अथ हैतेऽरुणे॥
औपवेशौ समाजग्मुः सत्ययज्ञः पौलुषिर्महाशालो जाबालो बुडिल आश्वतराश्विरिन्द्रद्युम्नो भाल्लवेयो जनः शार्कराक्ष्यस्ते ह वैश्वानरे समासत तेषां ह वैश्वानरे न समियाय॥
ते होचुः॥
अश्वपतिर्वा अयं कैकेयः सम्प्रति वैश्वानरं वेद तं गछामेति ते हाश्वपतिं कैकेयमाजग्मुस्तेभ्यो ह पृथगावसथान्पृथगपचितीः पृथक्साहस्रान्त्सोमान्प्रोवाच ते ह प्रातरसंविदाना एव समित्प्राणयः प्रतिचक्रमिर उप त्वायामेति॥
स होवाच॥
यन्नु भगवन्तोऽनूचाना अनूचानपुत्राः किमिदमिति ते होचुर्वैश्वानरं ह भगवान्त्सम्प्रति वेद तं नो ब्रूहीति स होवाच सम्प्रति खलु न्वा अहं वैश्वानरं वेदाभ्याधत्त समिध उपेता स्थेति॥
स होवाचारुणमौपवेशिं॥
गौतम कं त्वं वैश्वानरं वेत्थेति पृथिवीमेव राजन्निति होवाचोमिति होवाचैष वै वैश्वानर एतं हि वै त्वम् प्रतिष्ठां वैश्वानरं वेत्थ तस्मात्त्वम् प्रतिष्ठितः प्रजया पशुभिरसि यो वा एतम् प्रतिष्ठां वैश्वानरं वेदाप पुनर्मृत्युह्+ जयति सर्वमायुरेति पादौ त्वा एतौ वैश्वानरस्य पादौ तेऽम्लास्यतां यदि ह नागमिष्य इति पादौ तेऽविदितावभविष्यतां यदि ह नागमिष्य इति वा॥
अथ होवाच सत्ययज्ञम् पौलुषिम्॥
प्राचीनयोग्य कं त्वं वैश्वानरं वेत्थेत्यप एव राजन्निति होवाचोमिति होवाचैष वै रयिर्वैश्वानर एतं हि वै त्वं रयिं वैश्वानरं वेत्थ तस्मात्त्वं रयिमान्पुष्टिमानसि यो वा एतं रयिं वैश्वानरं वेदाप पुनर्मृत्युं जयति सर्वमायुरेति वस्तिस्त्वा एष वैश्वानरस्य वस्तिस्त्वाहास्यद्यदि ह नागमिष्य इति वस्तिस्तेऽविदितोऽभविष्यद्यदि ह नागमिष्य इति वा॥
अथ होवाच महाशालं जाबालम्॥
औपमन्यव कं त्वं वैश्वानरं वेत्थेत्याकाशमेव राजन्निति होवाचोमिति होवाचैष वै बहुलो वैश्वानर एतं हि वै त्वम् बहुलं वैश्वानरं वेत्थ तस्मात्त्वम् बहुः प्रजया पशुभिरसि यो वा एतम् बहुलं वैश्वानरं वेदाप पुनर्मृत्युं जयति सर्वमायुरेत्यात्मा त्वा एष वैश्वानरस्यात्मा त्वाहास्यद्यदि ह नागमिष्य इत्यात्मा तेऽविदितोऽभविष्यद्यदि ह नागमिष्य इति वा॥
अथ होवाच बुडिलमाश्वतराश्विम्॥
वैयाघ्रपद्य कं त्वं वैश्वानरं वेत्थेति वायुमेव राजन्निति होवाचोमिति होवाचैष वै पृथग्वर्त्मा वैश्वानर एतं हि वै त्वम् पृथग्वर्त्मानं वैश्वानरं वेत्थ तस्मात्त्वाम् पृथग्रथश्रेणयोऽनुयान्ति यो वा एतम् पृथग्वर्त्मानं वैश्वानरं वेदाप पुनर्मृत्युं जयति सर्वमायुरेति प्राणस्त्वा एष वैश्वानरस्य प्राणस्त्वाहास्यद्यदि ह नागमिष्य इति प्राणस्तेऽविदितोऽभविष्यद्यदि ह नागमिष्य इति वा॥
