०२

त्रिर्ह वै पुरुषो जायते॥
एतन्न्वेव मातुश्चाधि पितुश्चाग्रे जायतेऽथ यं यज्ञ उपनमति स यद्यजते तद्द्वितीयं जायतेऽथ यत्र म्रियते यत्रैनमग्नावभ्यादधति स यत्ततः सम्भवति तत्तृतीयं जायते तस्मात्त्रिः पुरुषो जायत इत्याहुः॥
ता वा एताः॥
एकादश सामिधेनीरन्वाह दश वा इमे पुरुषे प्राणा आत्मैकादशो यस्मिन्नेते प्राणाः प्रतिष्ठिता एतावान्वै पुरुषस्तदेनं कृत्स्नं जनयत्यथ यदूर्ध्वं सामिधेनीभ्यः सा प्रतिष्ठा तदेनं जनयित्वा प्रतिष्ठापयति॥
नव प्रसवस्य व्याहृतयः॥
नवमे पुरुषे प्राणास्तदेनं द्वितीयं जनयत्याश्रावणम् प्रत्याश्रावणं सा प्रतिष्ठाथ यदेवादः सृष्टौ जन्मोद्यते तदेनं तृतीयं जनयति पत्नीसंयाजा एव तत्र प्रतिष्ठा॥
त्रिर्हि वै पुरुषो जायते॥
एवमेवैनमेतद्यज्ञात्त्रिर्जनयति तासामेकादशानां त्रिः प्रथमामन्वाह त्रिरुत्तमाम्॥
ताः पञ्चदश सामिधेन्यः॥
द्वावाघारौ पञ्च प्रयाजा इडा त्रयोऽनुयाजाः सूक्तवाकश्च शम्योर्वाकश्च तास्त्रयोदशाहुतयोऽथ यदेवादः पत्नीसंयाजेषु सम्प्रगृह्णाति समिष्टयजुश्च॥
ताः पञ्चदशाहुतयः॥
तासाम् पञ्चदशानामाहुतीनामेता अनुवाक्या एताः पञ्चदश सामिधेन्य एतासामनुवाक्यानामेता याज्या य एवात्र मन्त्रो यो निगदस्तद्याज्यारूपमेतेनो हास्यैता आहुतयोऽनुवाक्यवत्यो भवन्त्येताभिः सामिधेनीभिरेताभिराहुतिभिरेता अनुवाक्या याज्यवत्यश्चाहुतिवत्यश्च भवन्ति॥
गायत्रीमनुवाक्यामन्वाह॥
त्रिपदा वै गायत्री त्रय इमे लोका इमानेवैतल्लोकान्देवाः प्रत्यष्ठापयन्॥
अथ त्रिष्टुभा यजति॥
चतुष्पदा वै त्रिष्टुप्चतुष्पादाः पशवस्तत्पशूनेवैतदेषु लोकेषु प्रतिष्ठितेषु देवाः प्रत्यष्ठापयन्॥
द्व्यक्षरो वषट्कारः॥
द्विपाद्वै पुरुषस्तत्पुरुषमेवैतद्द्विपादमेषु पशुषु प्रतिष्ठितेषु प्रत्यष्ठापयन्॥
सोऽयं द्विपात्पुरुषः॥
पशुषु प्रतिष्ठित एवमेवैष एतल्लोकान्प्रतिष्ठापयति लोकेषु प्रतिष्ठितेषु पशून्प्रतिष्ठापयति पशुषु प्रतिष्ठितेष्वात्मानम् प्रतिष्ठापयत्येवमेष पुरुषः पशुषु प्रतिष्ठितो य एवं विद्वान्यजते॥
अथ यद्वषट्कृते जुहोति॥
एष वै वषट्कारो य एष तपति स एष मृत्युस्तदेनमुपरिष्टान्मृत्योः संस्करोति तदेनमतो जनयति स एतम् मृत्युमतिमुच्यते यज्ञो वा अस्यात्मा भवति तद्यज्ञ एव भूत्वैतन्मृत्युमतिमुच्यत एतेनो हास्य सर्वे यज्ञक्रतव एतम् मृत्युमतिमुक्ताः॥
