प्रजापतिः स्वर्गं लोकमजिगांसत्॥
सर्वे वै पशवः प्रजापतिः पुरुषोऽश्वो गौरविरजः स एतै रूपैर्नाशक्नोत्स एतं वयोविधमात्मानमपश्यदग्निं तं व्यधत्त सोऽनुपसमुह्यानुपाधायोदपिपतिषत्स नाशक्नोत्स उपसमुह्योपधायोदपतत्तस्मादप्येतर्हि वयांसि यदैव पक्षा उपसमूहन्ते यदा पत्राणि विसृजन्तेऽथोत्पतितुं शक्नुवन्ति॥
तं वा अङ्गुलिभिर्मिमीते॥
पुरुषो वै यज्ञस्तेनेदं सर्वम् मितं तस्यैषावमा मात्रा यदङ्गुलयस्तद्यास्यावमा मात्रा तामस्य तदाप्नोति तयैनं तन्मिमीते॥
चतुर्विंशत्याङ्गुलिभिर्मिमीते॥
चतुर्विंशत्यक्षरा वै गायत्री गायत्रोऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनं तन्मिमीते॥
स चतुरङ्गुलमेवोभयतोऽन्तरत उपसमूहति॥
चतुरङ्गुलमुभयतो बाह्यतो व्युदूहति तद्यावदेवोपसमूहति तावद्व्युदूहति तन्नाहैवातिरेचयति नो कनीयः करोति तथा पुछस्य तथोत्तरस्य पक्षस्य॥
अथ निर्णामौ पक्षयोः करोति॥
निर्णामौ हि वयसः पक्षयोर्भवतो वितृतीये वितृतीये हि वयसः पक्षयोर्निर्णामौ भवतोऽन्तरे वितृतीयेऽन्तरे हि वितृतीये वयसः पक्षयोर्निर्णामौ भवतः स चतुरङ्गुलमेव पुरस्तादुदूहति चतुरङ्गुलम् पश्चादुपसमूहति तद्यावदेवोदूहति तावदुपसमूहति तन्नाहैवातिरेचयति नो कनीयः करोति॥
स तस्मिन्निर्णामे॥
एकामिष्टकामुपदधाति तद्येयं वयसः पततो निर्णामादेका नाड्युपशेते तां तत्करोत्यथो इदम्॥
अथ वक्रौ करोति॥
वक्रौ हि वयसः पक्षौ भवतः स चतुरङ्गुलमेव पश्चादुदूहति चतुरङ्गुलम् पुरस्तादुपसमूहति तद्यावदेवोदूहति तावदुपसमूहति तन्नाहैवातिरेचयति नो कनीयः करोति॥
अथ रूपमूत्तमं करोति॥
अत्रैष सर्वोऽग्निः संस्कृतस्तस्मिन्देवा एतद्रूपमुत्तममदधुस्तथैवास्मिन्नयमेतद्रूपमुत्तमं दधाति स सहस्रमृज्वालिखिता इष्टकाः करोति सहस्रमित्यालिखिताः सहस्रमित्यालिखिताः॥
अथ पञ्चमीं चितिमुपधाय॥
त्रेधाग्निं विमिमीते स मध्यमे वितृतीये सहस्रमृज्वालिखिता इष्टका उपदधाति तद्यानीमानि वयसः प्रत्यञ्चि शीर्ष्ण आ पुछादृजूनि लोमानि तानि तत्करोति॥
अथ सहस्रमित्यालिखिता दक्षिणत उपदधाति॥
तद्यानीमानि वयसो दक्षिणतो वक्राणि लोमानि तानि तत्करोति॥
अथ सहस्रमित्यालिखिता उत्तरत उपदधाति॥
तद्यानीमानि वयस उत्तरतो वक्राणि लोमानि तानि तत्करोति सहस्रेण सर्वं वै सहस्रं सर्वेणैवास्मिन्नेतद्रूपमुत्तमं दधाति त्रिभिः सहस्रैस्त्रिवृदग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवास्मिन्नेतद्रूपमुत्तमं दधाति॥
