०४

अथातो राष्ट्रभृतो जुहोति॥
राजानो वै राष्ट्रभृतस्ते हि राष्ट्राणि बिभ्रत्येता ह देवताः सुता एतेन सवेन येनैतत्सोष्यमाणो भवति ता एवैतत्प्रीणाति ता अस्मा इष्टाः प्रीता एतं सवमनुमन्यन्ते ताभिरनुमतः सूयते यस्मै वै राजानो राज्यमनुमन्यन्ते स राजा भवति न स यस्मै न तद्यद्राजानो राष्ट्राणि बिभ्रति राजान उ एते देवास्तस्मादेता राष्ट्रभृतः॥
यद्वेवैता राष्ट्रभृतो जुहोति॥
प्रजापतेर्विस्रस्तान्मिथुनान्युदक्रामन्गन्धर्वाप्सरसो भूत्वा तानि रथो भूत्वा पर्यगछत्तानि परिगत्यात्मन्नधत्तात्मन्नकुरुत तथैवैनान्ययमेतत्परिगत्यात्मन्धत्त आत्मन्कुरुते॥
स यः स प्रजापतिर्व्यस्रंसत॥
अयमेव स यो ऽयमग्निश्चीयते ऽथ यान्यस्मात्तानि मिथुनान्युदक्रामन्नेतास्ता देवता याभ्य एतज्जुहोति॥
गन्धर्वाप्सरोभ्यो जुहोति॥
गन्धर्वाप्सरसो हि भूत्वोदक्रामन्न्नथो गन्धेन च वै रूपेण च गन्धर्वाप्सरसश्चरन्ति तस्माद्यः कश्च मिथुनमुपप्रैति गन्धं चैव स रूपं च कामयते॥
मिथुनानि जुहोति॥
मिथुनाद्वा अधि प्रजातिर्यो वै प्रजायते स राष्ट्रम् भवत्यराष्ट्रं वै स भवति यो न प्रजायते तद्यन्मिथुनानि राष्ट्रम् बिभ्रति मिथुना उ एते देवास्तस्मादेता राष्ट्रभृत आज्येन द्वादशगृहीतेन ता उ द्वादशैवाहुतयो भवन्ति तस्योत्रो बन्धुः॥
पुंसे पूर्वस्मै जुहोति॥
अथ स्रीभ्यः पुमांसं तद्वीर्येणात्यादधात्येकस्मा इव पुंसे जुहोति बह्वीभ्य इव स्रीभ्यस्तस्मादप्येकस्य पुंसो बह्व्यो जाया भवन्त्युभाभ्यां वषट्कारेण च स्वाहाकारेण च पुंसे जुहोति स्वानाकारेणैव स्त्रीभ्यः पुमांसमेव तद्वीर्येणात्यादधाति॥
ऋताषाडृतधामेति॥
सत्यसाट् सत्यधामेत्येतदग्निर्गन्धर्वस्तस्यौषधयो ऽप्सरस इत्यग्निर्ह गन्धर्व ओषधिभिरप्सरोभिर्मिथुनेन सहोच्चक्राम मुदो नामेत्योषधयो वै मुद ओषधिभिर्हीदं सर्वम् मोदते स न इदम् ब्रह्म क्षत्रम् पातु तस्मै स्वाहा वाट् ताभ्यः स्वाहेति तस्योक्तो बन्धुः॥
संहित इति॥
असौ वा आदित्यः संहित एष ह्यहोरात्रे सन्दधाति विश्वसामेत्येष ह्येव सर्वं साम सूर्यो गन्धर्वस्तस्य मरीचयो ऽप्सरस इति सूर्यो ह गन्धर्वो मरीचिभिरप्सरोभिर्मिथुनेन सहोच्चक्रामायुवो नामेत्यायुवाना इव हि मरीचयः प्लवन्ते स न इदम् ब्रह्म क्षत्रम् पात्विति तस्योक्तो बन्धुः॥
सुषुम्ण इति॥
सुयज्ञिय इत्येतत्सूर्यरश्मिरिति सूर्यस्येव हि चन्द्रमसो रश्मयश्चन्द्रमा गन्धर्वस्तस्य नक्षत्राण्यप्सरस इति चन्द्रमा ह गन्धर्वो नक्षत्रैरप्सरोभिर्मिथुनेन सहोच्चक्राम भेकुरयो नामेति भाकुरयो ह नामैते भां हि नक्षत्राणि कुर्वन्ति स न इदम् ब्रह्म क्षत्रम् पात्विति तस्योक्तो बन्धुः॥