अथ यामेतामाहुतिं जुहोति॥
एषा ह वा अस्याहुतिरमुष्मिंलोक आत्मा भवति स यदैवंविदस्माल्लोकात्प्रैत्यथैनमेषाहुतिरेतस्य पृष्ठे सत्याह्वयत्येह्यहं वै त इहात्मास्मीति तद्यदाह्वयति तस्मादाहुतिर्नाम॥
ब्रह्म वा इदमग्र आसीत्॥
तद्देवानसृजत तद्देवान्त्सृष्ट्वैषु लोकेषु व्यारोहयदस्मिन्नेव लोकेऽग्निं वायुमन्तरिक्षे दिव्येव सूर्यम्॥
अथ येऽथ ऊर्ध्वा लोकाः॥
तद्या अत ऊर्ध्वा देवतास्तेषु ता देवता व्यारोहयत्स यथा हैवेम आविर्लोका इमाश्च देवता एवमु हैव त आविर्लोकास्ताश्च देवता येषु ता देवता व्यारोहयत्॥
अथ ब्रह्मैव परार्धमगछत्॥
तत्परार्धं गत्वैक्षत कथं न्विमांलोकान्प्रत्यवेयामिति तद्द्वाभ्यामेव प्रत्यवैद्रूपेण चैव नाम्ना च स यस्य कस्य च नामास्ति तन्नाम यस्यो अपि नाम नास्ति यद्वेद रूपेणेदं रूपमिति तद्रूपमेतावद्वा इदं यावद्रूपं चैव नाम च॥
ते हैते ब्रह्मणो महती अभ्वे॥
स यो हैते ब्रह्मणो महती अभ्वे वेद महद्धैवाभ्वम् भवति॥
ते हैते ब्रह्मणो महती यक्षे॥
स यो हैते ब्रह्मणो महती यक्षे वेद महद्धैव यक्षम् भवति तयोरन्यतरज्ज्यायो रूपमेव यद्ध्यपि नाम रूपमेव तत्स यो हैतयोर्ज्यायो वेद ज्यायान्ह तस्माद्भवति यस्माज्ज्यायान्बुभूषति॥
मर्त्या ह वा अग्रे देवा आसुः॥
स यदैव ते ब्रह्मणापुरथामृता आसुः स यम् मनस आघारयति मनो वै रूपम् मनसा हि वेदेदं रूपमिति तेन रूपमाप्नोत्यथ यं वाच आघारयति वाग्वै नाम वाचा हि नाम गृह्णाति तेनो नामाप्नोत्येतावद्वा इदं सर्वं यावद्रूपं चैव नाम च तत्सर्वमाप्नोति सर्वं वा अक्षय्यमेतेनो हास्याक्षय्यं सुकृतम् भवत्यक्षय्यो लोकः॥
तद्वा अद आग्नेय्यामिष्टा उद्यते॥
यथा तदृषिभ्यो यज्ञः प्रारोचत तं यथातन्वत तद्यज्ञं तन्वानानृषीन्गन्धर्वा उपनिषेदुस्ते ह स्म सन्निदधतीदं वा अत्यरीरिचन्निदमूनमक्रन्निति स यदैषां यज्ञः सन्तस्थेऽथैनांस्तद्दर्शयां चक्रुरिदं वा अत्यरीरिचतेदमूनमकर्तेति॥
स यदतिरेचयां चक्रुः॥
यथा गिरिरेवं तदासाथ यदूनं चक्रुर्यथा श्वभ्राः प्रदरा एवं तदास॥
स यत्र शम्योराह॥
