०५

तस्य वा एतस्याग्नेः॥
वागेवोपनिषद्वाचा हि चीयत ऋचा यजुषा साम्नेति नु दैव्याथ यन्मानुष्या वाचाहेतीदं कुरुतेतीदं कुरुतेति तदु ह तया चीयते॥
सा वा एषा वाक्त्रेधाविहिता॥
ऋचो यजूंषि सामानि तेनाग्निस्त्रेधाविहित एतेन हि त्रयेण चीयतेऽप्यहैवं त्रेधाविहित इत्थं ह त्वेवापि त्रेधाविहितो यदस्मिंस्त्रेधाविहिता इष्टका उपधीयन्ते पुन्नाम्न्य स्त्रीनाम्न्यो नपुंसकनाम्न्यस्त्रेधाविहितान्यु एवेमानि पुरुषस्याङ्गानि पुन्नामानि स्त्रीनामानि नपुंसकनामानि॥
सोऽयमात्मा त्रेधाविहित एव॥
सोऽनेन त्रेधाविहितेनात्मनैतं त्रेधाविहितं दैवममृतमाप्नोति ता उ सर्वा इष्टका इत्येवाचक्षते नेष्टक इति नेष्टकमिति वाचो रूपेण वाग्घ्येवैतत्सर्वं यत्स्त्री पुनान्नपुंसकं वाचा ह्येवैतत्सर्वमाप्तं तस्मादेना अङ्गिरस्वद्ध्रुवा सीदेत्येव सर्वाः सादयति नाङ्गिरस्वद्ध्रुवः सीदेति नाङ्गिरस्वद्ध्रुवं सीदेति वाचं ह्येवैतां संस्कुरुते॥
सा या सा वागसौ स आदित्यः॥
स एष मृत्युस्तद्यकिं चार्वाचीनमादित्यात्सर्वं तन्मृत्युनाप्तं स यो हैनमतोऽर्वाचीनं चिनुते मृत्युना हैनं स आप्तं चिनुते मृत्यवे ह स आत्मानमपिदधात्यथ य एनमत ऊर्ध्वं चिनुते स पुनर्मृत्युमपजयति विद्यया ह वा अस्यैषोऽत ऊर्ध्वं चितो भवति॥
सा वा एषा वाक्त्रेधाविहिता॥
ऋचो यजूंषि सामानि मण्डलमेवर्चोऽर्चिः सामानि पुरुषो यजूंष्यथैतदमृतं यदेतदर्चिर्दीप्यत इदं तत्पुष्करपर्णं तद्यत्पुष्करपर्णमुपधायाग्निं चिनोत्येतस्मिन्नेवैतदमृत ऋङ्मयं यजुर्मयं साममयमात्मानं संस्कुरुते सोऽमृतो भवति॥
यदेतन्मण्डलं तपति॥
तन्महदुक्थं ता ।!चः स ऋचां लोकोऽथ यदेतदर्चिर्दीप्यते तन्महाव्रतं तानि सामानि स साम्नां लोकोऽथ य एष एतस्मिन्मण्डले पुरुषः सोऽग्निस्तानि यजूंषि स यजुषां लोकः॥
सैषा त्रय्येव विद्या तपति॥
तद्धैतदप्यविद्वांस आहुस्त्रयी वा एषा विद्या तपतीति वाग्घैव तत्पश्यन्ती वदति॥
स एष एतस्मिन्मण्डले पुरुषोऽथैतदमृतं यदेतदर्चिर्दीप्यते तस्मान्मृत्युर्न म्रियतेऽमृते ह्यन्तस्तस्मादु न दृश्यतेऽमृते ह्यन्तः॥
तदेष श्लोको भवति॥
अन्तरम् मृत्योरमृतमित्यवरं ह्येतन्मृत्योरमृतम् मृत्यावमृतमाहितमित्येतस्मिन्हि पुरुष एतन्मण्डलम् प्रतिष्ठितं तपति मृत्युर्विवस्वन्तं वस्त इत्यसौ वा आदित्यो विवस्वानेष ह्यहोरात्रे विवस्ते तमेष वस्ते सर्वतो ह्येनेन परिवृतो मृत्योरात्मा विवस्वतीत्येतस्मिन्हि मण्डल एतस्य पुरुषस्यात्मैतदेष श्लोको भवति॥
तयोर्वा एतयोः॥
उभयोरेतस्य चार्चिष एतस्य च पुरुषस्यैतन्मण्डलम् प्रतिष्ठा तस्मान्महदुक्थम् परस्मै न शंसेन्नेदेताम् प्रतिष्ठां छिनदा इत्येतां ह स प्रतिष्ठां छिन्त्ते यो महदुक्थम् परस्मै शंसति तस्मादुक्थशसम् भूयिष्ठम् परिचक्षते प्रतिष्ठाछिन्नो हि भवतीत्यधिदेवतम्॥
