०४

प्रजापतिं विस्रस्तम्॥
यत्र देवाः समस्कुर्वंस्तमुखायां योनौ रेतो भूतमसिञ्चन्योनिर्वा उखा तस्मा एतत्संवत्सरेऽन्नं समस्कुर्वन्योऽयमग्निश्चितस्तदात्मना पर्यदधुस्तदात्मना परिहितमात्मैवाभवत्तस्मादन्नमात्मना परिहितमात्मैव भवति॥
तथैवैतद्यजमानः॥
आत्मानमुखायां योनौ रेतो भूतं सिञ्चति योनिर्वा उखा तस्मा एतत्संवत्सरेऽन्नं संस्करोति योऽयमग्निश्चितस्तदात्मना परिदधाति तदात्मना परिहितमात्मैव भवति तस्मादन्नमात्मना परिहितमात्मैव भवति॥
तं निदधाति॥
वौषडिति वौगिति वा एष षडितीदं षट्चितिकमन्नं कृत्वास्मा अपिदधात्यात्मसम्मितं यदु वा आत्मसम्मितमन्नं तदवति तन्न हिनस्ति यद्भूयो हिनस्ति तद्यत्कनीयो न तदवति॥
स एष एवार्कः॥
यमेतमत्राग्निमाहरन्ति तस्यैतदन्नङ्क्यं योऽयमग्निश्चितस्तदर्क्यं यजुष्ट एष एव महांस्तस्यैतदन्नं व्रतं तन्महाव्रतं सामत एष उ एवोक्तस्यैतदन्नं थं तदुक्थमृक्तस्तदेतदेकं सत्रेधाख्यायते॥
अथेन्द्राग्नी वा असृज्येताम्॥
ब्रह्म च क्षत्रं चाग्निरेव ब्रह्मेन्द्रः क्षत्रं तौ सृष्टौ नानैवास्तां तावब्रूतां न वा इत्थं सन्तौ शक्ष्यावः प्रजाः प्रजनयितुमेकं रूपमुभावसावेति तावेकं रूपमुभावभवताम्॥
तौ यौ ताविन्द्राग्नी॥
एतौ तौ रुक्मश्च पुरुषश्च रुक्म एवेन्द्रः पुरुषोऽग्निस्तौ हिरण्मयौ भवतो ज्योतिर्वै हिरण्यं ज्योतिरिन्द्राग्नि! अमृतं हिरण्वममृतमिन्द्राग्नी॥
तावेताविन्द्राग्नी एव चिन्वन्ति॥
यद्धि किं चैष्टकमग्निरेव तत्तस्मात्तदग्निना पचन्ति यद्धि किं चाग्निना पचन्त्यग्निरेव तदथ यत्पुरीषं स इन्द्रस्तस्मात्तदग्निना न पचन्ति नेदग्निरेवासन्नेन्द्र इति तस्मादेताविन्द्राग्नी एव चितौ॥
अथ यश्चितेऽग्निर्निधीयते॥
तदेकं रूपमुभौ भवतस्तस्मात्तावेतेनैव रूपेणेमाः प्रजाः प्रजनयतः सैषैकैवेष्टकाग्निरेव तामेष सर्वोऽग्निरभिसम्पद्यते सैवेष्टकासम्पत्तदेतदेकमेवाक्षरं वौगिति तदेष सर्वोऽग्निरभिसम्पद्यते सैवाक्षरसम्पत्॥
तद्धैतत्पश्यन्नृषिरभ्यनूवाद॥
भूतम् भविष्यत्प्रस्तौमि महद्ब्रह्मैकमक्षरम् बहु ब्रह्मैकमक्षरमित्येतद्ध्येवाक्षरं सर्वे देवाः सर्वाणि भूतान्यभिसम्पद्यन्ते तदेतद्ब्रह्म च क्षत्रं चाग्निरेव ब्रह्मेन्द्रः क्षत्रमिन्द्राग्नी वै विश्वे देवा विडु विश्वे देवास्तदेतद्ब्रह्म क्षत्रं विट्॥
एतद्ध स्म वै तद्विद्वाञ्छ्यापर्णः सायकायन आह॥
यद्वै म इदं कर्म समाप्स्यत ममैव प्रजा सल्वानां राजानोऽभविष्यन्मम ब्राह्मणा मम वैश्या यत्तु म एतावत्कर्मणः समापि तेन म उभयथा सल्वान्प्रजातिरेक्ष्यत इति स एष एव श्रीरेष यश एषोऽन्नादः॥