यान्वै तान्त्सप्त पुरुषान्॥
एकम् पुरुषमकुर्वन्त्स प्रजापतिरभवत्स प्रजा असृजत स प्रजाः सृष्ट्वोर्ध्व उदक्रामत्स एतं लोकमगछद्यत्रैष एतत्तपति नो ह तर्ह्यन्य एतस्मादत्र यज्ञिय आस तं देवा यज्ञेनैव यष्टुमध्रियन्त॥
तस्मादेतदृषिणाभ्यनूक्तम्॥
यज्ञेन यज्ञमयजन्त देवा इति यज्ञेन हि तं यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन्निति ते हि धर्माः प्रथमेऽक्रियन्त ते ह नाकम् महिमानः सचन्तेति स्वर्गो वै लोको नाको देवा महिमानस्ते देवाः स्वर्गं लोकं सचन्त ये तं यज्ञमयजन्नित्येतत्॥
यत्र पूर्वे साध्याः सन्ति देवा इति॥
प्राणा वै साध्या देवास्त एतमग्र एवमसाधयन्नेतदेव बुभूषन्तस्त उ एवाप्येतर्हि साधयन्ति पश्चेदमन्यदभवद्यजत्रममर्त्यस्य भुवनस्य भूनेति पश्चाहैवेदमन्यद्यज्ञियमास यत्किं चामृतम्॥
सुपर्णो अङ्गं सवितुर्गरुत्मान्॥
पूर्वो जातः स उ अस्यानु धर्मेति प्रजापतिर्वै सुपर्णो गरुत्मानेष सवितैतस्य प्रजापतिरनु धर्मनित्येतत्॥
स वै सप्तपुरुषो भवति॥
सप्तपुरुषो ह्ययम् पुरुषो यच्चत्वार आत्मा त्रयः पक्षपुछानि चत्वारो हि तस्य पुरुषस्यात्मा त्रयः पक्षपुछानि॥
तं वा उद्बाहुना पुरुषेण मिमीते॥
पुरुषो वै यज्ञस्तेनेदं सर्वम् मितं तस्यैषा परमा मात्रा यदुद्बाहुस्तद्यास्य परमा मात्रा तामस्य तदाप्नोति तयैनं तन्मिमीते तत्रोप यत्प्रपदेनाभ्युछ्रितो भवति तत्परिश्रिद्भिराप्नोति तस्मादु बाह्येनैव लेखाम् परिश्रिद्भ्यः खनेत्॥
अथ पक्षयोररत्नी उपादधाति॥
पक्षयोस्तद्वीर्यं दधाति बाहू वै पक्षौ बाहुभ्यामु वा अन्नमद्यतेऽन्नायैव तमवकाशां करोति तद्यत्पक्षयोररत्नी उपादधात्यरत्निमात्राद्ध्यन्नमद्यते॥
अथ पुछे वितस्तिमुपादधाति॥
प्रतिष्ठायां तद्वीर्यं दधाति प्रतिष्ठा वै पुछं हस्तो वितस्तिर्हस्तेन वा अन्नमद्यतेऽन्नायैव तमवकाशं करोति तद्यत्पुछे वितस्तिमुपादधात्यन्न एवैनं तत्प्रतिष्ठापयति तद्यत्तत्र कनीय उपादधात्यन्नेह्येवैनं तत्प्रतिष्ठापयत्यथो एतावद्वा इदम् मितम् भवत्येतावदिदं तद्यदेवम् मिमीत एतस्यैवाप्त्यै॥
या वा इयं वेदिः सप्तविधस्य॥
एषा वेदेर्मात्रा स देवयजनमध्यवसाय पूर्वया द्वारा पत्नीशालम् प्रपद्य गार्हपत्यायोद्धत्यावोक्षति गार्हपत्यस्योद्धतात्सप्त प्राचः प्रक्रमान्प्रक्रामति ततः प्राञ्चं व्यामं विमिमीते तस्य मध्य आहवनीयायोद्धत्यावोक्षति पूर्वार्धाद्व्यामस्य त्रीन्प्राचः प्रक्रमान्प्रक्रामति स वेद्यन्तः॥