इषिर इति॥
क्षिप्र इत्येतद्विश्वव्यचा इत्येष हीदं सर्वं व्यचः करोति वातो गन्धर्वस्तस्यापो अप्सरस इति वातो ह गन्धर्वो ऽद्भिरप्सरोभिर्मिथुनेन सहोच्चक्रामोर्जो नामेत्यापो वा ऊर्जो ऽद्भ्यो ह्यूर्ग्जायते स न इदम् ब्रह्म क्षत्रम् पात्विति तस्योक्तो बन्धुः॥
भुज्युः सुपर्ण इति॥
यज्ञो वै भुज्युर्यज्ञो हि सर्वाणि भूतानि भुनक्ति यज्ञो गन्धर्वस्तस्य दक्षिणा अप्सरस इति यज्ञो ह गन्धर्वो दक्षिणाभिरप्सरोभिर्मिथुनेन सहोच्चक्राम स्तावा नामेति दक्षिणा वै स्तावा दक्षिणाभिर्हि यज्ञ स्तूयते ऽथो यो वै कश्च दक्षिणां ददाति स्तूयत एव स स न इदम् ब्रह्म क्षत्रम् पात्विति तस्योक्तो बन्धुः॥
प्रजापतिर्विश्वकर्मेति॥
प्रजापतिर्वै विश्वकमा स हीदं सर्वमकरोन्मनो गन्धर्वस्तस्य ऋक्सामान्यप्सरस इति मनो ह गन्धर्व ऋक्सामैरप्सरोभिर्मिथुनेन सहोच्चक्रामेष्टयो नामेत्यृक्सामानि वा एष्टय ऋक्सामैर्ह्याशासत इति नो ऽस्त्वित्थं नो ऽस्त्विति स न इदम् ब्रह्म क्षत्रम् पात्विति तस्योक्तो बन्धुः॥
अथ रथशीर्षे जुहोति॥
एष वै स सव एतद्वै तत्सूयते यमस्मै तमेता देवताः सवमनुमन्यन्ते याभिरनुमतः सूयते यस्मै वै राजानो राज्यमनुमन्यन्ते स राजा भवति न स यस्मै नाज्येन पञ्चगृहीतेन ता उ पञ्चैवाहुतयो हुता भवन्ति तस्योक्तो बन्धुः॥
शीर्षतः॥
शीर्षतो वा अभिषिच्यमानो ऽभिषिच्यत उपरि धार्यमाण उपरि हि स यमेतदभिषिञ्चति समानेन मन्त्रेण समातो हि स यमेतदभिषिञ्चति सर्वतः परिहारं सर्वत एवैनमेतदभिषिञ्चति॥
यद्वेव रथशीर्षे जुहोति॥
असौ वा आदित्य एष रथ एतद्वै तद्रूपं कृत्वा प्रजापतिरेतानि मिथुनानि परिगत्यात्मन्नधत्तात्मन्नकुरुत तथैवैनान्ययमेतत्परिगत्यात्मन्धत्त आत्मन्कुरुत उपरि धार्यमाण उपरि हि स य एतानि मिथुनानि परिगत्यात्मन्नधत्तात्मन्नकुरुत समानेन मन्त्रेण समानो हि स य एतानि मिथुनानि परिगत्यात्मन्नधत्तात्मन्नकुरुत सर्वतः परिहारं सर्वतो हि स य एतानि मिथुनानि परिगत्यात्मन्नधत्तात्मन्नकुरुत॥
स नो भुवनस्य पते प्रजापत इति॥
भुवनस्य ह्येष पतिः प्रजापतिर्यस्य त उपरि गृहा यस्य वेहेत्युपरि च ह्येतस्य गृहा इह चास्मै ब्रह्मणे ऽस्मै क्षत्रायेत्ययं वा आग्निर्ब्रह्म च क्षत्रं च महि शर्म यछ स्वाहेति महछर्म यछ स्वाहेत्येतत्॥
अथ वातहोमान्जुहोति॥
इमे वै लोका एषो ऽग्निर्वायुर्वातहोमा एषु तल्लोकेषु वायुं दधाति तस्मादयमेषु लोकेषु वायुः॥
