अग्निरेष पुरस्ताच्चीयते॥
संवत्सर उपरिष्टान्महदुक्थं शस्यते प्रजापतेर्विस्रस्तस्याग्रं रसोऽगछत्॥
स यः स प्रजापतिर्व्यस्रंसत॥
संवत्सरः सोऽथ यान्यस्य तानि पर्वाणि व्यस्रंसन्ताहोरात्राणि तानि॥
स यः स संवत्सरः प्रजापतिर्व्यस्रंसत॥
अयमेव स योऽयमग्निश्चीयतेऽथ यान्यस्य तान्यहोरात्राणि पर्वाणि व्यस्रंसन्तेष्टका एव तास्तद्यदेता उपदधाति यान्येवास्य तान्यहोरात्राणि पर्वाणि व्यस्रंसन्त तान्यस्मिन्नेतत्प्रतिदधाति तदेतदत्रैव यजुश्चितमत्राप्तम्॥
अथ योऽस्य सोऽग्रं रसोऽगछत्॥
महत्तदुक्थं तमस्य तं रसमृक्सामाभ्यामनुयन्ति तद्यत्तत्र यजुः पुरस्तादेत्यभिनेतैव तदेति यथादो मेऽमुत्रैकं तदाहरिष्यामीत्येवं त्॥
तमध्वर्युर्ग्रहेण गृह्णाति॥
यद्गृह्णाति तस्माद्ग्रहस्तस्मिअद्यजुः पुरस्तादेति तं संवत्सर आप्नुवन्ति न्नुद्गाता महाव्रतेन रसं दधाति सर्वाणि हैतानि सामानि यन्महाव्रतं तदस्मिन्त्सर्वैः सामभी रसं दधाति तस्मिन्होता महतोक्थेन रसं दधाति सर्वा हैता ऋचो यन्महदुक्थं तदस्मिन्त्सर्वाभिरृग्भी रसं दधाति॥
ते यदा स्तुवते यदानुशंसति॥
अथास्मिन्नेतं वषट्कृते जुहोति तदेनमेष रसोऽप्येति न वै महाव्रतमिदं स्तुतं शेत इति पश्यन्ति नो महदिदमुक्थमित्यग्निमेव पश्यन्त्यात्मा ह्यग्निस्तदेनमेते उभे रसो भूत्वापीत ऋक्च साम च तदुभे ऋक्सामे यजुरपीतः॥
स एष मिथुनोऽग्निः॥
प्रथमा च चितिर्द्वितीया च तृतीया च चतुर्थी चाथ पञ्चम्यै चितेर्यश्चितेऽग्निर्निधीयते तन्मिथुनम् मिथुन उ एवायमात्मा॥
अङ्गुष्ठा इति पुमांसः॥
अङ्गुलय इति स्त्रियः कर्णाविति पुमांसौ भ्रुवाविति स्त्रिया ओष्ठाविति पुमांसौ नासिके इति स्त्रियौ दन्ता इति पुमांसो जिह्वेति स्त्री सर्व एव मिथुनः सोऽनेन मिथुनेनात्मनैतम् मिथुनमग्निमप्येति॥
एषात्रापीतिः॥
अप्यहैवम् मिथुन इत्थं ह त्वेवापि मिथुनो वागेवेयं योऽयमग्निश्चितो वाचा हि चीयतेऽथ यश्चितेऽग्निर्निधीयते स प्राणः प्राणो वै वाचो वृषा प्राणो मिथुनं वाग्वेवायमात्माथ य आत्मन्प्राणस्तन्मिथुनं सोऽनेन मिथुनेनात्मनैतम् मिथुनमग्निमप्येति॥
एषो अत्रापीतिः॥
न ह वा अस्यापुत्रतायै का चन शङ्का भवति य एवमेतौ मिथुनावात्मानं चाग्निं च वेदान्नं ह त्वेवायमात्मा दक्षिणान्नं वनुते यो न आत्मेति ह्यप्यृषिणाभ्युक्तम्॥