ते वा एते॥
व्यामैकादशाः प्रक्रमा अन्तरा वेद्यन्तं च गार्हपत्यं चैकादशाक्षरा त्रिष्टुब्वज्रस्त्रिष्टुब्वीर्यं त्रिष्टुब्वज्रेणैवैतद्वीर्येण यजमानः पुरस्ताद्यज्ञमुखाद्रक्षांसि नाष्ट्रा अपहन्ति॥
सैषा वेदेर्योनिः॥
एतस्यै वै योनेर्देवा वेदिम् प्राजनयन्नथ य एष व्यामः सा गार्हपत्यस्य योनिरेतस्यै वै योनेर्देवा गार्हपत्यम् प्राजनयन्गार्हपत्यादाहवनीयम्॥
स वेद्यन्तात्॥
षट्त्रिंशत्प्रक्रमाम् प्राचीं वेदिं विमिमीते त्रिंशतम् पश्चात्तिरश्चीं चतुर्विंशतिम् पुरस्तात्तन्नवतिः सैषा नवतिप्रक्रमा वेदिस्तस्यां सप्तविधमग्निं विदधाति॥
तदाहुः॥
कथमेष सप्तविध एतया वेद्या सम्पद्यत इति दश वा इमे पुरुषे प्राणाश्चत्वार्यङ्गान्यात्मा पञ्चदश एवं द्वितीय एवं तृतीये षट्सु पुरुषेषु नवतिरथैकः पुरुषोऽत्येति पाङ्क्तो वै पुरुषो लोम त्वङ्मांसमस्थि मज्जा पाङ्क्तो इयं वेदिश्चतस्रो दिश आत्मा पञ्चम्येवमेष सप्तविध एतया वेद्या सम्पद्यते॥
तद्धैके॥
उत्तरा विधा विधास्यन्त एतांश्च प्रक्रमानेतं च व्याममनुवर्धयन्ति योनिमनुवर्धयाम इति न तथा कुर्यान्न वै जातं गर्भं योनिरनुवर्धते यावद्वाव योनावन्तर्गर्भो भवति तावदेव योनिर्वर्धत एतावत्यु वा अत्र गर्भस्य वृद्धिः॥
ते ये ह तथा कुर्वन्ति॥
एतं ह ते पितरम् प्रजापतिं सम्पदश्च्यावयन्ति त इष्ट्वा पापीयांसो भवन्ति पितरं हि प्रजापतिं सम्पदश्च्यावयन्ति सा यावत्येषा सप्तविधस्य वेदिस्तावतीं चतुर्दश कृत्व एकशतविधस्य वेदिं विमिमीते॥
अथ षट्त्रिंशत्प्रक्रमां रज्जुम् मिमीते॥
तां सप्तधा समस्यति तस्यै त्रीन्भागान्प्राच उपदधाति निःसृजति चतुरः॥
अथ त्रिंशत्प्रक्रमाम् मिमीते॥
तां सप्तधा समस्यति तस्यै त्रीन्भागान्पश्चादुपदधाति निःसृजति चतुरः॥
अथ चतुर्विंशतिप्रक्रमाम् मिमीते॥
तां सप्तधा समस्यति तस्यै त्रीन्भागान्पुरस्तादुपदधाति निःसृजति चतुर इति नु वेदिविमानम्॥
अथाग्नेर्विधाः॥
अष्टाविंशतिः प्राञ्चः पुरुषा अष्टाविंशतिस्तिर्यञ्चः स आत्मा चतुर्दश पुरुषा दक्षिणः पक्षश्चतुर्दशोत्तरश्चतुर्दश पुछं चतुर्दशारत्नीन्दक्षिणे पक्ष उपदधाति चतुर्दशोत्तरे चतुर्दश वितस्तीः पुछ इति न्वष्टानवतेः पुरुषाणाम् मात्रा साधिमानानाम्॥