बाह्येनाग्निमाहरति॥
आप्तो वा अस्य स वायुर्य एषु लोकेष्वथ य इमांलोकान्परेण वायुस्तमस्मिन्नेतद्दधाति॥
बहिर्वेदेरियं वै वेदिः॥
आप्तो वा अस्य स वायुर्यो ऽस्यामथ य इमाम् परेण वायुस्तमस्मिन्नेतद्दधाति॥
अञ्जलिना॥
न ह्येतस्येतीवाभिपत्तिरस्ति स्वाहाकारेण जुहोति ह्यधो ऽधो धुरमसौ वा आदित्य एष रथो ऽर्वाचीनं तदादित्याद्वायुं दधाति तस्मादेषो ऽर्वाचीनमेवातः पवते॥
समुद्रो ऽसि नभस्वानिति॥
असौ वै लोकः समुद्रो नभस्वानार्द्रदानुरित्येष ह्यार्द्रं ददाति तद्यो ऽमुष्मिंलोके वायुस्तमस्मिन्नेतद्दधाति शम्भूर्मयोभूरभि मा वाहि स्वाहेति शिवः स्योनो ऽभि मा वाहीत्येतत्॥
मारुतो ऽसि मरुतां गण इति॥
अन्तरिक्षलोको वै मारुतो मरुतां गणस्तद्यो ऽन्तरिक्षलोके वायुस्तमस्मिन्नेतद्दधाति शम्भूर्मयोभूरभि मा वाहि स्वाहेति शिवः स्योनो ऽभि मा वाहीत्येतत्॥
अवस्यूरसि दुवस्वानिति॥
अयं वै लोको ऽवस्यूर्दुवस्वांस्तद्यो ऽस्मिंलोके वायुस्तमस्मिन्नेतद्दधाति शम्भूर्मयोभूरभि मा वाहि स्वाहेति शिवः स्योनो ऽभि मा वाहीत्येतत्॥
त्रिभिर्जुहोति॥
त्रय इमे लोका अथो त्रिवृदग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैव तदेषु वायुं दधाति॥
यद्वेव वातहोमान्जुहोति॥
एतमेवैतद्रथं युनक्त्येदद्वै देवा एतं रथं सर्वेभ्यः कामेभ्यो ऽयुञ्जत युक्तेन समश्नवामहा इति तेन युक्तेन सर्वान्कामान्त्समाश्नुवत तथैवैतद्यजमान एतं रथं सर्वेभ्यः कामेभ्यो युङ्क्ते युक्तेन समश्नवा इति तेन युक्तेन सर्वान्कामान्त्समश्नुते॥
वातहोमैर्युनक्ति॥
प्राणा वै वातहोमाः प्राणैरेवैनमेतद्युनक्ति त्रिभिर्युनक्ति त्रयो वै प्राणाः प्राण उदानो व्यानस्तैरेवैनमेतद्युन्क्त्यधो ऽधो धुरमधो ऽधो हि धुरं योग्यं युञ्जन्ति हस्ताभ्यां हस्ताभ्यां हि योग्यं युञ्जन्ति विपरिक्रामं विपरिक्रामं हि योग्यं युञ्जन्ति॥
स दक्षिणायुग्यमेवाग्रे युनक्ति॥
अथ सव्यायुग्यमथ दक्षिणाप्रष्टिमेवं देवत्रेतरथा मानुषे तं नाभियुञ्ज्यान्नेद्युक्तमभियुनजानीति वाहनं तु दद्याद्युक्तेन भुनजा इति तमुपर्येव हरन्त्याध्वर्योरावसथादुपरि ह्येष तमध्वर्यवे ददाति स हि तेन करोति तं तु दक्षिणानां काले ऽनुदिशेत्॥
अथ रुङ्नतीर्जुहोति॥
अत्रैष सर्वो ऽग्निः संस्कृतः स एषो ऽत्र रुचमैछत्तस्मिन्देवा एताभि रुङ्नतीभी रुचमदधुस्तथैवास्मिन्नयमेतद्दधाति॥
यद्वेव रुङ्नतीर्जुहोति॥
