संवत्सरो वै यज्ञः प्रजापतिः॥
तस्यैतद्द्वारं यदमावास्या चन्द्रमा एव द्वारपिधानः॥
स योऽमावास्यायामग्नी आधत्ते॥
यथा विवृतायां द्वारि द्वारा पुरम् प्रपद्येत स तत एव स्वर्गं लोकमियादेवं तद्योऽमावास्यायामाधत्ते॥
अथ यो नक्षत्र आधत्ते॥
यथापिहितायां द्वार्यद्वारा पुरम् प्रपित्सेत्स जिह्मः पुरः स्यादेवं तद्यो नक्षत्र आधत्ते तस्मान्न नक्षत्र आदधीत॥
यदहरेवैषः॥
न पुरस्तान्न पश्चाद्दृश्येत तदहरुपवसेत्तर्हि ह्येष इमं लोकमागछति तस्मिन्निह वसति॥
सर्वे देवा वसन्ति॥
सर्वाणि भूतानि सर्वा देवताः सर्व ऋतवः सर्वे स्तोमाः सर्वाणि पृष्ठानि सर्वाणि छन्दांसि॥
सर्वेषु ह वा अस्य देवेषु॥
सर्वेषु भूतेषु सर्वासु देवतासु सर्वेष्वृतुषु सर्वेषु स्तोमेषु सर्वेषु पृष्ठेषु सर्वेषु छन्दःस्वग्नी आहितौ भवतो योऽमावास्यायामाधत्ते तस्मादमावास्यायामेवाग्नी आदधीत॥
योऽसौ वैशाखस्यामावास्या तस्यामादधीत सा रोहिण्या सम्पद्यत आत्मा वै प्रजा पशवो रोहिण्यात्मन्येवैतत्प्रजायाम् पशुषु प्रतितिष्ठत्यमावास्या वा अग्न्याधेयरूपं तस्मादमावास्यायामेवाग्नी आदधीत पौर्णमास्यामन्वारभेतामावास्यायां दीक्षेत॥
घ्नन्ति वा एतद्यज्ञम्॥
यदेनं तन्वते यन्न्वेव राजानमभिषुण्वन्ति तत्तं घ्नन्ति यत्पशुं सञ्ज्ञपयन्ति विशासति तत्तं घ्नन्त्युलूखलमुसलाभ्यां दृषदुपलाभ्यां हविर्यज्ञं घ्नन्ति॥
तं हत्वा यज्ञम्॥
अग्नावेव योनौ रेतो भूतं सिञ्चत्यग्निर्वै योनिर्यज्ञस्य स ततः प्रजायते तद्दश ता आहुतीः सम्पादयेद्याभ्यो वषट्क्रियते॥
अयं वै यज्ञो योऽयम् पवते॥
सोऽयमेक इवैव पवते सोऽयम् पुरुषेऽन्तः प्रविष्टो दशधाविहितः स एवम् कॢप्तैः प्राणैरग्नेर्योनेरधिजायते सैषा दशाक्षरा विराट् सैषा सम्पत्स यज्ञः॥
अथो अपि नव स्युः॥
तन्न्यूनां विराजं करोति प्रजननाय न्यूनाद्वा इमाः प्रजाः प्रजायन्ते सैषा सम्पत्स यज्ञः॥
अथो अप्येकातिरिक्ता स्यात्॥
सा प्रजापतिमभ्यतिरिच्यते सैषा सम्पत्स यज्ञः॥
अथो अपि द्वे अतिरिक्ते स्याताम्॥
द्वन्द्वं वै मिथुनम् प्रजननम् मिथुनमेवैतत्प्रजननं क्रियते सैषा सम्पत्स यज्ञः॥
अथो अपि तिस्रोऽतिरिक्ता स्युः॥
द्वन्द्वमह मिथुनम् प्रजननमथ यज्जायते तत्तृतीयं सैषा सम्पत्स यज्ञः॥
अथो अपि चतस्रोऽतिरिक्ताः स्युः॥
तद्यथैकैवं चतस्रस्त्रयो वा इमे लोकास्तदिमानेव लोकांस्तिसृभिराप्नोति प्रजापतिर्वा अतीमांलोकांश्चतुर्थस्तत्प्रजापतिमेव चतुर्थ्याप्नोति सैषा सम्पत्स यज्ञः॥