एतद्ध वै तछाण्डिल्यः॥
वामकक्षायणाय प्रोच्योवाच श्रीमान्यशस्व्यन्नादो भविष्यसीति श्रीमान्ह वै यशस्व्यन्नादो भवति य एवं वेद॥
स एषोऽग्निः प्रजापतिरेव॥
त देवा एतमग्निम् प्रजापतिं संस्कृत्याथास्मा एतत्संवत्सरेऽन्नं समस्कुर्वन्य एष महाव्रतीयो ग्रहः॥
तमध्वर्युर्ग्रहेण गृह्णाति॥
यद्गृह्णाति तस्माद्ग्रहस्तस्मिन्नुद्गाता महाव्रतेन रसं दधाति सर्वाणि हैतानि सामानि यन्महाव्रतं तदस्मिन्त्सर्वैः सामभी रसं दधाति तस्मिन्होता महतोक्थेन रसं दधाति सर्वा हैता ऋचो यन्महदुक्थं तदस्मिन्त्सर्वाभिरृग्भी रसं दधाति॥
ते यदा स्तुवते यदानुशंसति॥
अथास्मिन्नेतं वषट्कृते जुहोति वौगिति वा एष षडितीदं षड्विधमन्नं कृत्वास्मा अपिदधात्यात्मसम्मितं यदु वा आत्मसम्मितमन्नं तदवति तन्न हिनस्ति यद्भूयो हिनस्ति तद्यत्कनीयो न तदवति॥
स एष एवार्कः॥
योऽयमग्निश्चितस्तस्यैतदन्नं क्यमेष महाव्रतीयो ग्रहस्तदर्क्यं यजुष्ट एष एव महांस्तस्यैतदन्नं व्रतं तन्महाव्रतं सामत एष उ एवोक्तदन्नं थं तदुक्थमृक्तस्तदेतदेकं सत्त्रेधाख्यायते॥
स एष संवत्सरः प्राजापतिरग्निः॥
तस्यार्धमेव सावित्राण्यर्धं वैश्वकर्मणान्यष्टावेवास्य कलाः सावित्राण्यष्टौ वैश्वकर्मणान्यथ यदेतदन्तरेण कर्म क्रियते स एव सप्तदशः प्रजापतिर्यो वै कला मनुष्याणामक्षरं तद्देवानाम्॥
तद्वै लोमेति द्वे अक्षरे॥
त्वगिति द्वे असृगिति द्वे मेद इति द्वे मांसमिति द्वे स्नावेति द्वे अस्थीति द्वे मज्जेति द्वे ताः षोडश कला अथ य एतदन्तरेण प्राणः सञ्चरति स एव सप्तदशः प्रजापतिः॥
तस्मा एतस्मै प्राणाय॥
एताः षोडश कला अन्नमभिहरन्ति ता यदानभिहर्तुं ध्रियन्तेऽथैता एव जग्ध्वोत्क्रामति तस्मादु हैतदशिशिषतस्तृप्रमिव भवति प्राणैरद्यमानस्य तस्मादु हैतदुपतापी कृश-इव भवति प्राणैर्हि जग्धो भवति॥
तस्मा एतस्मै सप्तदशाय प्रजापतये॥
एतत्सप्तदशमन्नं समस्कुर्वन्य एष सौम्योऽध्वरोऽथ या अस्य ताः षोडश कला एते ते षोडशर्त्विजस्तस्मान्न सप्तदशमृत्विजं कुर्वीत नेदतिरेचयानीत्यथ य एवात्र रसो या आहुतयो हूयन्ते तदेव सप्तदशमन्नम्॥
ते यदा स्तुवते यदानुशंसति॥
अथास्मिन्नेतं वषट्कृते जुहोति वौगिति वा एष षडितीदं षड्विधमन्नं कृत्वास्मा अपिदधात्यात्मसम्मितं यदु वा आत्मसम्मितमन्नं तदवति तन्न हिनस्ति यद्भूयो हिनस्ति तद्यत्कनीयो न तदवति॥
स एष एवार्कः॥
