०३

वाग्घ वा एतस्याग्निहोत्रस्याग्निहोत्री॥
मन एव वत्सस्तदिदम् मनश्च वाक्च समानमेव सन्नानेव तस्मात्समान्या रज्ज्वा वत्सं च मातरं चाभिदधति॥
तेज एव श्रद्धा सत्यमाज्यम्॥
तद्धैतज्जनको वैदेहः॥
याज्ञवल्क्यम् पप्रछ वेत्थाग्निहोत्रं याज्ञवल्क्या३ इति वेद सम्राडिति किमिति पय एवेति॥
यत्पयो न स्यात्॥
केन जुहुया इति व्रीहियवाभ्यामिति यद्व्रीहियवौ न स्यातां केन जुहुया इति या अन्या ओषधय इति यदन्या ओषधयो न स्युः केन जुहुया इति या आरण्या ओषध्त्येनेति यद्वानस्पत्यं न स्यात्केन जुहुया इत्यद्भिरिति यदापो न स्युः केन जुहुया इति॥
स होवाच॥
न वा इह तर्हि किं चनासीदथैतदहूयतैव सत्यं श्रद्धायामिति वेत्थाग्निहोत्रं याज्ञवल्क्य धेनुशतं ददामीति होवाच॥
तदप्येते श्लोकाः॥
किं स्विद्विद्वान्प्रवसत्यग्निहोत्री गृहेभ्यः॥
कथं स्विदस्य काव्यं कथं सन्ततो अग्निभिरिति कथं स्विदस्यानपप्रोषितम् भवतीत्येवैतदाह॥
यो जविष्ठो भुवनेषु॥
स विद्वान्प्रवसन्विदे तथा तदस्य काव्यं तथा सन्ततो अग्निभिरिति मन एवैतदाह मनसैवास्यानपप्रोषितम् भवतीति॥
यत्स दूरम् परेत्य॥
अथ तत्र प्रमाद्यति॥
कस्मिन्त्सास्य हुताहुतिर्गृहे यामस्य जुह्वतीति यत्स दूरम् परेत्याथ तत्र प्रमाद्यति कस्मिन्नस्य साहुतिर्हुता भवतीत्येवैतदाह॥
यो जागार भुवनेषु॥
विश्वा जातानि योऽबिभः॥
तस्मिन्त्सास्य हुताहुतिर्गृहे यामस्य जुह्वतीति प्राणमेवैतदाह तस्मादाहुः प्राण एवाग्निहोत्रमिति॥
यो ह वा अग्निहोत्रे॥
षण्मिथुनानि वेद मिथुनेन-मिथुनेन ह प्रजायते सर्वाभिः प्रजातिभिर्यजमानश्च पत्नी च तदेकम् मिथुनं तस्मादस्य पत्नीवदग्निहोत्रं स्यादेतन्मिथुनमुपाप्नवानीति वत्सश्चाग्निहोत्री च तदेकम् मिथुनं तस्मादस्य पुंवत्साग्निहोत्री स्यादेतन्मिथुनमुपाप्नवानीति स्थाली चाङ्गाराश्च तदेकम् मिथुनं स्रुक्च स्रुवश्च तदेकम् मिथुनमाहवनीयश्च समिच्च तदेकम् मिथुनमाहुतिश्च स्वाहाकारश्च तदेकम् मिथुनमेतानि ह वा अग्निहोत्रे षण्मिथुनानि तानि य एवं वेद मिथुनेन-मिथुनेन ह प्रजायते सर्वाभिः प्रजातिभिः॥
ब्रह्म वै मृत्यवे प्रजाः प्रायछत्॥
तस्मै ब्रह्मचारिणमेव न प्रायछत्सोऽब्रवीदस्तु मह्यमप्येतस्मिन्भाग इति यामेव रात्रिं समिधं नाहराता इति तस्माद्यां रात्रिम् ब्रह्मचारी समिधं नाहरत्यायुष एव तामवदाय वसति तस्माद्ब्रह्मचारी समिधमाहरेन्नेदायुषोऽवदाय वसानीति॥
दीर्घसत्त्रं वा एष उपैति॥
यो ब्रह्मचर्यमुपैति स यामुपयन्त्समिधमादधाति सा प्रायणीया यां स्नास्यन्त्सोदयनीयाथ या अन्तरेण सत्त्र्या एवास्य ता ब्राह्मणो ब्रह्मचर्यमुपयन्॥
चतुर्धा भूतानि प्रविशति॥
अग्निम् पदा मृत्युम् पदाचार्यम् पदात्मन्येवास्य चतुर्थः पादः परिशिष्यते॥
स यदग्नये समिधमाहरति॥
य एवास्याग्नौ पादस्तमेव तेन परिक्रीणाति तं संस्कृत्यात्मन्धत्ते स एनमा!विशति॥
अथ यदात्मानं दरिद्रीकृत्येव॥
अह्रीर्भूत्वा भिक्षते य एवास्य मृत्यौ पादस्तमेव तेन परिक्रीणाति तं संस्कृत्यात्मन्धत्ते स एनमाविशति॥
अथ यदाचार्यवचसं करोति॥
यदाचार्याय कर्म करोति य एवास्याचार्ये पादस्तमेव तेन परिक्रीणाति तं संस्कृत्यान्मन्धत्ते स एनमाविशति॥
न ह वै स्नात्वा भिक्षेत॥
अप ह वै स्नात्वा भिक्षां जयत्यप ज्ञातीनामशनायामप पितॄणां स एवं विद्वान्यस्या एव भूयिष्ठं श्लाघेत ताम् भिक्षेतेत्याहुस्तल्लोक्यमिति स यद्यन्यां भिक्षितव्यां न विन्देदपि स्वामेवाचार्यजायाम् भिक्षेताथो स्वाम् मातरं नैनं सप्तम्यभिक्षितातीयात्तमेवं विद्वांसमेवं चरन्तं सर्वे वेदा आविशन्ति यथा ह वा अग्निः समिद्धो रोचत एवं ह वै स स्नात्वा रोचते य एवं विद्वान्ब्रह्मचर्यं चरति॥