तदिदमन्नं जग्धं द्वेधा भवति॥
यदस्यामृतमूर्ध्वं तन्नाभेरूर्ध्वै प्राणैरुच्चरति तद्वायुमप्येत्यथ यन्मर्त्यम् पराक् तन्नाभिमत्येति तद्द्वयम् भूत्वेमामप्येति मूत्रं च पुरीषं च तद्यदिमामप्येति योऽयमग्निश्चितस्तं तदप्येत्यथ यद्वायुमप्येति यश्चितेऽग्निर्निधीयते तं तदप्येत्येषो एवात्रापीतिः॥
प्रजापतिरिमांलोकानैप्सत्॥
स एतं वयोविधमात्मानमपश्यदग्निं तं व्यधत्त तेनेमं लोकमाप्नोत्स द्वितीयं वयोविधमात्मानमपश्यन्महाव्रतं तद्व्यधत्त तेनान्तरिक्षमाप्नोत्स तृतीयं वयोविधमात्मानमपश्यन्महदुक्थं तद्व्यधत्त तेन दिवमाप्नोत्॥
अयं वाव लोक एषोऽग्निश्चितः॥
अन्तरिक्षम् महाव्रतं द्यौर्महदुक्थं तस्मादेतानि सर्वाणि सहोपेयादग्निम् महाव्रतम् महदुक्थं सह हीमे लोका असृज्यन्त तद्यदग्निः प्रथमश्चीयतेऽयं ह्येषां लोकानाम् प्रथमोऽसृज्यतेत्यधिदेवतम्॥
अथाध्यात्मम्॥
मन एवाग्निः प्राणो महाव्रतं वाङ्महदुक्थं तस्मादेतानि सर्वाणि सहोपेयात्सह हि मनः प्राणो वाक्तद्यदग्निः प्रथमश्चीयते मनो हि प्रथमम् प्राणानाम्॥
आत्मैवाग्निः॥
प्राणो महाव्रतं वाङ् महदुक्थं तस्मादेतानि सर्वाणि सहोपेयात्सह ह्यात्मा प्राणो वाक्तद्यदग्निः प्रथमश्चीयत आत्मा हि प्रथमः सम्भवतः सम्भवति॥
शिर एवाग्निः॥
प्राणो महाव्रतमात्मा महदुक्थं तस्मादेतानि सर्वाणि सहोपेयात्सह हि शिरः प्राण आत्मा तद्यदग्निः प्रथमश्चीयते शिरो हि प्रथमं जायमानस्य जायते तस्माद्यत्रैतानि सर्वाणि सह क्रियन्ते महदेवोक्थमातमां ख्यायत आत्मा हि महदुक्थम्॥
तदाहुः॥
यदेतानि सर्वाणि सह दुरुपापानि कैतेषामुपाप्तिरिति ज्योतिष्टोम एवाग्निष्टोमे ज्योतिष्टोमेनैवाग्निष्टोमेन यजेत॥
तस्य वा एतस्य ज्योतिष्टोमस्याग्निष्टोमस्य॥
त्रिवृद्बहिष्पवमानं तद्व्रतस्य शिरः पञ्चदशसप्तदशा उत्तरौ पवमानौ तौ पक्षौ पञ्चदशं होतुराज्यं सप्तदशम् पृष्ठमेकविंशं यज्ञायज्ञियं तत्पुछम्॥
तयोर्वा एतयोः॥
पञ्चदशसप्तदशयोर्द्वात्रिंशत्स्तोत्रियास्ततो याः पञ्चविंशतिः स पञ्चविंश आत्माथ याः सप्तातियन्ति ताः परिमादः पशवो हैताः पशवः परिमाद एतावद्वै महाव्रतं तदेतदत्रैव महाव्रतमाप्नोति॥
अथ होता सप्त छन्दांसि शंसति॥