अथ त्रिपुरुषां रज्जुम् मिमीते॥
तां सप्तधा समस्यति तस्यै चतुरो भागानात्मन्नुपदधाति त्रीन्पक्षपुछेषु॥
अथारत्निमात्रीम् मिमीते॥
तां सप्तधा समस्यति तस्यै त्रीन्भागान्दक्षिणे पक्ष उपदधाति त्रीनेवोत्तरे निःसृजति चतुरः॥
अथ वितस्तिमात्रीम् मिमीते॥
तां सप्तधा समस्यति तस्यै त्रीन्भागान्पुछ उपदधाति निःसृजति चतुर एवमेष एकशतविध एतया वेद्या सम्पद्यते॥
तदाहुः॥
यत्त्रयोदश पुरुषा अतियन्ति कथमेते सम्पदो न च्यवन्त इति या वा एतस्य सप्तमस्य पुरुषस्य सम्पत्सैवैतेषां सर्वेषां सम्पत्॥
अथो आहुः॥
प्रजापतिरेवात्मानं विधाय तस्य यत्र-यत्र न्यूनमासीत्तदेतैः समापूरयत तेनो एवापि सम्पन्न इति॥
तद्धैके॥
एकविधम् प्रथमं विदधत्यथैकोत्तरमापरिमितविधान्न तथा कुर्यात्॥
सप्तविधो वा अग्रे प्रजापतिरसृज्यत॥
स आत्मानं विदधान ऐत्स एकशतविधेऽतिष्ठत स योऽर्वाचीनं सप्तविधाद्विधत्त एतं ह स पितरम् प्रजापतिं विच्छिनत्ति स इष्ट्वा पापीयान्भवति यथा श्रेयांसं हिंसित्वाथ स एकशतविधमतिविधत्तेऽस्मात्स सर्वस्माद्बहिर्धा निष्पद्यते सर्वमु हीदम् प्रजापतिस्तस्मादु सप्तविधमेव प्रथमं विदधीताथैकोत्तरमैकशतविधादेकशतविधं तु नातिविदधीत नाहैतम् पितरम् प्रजापतिं विच्छिनत्ति नो अस्मात्सर्वस्माद्बहिर्धा निष्पद्यते॥
संवत्सरो वै प्रजापतिः॥
अग्निरु सर्वे कामाः सोऽयं संवत्सरः प्रजापतिरकामयताग्निं सर्वान्कामानात्मानमभिसञ्चिन्वीयेति स एकशतधात्मानं व्यधत्त स एकशतधात्मानं विधायाग्निं सर्वान्कामानात्मानमभिसमचिनुत स सर्वे कामा अभवत्तस्मान्न कश्चन बहिर्धा कामोऽभवत्तस्मादाहुः संवत्सरः सर्वे कामा इति न ह संवत्सरात्कश्चन बहिर्धा कामोऽस्ति॥
तथैवैतद्यजमानः॥
एकशतधात्मानं विधायाग्निं सर्वान्कामानात्मानमभिसञ्चिनुते स सर्वे कामा भवति तस्मान्न कश्चन बहिर्धा कामो भवति॥
स यः स संवत्सरोऽसौ स आदित्यः॥
स एष एकशतविधस्तस्य रश्मयः शतं विधा एष एवैकशततमो य एष तपत्यस्मिन्त्सर्वस्मिन्प्रतिष्ठितस्तथैवैतद्यजमान एकशतधात्मानं विधायास्मिन्त्सर्वस्मिन्प्रतितिष्ठति॥
अथ वा एकशतविधः॥
सप्तविधमभिसम्पद्यत एकशतधा वा असावादित्यो विहितः सप्तसु देवलोकेषु प्रतिष्ठितः सप्त वै देवलोकाश्चतस्रो दिशस्त्रय इमे लोका एते वै सप्त देवलोकास्तेष्वेष प्रतिष्ठितस्तथैवैतद्यजमान एकशतधात्मानं विधाय सप्तसु देवलोकेषु प्रतितिष्ठति॥