अथ होवाचेन्द्रद्युम्नम् भाल्लवेयम्॥
वैयाघ्रपद्य कं त्वं वैश्वानरं वेत्थेत्यादित्यमेव राजन्निति होवाचोमिति होवाचैष वै सुततेजा वैश्वानर एतं हि वै त्वं सुततेजसं वैश्वानरं वेत्थ तस्मात्तवैष सुतोऽद्यमानः पच्यमानोऽक्षीयमाणो गृहेषु तिष्ठति यो वा एतं सुततेजसं वैश्वानरं वेदाप पुनर्मृत्युं जयति सर्वमायुरेति चक्षुस्त्वा एतद्वैश्वानरस्य चक्षुस्त्वाहास्यद्यदि ह नागमिष्य इति चक्षुस्तेऽविदितमभविष्यद्यदि ह नागमिष्य इति वा॥
अथ होवाच जनं शार्कराक्ष्यम्॥
सायवस कं त्वं वैश्वानरं वेत्थेति दिवमेव राजन्निति होवाचोमिति होवाचैष वा अतिष्ठा वैश्वानर एतं हि वै त्वमतिष्ठां वैश्वानरं वेत्थ तस्मात्त्वं समानानतितिष्ठसि यो वा एतमतिष्ठां वैश्वानरं वेदाप पुनर्मृत्युं जयति सर्वमायुरेति मूर्धा त्वा एष वैश्वानरस्य मूर्धा त्वाहास्यद्यदि ह नागमिष्य इति मूर्धा तेऽविदितोऽभविष्यद्यदि ह नागमिष्य इति वा॥
तान्होवाच॥
एते वै यूयम् पृथग्वैश्वानरान्विद्वांसः पृथगन्नमघस्त प्रादेशमात्रमिव ह वै देवाः सुविदिता अभिसम्पन्नास्तथा तु व एनान्वक्ष्यामि यथा प्रादेशमात्रमेवाभिसम्पादयिष्यामीति॥
स होवाच॥
मूर्धानमुपदिशन्नेष वा अतिष्ठा वैश्वानर इति चक्षुषी उपदिशन्नुवाचैष वै सुततेजा वैश्वानर इति नासिके उपदिशन्नुवाचैष वै पृथग्वर्त्मा वैश्वानर इति मुख्यमाकाशमुपदिशन्नुवाचैष वै बहुलो वैश्वानर इति मुख्या अप उपदिशन्नुवाचैष वै रयिर्वैश्वानरो इति छुबुकमुपदिशन्नुवाचैष वै प्रतिष्ठा वैश्वानर इति स एषोऽग्निर्वैश्वानरो यत्पुरुषः स यो हैतमेवमग्निं वैश्वानरम् पुरुषविधम् पुरुषेऽन्तः प्रतिष्ठितं वेदाप पुनर्मृत्युं जयति सर्वमायुरेति न हास्य ब्रुवाणं चन वैश्वानरो हिनस्ति॥
द्वयं वा इदमत्ता चैवाद्यं च॥
तद्यदोभयं समागछत्यत्तैवाख्यायते नाद्यम्॥
स वै यः सोऽत्ताग्निरेव सः॥
तस्मिन्यत्किं चाभ्यादधत्याहितय एवास्य ता आहितयो ह वै ता आहुतय इत्याचक्षते परोऽक्षम् परोऽक्षकामा हि देवाः॥
आदित्यो वा अत्ता॥
तस्य चन्द्रमा एवाहितयश्चन्द्रमसं ह्यादित्य आदधतीत्यधिदेवतम्॥
अथाध्यात्मम्॥
प्राणो वा अत्ता तस्यान्नमेवाहितयोऽन्नं हि प्राण आदधतीति न्वग्नेः॥
अथार्कस्य॥
अग्निर्वा अर्कस्तस्याहुतय एव कमाहुतयो ह्यग्नये कम्॥
आदित्यो वा अर्कः॥
तस्य चन्द्रमा एव कं चन्द्रमा ह्यादित्याय कमित्यधिदेवतम्॥
अथाध्यात्मम्॥
प्राणो वा अर्कस्तस्यान्नमेव कमन्नं हि प्राणाय कमिति न्वेवार्कस्य॥