चतुरुत्तराण्येकर्चानि विराडष्टमानि तेषां तिस्रश्चाशीतयोऽक्षराणि पञ्चचत्वारिंशच्च ततो या अशीतयः सैवाशीतीनामाप्तिरशीतिभिर्हि महदुक्थमाख्यायतेऽथ यानि पञ्चचत्वारिंशत्ततो यानि पञ्चविंशतिः स पञ्चविंश आत्मा यत्र वा आत्मा तदेव शिरस्तत्पक्षपुछान्यथ यानि विंशतिस्तदावपनमेतावद्वै महदुक्थं तदेतदत्रैव महदुक्थमाप्नोति तानि वा एतानि सर्वाणि ज्योतिष्टोम एवाग्निष्टोम आप्यन्ते तस्मादु ज्योतिष्टोमेनैवाग्निष्टोमेन यजेत॥
प्रजापतिः प्रजा असृजत॥
स ऊर्ध्वेभ्य एव प्राणेभ्यो देवानसृजत येऽवाञ्चः प्राणास्तेभ्यो मर्त्याः प्रजा अथोर्ध्वमेव मृत्युम् प्रजाभ्योऽत्तारमसृजत॥
तस्य ह प्रजापतेः॥
अर्धमेव मर्त्यमासीदर्धममृतं तद्यदस्य मर्त्यमासीत्तेन मृत्योरबिभेत्स बिभ्यादिमाम् प्राविशद्द्वयम् भूत्वा मृच्चापश्च॥
स मृत्युर्देवानब्रवीत्॥
क्व नु सोऽभूद्यो नोऽसृष्टेति त्वद्बिभ्यदिमाम् प्राविक्षदिति सोऽब्रवीत्तं वा अन्विच्छाम तं सम्भराम न वा अहं तं हिंसिष्यामीति तं देवा अस्या अधि समभरन्यदस्याप्स्वासीत्ता अपः समभरन्नथ यदस्यां ताम् मृदं तदुभयं सम्भृत्य मृदं चापश्चेष्टकामकुर्वंस्तस्मादेतदुभयमिष्टका भवति मृच्चापश्च॥
तदेता वा अस्य ताः॥
पञ्च मर्त्यास्तन्व आसंलोम त्वङ्मांसमस्थि मज्जाथैता अमृता मनो वाक्प्राणश्चक्षुः श्रोत्रम्॥
स यः स प्रजापतिः॥
अयमेव स योऽयमग्निश्चीयतेऽथ या अस्य ताः पञ्च मर्त्यास्तन्व आसन्नेतास्ताः पुरीषचितयोऽथ या अमृता एतास्ता इष्टकाचितयः॥
ते देवा अब्रुवन्॥
अमृतमिमं करवामेति तस्यैताभ्याममृताभ्यां तनूभ्यामेताम् मर्त्यां तनूम् परिगृह्यामृतामकुर्वन्निष्टकाचितिभ्याम् पुरीषचितिं तथा द्वितीयां तथा तृतीयां तथा चतुर्थीम्॥
अथ पञ्चमीं चितिमुपधाय॥
पुरीषं निवपति तत्र वकर्णीं च स्वयमातृणां चोपदधाति हिरण्यशकलैः प्रोक्षत्यग्निमभ्यादधाति सा सप्तमी चितिस्तदमृतमेवमस्यैताभ्याममृताभ्यां तनूभ्यामेताम् मर्त्यां तनूम् परिगृह्यामृतामकुर्वन्निष्टकाचितिभ्याम् पुरीषचितिं ततो वै प्रजापतिरमृतोऽभवत्तथैवैतद्यजमान एतममृतमात्मानं कृत्वा सोऽमृतो भवति॥
ते वै देवास्तं नाविदुः॥
यद्येनं सर्वं वाकुर्वन्न वा सर्वं यद्यति वारेचयन्न वाभ्यापयंस्त एतामृचमपश्यन्धामछदग्निरिन्द्रो ब्रह्मा देवो बृहस्पतिः॥