यद्वेवैकशतविधः॥
सप्तविधमभिसम्पद्यत एकशतधा वा असावादित्यो विहितः सप्तस्वृतुषु सप्तसु स्तोमेषु सप्तसु पृष्ठेषु सप्तसु छन्दःसु सप्तसु प्राणेषु सप्तसु दिक्षु प्रतिष्ठितस्तथैवैतद्यजमान एकशतधात्मानं विधायैतस्मिन्त्सर्वस्मिन्प्रतितिष्ठति॥
यद्वेवैकशतविधः सप्तविधमभिसम्पद्यत एकशतधा वा असावादित्यो विहितः सप्ताक्षरे ब्रह्मन्प्रतिष्ठितः सप्ताक्षरं वै ब्रह्मर्गित्येकमक्षरं यजुरिति द्वे सामेति द्वे अथ यदतोऽन्यद्ब्रह्मैव तद्द्व्यक्षरं वै ब्रह्म तदेतत्सर्वं सप्ताक्षरम् ब्रह्म तस्मिन्नेष प्रतिष्ठितस्तथैवैतद्यजमान एकशतधात्मानं विधाय सप्ताक्षरे ब्रह्मन्प्रतितिष्ठति॥
तस्मादु सप्तभिः-सप्तभिः परिश्रयन्ति॥
तस्मादेकशतविधः सप्तविधमभिसम्पद्यतेऽथ वै सप्तविध एकशतविधमभिसम्पद्यते॥
सप्तविधो वा अग्रे प्रजापतिरसृज्यत॥
स एतमेकशतधात्मानं विहितमपश्यत्प्राणभृत्सु पञ्चाशदिष्टकाः पञ्चाशद्यजूंषि तछतं सादनं च सूददोहाश्चैक=\अततमे तत्समानं सादयित्वा हि सूददोहसाधिवदति स एतेनैकशतविधेनात्मनेमां जितिमजयदिमां व्यष्टिं व्याश्नुत तथैवैतद्यजमान एतेनैकशतविधेनात्मनेमां जितिं जयतीमां व्यष्टिं व्यश्नुत एवमु सप्तविध एकशतविधमभिसम्पद्यते स य एवैकशतविधः स सप्तविधो यः सप्तविधः स एकशतविध इति नु विधानम्॥
अथातश्चयनस्यैव॥
अन्तरोपसदौ चिनोत्येतद्वै देवा अबिभयुर्यद्वै न इममिह रक्षांसि नाष्ट्रा न हन्युरिति त एताः पुरोऽपश्यन्नुपसद इमानेव लोकानिमे वै लोकाः पुरस्ताः प्रापद्यन्त ताः प्रपद्याभयेऽनाष्ट्र एतमात्मानं समस्कुर्वत तथैवैतद्यजमान एताः पुरः प्रपद्याभयेऽनाष्ट्र एतमात्मानं संस्कुरुते॥
यद्वेवान्तरोपसदौ चिनोति॥
एतद्वै देवा अबिभयुर्यद्वै न इममिह रक्षांसि नाष्ट्रा न हन्युरिति त एतान्वज्रानपश्यन्नुपसदो वज्रा वा उपसदस्तान्प्रापद्यन्त तान्प्रपद्याभयेऽनाष्ट्र एतमात्मानं समस्कुर्वत तथैवैतद्यजमान एतान्वज्रान्प्रपद्याभयेऽनाष्ट्र एतमात्मानं संस्कुरुते॥
एतदु ह यज्ञे तपः॥
यदुपसदस्तपो वा उपसदस्तद्यत्तपसि चीयते तस्मात्तापश्चितस्तद्वै यावदेवोपसद्भिश्चरन्ति तावत्प्रवर्ग्येण संवत्सरमेवोपसद्भिश्चरन्ति संवत्सरम् प्रवर्ग्येण॥
अहोरात्राणि वा उपसदः॥
आदित्यः प्रवर्ग्योऽमुं तदादित्यमहोरात्रेषु प्रतिष्ठापयति तस्मादेषोऽहोरात्रेषु प्रतिष्ठितः॥
अथ यदि चतुर्विंशतिः॥