योऽयमग्निश्चितस्तस्यैतदन्नं क्यमेष सौम्योऽध्वरस्तदर्क्यं यजुष्ट एष एव महांस्तस्यैतदन्नं व्रतं तन्महाव्रतं सामत एष उ एवोक्तस्यैतदन्नं थं तदुक्थमृक्तस्तदेतदेकं सत्त्रेधाख्यायते स एतेनान्नेन सहोर्ध्व उदक्रामत्स यः स उदक्रामदसौ स आदित्योऽथ येन तेनान्नेन सहोदक्रामदेष स चन्द्रमाः॥
स एष एवार्को य एष तपति॥
तस्यैतदन्नं क्यमेष चन्द्रमास्तदर्क्यं यजुष्ट एष एव महांस्तस्यैतदन्नं व्रतं तन्महाव्रतं सामत एष उ एवोक्तस्यैतदन्नं थं तदुक्थमृक्तस्तदेतदेकं सत्त्रेधाख्यायत इत्यधिदेवतम्॥
अथाध्यात्मम्॥
प्राणो वा अर्कस्तस्यान्नमेव क्यं तदर्क्यं यजुष्टः प्राण एव माहांस्तस्यान्नमेव व्रतं तन्महाव्रतं सामतः प्राण उ एवोक्तस्यान्नमेव थं तदुक्थमृक्तस्तदेतदेकं सत्त्रेधाख्यायते स एष एवैषोऽधिदेवतमयमध्यात्मम्॥
संवत्सरो वै प्रजापतिरग्निः॥
सोमो राजा चन्द्रमाः स ह स्वयमेवात्मानम् प्रोचे यज्ञवचसे राजस्तम्बायनाय यावन्ति वाव मे ज्योतींषि तावत्यो म इष्टका इति॥
तस्य वा एतस्य संवत्सरस्य प्रजापतेः॥
सप्त च शतानि विंशतिश्चाहोरात्राणि ज्योतींषि ता इष्टकाः षष्टिश्च त्रीणि च शताणि परिश्रितः षष्टिश्च त्रीणि च शतानि यजुष्मत्यः सोऽयं संवत्सरः प्रजापतिः सर्वाणि भूतानि ससृजे यच्च प्राणि यच्चाप्राणमुभयान्देवमनुष्यान्त्स सर्वाणि भूतानि सृष्ट्वा रिरिचान-इव मेने स मृत्योर्बिभयां चकार॥
स हेक्षां चक्रे॥
कथं न्वहमिनानि सर्वाणि भूतानि पुनरात्मन्नावपेय पुनरात्मन्दधीय कथं न्वहमेवैषां सर्वेषाम् भूतानाम् पुनरात्मा स्यामिति॥
स द्वेधात्मानं व्यौहत्॥
षष्टिश्च त्रीणि च शतान्यन्यतरस्येष्टका अभवन्नेवमन्यतरस्य स न व्याप्नोत्॥
त्रीनात्मनोऽकुरुत॥
तिस्रस्तिस्रोऽशीतय एकैकस्येष्टका अभवन्त्स नैव व्याप्नोत्॥
चतुर आत्मनोऽकुरुत॥
अशीतिशतेष्टकान्त्स नैव व्याप्नोत्॥
पञ्चात्मनोऽकुरुत॥
चतुश्चत्वारिंशं शतमेकैकस्येष्टका अभवन्त्स नैव व्याप्नोत्॥
षडात्मनोऽकुरुत॥
विंशतिशतेष्टकान्त्स नैव व्याप्नोन्न सप्तधा व्यभवत्॥
अष्टावात्मनोऽकुरुत॥
नवतीष्टकान्त्स नैव व्याप्नोत्॥
नवात्मनोऽकुरुत॥
अशीतीष्टकान्त्स नैव व्याप्नोत्॥
दशात्मनोऽकुरुत॥
द्वासप्ततीष्टकान्स नैव व्याप्नोन्नैकादशधा व्यभवत्॥
द्वादशात्मनोऽकुरुत॥
षष्टीष्टकान्त्स नैव व्याप्नोन्न त्रयोदशधा व्यभवन्न चतुर्दशधा॥
पञ्चदशात्मनोऽकुरुत॥
अष्टाचत्वारिंशदिष्टकान्त्स नैव व्याप्नोत्॥
षोडशात्मनोऽकुरुत॥
पञ्चचत्वारिंशदिष्टकान्त्स नैव व्याप्नोन्न सप्तदशधा व्यभवत्॥