प्रजापतेर्विस्रस्ताद्रुगुदक्रामत्तं यत्र देवाः समस्कुर्वंस्तदस्मिन्नेताभी रुङ्नतीभी रुचमदधुस्तथैवास्मिन्नयमेतद्दधाति॥
यास्ते अग्ने सूर्ये रुचः॥
या वो देवाः सूर्ये रुचो रुचं नो धेहि ब्राह्मणेष्विति रुचं रुचमित्यमृतत्वं वै रुगमृतत्वमेवास्मिन्नेतद्दधाति तिस्र आहुतीर्जुहोति त्रिवृदग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवास्मिन्नेतद्रुचं दधाति॥
अथ वारुणीं जुहोति॥
अत्रैष सर्वो ऽग्निः संस्कृतः स एषो ऽत्र वरुणो देवता तस्मा एतद्धविर्जुहोति तदेनं हविषा देवतां करोति यस्यै वै देवतायै हविर्गृह्यते सा देवता न सा यस्यै न गृह्यते वारुण्य ऽर्चा स्वेनैवैनमेतदात्मना स्वया देवतया प्रीणाति॥
यद्वेव वारुणीं जुहोति॥
प्रजापतेर्विस्रस्ताद्वीर्यमुदक्रामत्तं यत्र देवाः समस्कुर्वंस्तदस्मिन्नेतया वीर्यमदधुस्तथैवास्मिन्नयमेतद्दधाति वारुण्य ऽर्चा क्षत्रं वै वरुणो वीर्यं वै क्षत्रं वीर्येणैवास्मिन्नेतद्वीर्यं दधाति॥
तप्त्वा यामि ब्रह्मणा वन्दमान इति॥
तत्त्वा याचे ब्रह्मणा वन्दमान इत्येतत्तदाशास्ते यजमानो हविर्भिरिति तदयमाशास्ते यजमानो हविर्भिरित्येतदहेडमानो वरुणेह बोधीत्यक्रुध्यन्नो वरुणेह बोधीत्येतदुरुशंस मा न आयुः प्रमोषीरित्यात्मनः परिदां वदते॥
अथार्काश्वमेधयोः सन्ततीर्जुहोति॥
अयं वा अग्निरर्को ऽसावादित्यो ऽश्वमेधस्तौ सृष्टौ नानैवास्तां तौ देवा एताभिराहुतिभिः समतन्वन्त्समदुधुस्तथैवैनावयमेताभिराहुतिभिः सन्तनोति सन्दधाति॥
स्वर्ण घर्मः स्वाहेति॥
असौ वा आदित्यो घर्मो ऽमुं तदादित्यमस्मिन्नग्नौ प्रतिष्ठापय्ति॥
स्वर्णार्कः स्वाहेति॥
अयमग्निरर्क इमं तदग्निममुष्मिन्नादित्ये प्रतिष्ठापयति॥
स्वर्ण शुक्रः स्वाहेति॥
असौ वा आदित्यः शुक्रस्तम् पुनरमुत्र दधाति॥
स्वर्ण ज्योतिः स्वाहेति॥
अयमग्निर्ज्योतिस्तम् पुनरिह दधाति॥
स्वर्ण सूर्यः स्वाहेति॥
असौ वा आदित्यः सूर्यो ऽमुं तदादित्यमस्य सर्वस्योत्तमं दधाति तस्मादेषो ऽस्य सर्वस्योत्तमः॥
पञ्चैता आहुतीर्जुहोति॥
पञ्चचितिको ऽग्निः पञ्च ऽर्तवः संवत्सरः संवत्सरो ऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनावेतत्सन्तनोति सन्दधाति॥
यद्वेवाह॥
स्वर्ण घर्मः स्वाहा स्वर्णार्कः स्वाहेत्यस्यैवैतान्यग्नेर्नामानि तान्येतत्प्रीणाति तानि हविषा देवतां करोति यस्यै वै देवतायै हविर्गृह्यते सा देवता न सा यस्यै न गृह्यते ऽथो एतानेवैतदग्नीनस्मिन्नग्नौ नामग्राहं दधाति॥
पञ्चैता आहुतीर्जुहोति॥
पञ्चचितिको ऽग्निः पञ्च पञ्च ऽर्तवः संवत्सरः संवत्सरो ऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनमेतदन्नेन प्रीणाति॥