सचेतसो विश्वे देवा यज्ञम् प्रावन्तु नः शुभ इति॥
तस्या अस्त्येवाग्नेयम्॥
अस्त्यैन्द्रमस्ति वैश्वदेवं तद्यदस्या आग्नेयं यदेवैतस्याग्नेराग्नेयं तदस्य तेन समस्कुर्वन्यदैन्द्रं तदैन्द्रेण यद्वैश्वदेवं तद्वैश्वदेवेन तमत्रैव सर्वं कृत्स्नं समस्कुर्वन्॥
तद्यदेतयोपतिष्ठते॥
यदेवास्यात्र विद्वान्वाविद्वान्वाति वा रेचयति न वाभ्यापयति तदेवास्यैतया सर्वमाप्नोति यदस्य किं चानाप्तमनुष्टुब्धामछद्भवति वाग्वा अनुष्टुब्वाग्धामछद्वाचैवास्य तदाप्नोति यदस्य किं चानाप्तम् पुरीषवतीं चितिं कृत्वोपतिष्ठेतेत्यु हैक आहुस्तत्र हिसा सर्वा कृत्स्ना भवतीति॥
तदु वा आहुः॥
यविष्ठवत्यैवोपतिष्ठेतैतद्धास्य प्रियं धाम यद्यविष्ठ इति तद्यदस्य प्रियं धाम तेनास्य तदाप्नोति यदस्य किं चानाप्तमाग्नेय्याग्निकर्म हि गायत्र्यागायत्रोऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवस्य त दाप्नोति यदस्य किं चानाप्तमनिरुक्तया सर्वं वा अनिरुक्तं सर्वेणैवास्य तदाप्नोति यदस्य किं चानाप्तं त्वं यविष्ठ दाशुष इति तस्योक्तो बन्धुः पुरीषवतीं चितिं कृत्वोपतिष्ठेत तत्र हि सा सर्वा कृत्स्ना भवति॥
उभयं हैतदग्रे प्रजापतिरास॥
मर्त्यं चैवामृतं च तस्य प्राणा एवामृता आसुः शरीरम् मर्त्यं स एतेन कर्मणैतयावृतैकधाजरममृतमात्मानमकुरुत तथैवैतद्यजमान उभयमेव भवति मर्त्यं चैवामृतं च तस्य प्राणा एवामृता भवन्ति शरीरम् मर्त्यं स एतेन कर्मणैतयावृतैकधाजरममृतमात्मानं कुरुते॥
स प्रथमां चितिं चिनोति॥
सा हास्यैषा प्राण एव तद्वै तदमृतमृतं हि प्राणः सैषामृतचितिरथ पुरीषं निवपति तद्धास्यैतन्मज्जैव तद्वै तन्मर्त्यम् मर्त्यो हि मज्जा तदेतस्मिन्नमृते प्रतिष्ठापयति तेनास्यैतदमृतम् भवति॥
द्वितीयां चितिं चिनोति॥
सा हास्यैषापान एव तद्वै तदमृतममृतं ह्यपानः सैषामृतचितिस्तदेतन्मर्त्यमुभयतोऽमृतेन परिगृह्णाति तेनास्यैतदमृतम् भवत्यथ पुरीषं निवपति तद्धास्यैतदस्थ्येव तद्वै तन्मर्त्यम् मर्त्यं ह्यस्थि तदेतस्मिन्नमृते प्रतिष्ठापयति तेनास्यैतदमृतम् भवति॥
तृतीयां चितिं चिनोति॥
सा हास्यैषा व्यान एव तद्वै तदमृतममृतं हि व्यानः सैषामृतचितिस्तदेतन्मर्त्यमुभयतोऽमृतेन परिगृह्णाति तेनास्यैतदमृतम् भवत्यथ पुरीषं निवपति तद्धास्यैतत्स्नावैव तद्वै तन्मर्त्यं हि स्नाव तदेतस्मिन्नमृते प्रतिष्ठापयति तेनास्यैतदमृतम् भवति॥