अष्टादशात्मनोऽकुरुत॥
चत्वारिंशदिष्टकान्त्स नैव व्याश्नोन्नैकां न विंशतिधा व्यभवत्॥
विंशतिमात्मनोऽकुरुत॥
षट्त्रिंशदिष्टकान्त्स नैव व्याप्नोन्नैकविंशतिधा व्यभवन्न द्वाविंशतिधा न त्रयोविंशतिधा॥
चतुर्विंशतिमात्मनोऽकुरुत॥
त्रिंशदिष्टकान्त्सोऽत्रातिष्ठत पञ्चदशे व्यूहे तद्यत्पञ्चदशे व्यूहेऽतिष्ठत तस्मात्पञ्चदशापूर्यमाणस्य रूपाणि पञ्चदशापक्षीयमाणस्य॥
अथ यच्चतुर्विंशतिमात्मनोऽकुरुत॥
तस्माच्चतुर्विंशत्यर्धमासः संवत्सरः स एतैश्चतुर्विंशत्या त्रिंशदिष्टकैरात्मभिर्न व्यभवत्स पञ्चदशाह्नो रूपाण्यपश्यदात्मनस्तन्वो मुहूर्तालोकम्पृणाः पञ्चदशैव रात्रेस्तद्यन्मुहु त्रायन्ते तस्मान्मुहुर्ता अथ यत्क्षुद्राः सन्त इमांलोकानापूरयन्ति तस्माल्लोकम्पृणाः॥
एष वा इदं सर्वम् पचति॥
अहोरात्रैरर्धमासैर्मासैरृतुभिः संवत्सरेण तदमुना पक्वमयम् पचति पक्वस्य पक्तेति ह स्माह भारद्वाजोऽग्निममुना हि पक्वमयम् पचतीति॥
तानि संवत्सरे॥
दश च सहस्राण्यष्टौ च शतानि समपद्यन्त सोऽत्रातिष्ठत दशसु च सहस्रेष्वष्टासु च शतेषु॥
अथ सर्वाणि भूतानि पर्यैक्षत्॥
स त्रय्यामेव विद्यायां सर्वाणि भूतान्यपश्यदत्र हि सर्वेषां छन्दसामात्मा सर्वेषां स्तोमानां सर्वेषाम् प्राणानां सर्वेषां देवानामेतद्वा अस्त्येतद्ध्यमृतं यद्ध्यमृतं तद्ध्यस्त्येतदु तद्यन्मर्त्यम्॥
स ऐक्षत प्रजापतिः॥
त्रय्यां वाव विद्यायां सर्वाणि भूतानि हन्त त्रयोमेव विद्यामात्मानमभिसंस्करवा इति॥
स ऋचो व्यौहत्॥
द्वादश बृहतीसहस्राण्येतावत्यो हर्चो याः प्रजापतिसृष्टास्तास्त्रिंशत्तमे व्यूहे पङ्क्तिष्वतिष्ठन्त ता यत्त्रिंशत्तमे व्यूहेऽतिष्ठन्त तस्मात्त्रिंशन्मासस्य रात्रयोऽथ यत्पङ्क्तिषु तस्मात्पाङ्क्तः प्रजापतिस्ता अष्टाशतं शतानि पङ्क्तयोऽभवन्॥
अथेतरौ वेदौ व्यौहत्॥
द्वादशैव बृहतीसहस्राण्यष्टौ यजुषां चत्वारि साम्नामेतावद्धैतयोर्वेदयोर्यत्प्रजापतिसृष्टं तौ त्रिंशत्तमे व्यूहे पङ्क्तिष्वतिष्ठेतां तौ यत्त्रिंशत्तमे व्यूहेऽतिष्ठेतां तस्मात्त्रिंशन्मासस्य रात्रयोऽथ यत्पङ्क्तिषु तस्मात्पाङ्क्तः प्रजापतिस्ता अष्टाशतमेव शतानि पङ्क्तयोऽभवन्॥
ते सर्वे त्रयो वेदाः॥
दश च सहस्राण्यष्टौ च शतान्यशीतोनामभवन्त्स मुहूर्तेन-मुहूर्तेनाशीतिमाप्नोन्मुहूर्तेन-मुहूर्तेनाशीतिः समपद्यत॥
स एस्-उ त्रिषु लोकेषूखायाम्॥
योनौ रेतो भूतमात्मानमसिञ्चच्छन्दोमयं स्तोममयम् प्राणमयं देवतामयं तस्यार्धमासे प्रथम आत्मा समस्क्रियत दवीयसि परो दवीयसि परः संवत्सर एव सर्वः कृत्स्नः समस्क्रियत॥