अथोक्थस्य॥
अग्निर्वा उक्तस्याहुतय एव थमाहुतिभिर्ह्यग्निरुत्तिष्ठति॥
आदित्यो वा उक्॥
तस्य चन्द्रमा एव थं चन्द्रमसा ह्यादित्य उत्तिष्ठतीत्यधिदेवतम्॥
अथाध्यात्मम्॥
प्राणो वा उक्तस्यान्नमेव थमन्नेन हि प्राण उत्तिष्ठतीति न्वेवोक्थस्य स एषोऽग्निविधोऽर्कविध उक्थविधो यत्पुरुषः स यो हैतमेवमग्निविधमर्कविधमुक्थविधम् पुरुषमुपास्ते विदुषो हैवास्यैवम् भ्रातृव्यो म्लायति॥
प्राणेन वा अग्निर्दीप्यते॥
अग्निना वायुर्वायुनादित्य आदित्येन चन्द्रमाश्चन्द्रमसा नक्षत्राणि नक्षत्रैर्विद्युदेतावती वै दीप्तिरस्मिंश्च लोकेऽमुष्मिंश्च सर्वा हैतां दीप्तिं दीप्यतेऽस्मिंश्च लोकेऽमुष्मिंश्च य एवं वेद॥
सत्यम् ब्रह्मेत्युपासीत॥
अथ खलु क्रतुमयोऽयम् पुरुषः स यावत्क्रतुरयमस्माल्लोकात्प्रैत्येवङ्क्रतुर्हामुं लोकम् प्रेत्याभिसम्भवति॥
स आत्मानमुपासीत॥
मनोमयम् प्राणशरीरम् भारूपमाकाशात्मानं कामरूपिणम् मनोजवसं सत्यसङ्कल्पं सत्यधृतिं सर्वगन्धं सर्वरसं सर्वा अनु दिशः प्रभूतं सर्वमिदमभ्याप्तमवाक्कमनादरं यथा व्रीहिर्वा यवो वा श्यामाको वा श्यामाकतण्डुलो वैवमयमन्तरात्मन्पुरुषो हिरण्मयो यथा ज्योतिरधूममेवं ज्यायान्दिवो ज्यायानाकाशाज्ज्यायानस्यै पृथिव्यै ज्यायान्त्सर्वेभ्यो भूतेभ्यः स प्राणस्यात्मैष म आत्मैतमित आत्मानम् प्रेत्याभिसम्भविष्यामीति यस्य स्यादद्धा न विचिकित्सास्तीति ह स्माह शाण्डिल्य एवमेतदिति॥
उषा वा अश्वस्य मेध्यस्य शिरः॥
सूर्यश्चक्षुर्वातः प्राणो व्यात्तमग्निर्वैश्वानरः संवत्सर आत्माश्वस्य मेध्यस्य द्यौष्पृष्ठमन्तरिक्षमुदरम् पृथिवी पाजस्यं दिशः पार्श्वे अवान्तरदिशः पर्शव ऋतवोऽङ्गानि मासाश्चार्धमासाश्च पर्वाण्यहोरात्राणि प्रतिष्ठा नक्षत्राण्यस्थीनि नभो मांसान्यूवध्यं सिकताः सिन्धवो गुदा यकृच्च क्लोमानश्च पर्वता ओषधयश्च वनस्पतयश्च लोमान्युद्यन्पूर्वार्धो निम्लोचन्जघनार्धो यद्विजृम्भते तद्विद्योतते यद्विधूनुते तत्स्तनयति यन्मेहति तद्वर्षति वागेवास्य वागहर्वा अश्वम् पुरस्तान्महिमान्वजायत तस्य पूर्वे समुद्रे योनीरात्रिरेनम् पश्चान्महिमान्वजायत तस्यापरे समुद्रे योनिरेतौ वा अश्वम् महिमानावभितः सम्बभूवतुर्हयो भूत्वा देवानवहद्वाजी गन्धर्वानर्वासुरानश्वो मनुष्यान्त्समुद्र एवास्य बन्धुः समुद्रो योनिः॥
नैवेह किं चनाग्र आसीत्॥
मृत्युनैवेदमावृतमासीदशनाययाशनाया हि मृत्युस्तन्मनोऽकुरुतात्मन्वी स्यामिति सोऽर्चन्नचरत्तस्यार्चत आपोऽजायन्तार्चते वै मे कमभूदिति तदेवार्क्यस्यार्कत्वं कं ह वा अस्मै भवति य एवमेतदर्क्यस्यार्कत्वं वेद॥
