प्राणो गायत्री॥
चक्षुरुष्णिग्वागनुष्टुम्मनो बृहती श्रोत्रम् पङ्क्तिर्य एवायम् प्रजननः प्राण एष त्रिष्टुबथ योऽयमवाङ् प्राण एष जगती तानि वा एतानि सप्त छन्दांसि चतुरुत्तराण्यग्नौ क्रियन्ते॥
प्राणो गायत्रीति॥
तद्य एव प्राणस्य महिमा यद्वीर्यं तदेतत्सहस्रम् प्राणस्यैवैतद्वीर्यं यद्ध्यस्य चिन्वतः प्राण उत्क्कामेत्तत एवैषोऽग्निर्न चीयेतैतेनैवास्य रूपेण सहस्रमेष गायत्रीः सञ्चितो भवति॥
चक्षुरुष्णिगिति॥
तद्य एव चक्षुषो महिमा यद्वीर्यं तदेतत्सहस्रं चक्षुष एवैतद्वीर्यं यद्ध्यस्य चिन्वतश्चक्षुरुत्क्रामेत्तत एवैषोऽग्निर्न चीयेतैतेनैवास्य रूपेण सहस्रमेष उष्णिहः सञ्चितो भवति॥
वागनुष्टुबिति॥
तद्य एव वाचो महिमा यद्वीर्यं तदेतत्सहस्रं वाच एवैतद्वीर्यं यद्ध्यस्य चिन्वतो वागुत्क्रामेत्तत एवैषोऽग्निर्न चीयेतैतेनैवास्य रूपेण सहस्रमेषोऽनुष्टुभः सञ्चितो भवति॥
मनो बृहतीति॥
तद्य एव मनसो महिमा यद्वीर्यं तदेतत्सहस्रम् मनस एवैतद्वीर्यं यद्ध्यस्य चिन्वतो मन उत्क्रामेत्तत एवैषोऽग्निर्न चीयेतैतेनैवास्य रूपेण सहस्रमेष बृहतीः सञ्चितो भवति॥
श्रोत्रम् पङ्क्तिरिति॥
तद्य एव श्रोत्रस्य महिमा यद्वीर्यं तदेतत्सहस्रं श्रोत्रस्यैवैतद्वीर्यं यद्ध्यस्य चिन्वतः श्रोत्रमुत्क्रामेत्तत एवैषोऽग्निर्न चीयेतैतेनैवास्य रूपेण सहस्रमेष पङ्क्तीः सञ्चितो भवति॥
य एवायम् प्रजननः प्राणः॥
एष त्रिष्टुबिति तद्य एवैतस्य प्राणस्य महिमा यद्वीर्यं तदेतत्सहस्रमेतस्यैवैतत्प्राणस्य वीर्यं यद्ध्यस्य चिन्वत एष प्राण आलुभ्येत्तत एवैषोऽग्निर्न चीयेतैतेनैवास्य रूपेण सहस्रमेष त्रिष्टुभः सञ्चितो भवति॥
अथ योऽयमवाङ् प्राणः॥
एष जगतीति तद्य एवैतस्य प्राणस्य महिमा यद्वीर्यं तदेतत्सहस्रमेतस्यैवैतत्प्राणस्य वीर्यं यद्ध्यस्य चिन्वत एष प्रल्ण आ६उभ्येत्तत एवैषोऽग्निर्न चीयेतैतेनैवास्य रूपेण सहस्रमेष जगतीः सञ्चितो भवति॥
तानि वा एतानि॥
सप्त छन्दांसि चतुरुत्तराण्यन्योऽन्यस्मिन्प्रतिष्ठितानि सप्तेमे पुरुषे प्राणा अन्योऽन्यस्मिन्प्रतिष्ठितास्तद्यावन्तमेवंविच्छन्दसां गणमन्वाह छन्दसश्छन्दसो हैवास्य सोऽनूक्तो भवति स्तुतो वा शस्तो वोपहितो वा॥
तदाहुः॥
किं छन्दः का देवताग्नेः शिर इति गायत्री छन्दोऽग्निर्देवता शिरः॥
किं छन्दः॥
का देवता ग्रीवा इत्युष्णिक्छन्दः सविता देवता ग्रीवाः॥
किं छन्दः॥
का देवतानूकमिति बृहती छन्दो बृहस्पतिर्देवतानूकम्॥
किं छन्दः॥
का देवता पक्षाविति बृहद्रथन्तरे छन्दो द्यावापृथिवी देवते पक्षौ॥
किं छन्दः॥
का देवता मध्यमिति त्रिष्टुप्छन्द इन्द्रो देवता मध्यम्॥
किं छन्दः॥
का देवता श्रोणी इति जगती छन्द आदित्यो देवता श्रो णी॥
किं छन्दः॥
का देवता यस्मादिदम् प्राणाद्रेतः सिच्यत इत्यतिच्छन्दाश्छन्दः प्रजापतिर्देवता॥