तदभिमृशति यज्ञ नमश्च त उप च यज्ञस्य शिवे सन्तिष्ठस्व स्विष्टे मे सन्तिष्ठस्वेति स यदतिरेचयति तन्नमस्कारेण शमयत्यथ यदूनं करोत्युप चेति तेन तदन्यूनम् भवति यज्ञस्य शिवे सन्तिष्ठस्वेति यद्वै यज्ञस्यान्यूनातिरिक्तं तछिवं तेन तदुभयं शमयति स्विष्टे मे सन्तिष्ठस्वेति यद्वै यज्ञस्यान्यूनातिरिक्तं तत्स्विष्टं तेनो तदुभयं शमयत्येवमु हास्यैतेन यज्ञेनान्यूनातिरिक्तेनैवेष्टम् भवति य एवं विद्वानेवमभिमृशति तस्मादेवमेवाभिमृशेत्ते ह ते गन्धर्वा आसुः शूर्पं यवमान्कृषिरुद्वालवान्धानान्तर्वान्॥
एष वै पूर्णमाः॥
य एष तपत्यहरहर्ह्येवैष पूर्णोऽथैष एव दर्शो यच्चन्द्रमा दृदृश इव ह्येषः॥
अथो इतरथाहुः॥
एष एव पूर्णमा यच्चन्द्रमा एतस्य ह्यनु पूरणम् पौर्णमासीत्याचक्षतेऽथैष एव दर्शो य एष तपति ददृश इव ह्येषः॥
इयमेव पूर्णमाः॥
पूर्णेव हीयमसावेव द्यौर्दर्शो ददृश इव ह्यसौ द्यौः॥
रात्रिरेव पूर्णमाः॥
पूर्णेव हीयं रात्रिरहरेव दर्शो ददृश इव हीदमहरेषा नु देवत्रा दर्शपूर्णमासयोर्मीमांसा॥
अथाध्यात्मम्॥
उदान एव पूर्णमा उदानेन ह्ययम् पुरुषः पूर्यत इव प्राण एव दर्शो ददृश इव ह्ययम् प्राणस्तदेतावन्नादश्चान्नप्रदश्च दर्शपूर्णमासौ॥
प्राण एवान्नादः॥
प्राणेन हीदमन्नमद्यत उदान एवान्नप्रद उदानेन हीदमन्नम् प्रदीयते स यो हैतावन्नादं चान्नप्रदं च दर्शपूर्णमासौ वेदान्नादो हैव भवति प्र हास्मा अन्नाद्यं दीयते॥
मन एव पूर्णमाः॥
पूर्णमिव हीदम् मनो वागेव दर्शो ददृश इव हीयं वाक्तदेतावध्यात्मम् प्रत्यक्षं दर्शपूर्णमासौ स यदुपवसथे व्रतोपायनीयमश्नाति तेनैतावध्यात्मम् प्रत्यक्षं दर्शपूर्णमासौ प्रीणाति यज्ञेन प्रातर्दैवौ॥
तदाहुः॥
यन्न पूर्णमासायेति हविर्गृह्यते न दर्शायेति हविर्गृह्यते न पूर्णमासायानुब्रूहि न दर्शायानुब्रूहि न पूर्णमासं यज न दर्शं यजेत्यथ केनास्य दर्शपूर्णमासाविष्टौ भवत इति स यम् मनस आघारयति मनो वै पूर्णमास्तेन पूर्णमासं यजत्यथ यं वाच आघारयति वाग्वै दर्शस्तेनो दर्शं यजत्येतेनो हास्य दर्शपूर्न्\अमासाविष्टौ भवतः॥
तद्धैके॥
चरू निर्वपन्ति पौर्णमास्यां सरस्वतेऽमावास्यायां सरस्वत्या एतत्प्रत्यक्षं दर्शपूर्णमासौ यजामह इति वदन्तस्तदु तथा न कुर्यान्मनो वै सरस्वान्वाक्सरस्वती स यदेवैतावाघारावाघारयति तदेवास्य दर्शपूर्णमासाविष्टौ भवतस्तस्मादेतौ चरू न निर्वपेत्॥