चतुर्विंशतिर्वा अर्धमासा अर्धमासा उपसद आदित्यः प्रवर्ग्योऽमुं तदादित्यमर्धमासेषु प्रतिष्ठापयति तस्मादेषोऽर्धमासेषु प्रतिष्ठितः॥
अथ यदि द्वादश॥
द्वादश वै मासा मासा उपसद आदित्यः प्रवर्ग्योऽमुं तदादित्यम् मासेषु प्रतिष्ठापयति तस्मादेष मासेषु प्रतिष्ठितः॥
अथ यदि षट्॥
षड्वा ऋतव ऋतव उपसद आदित्यः प्रवर्ग्योऽमुं तदादित्यमृतुषु प्रतिष्ठापयति तस्मादेष ऋतुषु प्रतिष्ठितः॥
अथ यदि तिस्रः॥
त्रयो वा इमे लोका इमे लोका उपसद आदित्यः प्रवर्ग्योऽमुं तदादित्यमेषु लोकेषु प्रतिष्ठापयति तस्मादेष एषु लोकेषु प्रतिष्ठितः॥
अथातश्चितिपुरीषाणामेव मीमांसा॥
मासम् प्रथमा चितिर्मासम् पुरीषमेतावान्वासन्तिक ऋतौ कामस्तद्यावान्वासन्तिक ऋतौ कामस्तं तत्सर्वमात्मानमभिसञ्चिनुते॥
मासं द्वितीया॥
मासम् पुरीषमेतावान्ग्रैष्म ऋतौ कामस्तद्यावान्ग्रैष्म ऋतौ कामस्तं तत्सर्वमात्मानमभिसञ्चिनुते॥
मासं तृतीया॥
मासम् पुरीषमेतावान्वार्षिक ऋतौ कामस्तद्यावान्वार्षिक ऋतौ कामस्तं तत्सर्वमात्मानमभिसञ्चिनुते॥
मासं चतुर्थी॥
मासम् पुरीषमेतावाञ्छारद ऋतौ कामस्तद्यावाञ्छारद ऋतौ कामस्तं तत्सर्वमात्मानमभिसञ्चिनुते॥
अथ पञ्चम्यै चितेः॥
असपत्ना विराजश्च प्रथमाहमुपदधाति स्तोमभागा एकैकामन्वहं ताः स्कृत्सादयति सकृत्सूददोहसाधिवदति तूष्णीम् मासं स्तोमभागापुरीषमभिहरन्त्येतावान्हैमन्तिक स्तौ कामस्तद्यावान्हैमन्तिक ऋतौ कामस्तं तत्सर्वमात्मानमभिसञ्चिनुते॥
मासं षष्ठी॥
मासम् पुरीषमेतावाञ्छैशिर ऋतौ कामस्तद्यावाञ्छैशिर ऋतौ कामस्तं तत्सर्वमात्मानमभिसञ्चिनुत एतावान्वै द्वादशसु मासेषु कामः षट्स्वृतुषु तद्यावान्द्वादशसु मासेषु कामः षट्स्वृतुषु तं तत्सर्वमात्मानमभिसञ्चिनुते॥
अथ त्रीण्यहान्युपातियन्ति॥
यदहः शतरुद्रियं जुहोति यदहरुपवसथो यदहः प्रसुतस्तद्यत्तेष्वहःसूपसदा चरन्ति तानि तस्य मासस्याहोरात्राण्यथ यत्प्रवर्ग्येण तदु तस्मिन्नृतावादित्यम् प्रतिष्ठापयत्येतावान्वै त्रयोदशसु मासेषु कामः सप्तस्वृतुषु तद्यावांस्त्रयोदशसु मासेषु कामः सप्तस्वृतुषु तं तत्सर्वमात्मानमभिसञ्चिनुते॥
स संवत्सरम् प्रसुतः स्यात्॥
सर्वं वै संवत्सरः सर्वमेकशतविधः सर्वेणैव तत्सर्वमाप्नोति यदि संवत्सरं न शक्नुयाद्विश्वजिता सर्वपृष्ठेनातिरात्रेण यजेत तस्मिन्त्सर्ववेदसं दद्यात्सर्वं वै विश्वजित्सर्वपृष्ठोऽतिरात्रः सर्वं सर्ववेदसं सर्वमेकशतविधः सर्वेणैव तत्सर्वमाप्नोति॥