स यद्द्वाभ्यामूनं तदूनं॥
सोऽयज्ञो यत्पञ्चभिरतिरिक्तं तदतिरिक्तं सोऽयज्ञः सैषैव दशत्यधि सम्पदेषा विंशत्यामेषा सहस्रात्॥
आजिं वा एते धावन्ति॥
ये दर्शपूर्णमासाभ्यां यजन्ते स वै पञ्चदश वर्षाणि यजेत तेषाम् पञ्चदशानां वर्षाणां त्रीणि च शतानि षष्टिश्च पौर्णमास्यश्चामावास्याश्च त्रीणि च वै शतानि षष्टिश्च संवत्सरस्य रात्रयस्तद्रात्रीराप्नोति॥
अथापराणि पञ्चदशैव वर्षाणि यजेत॥
तेषाम् पञ्चदशानां वर्षाणां त्रीणि चैव शतानि षष्टिश्च पौर्णमास्यश्चामावास्याश्च त्रीणि च वै शतानि षष्टिश्च संवत्सरस्याहानि तदहान्याप्नोति॥
तद्वेव संवत्सरमाप्नोति॥
मर्त्या ह वा अग्रे देवा आसुः॥
स यदैव ते संवत्सरमापुरथामृता आसुः सर्वं वै संवत्सरः सर्वं वा अक्षय्यमेतेनो हास्याक्षय्यं सुकृतम् भवत्यक्षय्यो लोकः॥
स आजिसृतामेकः॥
य एवं विद्वांस्त्रिंशतं वर्षाणि यजते तस्मादु त्रिंशतमेव वर्षाणि यजेत यद्यु दाक्षायणयज्ञी स्यादथो अपि पञ्चदशैव वर्षाणि यजेतात्र ह्येव सा सम्पत्सम्पद्यते द्वे हि पौर्णमास्यौ यजते द्वे अमावास्ये अत्रो एव खलु सा सम्पद्भवति॥
पौर्णमासेनेष्ट्वा॥
इन्द्राय विमृधेऽनुनिर्वपति तेन यथेष्ट्यैवं यजत आमावास्येनेष्ट्वादित्यै चरुमनुनिर्वपति तेन यथेष्ट्यैवं यजते॥
स यत्पौर्णमासेनेष्ट्वा॥
इन्द्राय विमृधेऽनुनिर्वपतीन्द्रो वै यज्ञस्य देवताथैदग्नीषोमीयम् पौर्णमासं हविर्भवति तत्र नेन्द्राय त्वेति किं चन क्रियत एतेनो हास्यैतत्सेन्द्रं हविर्भवत्येतेन सेन्द्रो यज्ञोऽथ यद्विमृधे त्वेति सर्वा उ हि मृधो नाष्ट्राः पौर्णमासेन हन्ति॥
अथ यदामावास्येनेष्ट्वा॥
अदित्यै चरुमनुनिर्वपत्येष वै सोमो राजा देवानामन्नं यच्चन्द्रमाः स यत्रैष एतां रात्रिं न पुरस्तान्न पश्चाद्ददृशे तेनैतदनद्धेव हविर्भवति तेनाप्रतिष्ठितमियं वै पृथिव्यदितिः सेयमद्धा सेयम् प्रतिष्ठितैतेनो हास्यैतदद्धेव हविर्भवत्येतेन प्रतिष्ठितमेतन्नु तद्यस्मादनुनिर्वपत्यथ यस्मान्नानुनिर्वपेत्॥
स यत्पौर्णमासेनेष्ट्वा॥
इन्द्राय विमृधेऽनुनिर्वपति सेन्द्रो मे यज्ञोऽसदिति सर्वो वै यज्ञ इन्द्रस्यैव स यत्सर्वो यज्ञ इन्द्रस्यैवैतेनो हास्येतत्सेन्द्रं हविर्भवत्येतेन सेन्द्रो यज्ञः॥
अथ यदामावास्येनेष्ट्वा॥
अदित्यै चरुमनुनिर्वपत्यामावास्यं वा अनुनिर्वाप्यम् पौर्णमासेन वा इन्द्रो वृत्रमहंस्तस्मा एतद्वृत्रं जघ्नुषे देवा एतद्धविरनुनिरवपन्यदामावास्यं किमनुनिर्वाप्येऽनुनिर्वपेदिति तसम्:न्नानुनिर्वपेत्॥