अथाधियज्ञम्॥
यदे तन्मण्डलं तपत्ययं स रुक्मोऽथ यदेतदर्चिर्दीप्यत इदं तत्पुष्करपर्णमापो ह्येता आपः पुष्करपर्णमथ य एष एतस्मिन्मण्डले पुरुषोऽयमेव स योऽयं हिरण्मयः पुरुषस्तदेतदेवैतत्त्रयं संस्कृत्येहोपधत्ते तद्यज्ञस्यैवानु संस्थामूर्ध्वमुत्क्रामति तदेतमप्येति य एष तपति तस्मादग्निं नाद्रियेत परिहन्तुममुत्र ह्येष तदा भवतीत्यु एवाधियज्ञम्॥
अथाध्यात्मम्॥
यदेतन्मण्डलं तपति यश्चैष रुक्म इदं तछुक्लमक्षन्नथ यदेतदर्चिर्दीप्यते यच्चैतत्पुष्करपर्णमिदं तत्कृष्णमक्षन्नथ य एष एतस्मिन्मण्डले पुरुषो यश्चैष हिरण्मयः पुरुषोऽयमेव स योऽयं दक्षिणेऽक्षन्पुरुषः॥
स एष एव लोकम्पृणा॥
तामेष सर्वोऽग्निरभिसम्पद्यते तस्यैतन्मिथुनं योऽयं सव्येऽक्षन्पुरुषोऽर्धमु हैतदात्मनो यन्मिथुनं यदा वै सह मिथुनेनाथ सर्वोऽथ कृत्स्नः कृत्स्नतायै तद्यत्ते द्वे भवतो द्वन्द्वं हि मिथुनम् प्रजननं तस्माद्द्वे-द्वे लोकम्पृणे उपधीयेते तस्मादु द्वाभ्यां चितिम् प्रणयन्ति॥
स एष एवेन्द्रः॥
योऽयं दक्षिणेऽक्षन्पुरुषोऽथेयमिन्द्राणी ताभ्यां देवा एतां विधृतिमकुर्वन्नासिकां तस्माज्जायाया अन्ते नाश्नीयाद्वीर्यवान्हास्माज्जायते वीर्यवन्तमु ह सा जनयति यस्या अन्ते नाश्नाति॥
तदेतद्देवव्रतं॥
राजन्यबन्धवो मनुष्याणामनुतमां गोपायन्ति तस्मादु तेषु वीर्यवान्जायतेऽमृतवाका वयसां सा क्षिप्रश्येनं जनयति॥
तौ हृदयस्याकाशम् प्रत्यवेत्य॥
मिथुनीभवतस्तौ यदा मिथुनस्यान्तं गछतोऽथ हैतत्पुरुषः स्वपिति तद्यथा हैवेदम् मानुषस्य मिथुनस्यान्तं गत्वासंविद इव भवत्येवं हैवैतदसंविद-इव भवति दैवं ह्येतन्मिथुनम् परमो ह्येष आनन्दः॥
तस्मादेवंवित्स्वप्यात्॥
लोक्यं हैते एव तद्देवते मिथुनेन प्रियेण धाम्ना समर्धयति तस्मादु ह स्वपन्तं धुरेव न बोधयेन्नेदेते देवते मिथुनोभवन्त्यौ हिनसानीति तस्मादु हैतत्सुषुपुषः श्लेष्मणमिव मुखम् भवत्येते एव तद्देवते रेतः सिञ्चतस्तस्माद्रेतस इदं सर्वं सम्भवति यदिदं किं च॥
स एष एव मृत्युः॥
य एष एतस्मिन्मण्डले पुरुषो यश्चायं दक्षिणेऽक्षन्पुरुषस्तस्य हैतस्य हृदये पादावतिहतौ तौ हैतदाछिद्योत्क्रामति स यदोत्क्रामत्यथ हैतत्पुरुषो म्रियते तस्मादु हैतत्प्रेतमाहुराछेद्यस्येति॥
एष उ एव प्राणः॥
एष हीमाः सर्वाः प्रजा प्रणयति तस्यैते प्राणाः स्वाः स यदा स्वपित्यथैनमेते प्राणाः स्वा अपियन्ति तस्मात्स्वाप्ययः स्वाप्ययो ह वै तं स्वप्न इत्याचक्षते परोऽक्षम् परोऽक्षकामा हि देवाः॥
स एतैः सुप्तः॥
न कस्य चन वेद न मनसा सङ्कल्पयति न वाचान्नस्य रसं विजानाति न प्राणेन गन्धं विजानाति न चक्षुषा पश्यति न श्रोत्रेण शृणोत्येतं ह्येते तदापीता भवन्ति स एष एकः सन्प्रजासु बहुधा व्याविष्टस्तस्मादेका सती लोकम्पृणा सर्वमग्निमनुविभवत्यथ यदेक एव तस्मादेका॥