अथात आहुतीनामेवावपनस्य॥
यां कां च ब्राह्मणवतीमाहुतिं विद्यात्तमेतस्मिन्काले जुहुयात्कामेभ्यो वा एतं रथं युङ्क्ते तद्यां कां चात्राहुतिं जुहोत्याप्तां तां सतीं जुहोति॥
तदाहुः॥
न जुहुयान्नेदतिरेचयानीति स वै जुहुयादेव कामेभ्यो वा एता आहुतयो हूयन्ते न वै कामानामतिरिक्तमस्ति॥
अथ प्रत्येत्य धिष्ण्यानां काले धिष्ण्यान्निवपति॥
अग्नय एते यद्धिष्ण्या अग्नीनेवैतच्चिनोति ता एता विशः क्षत्रमयमग्निश्चितः क्षत्रं च तद्विशं च करोत्यमुम् पूर्वं चिनोत्यथेमान्क्षत्रं तत्कृत्वा विशं करोति॥
एक एष भवति॥
एकस्थं तत्क्षत्रमेकस्थां श्रियं करोति बहव इतरे विशि तद्भमानं दधाति॥
पञ्चचितिक एष भवति॥
एकचितिका इतरे क्षत्रं तद्वीर्येणात्यादधाति क्षत्रं विशो वीर्यवत्तरं करोत्यूर्ध्वमेतं चिनोति क्षत्रं तदूर्ध्वं चिति भिश्चिनोति तिरश्च इतरान्क्षत्राय तद्विशमधस्तादुपनिषादिनीं करोति॥
उभाभ्यां यजुष्मत्या च लोकम्पृणया चैतं चिनोति॥
लोकम्पृणयैवेमान्क्षत्रमेव तद्वीर्येणात्यादधाति क्षत्रं विशो वीर्यवत्तरं करोति विशं क्षत्रादवीर्यतराम्॥
स यदिमांलोकम्पृणयैव चिनोति क्षत्रं वै लोकम्पृणा क्षत्रं तद्विश्यत्तारं दधात्युभयांश्चिनोत्यध्वरस्य चाग्नेश्चाध्वरस्य पूर्वानथाग्नेस्तस्योक्तो बन्धुर्यं-यमेवाध्वरधिष्ण्यं निवपति तं-तं चिनोत्याग्नीध्रीयम् प्रथमं चिनोति तं हि प्रथमं निवपति दक्षिणत उदङ्ङासीनस्तस्योक्तो बन्धुः॥
तस्मिन्नष्टाविष्टका उपदधाति॥
अष्टाक्षरा गायत्री गायत्रो ऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावन्तमेवैनमेतच्चिनोति तासामश्मा पृश्निर्नवमो नव वै प्राणाः सप्त शीर्षन्नवाञ्चौ द्वौ तानेवास्मिन्नेतद्दधाति यश्चिते ऽग्निर्निधीयते स दशमो दश वै प्राणा मध्यमाग्नीध्रम् मध्यतस्तत्प्राणान्दधाति मध्ये ह वा एतत्प्राणाः सन्त इति चेति चात्मानमनुव्युच्चरन्ति॥
एकविंशतिं होत्रीय उपदधाति॥
एकविंशतिर्वेव परिश्रितस्तस्योक्तो बन्धुरेकादश ब्राह्मणाछंस्य एकादशाक्षरा वै त्रिष्टुप्त्रैष्टुभ इन्द्र ऐन्द्रो ब्राह्मणाछंस्यष्टावष्टावितरेषु तस्योक्तो बन्धुः॥
षण्मार्जालीये॥
षड्वा ऋतवः पितरस्तं हैतमृतवः पितरो दक्षिणतः पर्यूहिरे स एषामेष दक्षिणतः स वा इतीममुपदधातीतीमानित्यमुं विशं तत्क्षत्रमभिसम्मुखां करोति॥
अथैनान्परिश्रिद्भिः परिश्रयति॥