स यत्पौर्णमासेनेष्ट्वा॥
अथान्यद्धविरनुनिर्वपत्यामावास्येनेष्ट्वाथान्यद्धविरनुनिर्वपति द्विषन्तं ह स भ्रातृव्यं प्रत्युछ्रयतेऽथ यः पौर्णमासीं यजत आमावास्येनामावास्यामसपत्ना हैवास्यानुपबाधा श्रीर्भवति॥
पौर्णमासेन वै देवाः॥
पौर्णमासीं यजमाना आमावास्येनामावास्यां क्षिप्र एव पाप्मानमपाघ्नत क्षिप्रे प्राजायन्त स यो हैवं विद्वान्पौर्णमासेनैव पौर्णमासीं यजत आमावास्येनामावास्यां क्षिप्र एव पाप्मानमपहते क्षिप्रे प्रजायते स यद्यनुनिर्वपेद्दद्याद्दक्षिणां नादक्षिणं हविः स्यादिति ह्याहुर्दर्शपूर्णमासयोर्ह्येवैषा दक्षिणा यदन्वाहार्य इति न्वनुनिर्वाप्यस्याथाभ्युदितस्य॥
तद्धैके दृष्ट्वोपवसन्ति॥
श्वो नोदेतेत्यभ्रस्य वा हेतोरनिर्ज्ञाय वाथोतोपवसन्त्यथैनमुताभ्युदेति स यद्यगृहीतं हविरभ्युदियात्प्रज्ञातमेव तदेषैव व्रतचर्या यत्पूर्वेद्युर्दुग्धं दधि हविरातञ्चनं तत्कुर्वन्ति प्रतिप्रमुञ्चन्ति वत्सांस्तान्पुनरपाकुर्वन्ति॥
तानपराह्णे पर्णशाखयापाकरोति॥
तद्यथैवादः प्रज्ञातमामावास्यं हविरेवमेव तद्यद्यु व्रतचर्यां वा नोदाशंसेत गृहीतं वा हविरभ्युदियादितरथो तर्हि कुर्यादेतानेव तण्डुलान्त्सुफलीकृतान्कृत्वा स येऽणीयांसस्तानग्नये दात्रेऽष्टाकपालम् पुरोडाशं श्रपयति॥
अथ यत्पूर्वेद्युः॥
दुग्धं दधि तदिन्द्राय प्रदात्रेऽथ तदानीन्दुग्धे विष्णवे शिपिविष्टायैतांस्तण्डुलाञ्छूते चरुं श्रपयति चरुरु ह्येव स यत्र क्व च तण्डुलानावपन्ति॥
तद्यदेवम् भवति॥
एष वै सोमो राजा देवानामन्नं यच्चन्द्रमास्तमेतदुपैत्सीत्तमपारात्सीत्तमस्मा अग्निर्दाता ददातीन्द्रः प्रदाता प्रयछति तमस्मा इन्द्राग्नी यज्ञं दत्तस्तेनेन्द्राग्निभ्यां दत्तेन यज्ञेन यजतेऽथ यद्विष्णवे शिपिविष्टायेति यज्ञो वै विष्णुरथ यछिपिविष्टायेति यमुपैत्सीत्तमपारात्सीत्तछिपितमिव यज्ञस्य भवति तस्माछिपिविष्टायेति तत्रो यछक्नुयात्तद्दद्यान्नादक्षिणं हविः स्यादिति ह्याहुरथ यदैव नोदियादथोपवसेत्॥
अद्यामावास्येति मन्यमान उपवसति॥
अथैष पश्चाद्ददृशे स हैष दिव्यः श्वा स यजमानस्य पशूनभ्यवेक्षते तदपशव्यं स्यादप्रायश्चित्तिकृत एतस्मादु हैतद्भीषावचन्द्रमसादिति॥
छायामुपसर्पन्ति॥
एतेनो हैतदुपतपदाचक्षते श्वलुचितमित्येतमु हैवैतदाचक्षते॥
शशश्चान्द्रमस इति॥