तद्यत्परिश्रितमुपाधत्त॥
तद्रात्रिमुपाधत्त तदनु पञ्चदश मुहूर्तान्मुहूर्ताननु पञ्चदशाशीतीरथ यद्यजुष्मतीमुपाधत्त तदहरुपाधत्त तदनु पञ्चदश मुहूर्तान्मुहूर्ताननु पञ्चदशाशीतीरेवमेतां त्रयीं विद्यामात्मन्नावपतात्मन्नकुरुत सोऽत्रैव सर्वेषाम् भूतानामात्माभवच्छन्दोमय स्तोममयः प्राणमयो देवतामयः स एतन्मय एव भूत्वोर्ध्व उदक्रामत्स यः स उदक्रामदेष स चन्द्रमाः॥
तस्यैषा प्रतिष्ठा॥
य एष तपत्येतस्मादेवाध्यचीयतैतस्मिन्नध्यचीयतात्मन एवैनं तन्निरमिमीतात्मनः प्राजनयत्॥
स यदग्निं चेष्यमाणो दीक्षते॥
यथैव तत्प्रजापतिरेषु त्रिषु लोकेषूखायां योनौ रेतो भूतमात्मानमसिञ्चदेवमेवैष एतदात्मानमुखायां योनौ रेतो भूतं सिञ्चति छन्दोमयं स्तोममयम् प्राणमयं देवतामयं तस्यार्धमासे प्रथम आत्मा संस्क्रियते दवीयसि परो दवीयसि परः संवत्सर एव सर्वः कृत्स्नः संस्क्रियते॥
तद्यत्परिश्रितमुपधत्ते॥
तद्रात्रिमुपधत्ते तदनु पञ्चदश मुहूर्तान्मुहूर्ताननु पञ्चदशाशीतीरथ यद्यजुष्मतीमुपधत्ते तदहरुपधत्ते तदनु पञ्चदश मूहूर्तान्मुहूर्ताननु पञ्चदशाशीतीरेवमेतां त्रयीं विद्यामात्मन्नावपत आत्मन्कुरुते सोऽत्रैव सर्वेषाम् भूतानामात्मा भवति छन्दोमय स्तोममयः प्राणमयो देवतामयः स एतन्मय एव भूत्वोर्ध्व उत्क्रामति॥
तस्यैषा प्रतिष्ठा॥
य एष तपत्येतस्माद्वेवाधिचीयत एतस्मिन्नधिचीयत आत्मन एवैनं तन्निर्मिमीत आत्मनः प्रजनयति स यदैवंविदस्माल्लोकात्प्रैत्यथैतमेवात्मानमभिसम्भवति छन्दोमयम् प्राणमयं देवतामयं स एतन्मय एव भूत्वोर्ध्व उत्क्रामति य एवं विद्वानेतत्कर्म कुरुते यो वैतदेवं वेद॥
एष वै मृत्युर्यत्संवत्सरः॥
एष हि मर्त्यानामहोरात्राभ्यामायुः क्षिणोत्यथ म्रियन्ते तस्मादेष एव मृत्युः स यो हैतम् मृत्युं संवत्सरं वेद न हास्यैष पुरा जरसोऽहोरात्राभ्यामायुः क्षिणोति सर्वं हैवायुरेति॥
एष उ एवान्तकः॥
एष हि मर्त्यानामहोरात्राभ्यामायुषोऽन्तं गछत्यथ म्रियन्ते तस्मादेष एवान्तकः स यो हैतमन्तकम् मृत्युं संवत्सरं वेद न हास्यैष पुरा जरसोऽहोरात्राभ्यामायुषोऽन्तं गछति सर्वं हैवायुरेति॥
ते देवाः॥
एतस्मादन्तकान्मृत्योः संवत्सरात्प्रजापतेर्बिभयां चक्रुर्यद्वै नोऽयमहोरात्राभ्यामायुषोऽन्तं न गछेदिति॥
त एतान्यज्ञक्रतूंस्तेनिरे॥
अग्निहोत्रं दर्शपूर्णमासौ चातुर्मास्यानि पशुबन्धं सौम्यमध्वरं त एतैर्यज्ञक्रतुभिर्यजमाना नामृतत्वमानशिरे॥