तदाहुः॥
एको मृत्युर्बहवा३ इत्येकश्च बहवश्चेति ह ब्रूयाद्यदहासावमुत्र तेनैकोऽथ यदिह प्रजासु बहुधा व्याविष्टस्तेनो बहवः॥
तदाहुः॥
अन्तिके मृत्युर्दूरा इत्यन्तिके च दूरे चेति ह ब्रूयाद्यदहायमिहाध्यात्मं तेनान्तिकेऽथ यदसावमुत्र तेनो दूरे॥
तदेष श्लोको भवति॥
अन्ने भात्यपश्रितो रसानां सङ्क्षरेऽमृत इति यदेतन्मण्डलं तपति तदन्नमथ य एष एतस्मिन्मण्डले पुरुषः सोऽत्ता स एतस्मिन्नन्नेऽपश्रितो भातीत्यधिदेवतम्॥
अथाध्यात्मम्॥
इदमेव शरीरमन्नमथ योऽयं दक्षिणेऽक्षन्पुरुषः सोऽत्ता स एतस्मिन्नन्नेऽपश्रितो भाति॥
तमेतमग्निरित्यध्वर्यव उपासते॥
यजुरित्येष हीदं सर्वं युनक्ति सामेति छन्दोगा एतस्मिन्हीदं सर्वं समानमुक्थमिति बह्वृचा एष हीदं सर्वमुत्थापयति यातुरिति यातुविद एतेन हीदं सर्वं यतं विषमिति सर्पाः सर्प इति सर्पविद ऊर्गिति देवा रयिरिति मनुष्या मायेत्यसुराः स्वधेति पितरो देवजन इति देवजनविदो रूपमिति गन्धर्वा गन्ध इत्यप्सरसस्तं यथा-यथोपासते तदेव भवति तद्धैनान्भूत्वावति तस्मादेतमेवंवित्सर्वैरेवैतैरुपासीत सर्वं हैतद्भवति सर्वं हैनमेतद्भूत्वावति॥
स एष त्रीष्टकोऽग्निः॥
ऋगेका यजुरेका सामैका तद्यां कां चात्रर्चोपदधाति रुक्म एव तस्या आयतनमथ यां यजुषा पुरुष एव तस्या आयतनमथ यां साम्ना पुष्करपर्णमेव तस्या आयतनमेवं त्रीष्टकः॥
ते वा एते॥
उभे एष च रुक्म एतच्च पुष्करपर्णमेतम् पुरुषमपीत उभे ह्यृक्सामे यजुरपीत एवम्वेकेष्टकः॥
स एष एव मृत्युः॥
य एष एतस्मिन्मण्डले पुरुषो यश्चायं दक्षिणेऽक्षन्पुरुषः स एष एवंविद आत्मा भवति स यदैवंविदस्माल्लोकात्प्रैत्यथैतमेवात्मानमभिसम्भवति सोऽमृतो भवति मृत्युर्ह्यस्यात्मा भवति॥
नेव वा इदमग्रेऽसदासीन्नेव सदासीत्॥
आसीदिव वा इदमग्रे नेवासीत्तद्ध तन्मन एवास॥
तस्मादेतदृषिणाभ्यनूक्तम्॥
नासदासीन्नो सदासीत्तदानीमिति नेव हि सन्मनो नेवासत्॥
तदिदम् मनः सृष्टमाविरबुभूषत्॥
निरुक्ततरम् मूर्ततरं तदात्मानमन्वैछत्तत्तपोऽतप्यत तत्प्रामूर्छत्तत्षट्त्रिंशतं सहस्राण्यपश्यदात्मनोऽग्नीनर्कान्मनोमयान्मनश्चितस्ते मनसैवाधीयन्त मनसाचीयन्त मनसैषु ग्रहा अगृह्यन्त मनसास्तुवत मनसाशंसन्यत्किं च यज्ञे कर्म क्रियते यत्किं च यज्ञियं कर्म मनसैव तेषु तन्मनोमयेषु मनश्चित्सु मनोमयमक्रियत तद्यत्किं चेमानि भूतानि मनसा सङ्कल्पयन्ति तेषामेव सा कृतिस्तानेवादधति तांश्चिन्वन्ति तेषु ग्रहान्गृह्णन्ति तेषु स्तुवते तेषु शंसन्त्येतावती वै मनसो विभूतिरेतावती विसृष्टिरेतावन्मनः षट्त्रिंशत्सहस्राण्यग्नयोऽर्कास्तेषामेकैक एव तावान्यावानसौ पूर्वः॥
तन्मनो वाचमसृजत॥