चन्द्रमा वै सोमो देवानामन्नं तम् पौर्णमास्यामभिषुण्वन्ति सोऽपरपक्षेऽप ओषधीः प्रविशति पशवो वा अप ओषधीरदन्ति तदेनमेतां रात्रीम् पशुभ्यः सन्नयति॥
सोऽद्यामावास्येति मन्यमान उपवसति॥
अथैष पश्चाद्ददृशे तद्यजमानो यज्ञपथादेति तदाहुः कथं कुर्यादित्वा यज्ञपथाद्यजेता३ न यजेता३ इति यजेत हैव न ह्यन्यदपक्रमणम् भवति श्वः श्व एवैष ज्यायानुदेति स आमावास्यविधेनैवेष्ट्वाथेष्टिमनुनिर्वपति तदहर्वैव श्वो वा॥
तस्य त्रीणि हवींषि भवन्ति॥
अग्नये पथिकृतेऽष्टाकपालम् पुरोडाशमिन्द्राय वृत्रघ्न एकादशकपालमग्नये वैश्वानराय द्वादशकपालम् पुरोडाशम्॥
स यदग्नये पथिकृते निर्वपति॥
अग्निर्वै पथः कर्ता स यस्मादेवादो यजमानो यज्ञपथादेति तमेनमग्निः पन्थानमापादयति॥
अथ यदिन्द्राय वृत्रघ्ने॥
पाप्मा वै वृत्रो यो भूतेर्वारयित्वा तिष्ठति कल्याणात्कर्मणः साधोस्तमेतदिन्द्रेणैव वृत्रघ्ना पाप्मानं वृत्रं हन्ति तस्मादिन्द्राय वृत्रघ्ने॥
अथ यदग्नये वैश्वानराय॥
द्वादशकपालम् पुरोडाशं निर्वपति यत्र वा इन्द्रो वृत्रमहंस्तमग्निना वैश्वानरेण समदहत्तदस्य सर्वम् पाप्मानं समदहत्तथो एवैष एतदिन्द्रेणैव वृत्रघ्ना पाप्मानं वृत्रं हत्वा तमग्निना वैश्वानरेण सन्दहति तदस्य सर्वम् पाप्मानं सन्दहति स यो हैवं विद्वानेतयेष्ट्या यजते न हास्याल्पश्चन पाप्मा परिशिष्यते॥
तस्यै सप्तदश सामिधेन्यो भवन्ति॥
उपांशु देवता यजति याः कामयते ता याज्यानुवाक्याः करोत्येवमाज्यभागावेवं संयाज्ये॥
तिसृधन्वं दक्षिणां ददाति॥
धन्वना वै श्वानम् बाधन्ते तदेतमेवैतद्बाधते यत्तिसृधन्वं दक्षिणां ददाति॥
दण्डं दक्षिणां ददाति॥
दण्डेन वै श्वानम् बाधन्ते तदेतमेवैतद्बाधते यद्दण्डं दक्षिणां ददात्येषा न्वादिष्टा दक्षिणा दद्यात्त्वेवास्यामप्यन्यद्या इतरा दक्षिणास्तासां यत्सम्पद्येत सा हैषा पशव्येष्टिस्तयाप्यनभ्युद्दृष्टो यजेतैव॥
आपो ह वा इदमग्रे सलिलमेवास॥
ता अकामयन्त कथं नु प्रजायेमहीति ता अश्राम्यंस्तास्तपोऽतप्यन्त तासु तपस्तप्यमानासु हिरण्मयमाण्डं सम्बभूवाजातो ह तर्हि संवत्सर आस तदिदं हिरण्मयमाण्डं यावत्संवत्सरस्य वेला तावत्पर्यप्लवत॥
ततः संवत्सरे पुरुषः समभवत्॥
स प्रजापतिस्तस्मादु संवत्सर एव स्त्री वा गौर्वा वडबा वा विजायते संवत्सरे हि प्रजापतिरजायत स इदं हिरण्मयमाण्डं व्यरुजन्नाह तर्हि का चन प्रतिष्ठास तदेनमिदमेव हिरण्मयमाण्डं यावत्संवत्सरस्य वेलासीत्तावद्बिभ्रत्पर्यप्लवत॥