आपो वा अर्कः॥
तद्यदपां शर आसीत्तत्समहन्यत सा पृथिव्यभवत्तस्यामश्राम्यत्तस्य श्रान्तस्य तप्तस्य तेजो रसो निरवर्तताग्निः॥
स त्रेधात्मानं व्यकुरुत॥
आदित्यं तृतीयं वायुं तृतीयं स एष प्राणस्त्रेधाविहितस्तस्य प्राची दिक्शिरोऽसौ चासौ चेर्मावथास्य प्रतीची दिक्पुछमसौ चासौ च सक्थ्यौ दक्षिणा चोदीची च पार्श्वे द्यौष्पृष्ठमन्तरिक्षमुदरमियमुरः स एषोऽप्सु प्रतिष्ठितो यत्र क्व चैति तदेव प्रतितिष्ठत्येवं विद्वान्॥
सोऽकामयत॥
द्वितीयो म आत्मा जायेतेति स मनसा वाचम् मिथुनं समभवदशनायाम् मृत्युस्तद्यद्रेत आसीत्स संवत्सरोऽभवन्न ह पुरा ततः संवत्सर आस तमेतावन्तं कालमबिभर्यावान्त्संवत्सरस्तमेतावतः कालस्य परस्तादसृजत तं जातमभिव्याददात्स भाणकरोत्सैव वागभवत्॥
स ऐक्षत॥
यदि वा इममभिमंस्ये कनीयोऽन्नं करिष्य इति स तया वाचा तेनात्मनेदं सर्वमसृजत यदिदं किं चर्चो यजूंषि सामानि छन्दांसि यज्ञान्प्रजाम् पशून्त्स यद्यदेवासृजत तत्तदत्तुमध्रियत सर्वं वा अत्तीति तददितेरदितित्वं सर्वस्यात्ता भवति सर्वमस्यान्नम् भवति य एवमेतददितेरदितित्वं वेद॥
सोऽकामयत॥
भूयसा यज्ञेन भूयो यजेयेति सोऽश्राम्यत्स तपोऽतप्यत तस्य श्रान्तस्य तप्तस्य यशो वीर्यमुदक्रामत्प्राणा वै यशो वीर्यं तत्प्राणेषूत्क्रान्तेषु शरीरं श्वयितुमध्रियत तस्य शरीर एव मन आसीत्॥
सोऽकामयत॥
मेध्यं म इदं स्यादात्मन्व्यनेन स्यामिति ततोऽश्वः समभवद्यदश्वत्तन्मेध्यमभूदिति तदेवाश्वमेधस्याश्वमेधत्वमेष ह वा अश्वमेधं वेद य एनमेवं वेद॥
तमनवरुध्येवामन्यत॥
तं संवत्सरस्य परस्तादात्मन आलभत पशून्देवताभ्यः प्रत्यौहत्तसम्:त्सर्वदेवत्यम् प्रोक्षितम् प्राजापत्यमालभन्त एष वा अश्वमेधो य एष तपति तस्य संवत्सर आत्मायमग्निरर्कस्तस्येमे लोका आत्मानस्तावेतावर्कामेधौ सो पुनरेकैव देवता भवति मृत्युरेवाप पुनर्मृत्युं जयति नैनम् मृत्युराप्नोति मृत्युरस्यात्मा भवति सर्वमायुरेत्येतासां देवतानामेको भवति य एवं वेद॥
अथ वंशः॥
समानमा साञ्जीवीपुत्रात्साञ्जीवीपुत्रो माण्डूकायनेर्माण्डूकायनिर्माण्डव्यान्माण्डव्यः कौत्सात्कौत्सो माहित्थेर्माहित्थिर्वामकक्षायणाद्वामकक्षायणो वात्स्याद्वात्स्यः शाण्डिल्याछाण्डिल्यः कुश्रेः कुश्रिर्यज्ञवचसो राजस्तम्बायनाद्यज्ञवचा राजस्तम्बायनस्तुरात्कावषेयात्तुरः कावषेयः प्रजापतेः प्रजापतिर्ब्रह्मणो ब्रह्म स्वयम्भु ब्रह्मणे नमः॥