सेयं वाक्सृष्टाविरबुभूषन्निरुक्ततरा मूर्ततरा सात्मानमन्वैछत्सा तपोऽतप्यत सा प्रामूर्छत्सा षट्त्रिंशतं सहस्राण्यपश्यदात्मनोऽग्नीनर्कान्वाङ्मयान्वाक्चितस्ते वाचैवाधीयन्त वाचैषु ग्रहा अगृह्यन्त वाचास्तुवत वाचाशंसन्यत्किं च यज्ञे कर्म क्रियते यत्किं च यज्ञियं कर्म वाचैव तेषु तद्वाङ्मयेषु वाक्चित्सु वाङ्मयमक्रियत तद्यत्किं चेमानि भूतानि वाचा वदन्ति तेषामेव सा कृतिस्तानेवादधति तांश्चिन्वन्ति तेषु ग्रहान्गृह्णन्ति तेषु स्तुवते तेषु शंसन्त्येतावती वै वाचो विभूतिरेतावती विसृष्टिरेतावती वाक्षट्त्रिंशत्सहस्राण्यग्नयोऽर्कास्तेषामेकैक एव तावान्यावानसौ पूर्वः॥
सा वाक्प्राणमसृजत॥
सोऽयम् प्राणः सृष्ट आविरबुभूषन्निरुक्ततरो मूर्ततरः स आत्मानमन्वैछत्स तपोऽतप्यत स प्रामूर्छत्स षट्त्रिंशतं सहस्राण्यपश्यदात्मनोऽग्नीनर्कान्प्राणमयान्प्राणचितस्ते प्राणेनैवाधीयन्त प्राणेनाचीयन्त प्राणेनैषु ग्रहा अगृह्यन्त प्राणेनास्तुवत प्राणेनाशंसन्यत्किं च यज्ञे कर्म क्रियते यत्किं च यज्ञियं कर्म प्राणेनैव तेषु तत्प्राणमयेषु प्राणचित्सु प्राणमयमक्रियत तद्यत्किं चेमानि भूतानि प्राणेन प्राणन्ति तेषामेव सा कृतिस्तानेवादधति तांष्चिन्वन्ति तेषु ग्रहान्गृह्णन्ति तेषु स्तुवते तेषु शंसन्त्येतावती वै प्राणस्य विभूतिरेतावती विसृष्टिरेतावान्प्राणः षट्त्रिंश॥
स प्राणश्चक्षुरसृजत॥
तदिदं चक्षुः सृष्टमाविरबुभूषन्निरुक्ततरम् मूर्ततरं तदात्मानमन्वैछत्तत्तपोऽतप्यत तत्प्रामूर्छत्तत्षट्त्रिंशतं सहस्राण्यपश्यदात्मनोऽग्नीनर्काश्चक्षुर्मयांश्चक्षुश्चितस्ते चक्षुषैवाधीयन्त चक्षुषाचीयन्त चक्षुषैषु ग्रहा अग्रृह्यन्त चक्षुषास्तुवत चक्षुषाशंसन्यत्किं च यज्ञे कर्म क्रियते यत्किं च यज्ञियं कर्म चक्षुषैव तेषु तच्चक्षुर्मयेषु चक्षुश्चित्सु चक्षुर्मयमक्रियत तद्यत्किं चेमानि भूतानि चक्षुषा पश्यन्ति तेषामेव सा कृतिस्तानेवादधति तांश्चिन्वन्ति तेषु ग्रहान्गृह्णन्ति तेषु स्तुवते तेषु शंसन्त्येतावती वै चक्षुषो विभूतिरेतावती विसृष्टिरेतावच्चक्षुः षट्त्रिंश॥
तच्चक्षुः श्रोत्रमसृजत॥
तदिदं श्रोत्रं सृष्टमाविरबुभूषन्निरुक्ततरम् मूर्ततरं तदात्मानमन्वैछत्तत्तपोऽतप्यत तत्प्रामूर्छत्तत्षट्त्रिंशतं सहस्राण्यपश्यदात्मनोऽग्नीनर्काण्छ्रोत्रमयाञ्छ्रोत्रचितस्ते श्रोत्रेणैवाधीयन्त श्रोत्रेणाचीयन्त श्रोत्रेणैषु ग्रहा अगृह्यन्त श्रोत्रेणास्तुवत श्रोत्रेणाशंसन्यत्किं च यज्ञे कर्म क्रियते यत्किं च यज्ञियं कर्म श्रोत्रेणैव तेषु तछ्रोत्रमयेषु श्रोत्रचित्सु श्रोत्रमयमक्रियत तद्यत्किं चेमानि भूतानि श्रोत्रेण शृण्वन्ति तेषामेव सा कृतिस्तानेवादधति तांश्चिन्वन्ति तेषु ग्रहान्गृह्णन्ति तेषु स्तुवते तेषु शंसन्त्येतावती वै श्रोत्रस्य विभूतिरेतावती विसृष्टिरेतावछ्रोत्रं षट्त्रिंश॥
तछ्रोत्रं कर्मासृजत॥
तत्प्राणानभिसममूर्छदिमं सन्देघमन्नसन्देहमकृत्स्नं वै कर्मर्ते प्राणेभ्योऽकृत्स्ना उवै प्राणा ऋते कर्मणः॥