चतुर्थीं चितिं चिनोति॥
सा हास्यैषोदान एव तद्वै तदमृतममृतम् ह्युदानः सैषामृतचितिस्तदेतन्मर्त्यमुभयतोऽमृतेन परिगृह्णाति तेनास्यैतदमृतम् भवत्यथ पुरीषं निवपति तद्धास्यैतन्मांसमेव तद्वै तन्मर्त्यम् मर्त्यं हि मांसं तदेतस्मिन्नमृते प्रतिष्ठापयति तेनास्यैतदमृतम् भवति॥
पञ्चमीं चितिं चिनोति॥
सा हास्यैषा समान एव तद्वै तदमृतममृतं हि समानः सैषामृतचितिस्तदेतन्मर्त्यमुभयतोऽमृतेन परिगृह्णाति तेनास्यैतदमृतम् भवत्यथ पुरीषं निवपति तद्धास्यैतन्मेद एव तद्वै तन्मर्त्यम् मर्त्यं हि मेदस्तदेतस्मिन्नमृते प्रतिष्ठापयति तेनास्यैतदमृतम् भवति॥
षष्ठीं चितिं चिनोति॥
सा हास्यैषा वागेवतद्वै तदमृ तममृतं हि वाक्सैषामृतचितिस्तदेतन्मर्त्यमुभयतोऽमृतेन परिगृह्णाति तेनास्यैतदमृतम् भवत्यथ पुरिषं निवपति तद्धास्यैतदसृगेव त्वगेव तद्वै तन्मर्त्यम् मर्त्यं ह्यसृङ्मर्त्या त्वक्तदेतस्मिन्नमृते प्रतिष्ठापयति तेनास्यैतदमृतम् भवति॥
ता वा एताः॥
षडिष्टकाचितयः षट् पुरीषचितयस्तद्द्वादश द्वादश मासाः संवत्सरः संवत्सरोऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैव तत्प्रजापतिरेकधाजरममृतमात्मानमकुरुत तथैवैतद्यजमान एकधाजरममृतमात्मानं कुरुते॥
अथ विकर्णीं च स्वयमातृणां चोपधाय॥
हिरण्यशकलैः प्रोक्षत्यग्निमभ्यादधाति रूपमेव तत्प्रजापतिर्हिरण्मयमन्तत आत्मनोऽकुरुत तद्यदन्ततस्तस्मादिदमन्त्यमात्मनो रूपं तस्मादाहुर्हिरण्मयः प्रजापतिरिति तथैवैतद्यजमानो रूपमेव हिरण्मयमन्तत आत्मनः कुरुते तद्यदन्ततस्तस्मादिदमन्त्यमात्मनो रूपं तस्माद्ये चैतद्विदुर्ये च न हिरण्मयोऽग्निचिदमुष्मिंलोके सम्भवतीत्येवाहुः॥
तद्धैतछाण्डिल्यश्च साप्तरथवाहनिश्च॥
आचार्यान्तेवासिबौ व्यूदाते रूपमेवास्यैतदिति ह स्माह शाण्डिल्यो लोमानीति साप्तरथवाहनिः॥
स होवाच शाण्डिल्यः॥
रूपं वाव लोमवद्रूपमलोमकं रूपमेवास्यैतदिति तद्वै तत्तथा यथा तछाण्डिल्य उवाच सञ्चितेऽग्निः प्रणीयते प्रणीतादूर्ध्वं समिध आहुतय इति हूयन्ते॥
प्राणेन वै देवा अन्नमदन्ति॥