आपो वै परिश्रितो ऽद्भिरेवैनांस्तत्परितनोति स वै पर्येव निदधाति क्षत्रं हैता अपां याः खातेन यन्त्यथ हैता विशो यानीमानि वृथोदकानि स यदमुं खातेन परिश्रयति क्षत्रे तत्क्षत्रं दधाति क्षत्रं क्षत्रेण परिश्रयत्यथ यदिमान्पर्येव निदधाति विशि तद्विशं दधाति विशा विशम् परिश्रयति तेषां वै यावत्य एव यजुष्मत्यस्तावत्यः परिश्रितो यावत्यो ह्येवामुष्य यजुष्मत्यस्तावत्यः परिश्रितः क्षत्रायैव तद्विशं कृतानुकरामनुवर्त्मानं करोति॥
अथैषु पुरीषं निवपति॥
तस्योक्तो बन्धुस्तूष्णीमनिरुक्ता हि विडथाग्नीषोमीयस्य पशुपुरोडाशमनु दिशामवेष्टीर्निर्वपति दिश एषो ऽग्निस्ताभ्य एतानि हवींषि निर्वपति तदेना हविषा देवतां करोति यस्यै वै देवतायै हविर्गृह्यते सा देवता न सा यस्यै न गृह्यते पञ्च भवन्ति पञ्च हि दिशः॥
ददाहुः॥
दशहविषमेवैतामिष्टिं निर्वपेत्सा सर्वस्तोमा सर्वपृष्ठा सर्वाणि छन्दांसि सर्वा दिशः सर्व ऋतवः सर्वम्वेतदयमग्निस्तदेनं हविषा देवतां करोति यस्यै वै देवतायै हविर्गृह्यते सा देवता न सा यस्यै न गृह्यते दश भवन्ति दशाक्षरा विराड्विराडग्निर्दश दिशो दिशो ऽग्निर्दश प्राणाः प्राणा आग्नेर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनमेतदन्नेन प्रीणाति॥
तत्त्वै देवस्वामेव॥
एतानि हवींषि निर्वपेदेता ह देवताः सुता एतेन सवेन येनैतत्सोष्यमाणो भवति ता एवैतत्प्रीणाति ता अस्मा इष्टाः प्रीता एतं सवमनुमन्यन्ते ताभिरनुमतः सूयते यस्मै वै राजानो राज्यमनुमन्यन्ते स राजा भवति न स यस्मै न तद्यदेता देवताः सुता एतेन सवेन यद्वैनमेता देवता एतस्मै सवाय सुवते तस्मादेता देवस्वः॥
ता वै द्विनाम्न्यो भवन्ति॥
द्विनामा वै सवेना सुतो भवति यस्मै वै सवाय सूयते येन वा सवेन सूयते तदस्य द्वितीयम् नाम॥
अष्टौ भवन्ति॥
अष्टाक्षरा गायत्री गायत्रो ऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनमेतदन्नेन प्रीणाति॥
तदाहुः॥
नैतानि हवींषि निर्वपेन्नेदतिरेचयानीति तानि वै निर्वपेदेव कामेभ्यो वा एतानि हवींषि निरुप्यन्ते न वै कामानामतिरिक्तमस्ति यद्वै किं च पशुपुरोडाशमनु हविर्निरुप्यते पशावेव स मध्यतो मेधो धीयत उभयानि निर्वपत्यध्वरस्य चाग्नेश्चाध्वरस्य पूर्वमथाग्नेस्तस्योक्तो बन्धुरुच्चैः पशुपुरोडाशो भवत्युपांश्वेतानीष्टिर्ह्यनुब्रूहि प्रेष्येति पशुपुरोडाशस्याहानुब्रूहि यजेत्येतेषामिष्टिर्हि समानः स्विष्टकृत्समानीडेष्टा देवता भवन्त्यसमवहितं स्विष्टकृते॥
अथैन पूर्वाभिषेकेणाभिमृशति॥
सविता त्वा सवानां सुवतामेष वो ऽमी राजा सोमो ऽस्माकम् ब्राह्मणानां राजेति ब्राह्मणानेवापोद्धरत्यनाद्यान्करोति॥