तदिदं कर्म सृष्टमाविरबुभूषत्॥
निरुक्ततरम् मूर्ततरं तदात्मानमन्वैछत्तत्तपोऽतप्यत तत्प्रामूर्छत्तत्षट्त्रिंशतं सहस्राण्यपश्यदात्मनोऽग्नीनर्कान्कर्ममयान्कर्मचितस्ते कर्मणैवाधीयन्त कर्मणाचीयन्त कर्मणैषु ग्रहा अगृह्यन्त कर्मणास्तुवत कर्मणाशंसन्यत्किं च यज्ञे कर्म क्रियते यत्किं च यज्ञियं कर्म कर्मणैव तेषु तत्कर्ममयेषु कर्मचित्सु कर्ममयमक्रियत तद्यत्किं चेमानि भूतानि कर्म कुर्वते तेषामेव सा कृतिस्तानेवादधति तांश्चिन्वन्ति तेषु ग्रहान्गृह्णन्ति तेषु स्तुवते तेषु शंसन्त्येतावती वै कर्मणो विभूतिरेतावती विसृष्टिरेतावत्कर्म षट्त्रिंश॥
तत्कर्माग्निमसृजत॥
आविस्तरां वा अग्निः कर्मणः कर्मणा ह्येनं जनयन्ति कर्मणेन्धते॥
सोऽयमग्निः सृष्ट आविरबुभूषत्॥
निरुक्ततरो मूर्ततरः स आत्मानमन्वैछत्स तपोऽतप्यत स प्रामूर्छत्स षट्त्रिंशतं सहस्राण्यपश्यदात्मनोऽग्नीनर्कानग्निमयानग्निचितस्तेऽग्निनैवाधीयन्ताग्निनाचीयन्ताग्निनैषु ग्रहा अगृह्यन्ताग्निनास्तुवताग्निनाशंसन्यत्किं च यज्ञे कर्म क्रियते यत्किं च यज्ञियं कर्माग्निनैव तेषु तदग्निमयेष्वग्निचित्स्वग्निमयमक्रियत तद्यत्किं चेमानि भूतान्यग्निमिन्धते तेषामेव सा कृतिस्तानेवादधति तांश्चिन्वन्ति तेषु ग्रहान्गृह्णन्ति तेषु स्तुवते तेषु शंसन्त्येतावती वा अग्नेर्विभूतिरेतावती विसृष्टिरेतावानग्निः षट्त्रिंशत्सहस्राण्यग्नयो=र्कास्तेषामेकैक एव तावान्यावानसौ पूर्वः॥
ते हैते विद्याचित एव॥
तान्हैतानेवंविदे सर्वदा सर्वाणि भूतानि चिन्वन्त्यपि स्वपते विद्यया हैवैत एवंविदश्चिता भवन्ति॥
अयं वाव लोक एषोऽग्निश्चितः॥
तस्याप एव परिश्रितो मनुष्या यजुष्मत्य इष्टकाः सूददोहा ओषधयश्च वनस्पतयश्च पुरीषमाहुतयः समिधोऽग्निर्लोकम्पृणा तद्वा एतत्सर्वमग्निमेवाभिसम्पद्यते तत्सर्वोऽग्निर्लोकम्पृणामभिसम्पद्यते स यो हैतदेवं वेद लोकम्पृणामेनम् भूतमेतत्सर्वमभिसम्पद्यते॥
अन्तरिक्षं ह त्वेवैषोऽग्निश्चितः॥
तस्य द्यावापृथिव्योरेव सन्धिः परिश्रितः परेण हान्तरिक्षं द्यावापृथिवी सन्धत्तस्ताः परिश्रितो वयांसि यजुष्मत्य इष्टका वर्षं सूददोहा मरीचयः पुरीषमाहुतयः समिधो वायुर्लोकम्पृणा तद्वा एतत्सर्वं वायुमेवाभिसम्पद्यते तत्सर्वोऽग्निर्लो॥
द्यौर्ह त्वेवैषोऽग्निश्चितः॥
तस्याप एव परिश्रितो यथा ह वा इदं कोशः समुब्जित एवमिमे लोका अप्स्वन्तस्तद्या इमांलोकान्परेणापस्ताः परिश्रितो देवा यजुष्मत्य इष्टका यदेवैतस्मिंलोकेऽन्नं तत्सूददोहा नक्षत्राणि पुरीषमाहुतयः समिध आदित्यो लोकम्पृणा तद्वा एतत्सर्वमादित्यमेवाभिसम्पद्यते तत्सर्वोऽग्निर्लो॥
आदित्यो ह त्वेवैषोऽग्निश्चितः॥