स संवत्सरे व्याजिहीर्षत्॥
स भूरिति व्याहरत्सेयम् पृथिव्यभवद्भुव इति तदितमन्तरिक्षमभवत्स्वरिति सासौ द्यौरभवत्तस्मादु संवत्सर एव कुमारो व्याजिहीर्षति संवत्सरे हि प्रजापतिर्व्याहरत्॥
स वा एकाक्षरद्व्यक्षराण्येव॥
प्रथमं वदन्प्रजापतिरवदत्तस्मादेकाक्षरद्व्यक्षराण्येव प्रथमं वदन्कुमारो वदति॥
तानि वा !एतानि॥
पञ्चाक्षराणि तान्पञ्चर्तूनकुरुत त इमे पञ्चर्तवः स एवमिमांलोकान्जातान्त्संवत्सरे प्रजापतिरभ्युदतिष्ठत्तस्मादु संवत्सर एव कुमार उत्तिष्ठासति संवत्सरे हि प्रजापतिरुदतिष्ठत्॥
स सहस्रायुर्जज्ञे॥
स यथा नद्यै पारम् परापश्येदेवं स्वस्यायुषः पारम् पराचख्यौ॥
सोऽर्चञ्छ्राम्यंश्चचार प्रजाकामः॥
स आत्मन्येव प्रजातिमधत्त स आस्येनैव देवानसृजत ते देवा दिवमभिपद्यासृज्यन्त तद्देवानां देवत्वं यद्दिवमभिपद्यासृज्यन्त तस्मै ससृजानाय दिवेवास तद्वेव देवानां देवत्वं यदस्मै ससृजानाय दिवेवास॥
अथ योऽयमवाङ् प्राणः॥
तेनासुरानसृजत त इमामेव पृथिवीमभिपद्यासृज्यन्त तस्मै ससृजानाय तम इवास॥
सोऽवेत्॥
पाप्मानं वा असृक्षि यस्मै मे ससृजानाय तम इवाभूदिति तांस्तत एव पाप्मनाविध्यत्ते तत एव पराभवंस्तस्मादाहुर्नैतदस्ति यद्दैवासुरं यदिदमन्वाख्याने त्वदुद्यत इतिहासे त्वत्ततो ह्येव तान्प्रजापतिः पाप्मनाविध्यत्ते तत एव पराभवन्निति॥
तस्मादेतदृषिणाभ्यनूक्तम्॥
न त्वं युयुत्से कतमच्चनाहर्न तेऽमित्रो मघवन्कश्चनास्ति॥
मायेत्सा ते यानि युद्धान्याहुर्नाद्य शत्रुं न नु पुरा युयुत्स इति॥
स यदस्मै देवान्त्ससृजानाय॥
दिवेवास तदहरकुरुताथ यदस्मा असुरान्त्ससृजानाय तम इवास तां रात्रिमकुरुत ते अहोरात्रे॥
स ऐक्षत प्रजापतिः॥
सर्वं वा अत्सारिषं य इमा देवता असृक्षीति स संवत्सरोऽभवत्संवत्सरो ह वै नामैतद्यत्संवत्सर इति स यो हैवमेतत्संवत्सरस्य संवत्सरत्वं वेद यो हैनम् पाप्मा मायया त्सरति न हैनं सोऽभिभवत्यथ यमभिचरत्यभि हैवैनम् भवति य एवमेतत्संवत्सरस्य संवत्सरत्वं वेद॥
स ऐक्षत प्रजापतिः॥
इमं वा आत्मनः प्रतिमामसृक्षि यत्संवत्सरमिति तस्मादाहुः प्रजापतिः संवत्सर इत्यात्मनो ह्येतम् प्रतिमामसृजत यद्वेव चतुरक्षरः संवत्सरश्च!तुरक्षरः प्रजापतिस्तेनो हैवास्यैष प्रतिमा॥
ता वा एताः॥
प्रजापतेरधि देवता असृज्यन्ताग्निरिन्द्रः सोमः परमेष्ठी प्राजापत्यः॥
ताः सहस्रायुषो जज्ञिरे॥