तदाहुः॥
आगूर्ती वा एष भवति यो दर्शपूर्णमासाभ्यां यजते पौर्णमेसेन हीष्ट्वा वेदामावास्येन यक्ष्य इत्यामावास्येनेष्ट्वा वेद पुनः पौर्णमासेन यक्ष्य इति स आगूर्त्येवामुं लोकमेति यदामुं लोकमेति कथमनागूर्ती भवतीति स यदेवैता उभयत्राघारावाघारयति तदेवास्य दर्शपूर्णमासौ सन्तिष्ठेते स संस्थितयोरेव दर्शपूर्णमासयोरथामुं लोकमेति तथानागूर्ती भवति॥
अपि ह वा एतर्हि॥
देवेभ्योऽश्वमेधमालभन्ते तदाहुः प्राकृतोऽश्वमेध इतीतर इन्नूनं स तद्वा एष एवाश्वमेधो यच्चन्द्रमाः॥
तदाहुः॥
पदे-पदेऽश्वश्य मेध्यस्याहुतिं जुह्वतीति स यत्सायम्प्रातरग्निहोत्रं जुहोति द्वे सायमाहुती जुहोति द्वे प्रातस्ताश्चतस्र आहुत्यश्चतुष्पाद्वा अश्वस्तदस्य पदे-पद एवाहुतिर्हुता भवति॥
तदाहुः॥
विवृत्तेऽश्वस्येष्टिं निर्वपतीत्येष वै सोमो राजा देवानामन्नं यच्चन्द्रमाः स यत्रैष एतां रात्रिं न पुरस्तान्न पश्चाद्ददृशे तदिमं लोकमागछति सोऽस्मिंलोके विवर्तते॥
स यदामावास्येन यजते॥
विवृत्त एवास्यैतदिष्टिं निर्वपत्यथ यत्पौर्णमासेन यजतेऽश्वमेधमेवैतदालभते तमालभ्य देवेभ्यः प्रयछति संवत्सरे वा इतरमश्वमेधमालभन्त एष वै मासः परिप्लवमानः संवत्सरं करोति तदस्य संवत्सरे संवत्सर एवाश्वमेध आलब्धो भवति॥
तं वा एतम्॥
मासि-मास्येवाश्वमेधमालभन्ते स यो हैवं विद्वानग्निहोत्रं च जुहोति दर्शपूर्णमासाभ्यां च यजते मासि-मासि हैवास्याश्वमेधेनेष्टम् भवत्येतदु हास्याग्निहोत्रं च दर्शपूर्णमासौ चाश्वमेधमभिसम्पद्येते॥
शिरो ह वा एतद्यज्ञस्य यत्प्रणीताः॥
स यत्प्रणीताः प्रणयति शिर एवैतद्यज्ञस्य संस्करोति स विद्याछिर एव म एतत्संस्क्रियत इति॥
प्राण एवास्येध्मः॥
प्राणेन हीदं सर्वमिद्धं यत्प्राणभृन्निमिषद्यदेजति स विद्यादहमेवैष इध्म इति॥
अनूकमेवास्य सामिधेन्यः॥
तस्मात्ता ब्रूयात्सन्तन्वन्निव मेऽनुब्रूहीति सन्ततमिव हीदमनूकम् मनश्चैवास्य वाक्चाघारौ सरस्वांश्च सरस्वती च स विद्यान्मनश्चैव मे वाक्चाघारौ सरस्वांश्च सरस्वती चेति॥
पञ्च प्रयाजाः॥