तस्य दिश एव परिश्रितस्ताः षष्टिश्च त्रीणि च शतानि भवन्ति षष्टिश्च ह वै त्रीणि च शतान्यादित्यं दिशः समन्तम् परियन्ति रश्मयो यजुष्मत्य इष्टकास्ताः षष्टिश्चैव त्रीणि च शतानि भवन्ति षष्टिश्च ह वै त्रीणि च शतान्यादित्यस्य रश्मयस्तद्यत्परिश्रित्सु यजुष्मतीः प्रत्यर्पयति रश्मींस्तद्दिक्षु प्रत्यर्पयत्यथ यदन्तरा दिशश्च रश्मींश्च तत्सूददोहा अथ यद्दिक्षु च रश्मिषु चान्नं तत्पुरीषं ता आहुतयस्ताः समिधोऽथ यद्दिश इति च रश्मय इति चाख्यायते तल्लोकम्पृणा तद्वा एतत्सर्वं दिश इति चैव रश्मय इति चाख्यायते तत्सर्वोऽग्निर्लो॥
नक्षत्राणि ह त्वेवैषोऽग्निश्चितः॥
तानि वा एतानि सप्तविंशतिर्नक्षत्राणि सप्तविंशतिः सप्तविंशतिर्होपनक्षत्राण्येकैकं नक्षत्रमनूपतिष्ठन्ते तानि सप्त च शतानि विंशतिश्चाधि षट्त्रिंशत्ततो यानि सप्त च शतानि विंशतिश्चेष्टका एव ताः षष्टिश्च त्रीणि च शतानि परिश्रितः षष्टिश्च त्रीणि च शतानि यजुष्मत्योऽथ यान्यधि षट्त्रिंशत्स त्रयोदशो मासः स आत्मा त्रिंशदात्मा प्रतिष्ठा द्वे शिर एव षट्त्रिंश्यौ तद्यत्ते द्वे भवतो द्व्यक्षरं हि शिरोऽथ यदन्तरा नक्षत्रे तत्सूददोहा अथ यन्नक्षत्रेष्वन्नं तत्पुरीषं ता आहुतयस्ताः समिधोऽथ यन्नक्षत्राणीत्याख्यायते तल्लोकम्पृणा तद्वा एतत्सर्वन्नक्षत्राणीत्येवाख्यायते तत्सर्वोऽग्निर्लो॥
ता वा एताः॥
एकविंशतिर्बृहत्य एकविंशो वै स्वर्गो लोको बृहती स्वर्गो लोकस्तदेष स्वर्गं लोकमभिसम्पद्यत एकविंशं च स्तोमम् बृहतीं च छन्दः॥
छन्दांसि ह त्वेवैषोऽग्निश्चितः॥
तानि वा एतानि सप्त छन्दांसि चतुरुत्तराणि त्रिचानि तेषां सप्त च शतानि विंशतिश्चाक्षराण्यधि षट्त्रिंशत्ततो यानि सप्त च शतानि विंशतिश्चेष्टका एव ताः षष्टिश्च त्रीणि च शतानि परिश्रितः षष्टिश्च त्रीणि च शतानि यजुष्मत्योऽथ यान्यधि षट्त्रिंशत्स त्रयोदशो मासः स आत्मा त्रिंशदात्मा प्रतिष्ठा द्वे प्राणा द्वे शिर एव षट्त्रिंश्यौ तद्यत्ते द्वे भवतो द्व्यक्षरं हि शिरः॥
तस्यै वा एतस्यै षट्त्रिंशदक्षरायै बृहत्यै॥
यानि दश प्रथमान्यक्षराणि सा दशाक्षरैकपदाथ यानि विंशतिः सा विंशत्यक्षरा द्विपदाथ यानि त्रिंशत्सा त्रिंशदक्षरा विराडथ यानि त्रयस्त्रिंशत्सा त्रयस्त्रिंशदक्षराथ यानि चतुस्त्रिंशत्सा चतुस्त्रिंशदक्षरा स्वराडथ यत्सर्वैश्छन्दोभिरयमग्निश्चितस्तदतिच्छन्दास्ता उ सर्वा इष्टका एवेष्टकेति त्रीण्यक्षराणि त्रिपदा गायत्री तेनैष गायत्रोऽग्निर्मृदाप इति त्रीण्यक्षराणि त्रिपदा गायत्री तेनो एवैष गायत्रोऽथ यदन्तरा छन्दसी तत्सूददोहा अथ यच्छन्दःस्वन्नं तत्पुरीषं ता आहुतयस्ताः समिधोऽथ यच्छन्दांसीत्याख्यायते तल्लोकम्पृणा तद्वा एतत्सर्वं छन्दांसीत्येवाख्यायते तत्सर्वोऽग्निर्लो॥
ता वा एताः॥
एकविंशतिर्बृहत्य एकविंशो वै स्वर्गो लोको बृहती स्वर्गो लोकस्तदेष स्वर्गं लोकमभिसम्पद्यत एकविंशं च स्तोमम् बृहतीं च छन्दः॥