किं छन्दः॥
का देवता योऽयमवाङ् प्राण इति यज्ञायज्ञियं छन्दो वैश्वानरो देवता॥
किं छन्दः॥
का देवतोरू इत्यनुष्टुप्छन्दो विश्वे देवा देवतोरू॥
किं छन्दः॥
का देवताष्ठीवन्ताविति पङ्क्तिश्छन्दो मरुतो देवताष्ठीवन्तौ॥
किं छन्दः॥
का देवता प्रतिष्ठे इति द्विपदा छन्दो विष्णुर्देवता प्रतिष्ठे॥
किं छन्दः॥
का देवता प्राणा इति विच्छन्दाश्छन्दो वायुर्देवता प्राणाः॥
किं छन्दः॥
का देवतोनातिरिक्तानीति न्यूनाक्षरा छन्द आपो देवतोनातिरिक्तानि सैषात्मविद्यैवैतन्मयो हैवैता देवता एतमात्मानमभिसम्भवति न हात्रान्या लोक्यताया आशीरस्ति॥
धीरो ह शातपर्णेयः॥
महाशालं जाबालमुपोत्ससाद तं होवाच किम् मा विद्वानुपोदसद इत्यग्निं वेदेति कमग्निं वेत्थेति वाचमिति यस्तमग्निं वेद किं स भवतीति वाग्मी भवतीति होवाच नैनं वाग्जहातीति॥
वेत्थाग्निमिति होवाच॥
किमेव मा विद्वानुपोदसद इत्यग्निं वेदेति कमग्निं वेत्थेति चक्षुरिति यस्तमग्निं वेद किं स भवतीति चक्षुष्मान्भवतीति होवाच नैनं चक्षुर्जहातीति॥
वेत्थाग्निमिति होवाच॥
किमेव मा विद्वानुपोदसद इत्यग्निं वेदेति कमग्निं वेत्थेति मन इति यस्तमग्निं वेद किं स भवतीति मनस्वी भवतीति होवाच नैनम् मनो जहातीति॥
वेत्थाग्निमिति होवाच॥
किमेव मा विद्वानुपोदसद इत्यग्निं वेदेति कमग्निं वेत्थेति श्रोत्रमिति यस्तमग्निं वेद किं स भवतीति श्रोत्रवान्भवतीति होवाच नैनं श्रोत्रं जहातीति॥
वेत्थाग्निमिति होवाच॥
किमेव मा विद्वानुपोदसद इत्यग्निं वेदेति कमग्निं वेत्थेति य एतत्सर्वमग्निस्तं वेदेति तस्मिन्होक्त उपावरुरोहाधीहि भोस्तमग्निमिति॥
स होवाच॥
प्राणो वाव सोऽग्निर्यदा वै पुरुषः स्वपिति प्राणं तर्हि वागप्येति प्राणं चक्षुः प्राणम् मनः प्राणं श्रोत्रं यदा प्रबुध्यते प्राणादेवाधि पुनर्जायन्त इत्यध्यात्मम्॥
अथाधिदेवतम्॥
या वै सा वागग्निरेव स यत्तच्चक्षुरसौ स आदित्यो यत्तन्मन एष स चन्द्रमा यत्तछ्रोत्रं दिश एव तदथ यः स प्राणोऽयमेव स वायुर्योऽयम् पवते॥
यदा वा अग्निरनुगछति॥
वायुं तर्ह्यनूद्वाति तस्मादेनमुदवासीदित्याहुर्वायुं ह्यनूद्वाति यदादित्योऽस्तमेति वायुं तर्हि प्रविशति वायुं चन्द्रमा वायौ दिशः प्रतिष्ठिता वायोरेवाधि पुनर्जायन्ते स यदैवंविदस्माल्लोकात्प्रैति वाचैवाग्निमप्येति चक्षुषादित्यम् मनसा चन्द्रं श्रोत्रेण दिशः प्राणेन वायुं स एतन्मय एव भूत्वैतासां देवतानां यां-यां कामयते सा भूत्वेलयति॥
श्वेतकेतुर्हारुणेयः॥
यक्ष्यमाण आस तं ह पितोवाच कानृत्विजोऽवृथा इति स होवाचायं न्वेव मे वैश्वावसव्यो होतेति तं ह पप्रछ वेत्थ ब्राह्मण वैश्वावसव्य॥
चत्वारि महान्ती३ इति॥