इम एवास्य ते शीर्षण्याः पञ्च प्राणा मुखमेवास्य प्रथमः प्रयाजो दक्षिणा नासिका द्वितीयः सव्या नासिका तृतीयो दक्षिणः कर्णश्चतुर्थः सव्यः कर्णः पञ्चमोऽथ यच्चतुर्थे प्रयाजे समानयति तस्मादिदं श्रोत्रमन्तरतः सन्तृणं चक्षुषी आज्यभागौ स विद्याच्चक्षुषी एव म एताविति॥
अथ य आग्नेयः पुरोडाशः॥
अयमेवास्य स दक्षिणोऽर्धो हृदयमेवास्योपांशुयाजः स यत्तेनोपांशु चरन्ति तस्मादिदं गुहेव हृदयम्॥
अथ योऽग्नीषोमीयः पुरोडाशः॥
अयमेवास्य स उत्तरोऽर्ध ऐन्द्रं वा सान्नाय्यमन्तरांसमेवास्य स्विष्टकृद्विषम् प्राशित्रम्॥
स यत्प्राशित्रमवद्यति॥
यथैव तत्प्राजापतेराविद्धं निरकृन्तन्नेवमेवैतस्यैतद्यद्वेष्टितं यद्ग्रथितं यद्वरुण्यं तन्निष्कृन्तन्ति स विद्याद्यथैव तत्प्रजापतेराविद्धं निरकृन्तन्नेवमेव म इदं यद्वेष्टितं यद्ग्रथितं यद्वरुण्यं तन्निष्कृन्तन्तीति॥
उदरमेवास्येडा॥
तद्यथैवाद इडायां समवद्यन्त्येवमेवेदं विश्वरूपमन्नमुदरे समवधीयते॥
त्रयोऽनुयाजाः॥
इम एवास्य तेऽवाञ्चस्त्रयः प्राणा बाहू एवास्य सूक्तवाकश्च शम्योर्वाकश्च चत्वारः पत्नीसंयाजाश्चतस्रो वै प्रतिष्ठा ऊरू द्वावष्ठीवन्तौ द्वौ प्रादावेवास्य समिष्टयजुः॥
ता एकविंशतिराहुतयः॥
द्वावाघारौ पञ्च प्रयाजा द्वावाज्यभागावाग्नेयः पुरोडाशस्तद्दशाग्नीषोमीय उपांशुयाजोऽग्नीशोमीयः पुरोडाशोऽग्निः स्विष्टकृदिडा त्रयोऽनुयाजाः सूक्तवाकश्च शम्योर्वाकश्चाथ यदेवादः पत्नीसंयाजेषु सम्प्रगृह्णाति समिष्टयजुश्च॥
ता एकविंशतिराहुतयः॥
द्वादश वै मासाः संवत्सरस्य पञ्चर्तवस्त्रयो लोकास्तद्विंशतिरेष एवैकविंशो य एष तपति सैषा गतिरेषा प्रतिष्ठा तदेतां गतिमेताम् प्रतिष्ठां गछति॥
तद्ध स्मैतदारुणिराह॥
अर्धमासशो वा अहममुनादित्येन सलोको भवामि तामहं दर्शपूर्णमासयोः सम्पदं वेदेति॥
तदाहुः॥
आत्मयाजी श्रेया३न्देवयाजी३ इत्यात्मयाजीति ह ब्रूयात्स ह वा आत्मयाजी यो वेदेदम् मेऽनेनाङ्गं संस्क्रियत इदम् मेऽनेनाङ्गमुपधीयत इति स यथाहिस्त्वचो निर्मुच्येतैवमस्मान्मर्त्याछरीरात्पाप्मनो निर्मुच्यते स ऋङ्मयो यजुर्मयः साममय आहुतिमयः स्वर्गं लोकमभिसम्भवति॥
अथ ह स देवयाजी यो वेद॥
देवानेवाहमिदं यजे देवान्त्सपर्यामीति स यथा श्रेयसे पापीयान्बलिं हरेद्वैश्यो वा राज्ञे बलिं हरेदेवं स स ह न तावन्तं लोकं जयति यावान्तमितरः॥