ता यथा नद्यै पारम् परापश्येदेवं स्वस्यायुषः पारम् पराचख्युः॥
ता अर्चन्त्यः श्राम्यन्त्यश्चेरुः॥
तत एतम् परमेष्ठी प्राजापत्यो यज्ञमपश्यद्यद्दर्शपूर्णमासौ ताभ्यामयजत ताभ्यामिष्ट्वाकामयताहमेवेदं सर्वं स्यामिति स आपोऽभवदापो वा इदं सर्वं ता यत्परमे स्थाने तिष्ठन्ति यो हीहाभिखनेदप एवाभिविन्देत्परमाद्वा एतत्स्थानाद्वर्षति यद्दिवस्तस्मात्परमेष्ठी नाम॥
स परमेष्ठी प्रजापतिम् पितरमब्रवीत्॥
कामप्रं वा अहं यज्ञमदर्शं तेन त्वा याजयानीति तथेति तमयाजयत्स इष्ट्वाकामयताहमेवेदं सर्वं स्यामिति स प्राणोऽभवत्प्राणो वा इदं सर्वमयं वै प्राणो योऽयम् पवते स प्रजापतिस्तस्य दृष्टिर्यदेव वेदेत्थाद्वातीति यद्वै किं च प्राणि स प्रजापतिः स यो हैवमेताम् प्रजापतेर्दृष्टिं वेदाविरिव हैव भवति॥
स प्रजापतिरिन्द्रम् पुत्रमब्रवीत्॥
अनेन त्वा कामप्रेण यज्ञेन याजयानि येन मामिदम् परमेष्ठ्ययीयजदिति तथेति तमयाजयत्स इष्ट्वाकामयताहमेवेदं सर्वं स्यामिति स वागभवद्वाग्वा इदं सर्वं तस्मादाहुरिन्द्रो वागिति॥
स इन्द्रोऽग्नीषोमौ भ्रातरावब्रवीत्॥
अनेन वां कामप्रेण यज्ञेन याजयानि येन मामिदम् पिता प्रजापतिरयीयजदिति तथेति तावयाजयत्ताविष्ट्वाकामयेतामावमेवेदं सर्वं स्यावेति तयोरन्नाद एवान्यतरोऽभवदन्नमन्यतरोऽन्नाद एवाग्निरभवदन्नं सोमोऽन्नादश्च वा इदं सर्वमन्नं च॥
ता वा एताः॥
पञ्च देवता एतेन कामप्रेण यज्ञेनायजन्त ता यत्कामा अयजन्त स आभ्यः कामः समार्ध्यत यत्कामो ह वा एतेन यज्ञेन यजते सोऽस्मै कामः समृध्यते॥
त इष्ट्वा प्राचीं दिशमपश्यन्॥
ताम् प्राचीमेवाकुर्वत सेयम् प्राच्येव दिक्तस्मादिमाः प्रजाः प्राच्यः सर्पन्ति प्राचीं ह्येतामकुर्वतोपैनामितः कुर्वीमहीति तामूर्जमकुर्वतेमां खलूर्जम् पश्येमेति सासौ द्यौरभवत्॥
अथ दक्षिणां दिशमपश्यन्॥
तां दक्षिणामेवाकुर्वत सेयं दक्षिणैव दिक्तस्मादु दक्षिणत एव दक्षिणा उपतिष्ठन्ते दक्षिणतोऽभ्यवाजन्ति दक्षिणां ह्येतामकुर्वतोपैनामितः कुर्वीमहीति तं लोकमकुर्वतेमं खलु लोकम् पश्येमेति तदिदमन्तरिक्षमभवदेष वै लोकः सा यथा हैवेयम् प्रतिष्ठाविरस्मिंलोके पृथिव्येवमु हैवैषा प्रतिष्ठाविरमुष्मिंलोक इदमन्तरिक्षं स यदिह सन्नमुं लोकं न पश्यति तस्मादाहुः परोऽक्षमसौ लोक इति॥
अथ प्रतीचीं दिशमपश्यन्॥