ते हाप्यग्निं चिक्यिरे॥
तेऽपरिमिता एव परिश्रित उपदधुरपरिमिता यजुष्मतीरपरिमिता लोकम्पृणा यथेदमप्येतर्ह्येक उपदधतीति देवा अकुर्वन्निति ते ह नैवामृतत्वमानशिरे॥
तेऽर्चन्तः श्राम्यन्तश्चेरुः॥
अमृतत्वमवरुरुत्समानास्तान्ह प्रजापतिरुवाच न वै मे सर्वाणि रूपाण्युपधत्थाति वैव रेचयथ न वाभ्यापयथ तस्मान्नामृता भवथेति॥
ते होचुः॥
तेभ्यो वै नस्त्वमेव तद्ब्रूहि यथा ते सर्वाणि रूपाण्युपदधामेति॥
स होवाच॥
षष्टिं च त्रीणि च शतानि परिश्रित उपधत्त षष्टिं च त्रीणि च शतानि यजुष्मतीरधि षट्त्रिंशतमथ लोकम्पृणा दश च सहस्राण्यष्टौ च शतान्युपधत्ताथ मे सर्वाणि रूपाण्युपधास्यथाथामृता भविष्यथेति ते ह तथा देवा उपदधुस्ततो देवा अमृता आसुः॥
स मृत्युर्देवानब्रवीत्॥
इत्थमेव सर्वे मनुष्या अमृता भविष्यन्त्यथ को मह्यम् भागो भविष्यतीति ते होचुर्नातोऽपरः कश्चन सह शरीरेणामृतोऽसद्यदैव त्वमेतम् भागं हरासा अथ व्यावृत्य शरीरेणामृतोऽसद्योऽमृतोऽसद्विद्यया वा कर्मणा वेति यद्वै तदब्रुवन्विद्यया वा कर्मणा वेत्येषा हैव सा विद्या यदग्निरेतदु हैव तत्कर्म यदग्निः॥
ते य एवमेतद्विदुः॥
ये वैतत्कर्म कुर्वते मृत्वा पुनः सम्भवन्ति ते सम्भवन्त एवामृतत्वमभिसम्भवन्त्यथ य एवं न विदुर्ये वैतत्कर्म न कुर्वते मृत्वा पुनः सम्भवन्ति त एतस्यैवान्नम् पुनः-पुनर्भवन्ति॥
स यदग्निं चिनुते॥
एतमेव तदन्तकम् मृत्युं संवत्सरम् प्रजापतिमग्निमाप्नोति यं देवा आप्नुवन्नेतमुपधत्ते यथैवैनमदो देवा उपादधत॥
परिश्रिद्भिरेवास्य रात्रीराप्नोति॥
यजुष्मतीभिरहान्यर्धमासान्मासानृतूंलोकमृणाभिर्मुहूर्तान्॥
तद्याः परिष्रितः॥
रात्रिलोकास्ता रात्रीणामेव साप्तिः क्रियते रात्रीणाम् प्रतिमा ताः षष्टिश्च त्रीणि च शतानि भवन्ति षष्टिश्च ह वै त्रीणि च शतानि संवत्सरस्य रात्रयस्तासामेकविंशतिं गार्हपत्ये परिश्रयति द्वाभ्यां नाशीतिं धिष्ण्येषु द्वे एकषष्टे शते आहवनीये॥
अथ यजुष्मत्यः॥
दर्भस्तम्बो लोगेष्टकाः पुष्करपर्णं रुक्मपुरुषौ स्रुचौ स्वयमातृणा दूर्वेष्टका द्वियजू रेतःसिचौ विश्वज्योतिरृतव्ये अषाढा कूर्म उलूखलमुसले उखा पञ्च पशुशीर्षणि पञ्चदशापस्याः पञ्च छन्दस्याःः॥
अथ द्वितीया॥
पञ्चाश्विन्यो द्वे ऋतव्ये पञ्च वैश्वदेव्यः पञ्च प्राणभृतः पञ्चापस्या एकया न विंशतिर्वयस्यास्ता एकचत्वारिंशद्द्वितीया चितिः॥
अथ तृतीया॥
स्वयमातृणा पञ्च दिश्या विश्वज्योतिश्चतस्र ऋतव्या दश प्राणभृतः षट्त्रिंशच्छन्दस्याश्चतुर्दश वालखिल्यास्ता एकसप्ततिस्तृतीया चितिः॥