संवत्सरो यज्ञः॥
स यो ह वै संवत्सरो यज्ञ इति वेदान्ते हैवास्य संवत्सरस्येष्टम् भवत्यथो यत्किं च संवत्सरे क्रियते सर्वं हैवास्य तदाप्तमवरुद्धमभिजितम् भवति॥
ऋतव ऋत्विजः॥
स यो ह वा ऋतव ऋत्विज इति वेदान्ते हैवास्यर्तूनामिष्टम् भवत्यथो यत्किं चर्तुषु क्रियते सर्वं हैवास्य तदाप्तमवरुद्धमभिजितम् भवति॥
मासा हवींषि॥
स यो ह वै मासा हवींषीति वेदान्ते हैवास्य मासानामिष्टम् भवत्यथो यत्किं च मासेषु क्रियते सर्वं हैवास्य तदाप्तमवरुद्धमभिजितम् भवति॥
अर्धमासा हविष्पात्राणि॥
स यो ह वा अर्धमासा हविष्पात्राणीति वेदान्ते हैवास्यार्धमासानामिष्टम् भवत्यथो यत्किं चार्धमासेषु क्रियते सर्वं हैवास्य तदाप्तमवरुद्धमभिजितम् भवति॥
अहोरात्रे परिवेष्ट्री॥
स यो ह वा अहोरात्रे परिवेष्ट्री इति वेदान्ते हैवास्याहोरात्रयोरिष्टम् भवत्यथो यत्किं चाहोरात्रयोः क्रियते सर्वं हैवास्य तदाप्तमवरुद्धमभिजितम् भवति॥
इयमेव प्रथमा सामिधेनी॥
अग्निर्द्वितीया वायुस्तृतीयान्तरिक्षं चतुर्थी द्यौष्पञ्चम्यादित्यः षष्ठी चन्द्रमाः सप्तमी मनोऽष्टमी वाङ्नवमी तपो दशमी ब्रह्मैकादश्येता हि वा इदं सर्वं समिन्धत एताभिरिदं सर्वं समिद्धं तस्मात्सामिधेन्यो नाम॥
स वै त्रिः प्रथमामन्वाह॥
स यत्प्रथममन्वाह प्राचीं तेन दिशं जयति यद्द्वितीयं दक्षिणां तेन दिशं जयति यत्तृतीयमूर्ध्वामेव तेन दिशं जयति॥
त्रिर्वेवोत्तमामन्वाह॥
स यत्प्रथममन्वाह प्रतीचीं तेन दिशं जयति यद्द्वितीयमुदीचीं तेन दिशं जयति यत्तृतीयमिमामेव तेन प्रतिष्ठां जयत्येवमु हाभिरिमांलोकान्जयत्येता दिशः॥
ऋतमेव पूर्व आघारः॥
सत्यमुत्तरोऽव ह वा ऋतसत्ये रुन्द्धेऽथो यत्किं चर्तसत्याभ्यां जय्यं सर्वं हैव तज्जयति॥
त्विषिरेव प्रथमः प्रयाजः॥
अपचितिर्द्वितीयो यशस्तृतीयो ब्रह्मवर्चसं चतुर्थोऽन्नाद्यम् पञ्चमः॥
स प्रथमम् प्रयाजमनुमन्त्रयेत॥
त्विषिमान्भूयासमित्यपचितिमान्भूयासमिति द्वितीयं यशस्वी भूयासमिति तृतीयम् ब्रह्मवर्चसी भूयासमिति चतुर्थमन्नादो भूयासमिति पञ्चमं त्विषिमान्ह वा अपचितिमान्यशस्वी ब्रह्मवर्चस्यन्नादो भवति य एवमेतद्वेद॥
एतद्ध स्म वै तद्विद्वानाह॥