अग्निरु देवानाम् प्राणस्तस्मात्प्राग्देवेभ्यो जुह्वति प्राणेन हि देवा अन्नमदन्त्यपानेन मनुष्या अन्नमदन्ति तस्मात्प्रत्यङ्मनुष्येष्वन्नं धीयतेऽपानेन हि मनुष्या अन्नमदन्ति॥
तदाहुः॥
न वयसोऽग्निचिदश्नीयाद्वयो वा एष रूपम् भवति योऽग्निं चिनुत ईश्वर आर्तिमातोस्तस्मान्न वयसोऽग्निचिदश्नीयादिति तद्वै काममेवैवंविदश्नीयादग्नेर्वा एष रूपम् भवति योऽग्निं चिनुते सर्वं वा इदमग्नेरन्नं सर्वम् म इदमन्नमित्येवैवंविद्विद्यादिति॥
तदाहुः॥
किं तदग्नौ क्रियते येन यजमानः पुनर्मृत्युमपजयतीत्यग्निर्वा एष देवता भवति योऽग्निं चिनुतेऽमृतमु वा अग्निः श्रीर्देवाः श्रियं गछति यशो देवा यशो ह भवति य एवं वेद॥
सर्वे हैते यज्ञा योऽयमग्निश्चितः॥
स यत्पशुमालभते तदग्न्याधेयमथ यदुखां सम्भरति तान्यग्न्याधेयहवीम्ष्यथ यद्दीक्षते तदग्निहोत्रमथ यद्दीक्षितः समिधावादधाति ते अग्निहोत्राहुती॥
ते वै सायम्प्रातरादधाति॥
सायम्प्रातर्ह्यग्निहोत्राहुती जुह्वति समानेन मन्त्रेण समानेन हि मन्त्रेणाग्निहोत्राहुती जुह्वत्यथ यद्वनीवाहनं च भस्मनश्चाभ्यवहरणं तौ दर्शपूर्णमासावथ यद्गार्हपत्यं चिनोति तानि चातुर्मास्यान्यथ यदूर्ध्वं गार्हपत्यादा सर्वौषधात्ता इष्टयोऽथ यदूर्ध्वं सर्वौषधात्प्राचीनं चितिभ्यस्ते पशुबन्धा य एवैतेषु यज्ञेषु विष्णुक्रमास्ते विष्णुक्रमा यज्जप्यं तद्वात्सप्रम्॥
सौम्योऽध्वरः प्रथमा चितिः॥
यत्प्राचीनं सवेभ्यो राजसूयो द्वितीया वाजपेयस्तृतीयाश्वमेधश्चतुर्थ्यग्निसवः पञ्चमी यैश्चितं सामभिः परिगायति तन्महाव्रतमथ यत्तत्रोद्गातुः पुरस्ताज्जप्यं तछतरुद्रियं वसोर्धारा महदुक्थमथ यदूर्ध्वं सामभ्यः प्राचीनं वसोर्धारायै यदेव तत्र होतुः पुरस्ताज्जप्यं तत्तदथ यदूर्ध्वं वसोर्धारायै ते गृहमेधा एतावन्तो वै सर्वे यज्ञास्तानग्निनाप्नोति॥
अथातो यज्ञवीर्याणामेव॥
सायम्प्रातर्ह वा अमुष्मिंलोकेऽग्निहोत्रहुदश्नाति तावती ह तस्मिन्यज्ञ ऊर्गर्धमासेऽर्धमासे दर्शपूर्णमासयाजी चतुर्षु-चतुर्षु मासेषु चातुर्मास्ययाजी षट्सु-षट्सु पशुबन्धयाजी संवत्सरे-संवत्सरे सोमयाजी शते-शते संवत्सरेश्वग्निचित्काममश्नाति कामं न तद्धैतद्यावछतं संवत्सरास्तावदमृतमनन्तमपर्यन्तं स सो हैतदेवं वेदैवं हैवास्यैतदमृतमनन्तमपर्यन्तम् भवति तस्य यदपीषीकयेवोपहन्यात्तदेवास्यामृतमनन्तमपर्यन्तम् भवति॥