संवत्सरो वै प्रजापतिरेकशतविधः॥
तस्याहोरात्राण्यर्धमासा मासा ऋतवः षष्टिर्मासस्याहोरात्राणि मासि वै संवत्सरस्याहोरात्राण्याप्यन्ते चतुर्विंशतिरर्धमासास्त्रयोदश मासास्त्रय ऋतवस्ताः शतं विधाः संवत्सर एवैकशततमी विधा॥
स ऋतुभिरेव सप्तविधः॥
षडृतवः संवत्सर एव सप्तमी विधा तस्यैतस्य संवत्सरस्यैतत्तेजो य एष तपति तस्य रश्मयः शतं विधा मण्डलमेवैकशततमी विधा॥
स दिग्भिरेव सप्तविधः॥
ये प्राच्यां दिशि रश्मयः सैका विधा ये दक्षिणायां सैका ये प्रतीच्यां सैका य उदीच्यां सैका य ऊर्ध्वायां सैका येऽवाच्यां सैका मण्डलमेव सप्तमी विधा॥
तस्यैतस्य पुरस्तात्कामप्रो लोकः॥
अमृतं वै कामप्रममृतमेवास्य तत्परस्तात्तद्यत्तदमृतमेतत्तद्यदेतदर्चिर्दीप्यते॥
तदेतद्वसुचित्रं राधः॥
तदेष सविता विभक्ताभ्यः प्रजाभ्यो विभजत्यप्योषधिभ्योऽपि वनस्पतिभ्यो भूय-इव ह त्वेकाभ्यः प्रयछति कनीय इवैकाभ्यस्तद्याभ्यो भूयः प्रयछति ता ज्योक्तमां जीवन्ति याभ्यः कनीयः कनीयस्ताः॥
तदेतदृचाभ्युक्तं विभक्तारं हवामहे वसोश्चित्रस्य राधसः॥
सवितारं नृचक्षसमिति तदेतत्सर्वमायुर्दीर्घमनन्तं हि तद्यदिदमाहुर्दीर्घं त आयुरस्तु सर्वमायुरिहीत्येष ते लोक एतत्तेऽस्त्विति हैवैतत्॥
पश्यन्ती वाग्वदति॥
तदेतदेकशतविधेन वैवाप्तव्यं शतायुतया वा य एवैकशतविधं विधत्ते यो वा शतम्- वर्षाणि जीवति स हैवैतदमृतमाप्नोति तस्माद्ये चैतद्विदुर्ये च न लोक्या शतायुतेत्येवाहुस्तस्मादु ह न पुरायुषः स्वकामी प्रेयादलोक्यं हैत उ वाव लोका यदहोरात्राण्यर्धमासा मासा ऋतवः संवत्सरः॥
तद्येऽर्वाग्विंशेषु वर्षेषु प्रयन्ति॥
अहोरात्रेषु ते लोकेषु सज्यन्तेऽथ ये परोविंशेष्वर्वाक्चत्वारिंशेष्वर्धमासेषु तेऽथ ये परश्चत्वारिंशेष्वर्वाक्षष्टेषु मासेषु तेऽथ ये परःषष्टेष्वर्वागशीतेष्वृतुषु तेऽथ ये परोऽशीतेष्वर्वाक्शतेषु संवत्सरे तेऽथ य एव शतं वर्षाणि यो वा भूयांसि जीवति स हैवैतदमृतमाप्नोति॥
बहुभिर्ह वै यज्ञैः॥
एकमहरेका रात्रिर्मिता स य एवैकशतविधं विधत्ते यो वा शतं वर्षाणि जीवति स हैवैनदद्धातमामाप्नोत्येष वा एकशतविधं विधत्ते य एनं संवत्सरं बिभर्ति तस्मादेनं संवत्सरभृतमेव चिन्वीतेत्यधिदेवतम्॥
अथाधियज्ञम्॥
यानमूनेकशतमुद्बाहून्पुरुषान्मिमीते स विधैकशतविधः स चितिभिरेव सप्तविधः षडृतव्यवत्यश्चितयोऽग्निरेव सप्तमी विधा॥