श्वेतकेतुरारुणेयः कं स्विदेवापरीषु महानागमिवाभिसंसारं दिदृक्षितारो य एवमेतत्प्रयाजानां यशो वेदितेति॥
भूतमेव पूर्व आज्यभागः॥
भविष्यदुत्तरोऽव ह वै भूतं च भविष्यच्च रुन्द्धेऽथो यत्किं च भूतेन च भविष्यता च जय्यं सर्वं हैव तज्जयति॥
ब्रह्माग्नेयः पुरोडाशः॥
स यो ह वै ब्रह्माग्नेयः पुरोडाश इति वेदाव ह ब्रह्म रुन्द्धेऽथो यत्किं च ब्रह्मणा जय्यं सर्वं हैव तज्जयति॥
क्षत्रमुपांशुयाजः॥
स यो ह वै क्षत्रमुपांशुयाज इति वेदाव ह क्षत्रं रुन्द्धेऽथो यत्किं च क्षत्रेण जय्यं सर्वं हैव तज्जयति तद्यदुपांशुयाजं कुर्वन्त्येके नैके तस्मादुच्चैश्चोपांशु च क्षत्रायाचक्षते॥
विदुत्तरः पुरोडाशः॥
स यो ह वै विदुत्तरः पुरोडाश इति वेदाव ह विशं रुन्द्धेऽथो यत्किं च विशा जय्यं सर्वं हैव तज्जयति तद्यदाग्नेयश्च पुरोडाश उपांशुयाजश्च पूर्वौ भवतस्तस्मादुभे ब्रह्म च क्षत्रं च विशि प्रतिष्ठिते॥
राष्ट्रं सान्नाय्यं॥
स यो ह वै राष्ट्रं सान्नाय्यमिति वेदाव ह राष्ट्रं रुन्द्धेऽथो यत्किं च राष्ट्रेण ज य्यं सर्वं हैव तज्जयति तद्यत्सन्नयन्त्येके नैके तस्माद्राष्ट्रं सं चैति वि च॥
तपः स्विष्टकृत्॥
स यो ह वै तपः स्विष्टकृदिति वेदाव ह तपो रुन्द्धेऽथो यत्किं च तपसा जय्यं सर्वं हैव तज्जयति॥
लोकः प्राशित्रं॥
स यो ह वै लोकः प्राशित्रमिति वेदाव ह लोकं रुन्द्धेऽथो यत्किं च लोकेन जय्यं सर्वं हैव तज्जयति नो ह लवेन लोकाद्व्यथथे लवेन ह वा अमुष्मिंलोके लोकाद्व्यथन्तेऽथ य एवं वेद न ह बहु चन पापं कृत्वा लोकाद्व्यथते॥
श्रद्धेडा॥
स यो ह वै श्रद्धेडेति वेदाव ह श्रद्धां रुन्द्धेऽथो यत्किं च श्रद्धया जय्यं सर्वं हैव तज्जयति॥
अशनिरेव प्रथमोऽनुयाजः॥
ह्रादुनिर्द्वितीय उल्कुषी तृतीयः॥
स प्रथममनुयाजमनुमन्त्रयेत॥
अशन्यमुं जहीति यं द्विष्याद्ध्रादुन्यमुं जहीति द्वितीयमुल्कुष्यमुं जहीति तृतीयम्॥
स य एष क्षिप्रम् म्रियते॥
अशनिर्ह तमनुयाजो हन्त्यथ यो विस्रवन्मिश्र इव ह्रादुनिर्ह तमनुयाजो हन्त्यथ योऽभ्युष्टमिश्र इवोल्कुषी ह तमनुयाजो हन्ति॥
सैषा यज्ञमेनिः॥
एतया वै मेन्या देवा असुरान्पराभावयां चक्रुस्तथो एवैवंविद्यजमानः पाप्मानं द्विषन्तम् भ्रातृव्यम् पराभावयति॥
स यदनुयाजान्तो यज्ञः स्यात्॥