संवत्सरो ह त्वेवैषोऽग्निश्चितः॥
तस्य रात्रय एव परिश्रितस्ताः षष्टिश्च त्रीणि च शतानि भवन्ति षष्टिश्च ह वै त्रीणि च शतानि संवत्सरस्य रात्रयोऽहानि यजुष्मत्य इष्टकास्ताः षष्टिश्चैव त्रीणि च शतानि भवन्ति षष्टिश्च ह वै त्रीणि च शतानि संवत्सरस्याहान्यथ या अमूः षट्त्रिंशदिष्टका अतियन्ति यः स त्रयोदशो मास आत्मार्धमासाश्च ते मासाश्च चतुर्विंशतिरर्धमासा द्वादश मासा अथ यदन्तराहोरात्रे तत्सूददोहा अथ यदहोरात्रेष्वन्नं तत्पुरीषं ता आहुतयस्ताः समिधोऽथ यदहोरात्राणीत्याख्यायते तल्लोकम्पृणा तद्वा एतत्सर्वमहोरात्राणीत्येवाख्यायते तत्सर्वोऽग्निर्लो॥
ता वा एताः॥
एकविंशतिर्बृहत्य एकविंशो वै स्वर्गो लोको बृहती स्वर्गो लोकस्तदेष स्वर्गं लोकमभिसम्पद्यते एकविंशं च स्तोमम् बृहतीं च छन्दः॥
आत्मा ह त्वेवैषोऽग्निश्चितः॥
तस्यास्थीन्येव परिश्रितस्ताः षष्टिश्च त्रीणि च शतानि भवन्ति षष्टिश्च ह वै त्रीणि च शतानि पुरुषस्यास्थीनि मज्जानो यजुष्मत्य इष्टकास्ताः षष्टिश्चैव त्रीणि च शतानि भवन्ति षष्टिश्च ह वै त्रीणि च शतानि पुरुषस्य मज्जानोऽथ या अमूः षट्त्रिंशदिष्टका अतियन्ति यः स त्रयोदशो मास आत्मा प्राणः स तस्य त्रिंशदात्मन्विधाः प्रतिष्ठायां द्वे शीर्षन्द्वे तद्यत्ते द्वे भवतो द्विकपालं हि शिरोऽथ येनेमानि पर्वाणि सन्ततानि तत्सूददोहा अथैतत्त्रयं येनायमात्मा प्रछन्नो लोम त्वङ्मांसमिति तत्पुरीषं यत्पिबति ता आहुतयो यदश्नाति ताः समिधोऽथ यदात्मेत्याख्यायते तल्लोकम्पृणा तद्वा एतत्सर्वमात्मेत्येवाख्यायते तत्सर्वोऽग्निर्लो॥
ता वा एताः॥
एकविंशतिर्बृह॥
सर्वाणि ह त्वेव भूतानि॥
सर्वे देवा एषोऽग्निश्चित आपो वै सर्वे देवाः सर्वाणि भूतानि ता हैता आप एवैषोऽग्निश्चितस्तस्य नाव्या एव परिश्रितस्ताः षष्टिश्च त्रीणि च शतानि भवन्ति षष्टिश्च ह वै त्रीणि च शतान्यादित्यं नाव्याः समन्तम् परियन्ति नाव्या उ एव यजुष्मत्य इष्टकास्ताः षष्टिश्चैव त्रीणि च शतानि भवन्ति षष्टिश्च ह वै त्रीणि च शतान्यादित्यं नाव्या अभिक्षरन्त्यथ यदन्तरा नाव्ये तत्सूददोहा अथ या अमूः षट्त्रिंशदिष्टका अतियन्ति यः स त्रयोदशो मास आत्मायमेव स योऽयं हिरण्मयः पुरुषः॥
तस्यैते प्रतिष्ठे॥
रुक्मश्च पुष्करपर्णं चापश्चादित्यमण्डलं च स्रुचौ बाहू ताविन्द्राग्नी द्वे स्वयमातृणे इयं चान्तरिक्षं च तिस्रो विश्वज्योतिष एता देवता अग्निर्वायुरादित्य एता ह्येव देवता विश्वं ज्योतिर्द्वादशर्तव्याः स संवत्सरः स आत्मा पञ्च पञ्चचूडाः स यज्ञस्ते देवा अथ यद्विकर्णी च स्वयमातृणा चाश्मा पृश्निर्यश्चितेऽग्निर्निधीयते सा पञ्चत्रींशी लोकम्पृणायै यजुः षट्त्रिंशी सोऽस्यैष सर्वस्यान्तमेवात्मा स एष सर्वासामपाम् मध्ये स एष सर्वैः कामैः सम्पन्न आपो वै सर्वे कामाः स एषोऽकामः सर्वकामो न ह्येतं कस्य चन कामः॥