वेद भो३ इति होवाच वेत्थ चत्वारि महताम् महान्ती३ इति वेद भो३ इति होवोच वेत्थ चत्वारि व्रतानि३ इति वेद भो३ इति होवाच वेत्थ चत्वारि व्रतानां व्रतानी३ इति वेद भो३ इति होवाच वेत्थ चत्वारि क्यानी३ इति वेद भो३ इति होवाच वेत्थ चत्वारि क्यानां क्यानी३ इति वेद भो३ इति होवाच वेत्थ चतुरोऽर्का३निति वेद भो३ इति होवाच वेत्थ चतुरोऽर्काणामर्का३निति वेद भो३ इति होवाच॥
वेत्थार्कमिति॥
अथ वै नो भवान्वक्ष्यतीति वेत्थार्कपर्णे इत्यथ वै नो भवान्वक्ष्यतीति वेत्थार्कपुष्पे इत्यथ वै नो भवान्वक्ष्यतीति वेत्थार्ककोश्यावित्यथ वै नो भवान्वक्ष्यतीति वेत्थार्कसमुद्गावित्यथ वै नो भवान्वक्ष्यतीति वेत्थार्कधाना इत्यथ वै नो भवान्वक्ष्यतीति वेत्थार्काष्ठीलामित्यथ वै नो भवान्वक्ष्यतीति वेत्थार्कमूलमित्यथ वै नो भवान्वक्ष्यतीति॥
स ह वै यत्तदुवाच॥
वेत्थ चत्वारि महान्ति वेत्थ चत्वारि महताम् महान्तीत्यग्निर्महांस्तस्य महतो महदोषधयश्च वनस्पतयश्च तद्ध्यस्यान्नं वायुर्महांस्तस्य महतो महदापस्तद्ध्यस्यान्नमादित्यो महांस्तस्य महतो महच्चन्द्रमास्तद्ध्यस्यान्नम् पुरुषो महांस्तस्य महतो महत्पशवस्तद्ध्यस्यान्नमेतान्येव चत्वारि महान्त्येतानि चत्वारि महताम् महान्त्येतान्येव चत्वारि व्रतान्येतानि चत्वारि व्रतानां व्रतान्येतान्येव चत्वारि क्यान्येतानि चत्वारि क्यानां क्यान्येत एव चत्वारोऽर्का एते चत्वारोऽर्काणामर्काः॥
अथ ह वै यत्तदुवाच॥
वेत्थार्कमिति पुरुषं हैव तदुवाच॥
वेत्थार्कपर्णे इति कर्णौ हैव तदुवाच वेत्थार्कपुष्पे इत्यक्षिणी हैव तदुवाच वेत्थार्ककोश्याविति नासिके हैव तदुवाच वेत्थार्कसमुद्गावित्योष्ठौ हैव तदुवाच वेत्थार्कधाना इति दन्तान्हैव तदुवाच वेत्थार्काष्ठीलामिति जिह्वां हैव तदुवाच वेत्थार्कमूलमित्यन्नं हैव तदुवाच स एषोऽग्निरर्को यत्पुरुषः स यो हैतमेवमग्निमर्कम् पुरुषमुपास्तेऽयमहमग्निरर्कोऽस्मीति विद्यया हैवास्यैष आत्मन्नग्निरर्कश्चितो भवति॥
अयं वाव यजुर्योऽयम् पवते॥
एष हि यन्नेवेदं सर्वं जनयत्येतं यन्तमिदमनु प्रजायते तस्माद्वायुरेव यजुः॥
अयमेवाकाशो जूः॥
यदिदमन्तरिक्षमेतं ह्याकाशमनु जवते तदेतद्यजुर्वायुश्चान्तरिक्षं च यच्च जूश्च तस्माद्यजुरेष एव यदेष ह्येति तदेतद्यजुरृक्सामयोः प्रतिष्ठितमृक्सामे वहतस्तस्मात्समानैरेवाध्वयुर्ग्रहैः कर्म करोत्यन्यान्यन्यानि स्तुतशस्त्राणि भवन्ति यथा पूर्वाभ्यां स्यन्त्त्वापराभ्यां धावयेत्तादृक्तत्॥
अग्निरेव पुरः॥
अग्निं हि पुरस्कृत्येमाः प्रजा उपासत आदित्य एव चरणं यदा ह्येवैष उदेत्यथेदं सर्वं चरति तदेतद्यजुः सपुरश्चरणमधिदेवतं॥
अथाध्यात्मम्॥
प्राण एव यजुः प्राणो हि यन्नेवेदं सर्वं जनयति प्राणं यन्तमिदमनु प्रजायते तस्मात्प्राण एव यजुः॥
अयमेवाकाशो जूः॥