अशन्यन्तः स्याद्ध्रादुन्यन्त उत्कुष्यन्तस्तस्माद्वै देवानां यज्ञ इडान्तो वैव शम्य्वन्तो वा॥
प्रयाजैर्वै देवाः॥
स्वर्गं लोकमायंस्तानसुरा अन्वाजिगांसंस्ताननुयाजैः प्रत्यौहंस्तद्यदनुयाजा इज्यन्ते पाप्मानमेव तद्द्विषन्तम् भ्रातृव्यं यजमानः प्रत्यूहति॥
प्राणा वै प्रयाजाः॥
अपाना अनुयाजास्तस्मात्प्रयाजाः प्राञ्चो हूयन्ते तद्धि प्राणरूपम् प्रत्यञ्चोऽनुयाजास्तदपानरूपमेता ह वै दर्शपूर्णमासयोरुपसदो यदनुयाजास्तस्मात्त उपसद्रूपेण प्रत्यञ्चो हूयन्ते॥
संस्था सूक्तवाकः॥
स यो ह वै संस्था सूक्तवाक इति वेदाव ह संस्थां रुन्द्धेऽथो यत्किं च संस्थया जय्यं सर्वं हैव तज्जयति गछति वयसः संस्थाम्॥
प्रतिष्ठा शम्योर्वाकः॥
स यो ह वै प्रतिष्ठा शम्योर्वाक् इति वेदाव ह प्रतिष्ठां रुन्द्धेऽथो यत्किं च प्रतिष्ठया जय्यं सर्वं हैव तज्जयति गछति प्रतिष्ठाम्॥
ते देवाः॥
एतान्पत्नीसंयाजान्पश्चात्पर्यौहन्त मिथुनमेवैतदुपरिष्टाददधत प्रजात्यै तद्यत्पत्नीसंयाजा इज्यन्ते मिथुनमेवैतदुपरिष्टाद्धत्ते प्रजात्यै देवानां ह वै प्रजातिमनु प्रजायते मिथुनेन-मिथुनेन ह प्रजायते य एवमेतद्वेद॥
अन्नं समिष्टयजुः॥
स यो ह वा अन्नं समिष्टयजुरिति वेदाव हान्नं रुन्द्धेऽथो यत्किं चान्नेन जय्यं सर्वं हैव तज्जयति॥
संवत्सरो यजमानः॥
तमृतवो याजयन्ति वसन्त आग्नीध्रस्तस्माद्वसन्ते दावाश्चरन्ति तद्ध्यग्निरूपं ग्रीष्मोऽध्वर्युस्तप्त इव वै ग्रीष्मस्तप्तमिवाध्वर्युर्निष्क्रामति वर्षा उद्गाता तस्माद्यदा बलवद्वर्षति साम्न इवोपब्दिः क्रियते शरद्ब्रह्मा तस्माद्यदा सस्यम् पच्यते ब्रह्मण्वत्यः प्रजा इत्याहुर्हेमन्तो होता तस्माद्धेमन्वषट्कृताः पशवः सीदन्त्येता ह वा एनं देवता याजयन्ति स यद्येनमैषावीरा याजयेयुरेता एव देवता मनसा ध्यायेदेता हैवैनं देवता याजयन्ति॥
अथ हैषैव तुला॥
यद्दक्षिणो वेद्यन्तः स यत्साधु करोति तदन्तर्वेद्यथ यदसाधु तद्बहिर्वेदि तस्माद्दक्षिणं वेद्यन्तमधिस्पृश्येवासीत तुलायां ह वा अमुष्मिंलोक आदधति यतरद्यंस्यति तदन्वेष्यति यदि साधु वासाधु वेत्यथ य एवं वेदास्मिन्हैवलोके तुलामारोहत्यत्यमुष्मिंलोके तुलाधानम् मुच्यते साधुकृत्या हैवास्य यछति न पापकृत्या॥