तामाशामकुर्वत तस्माद्यत्प्राङ् सृत्वा विन्दत एतामेव तेन दिशमेत्याशां ह्येतामकुर्वतोपैनामितः कुर्वीमहीति तां श्रियमकुर्वतेमां खलु श्रियम् पश्येमेति सेयम् पृथिव्यभवछ्रीर्वा इयं तस्माद्योऽस्यै भूयिष्ठं विन्दते स एव श्रेष्ठो भवति॥
अथोदीचीं दिशमपश्यन्॥
तामपोऽकुर्वतोपैनामितः कुर्वीमहीति तं धर्ममकुर्वत धर्मो वा आपस्तस्माद्यदेमं लोकमाप आगछन्ति सर्वमेवेदं यथाधर्मम् भवत्यथ यदावृष्टिर्भवति बलीयानेव तर्ह्यबलीयस आदत्ते धर्मो ह्यापः॥
ता वा एताः॥
एकादश देवताः पञ्च प्रयाजा द्वावाज्यभागौ स्विष्टकृत्त्रयोऽनुयाजा॥
ता एकादशाहुतयः॥
एताभिर्वा आहुतिभिर्देवा इहांलोकानजयन्नेता दिशस्तथो एवैष एताभिराहुतिभिरिमांलोकान्जयत्येता दिशः॥
चतस्रोऽवान्तरदिशः॥
त एव चत्वारः पत्नीसंयाजा अवान्तरदिशो वै देवाश्चतुर्भिः पत्नीसंयाजैरजयन्नवान्तरदिश उ एवैष एतैर्जयति॥
अथेडा॥
अन्नाद्यमेवैतया देवा अजयंस्तथो एवैष एतयान्नाद्यमेव जयत्येषा नु देवत्रा दर्शपूर्णमासयोः सम्पत्॥
अथाध्यात्मम्॥
पञ्चेमे पुरुषे प्राणा ऋते चक्षुर्भ्यां त एव पञ्च प्रयाजा चक्षुषी आज्यभागौ॥
अयमेवावाङ् प्राणः स्विष्टकृत्॥
स यत्तमभ्यर्ध इवेतराभ्य आहुतिभ्यो जुहोति तस्मादेतस्मात्प्राणात्सर्वे प्राणा बीभत्सन्तेऽथ यत्स्विष्टकृते सर्वेषां हविषामवद्यति तस्माद्यत्किं चेमान्प्राणानापद्यत एतमेव तत्सर्वं समवैति॥
त्रीणि शिश्नानि॥
त एव त्रयोऽनुयाजाः स योऽयं वर्षिष्ठोऽनुयाजस्तदिदं वर्षिष्ठमिव शिश्नं तं वा अनवानन्यजेदित्याहुस्तथो हास्यैतदमृध्रम् भवतीति॥
स वै सकृदवान्यात्॥
एकं ह्येतस्य पर्वाथ यदपर्वकं स्यात्प्रतृणं वैव तिष्ठेल्लम्बेत वा तस्मादेतदुच्च तिष्टति पद्यते च तस्मात्सकृदवान्यात्॥
द्वौ बाहू द्वा ऊरू॥
त एव चत्वारः पत्नीसंयाजाः प्रतिष्ठायमेव प्राण इडा यत्तां नाग्नौ जुहोति यत्साप्रदग्धेव तस्मादयमनवतृणः प्राणः॥
अस्थ्येव याज्यानुवाक्याः॥
मांसं हविस्तन्मितं छन्दो यद्याज्यानुवाक्यास्तस्मादु समावन्त्येवास्थीनि मेद्यतश्च कृश्यतश्च भवन्त्यथ यद्भूय इव च हविर्गृह्णाति कनीय इव च तस्मादु मांसान्येव मेद्यतो मेद्यन्ति मांसानि कृश्यतः कृश्यन्ति तेनैतेन यज्ञेन यां कामयते देवतां तां यजति यस्यै हविर्भवति॥
ता वा एताः॥
अनपोद्धार्या आहुतयो भवन्ति स यद्धैतासामपोद्धरेद्यथैकमङ्गं शृणीयात्प्राणं वा निर्हण्यादेवं तदन्यान्येव हवींष्युप चाह्रियन्तेऽप च ह्रियन्ते॥
ता वा एताः॥
षोडशाहुतयो भवन्ति षोडशकलो वै पुरुषः पुरुषो यज्ञस्तस्मात्षोडशाहुतयो भवन्ति॥