अथ चतुर्थी॥
अष्टादश प्रथमा अथ द्वादशाथ सप्तदश ताः सप्तचत्वारिंशच्चतुर्थी चितिः॥
अथ पञ्चमी॥
पञ्चासपत्नाश्चत्वारिंशद्विराज एकया न त्रिंशत्स्तोमभागाः पञ्च नाकसदः पञ्च पञ्चचूडा एकत्रिंशच्छन्दस्या अष्टौ गार्हपत्यो चितिरष्टौ पुनश्चितिरृतव्ये विश्वज्योतिर्विकर्णी च स्वयमातृणा चाश्मा पृश्निर्यश्चितेऽग्निर्निधीयते ता अष्टात्रिंशं शतम् पञ्चमी चितिः॥
ताः सर्वाः पञ्चभिर्न चत्वारि शतानि॥
तयो याः षष्टिश्च त्रीणि च शतान्यहर्लोकास्ता अह्नामेव साप्तिः क्रियतेऽह्नाम् प्रतिमा ताः षष्टिश्च त्रीणि च शतानि भवन्ति षष्टिश्च ह वै त्रीणि च शतानि संवत्सरस्याहान्यथ याः षट्त्रिंशत्पुरीषं तासां षट्त्रिंशी ततो याश्चतुर्विंशतिरर्धमासलोकास्ता अर्धमासानामेव साप्तिः क्रियतेऽर्धमासानाम् प्रतिमाथ या द्वादश मासलोकास्ता मासानामेव साप्तिः क्रियते मासानाम् प्रतिमा ता उ द्व-द्वे सहर्तुलोका ऋतूनामशून्यतायै॥
अथ या लोकम्पृणाः॥
मुहुर्तलोकास्ता मुहूर्तानामेव साप्तिः क्रियते मुहूर्तानाम् प्रतिमा ता दश च सहस्राण्यष्टौ च शतानि भवन्त्येतावन्तो हि संवत्सरस्य मुहूर्तास्तासामेकविह्+शतिं गार्हपत्य उपदधाति द्वाभ्यां नाशीतिं धिष्ण्येष्वाहवनीय इतरा एतावन्ति वै संवत्सरस्य रूपाणि तान्यस्यात्राप्तान्युपहितानि भवन्ति॥
तद्धैके॥
आहवनीय एवैतां सम्पदमापिपयिषन्त्यन्ये वा एतेऽग्नयश्चिताः किमन्यत्रोपहिता इह सम्पश्येमेति न तथा कुर्याद्दश वा एतानग्नींश्चिनुतेऽष्टौ धिष्ण्यानाहवनीयं च गार्हपत्यं च तस्मादाहुर्विराडग्निरिति दशाक्षरा हि विराट् तान्नु सर्वानेकमिवैवाचक्षतेऽग्निरित्येतस्य ह्येवैतानि सर्वाणि रूपाणि यथा संवत्सरस्याहोरात्राण्यर्धमासा मासा ऋतव एवमस्यैतानि सर्वाणि रूपाणि॥
ते ये ह तथा कुर्वन्ति॥
एतानि हास्य ते रूपाणि बहिर्धा कुर्वन्त्यथो पापवस्यसं कुर्वन्ति क्षत्राय विशम् प्रतिप्रतिनीम् प्रत्युद्यामिनीमाग्नीध्रीये वा अश्मानम् पृश्निमुपदधात्यथ तं सम्पश्यति किमु तं सम्पश्यन्नितरा न सम्पश्येद्येनैव निरृतिम् पाप्मानमपहते स एकादशः॥
तदाहुः॥
कथमु ता अत्र न सम्पश्यतीति न ह्येना अभिजुहोत्याहुत्या वा इष्टका सर्वा कृत्स्ना भवतीति॥
तदाहुः॥
कथमस्यैता अनतिरिक्ता उपहिता भवन्तीति वीर्यं वा अस्यैता अनतिरिक्तं वै पुरुषं वीर्यं स ह वा एतं सर्वं कृत्स्नम् प्रजापतिं संस्करोति य एवं विद्वानेतत्कर्म कुरुते यो वैतदेवं वेद॥
