत्तोकवत्पुष्टिमद्वसु॥
द्युमदग्ने सुवीर्यं वर्षिष्ठमनुपक्षितम्॥
उत नो ब्रह्मन्नविष उक्थेषु देवहूतमः॥
शं नः शोचा मरुद्वृधोऽग्ने सहस्रसातम इति॥
तां हैतां गोतमो राहूगणः॥
विदां चकार सा ह जनकं वैदेहम् प्रत्युत्ससाद तां हाङ्गिजिद्ब्राह्मणेष्वन्वियेष तामु ह याज्ञवल्क्ये विवेद स होवाच सहस्रम् भो याज्ञवल्क्य दद्नो यस्मिन्वयं त्वयि मित्रविन्दामन्वविदामेति विन्दते मित्रं राष्ट्रमस्य भवत्यप पुनर्मृत्युं जयति सर्वमायुरेति य एवं विद्वानेतयेष्ट्या यजते यो वैतदेवं वेद॥
अथातो हविषः समृद्धिः॥
षड्ढ वै ब्रह्मणो द्वारोऽग्निर्वायुरापश्चन्द्रमा विद्युदादित्यः॥
स य उपदग्धेन हविषा यजते॥
अग्निना ह स ब्रह्मणो द्वारेण प्रतिपद्यते सोऽग्निना ब्रह्मणो द्वारेण प्रतिपद्य ब्रह्मणः सायुज्यं सलोकतां जयति॥
अथ यो विपतितेन हविषा यजते॥
वायुना ह स ब्रह्मणो द्वारेण प्रतिपद्यते स वायुना ब्रह्मणो द्वारेण प्रतिपद्य ब्रह्मणः सायुज्यं सलोकतां जयति॥
अथ योऽशृतेन हविषा यजते॥
अद्भिर्हि स ब्रह्मणो द्वारेण प्रतिपद्यते सोऽद्भिर्ब्रह्मणो द्वारेण प्रतिप॥
अथ य उपरक्तेन हविषा यजते॥
चन्द्रमसा ह स ब्रह्मणो द्वारेण प्रतिपद्यते स चन्द्रमसा ब्रह्मणो द्वारेण प्रतिप॥
अथ यो लोहितेन हविषा यजते॥
विद्युता ह स ब्रह्मणो द्वारेण प्रतिपद्यते स विद्युता ब्रह्मणो द्वारेण प्रतिप॥
अथ यः सुशृतेन हविषा यजते॥
आदित्येन ह स ब्रह्मणो द्वारेण प्रतिपद्यते स आदित्येन ब्रह्मणो द्वारेण प्रतिपद्य ब्रह्मणः सायुज्यं सलोकतां जयति सैषा हविषः समृद्धिः स यो हैवमेतां हविषः समृद्धिं वेद सर्वसमृद्धेन हैवास्य हविषेष्टम् भवति॥
अथातो यज्ञस्य समृद्धिः॥
यद्वै यज्ञस्य न्यूनम् प्रजननमस्य तदथ यदतिरिक्तम् पशव्यमस्य तदथ यत्सङ्कसुकं श्रिया अस्य तदथ यत्सम्पन्नं स्वर्ग्यमस्य तत्॥
स यदि मन्येत॥
न्यूनम् मे यज्ञेऽभूदिति प्रजननम् म एतत्प्रजनिष्य इत्येव तदुपासीत॥
अथ यदि मन्येत॥
अतिरिक्तम् मे यज्ञेऽभूदिति पशव्यम् म एतत्पशुमान्भविष्यामीत्येव तदुपासीत॥
अथ यदि मन्येत॥
सङ्कसुकम् मे यज्ञेऽभूदिति श्रियै म एतदा मा श्रीस्तेजसा यशसा ब्रह्मवर्चसेन परिवृता गमिष्यतीत्येव तदुपासीत॥
अथ यदि मन्येत॥
सम्पन्नम् मे यज्ञेऽभूदिति स्वर्ग्यम् म एतत्स्वर्गलोको भविष्यामीत्येव तदुपासीत सैषा यज्ञस्य समृद्धिः स यो हैवमेतां यज्ञस्य समृद्धिं वेद सर्वसमृद्धेन हैवास्य यज्ञेनेष्टम् भवति॥