तदेष श्लोको भवति॥
विद्यया तदारोहन्ति यत्र कामाः परागताः न तत्र दक्षिणा यन्ति नाविद्वांसस्तपस्विन इति न हैव तं लोकं दक्षिणाभिर्न तपसानेवंविदश्नुत एवंविदां हैव स लोकः॥
अभ्रम् पुरीषम्॥
चन्द्रमा आहुतयो नक्षत्राणि समिधो यच्चन्द्रमा नक्षत्रे वसत्याहुतिस्तत्समिधि वसत्येतदु वा आहुतेरन्नमेषा प्रतिष्ठा तस्मादाहुतिर्न क्षीयत एतद्ध्यस्या अन्नमेषा प्रतिष्ठाथ यद्देवा इत्याख्यायते तल्लोकम्पृणा तद्वा एतत्सर्वं देवा इत्येवाख्यायते॥
तदेतदृचाभ्युक्तम्॥
विश्वे देवा अनु तत्ते यजुर्गुरिति सर्वाणि ह्यत्र भूतानि सर्वे देवा यजुरेव भवन्ति तत्सर्वोऽग्निर्लोकम्पृणामभिसम्पद्यते स यो हैतदेवं वेद लोकम्पृणामेनम् भूतमेतत्सर्वमभिसम्पद्यते॥
ता वा एताः॥
एकविंशतिर्बृहत्य एकविंशो वै स्वर्गो लोको बृहती स्वर्गो लोकस्तदेष स्वर्गं लोकमभिसम्पद्यत एकविंशं च स्तोमम् बृहतीं च छन्दः॥
कुश्रिर्ह वाजश्रवसोऽग्निं चिक्ये॥
तं होवाच सुश्रुवाः कौष्यो गौतम यदग्निमचैषीः प्राञ्चमेनमचैषीः प्रत्यञ्चमेनमचैषीर्न्यञ्चमेनमचैषीरुत्तानमेनमचैषीः॥
यद्यहैनम् प्राञ्चमचैषीः यथा पराच आसीनाय पृष्ठतोऽन्नाद्यमुपाहरेत्तादृक्तन्न ते हविः प्रतिग्रहीष्यति॥
यद्यु वा एनम् प्रत्यञ्चमचैषीः॥
कस्मादस्य तर्हि पश्चात्पुछमकार्षीः॥
यद्यु वा एनं न्यञ्चमचैषीः॥
यथा नीचः शयानस्य पृष्ठेऽन्नाद्यम् प्रतिष्ठापयेत्तादृक्तन्नैव ते हविः प्रतिग्रहीस्यति॥
यद्यु वा एनमुत्तानमचैषीः॥
न वा उत्तानं वयः स्वर्गं लोकमभिवहति न त्वा स्वर्गं लोकमभिवक्ष्यत्यस्वर्ग्य उ ते भविष्यतीति॥
स होवाच॥
प्राञ्चमेनमचैषम् प्रत्यञ्चमेनमचैषं न्यञ्चमेनमचैषमुत्तानमेनमचैषं सर्वा अनु दिश एनमचैषमिति॥
स यत्प्राञ्चम् पुरुषमुपदधाति॥
प्राच्यौ स्रुचौ तत्प्राङ् चीयतेऽथ यत्प्रत्यञ्चं कूर्ममुपदधाति प्रत्यञ्चि पशुशीर्षाणि तत्प्रत्यङ् चीयतेऽथ यन्न्यञ्चं कूर्ममुपदधाति न्यञ्चि पशुशीर्षाणि नीचीरिष्टकास्तन्न्यङ् चीयतेऽथ यदुत्तानम् पुरुषमुपदधात्युत्ताने स्रुचा उत्तानमुलूखलमुत्तानामुखां तदुत्तानश्चीयतेऽथ यत्सर्वा अनु दिशः परिसर्पमिष्टका उपदधाति तत्सर्वतश्चीयते॥
अथ ह कोषा धावयन्तः॥
निरूढशिरसमग्निमुपाधावयां चक्रुस्तेषां हैक उवाच श्रीर्वै शिरः श्रियमस्य निरौहीत्सर्वज्यानिं ज्यास्यत इति स ह तथैवास॥
अथ हैक उवाच॥
प्राणा वै शिरः प्राणानस्य निरौहीत्क्षिप्रेऽमुं लोकमेष्यतीति स उ ह तथैवास॥
ऊर्ध्वो वा एष एतच्चीयते॥
यद्दर्भस्तम्बो लोगेष्टकाः पुष्करपर्णं रुक्मपुरुषौ स्रुचौ स्वयमातृणा दूर्वेष्टका द्वियजू रेतःसिचौ विश्वज्योतिरृतव्ये अषाढा कूर्मोऽथ हास्यैतदेव प्रत्यक्षतमां शिरो यश्चितेऽग्निर्निधीयते तस्मान्न निरूहेत्॥