योऽयमन्तरात्मन्नाकाश एतं ह्याकाशमनु जवते तदेतद्यजुः प्राणश्चाकाशश्च यच्च जूश्च तस्माद्यजुः प्राण एव यत्प्राणो ह्येति॥
अन्नमेव यजुः॥
अन्नेन हि जायतेऽन्नेन जवते तदेतद्यजुरन्ने प्रतिष्ठितमन्नं वहति तस्मात्समान एव प्राणेऽन्यदन्यदन्नं धीयते॥
मन एव पुरः॥
मनो हि प्रथमम् प्राणानां चक्षुरेव चरणं चक्षुषा ह्ययमात्मा चरति तदेतद्यजुः सपुरश्चरणमधिदेवतं चाध्यात्मं च प्रतिष्ठितं स यो हैतदेवं यजुः सपुरश्चरणमधिदेवतं चाध्यात्मं च प्रतिष्ठितं वेद॥
अरिष्टो हैवानार्तः॥
स्वस्ति यज्ञस्योदृचमश्नुते स्वानां श्रेष्ठः पुरएता भवत्यन्नादोऽधिपतिर्य एवं वेद॥
य उ हैवंविदं॥
स्वेषु प्रतिप्रतिर्बुभूषति न हैवालम् भार्येभ्यो भवत्यथ य एवैतमनुभवति यो वै तमनु भार्यान्बुभूर्षति स हैवालम् भार्येभ्यो भवति॥
तदेतज्ज्येष्ठम् ब्रह्म॥
न ह्येतस्मात्किं चन ज्यायोऽस्ति ज्येष्ठो ह वै श्रेष्ठः स्वानाम् भवति य एवं वेद॥
तदेतद्ब्रह्मापूर्वमपरवत्॥
स यो हैतदेवम् ब्रह्मापूर्वमपरवद्वेद न हास्मात्कश्चन श्रेयान्त्ममानेषु भवति श्रेयांसः श्रेयांसो हैवास्मादपरपुरुषा जायन्ते तस्माद्योऽस्माज्ज्यायान्त्स्याद्दिशोऽस्मात्पूर्वा इत्युपासीत तथो हैनं न हिनस्ति॥
तस्य वा एतस्य यजुषः॥
रस एवोपनिषत्तस्माद्यावन्मात्रेण यजुषाध्वर्युर्ग्रहं गृह्णाति स उभे स्तुतशस्त्रे अनुविभवत्युभे स्तुतशस्त्रे अनुव्यश्नुते तस्माद्यावन्मात्र इवान्नस्य रसः सर्वमन्नमवति सर्वमन्नमनुव्येति॥
तृप्तिरेवास्य गतिः॥
तस्माद्यदान्नस्य तृप्यत्यथ स गत इव मन्यत आनन्द एवास्य विज्ञानमात्मानन्दात्मानो हैव सर्वे देवाः सा हैषैव देवानामद्धाविद्या स ह स न मनुष्यो य एवंविद्देवानां हैव स एकः॥
एतद्ध स्म वै तद्विद्वान्प्रियव्रतो रौहिणायन आह॥
वायुं वान्तमानन्दस्त आत्मेतो वा वाहितो वेति स ह स्म तथैव वाति तस्माद्यां देवेष्वाशिषमिच्छेदेतेनैवोपतिष्ठेतानन्दो व आत्मासौ मे कामः स मे समृध्यतामिति सं हैवास्मै स काम ऋध्यते यत्कामो भवत्येतां ह वै तृप्तिमेतां गतिमेतमानन्दमेतमात्मानमभिसम्भवति य एवं वेद॥
तदेतद्यजुरुपांश्वनिरुक्तम्॥
प्राणो वै यजुरुपांश्वायतनो वै प्राणस्तद्य एनं निर्ब्रुवन्तम् ब्रूयादनिरुक्तां देवतां निरवोचत्प्राण एनं हास्यतीति तथा हैव स्यात्॥
तस्य ह यो निरुक्तमाविर्भावं वेद॥
आविर्भवति कीर्त्या यशसोपांशु यजुषाध्वर्युर्ग्रहं गृह्णाति गृहीतः सन्न आविर्भवत्युपांशु यजुषाग्निं चिनोति चितः सञ्चित आविर्भवत्युपांशु यजुषा हविर्निर्वपति शृतं निष्ठितमाविर्भवत्येवं यत्किं चोपांशु करोति कृतं निष्ठितमाविर्भवति तस्य ह य एतमेवं निरुक्तमाविर्भावं वेदाविर्भवति कीर्त्या यशसा ब्रह्मवर्चसेन क्षिप्र उ हैवाविदं गछति स ह यजुरेव भवति यजुषैनमाचक्षते॥