प्रजापतिं वै प्रजाः सृजमानम्॥
पाप्मा मृत्युरभिपरिजघान स तपोऽतप्यत सहस्रं संवत्सरान्पाप्मानं विजिहासन्॥
तस्य तपस्तेपानस्य॥
एभ्यो लोमगर्तेभ्य ऊर्ध्वानि ज्योतींष्यायंस्तद्यानि तानि ज्योतींष्येतानि तानि नक्षत्राणि यावन्त्येतानि नक्षत्राणि तावन्तो लोमगर्ता यावन्तो लोमगर्तास्तावन्तः सहस्रसंवत्सरस्य मुहूर्ताः॥
स सहस्रतमे संवत्सरे॥
सर्वोऽत्यपवत स यः सोऽत्यपवतायमेव स वायुर्योऽयम् पवतेऽथ यं तम् पाप्मानमत्यपवतेदं तछरीरं क उ तस्मै मनुष्यो यः सहस्रसंवत्सरमवरुन्धीत विद्यया ह वा एवंवित्सहस्रसंवत्सरमवरुन्द्धे॥
सर्वा एवैता इष्टकाः साहस्रीरुपासीत॥
रात्रिसहस्रेण रात्रिसहस्रेणैकैकाम् परिश्रितं सम्पन्नामुपासीताहःसहस्रेणाहःसहस्रेणैकैकामहर्भाजमर्धमाससहस्रेणार्धमाससहस्रेणैकैकामर्धमासभाजम् माससहस्रेण-माससहस्रेणैकैकाम् मासभाजमृतुसहस्रेणर्तृसहस्रेणैकैकामृतुभाजम् मुहूर्तसहस्रेण-मुहूर्तसहस्रेणैकैकाम् मुहूर्तभाजं संवत्सरसहस्रेण संवत्सरं ते य एतमेवमग्निं संवत्सरेण सम्पन्नं विदुः सहस्रतमीं हास्य ते कलां विदुरथ य एनमेवं न विदुर्न हास्य ते सहस्रतमीं चन कलां विदुरथ य एवैवं वेद यो वैतत्कर्म कुरुते स हैवैतं सर्वं कृत्स्नम् प्राजापत्यमग्निमाप्नोति यम् प्रजापतिराप्नोत्तस्मादेवंवित्तप एव तप्येत यदु ह वा एवंवित्तप तप्यत आ मैथुनात्सर्वं हास्य तत्स्वर्गं लोकमभिसम्भवति॥
तदेतदृचाभ्युक्तम्॥
न मृषा श्रान्तं यदवन्ति देवा इति न हैवैवं विदुषः किं चन मृषा श्रान्तम् भवति तथो हास्यैतत्सर्वं देवा अवन्ति॥
अथादेशा उपनिषदाम्॥
वायुरग्निरिति ह शाकायनिन उपासत आदित्योऽग्निरित्यु हैक आहुरथ ह स्माह श्रौमत्यो वा हालिङ्गवो वा वायुरेवाग्निस्तस्माद्यदैवाध्वर्युरुत्तमं कर्म करोत्यथैतमेवाप्येतीति॥
शाट्यायनिरु ह स्माह॥
संवत्सर एवाग्निस्तस्य वसन्तः शिरो ग्रीष्मो दक्षिणः पक्षो वर्षा उत्तरः शरदृतुर्मध्यमात्मा हेमन्तशिशिरावृतू पुछम् प्रतिष्ठा वागग्निः प्राणो वायुश्चक्षुरादित्यो मनश्चन्द्रमाः श्रोत्रं दिश आपो मिथुनं तपः प्रतिष्ठा मासाः पर्वाण्यर्धमासा नाड्योऽहोरात्राणि रजतसुवर्णानि पत्राणि स एवं देवानप्येतीति संवत्सरोऽग्निरित्यु हैव विद्यादेतन्मयो भवतीति त्वेव विद्यात्॥
चेलक उ ह स्माह शाण्डिल्यायनः॥
इम एव लोकास्तिस्रः स्वयमातृणवत्यश्चितयो यजमानश्चतुर्थी सर्वे कामाः पञ्चमीमांश्च लोकान्त्संस्कुर्व आत्मानं च सर्वांश्च कामानित्येव विद्यादिति॥