तद्वा अदो व्रतोपायन उद्यते॥
यदि नाश्नाति पितृदेवत्यो भवति यद्यु अश्नाति देवानत्यश्नातीति तदारण्यमश्नीयादिति तत्र स्थापयन्ति॥
स यदि ग्राम्या ओषधीरश्नाति॥
पुरोडाशस्य मेधमश्नाति यद्यारण्या ओषधीरश्नाति बर्हिषो मेधमश्नाति यदि वानस्पत्यमश्नातीध्मस्य मेधमश्नाति यदि पयः पिबति सान्नाय्यस्य चाज्यस्य च मेधमश्नाति यद्यपः पिबति प्रणीतानाम् मेधमश्नाति यदि नाश्नाति पितृदेवत्यो भवति॥
तदाहुः॥
किमयनमिति स्वयं हैवैते रात्री अग्निहोत्रं जुहुयात्स यद्धुत्वा प्राश्नाति तेनापितृदेवत्यो भवत्याहुतिर्वा एषा स यदेवैतामात्मन्नाहुतिं जुहोति तेनो एतेषाम् मेधानां नाश्नाति॥
एते ह वै रात्री॥
सर्वा रात्रयः समवयन्ति या आपूर्यमाणपक्षस्य रात्रयस्ताः सर्वाः पौर्णमासीं समवयन्ति या अपक्षीयमाणपक्षस्य रात्रयस्ताः सर्वा अमावास्यां समवयन्ति स यो हैवं विद्वान्त्स्वयमुपवसथे जुहोति सर्वदा हैवास्य स्वयं हुतम् भवति॥
देवाश्च वा असुराश्च॥
उभये प्राजापत्याः पस्पृधिरे ततोऽसुरा अतिमानेनैव कस्मिन्नु वयं जुहुयामेति स्वेष्वेवास्येषु जुह्वतश्चेरुस्तेऽतिमानेनैव पराबभूवुस्तस्मान्नातिमन्येत पराभवस्य हैतन्मुखं यदतिमानः॥
अथ देवाः॥
अन्योऽन्यस्मिन्नेव जुह्वतश्चेरुस्तेभ्यः प्रजापतिरात्मानम् प्रददौ यज्ञो हैषामास यज्ञो हि देवानामन्नं॥
स देवेभ्य आत्मानम् प्रदाय॥
अथैतमात्मनः प्रतिमामसृजत यद्यज्ञं तस्मादाहुः प्रजापतिर्यज्ञ इत्यात्मनो ह्येतम् प्रतिमामसृजत॥
स एतेन यज्ञेन॥
देवेभ्य आत्मानं निरक्रीणीत स यद्व्रतमुपैति यथैव तत्प्रजापतिर्देवेभ्य आत्मानम् प्रायछदेवमेवैष एतद्देवेभ्य आत्मानम् प्रयछति तस्मादु संयत एवैतां रात्रिं चिचरिषेद्यथा हविषा चरेदेवं हविर्ह्येष देवानाम् भवति॥
अथ यद्यज्ञं तनुते॥
यज्ञेनैवैतद्देवेभ्य आत्मानं निष्क्रीणीते यथैव तत्प्रजापतिर्निरक्रीणीतैवमथ यद्धविर्निर्वपति हविषैवैतद्यज्ञं निष्क्रीणाति हविरनुवाक्ययानुवाक्यामवदानेनावदानं याज्यया याज्यां वषट्कारेण वषट्कारमाहुत्या तस्याहुतिरेवानिष्क्रीता भवति॥
स यथाग्रप्रशीर्णो वृक्षः॥
एवमस्यैष यज्ञो भवत्याहुतिमेवान्वाहार्येण निष्क्रीणाति तद्यदेतद्धीनं यज्ञस्यान्वाहरति तस्मादन्वाहार्यो नामैवमु हास्यैष सर्व एव यज्ञो निष्क्रीतो भवत्येष ह वै यजमानस्यामुष्मिंलोक आत्मा भवति यद्यज्ञ स ह सर्वतनूरेव यजमानोऽमुष्मिंलोके सम्भवति य एवं विद्वान्निष्क्रीत्या यजते॥