स उ वा इष्टकैकशतविधः॥
याः पञ्चाशत्प्रथमा इष्टका याश्चोत्तमास्ताः शतं विधा अथ या एतदन्तरेणेष्टका उपधीयन्ते सैवैकशततमी विधा॥
स उ एव यजुस्तेजाः॥
यजुरेकशतविधो यानि पञ्चाशत्प्रथमानि यजूंषि यानि चोत्तमानि ताः शतं विधा अथ यान्येतदन्तरेण यजूंषि क्रियन्ते सैवैकशततमी विधैवमु सप्तविध एकशतविधो भवति स यः शतायुतायां कामो य एकशतविधे सप्त्!विधेन हैव तमेवंविदाप्नोति॥
एवं वाव सर्वे यज्ञाः॥
एकशतविधा आग्निहोत्रादृग्भिर्यजुर्भिः पदैरक्षरैः कर्मभिः सामभिः स यः शतायुतायां कामो य एकशतविधे यः सप्तविधे यज्ञेन यज्ञेन हैव तमेवंविदाप्नोतीत्यु एवाधियज्ञम्॥
अथाध्यात्मम्॥
पञ्चेमाश्चतुर्विधा अङ्गुलयो द्वे कल्कुषी दोरंसफलकं चाक्षश्च तत्पञ्चविंशतिरेवमिमानीतराण्यङ्गानि ताः शतं विधा आत्मैवैकशततमी विधोक्तं सप्तविधतायै॥
स उ एव प्राणतेजाः॥
प्राणैकशतविधोऽन्वङ्गमङ्गेऽङ्गे हि प्राणः स यः शतायुतायां कामो य एकशतविधे यः सप्तविधे यः सर्वेषु यज्ञेषु विद्याया हैव तमेवंविदाप्नोति सर्वौर्हि यज्ञैरात्मानं सम्पन्नं विदे॥
त्रीणि वा इमानि पञ्चविधानि॥
संवत्सरोऽग्निः पुरुषस्तेषाम् पञ्च विधा अन्नम् पानं श्रीर्ज्योतिरमृतं यदेव संवत्सरेऽन्नं तदन्नं या आपस्तत्पानं रात्रिरेव श्रीः श्रियां हैतद्रात्र्यां सर्वाणि भूतानि संवसन्त्यहर्ज्योतिरादित्योऽमृतमित्यधिदेवतं॥
अथाधियज्ञम्॥
यदेवाग्नावन्नमुपधीयते तदन्नं या आपस्तत्पानम् परिश्रित एव श्रीस्तद्धि रात्रीणां रूपं यजुष्मत्यो ज्योतिस्तद्ध्यह्नां रूपमग्निरं!तं तद्ध्यादित्यस्य रूपमित्यु एवाधियज्ञम्॥
अथाध्यात्मम्॥
यदेव पुरुषेऽन्नं तदन्नं या आपस्तत्पानमस्थीन्येव श्रीस्तद्धि परिश्रितां रूपम् मज्जानो ज्योतिस्तद्धि यजुष्मतीनां रूपम् प्राणोऽमृतं तद्ध्यग्ने रूपम् प्राणोऽग्निः प्राणोऽमृतमित्यु वा आहुः॥
अन्नाद्वा अशनाया निवर्तते॥
पानात्पिपासा श्रियै पाप्मा ज्योतिषस्तमोऽमृतान्मृत्युर्नि ह वा अस्मादेतानि सर्वाणि वर्तन्तेऽप पुनर्मृत्युं जयति सर्वमायुरेति य एवं वेद तदेतदमृतमित्येवामुत्रोपासीतायुरितीह प्राण इति हैक उपासते प्राणोऽग्निः प्राणोऽमृतमिति वदन्तो न तथा विद्यादध्रुवं वै तद्यत्प्राणस्तं ते विष्याम्यायुषो न मध्यादिति ह्यपि यजुषाभ्युक्तं तस्मादेनदमृतमित्येवामुत्रोपासीतायुरितीह तथो ह सर्वमायुरेति॥