अथ प्रातः प्रातरनुवाकमुपाकरिष्यन्॥
अग्निं युनक्ति युक्तेन समश्नवा इति तेन युक्तेन सर्वान्कामान्त्समश्नुते तं वै पुरस्तात्सर्वस्य कर्मणो युनक्ति तद्यत्किं चात्र ऊर्ध्वं क्रियते युक्ते तत्सर्वं समाधीयते॥
परिधिषु युनक्ति॥
अग्नय एते यत्परिधयो ऽग्निभिरेव तदग्निं युनक्ति॥
स मध्यमम् परिधिमुपस्पृश्य॥
एतद्यजुर्जपत्यग्निं युनज्मि शवसा घृतेनेति बलं वै शवो ऽग्निं युनज्मि बलेन च घृतेन चेत्येतद्दिव्यं सुपर्णं वयसा बृहन्तमिति दिव्यो वा एष सुपर्णो वयसो बृहन्धूमेन तेन वयं गमेम ब्रध्नस्य विष्टपं स्वर्गं लोकं रोहन्तो ऽधि नाकमुत्तममित्येतत्॥
अथ दक्षिणे॥
इमौ ते पक्षावजरौ पतत्रिणौ याभ्यां रक्षांस्यपहंस्यग्ने ताभ्याम् पतेम सुकृतामु लोकं यत्र ऋषयो जग्मुः प्रथमजाः पुराणा इत्यमूनेतदृषीनाह॥
अथोत्तरे॥
इन्दुर्दक्षः श्येन ऋतावा हिरण्यपक्षः शकुनो भुरण्युरित्यमृतं वै हिरण्यममृतपक्षः शकुनो भर्तेत्येतन्महान्त्सधस्थे ध्रुव आ निषत्तो नमस्ते अस्तु मा मा हिंसीरित्यात्मनः परिदां वदते॥
तद्यन्मध्यमं यजुः॥
स आत्माथ ये अभितस्तौ पक्षौ तस्मात्तेपक्षवती भवतः पक्षौ हि तौ॥
त्रिभिर्युनक्ति॥
त्रिवृदग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनमेतद्युनक्ति॥
अथ राजानमभिषुत्याग्नौ जुहोति॥
एष वै स सव एतद्वै तत्सूयते यमस्मै तमेता देवताः सवमनुमन्यन्ते याभिरनुमतः सूयते यस्मै वै राजानो राज्यमनुमन्यन्ते स राजा भवति न स यस्मै न तद्यदग्नौ जुहोति तदग्निमभिषिञ्चति सो ऽस्यैष दैव आत्मा सोमाभिषिक्तो भवत्यमृताभिषिक्तो ऽथ भक्षयति तदात्मानमभिषिञ्चति सो ऽस्यायमात्मा सोमाभिषिक्तो भवत्यमृताभिषिक्तः॥
अग्नौ हुत्वाथ भक्षयति॥
दैवो वा अस्यैष आत्मा मानुषो ऽयं देवा उ वा अग्रे ऽथ मनुष्यास्तस्मादग्नौ हुत्वाथ भक्षयति॥
अथैनं विमुञ्चति॥
आप्त्वा तं कामं यस्मै कामायैनं युङ्क्ते यज्ञायज्ञियं स्तोत्रमुपाकरिष्यन्त्स्वर्गो वै लोको यज्ञायज्ञियमेतस्य वै गत्या एनं युङ्क्ते तदाप्त्वा तं कामं यस्मै कामायैनं युङ्क्ते॥
तं वै पुरस्तात्स्तोत्रस्य विमुञ्चति॥
स यदुपरिष्टात्स्तोत्रस्य विमुञ्चेत्पराङ् हैतं स्वर्गं लोकमतिप्रणश्येदथ यत्पुरस्तात्स्तोत्रस्य विमुञ्चति तत्सम्प्रति स्वर्गं लोकमाप्त्वा विमुञ्चति॥
परिधिषु विमुञ्चति॥
परिधिषु ह्येनं युनक्ति यत्र वाव योग्यं युञ्जन्ति तदेव तद्विमुञ्चन्ति॥
स सन्ध्योरुपस्पृश्य॥
एने यजुषी जपति तथा द्वे यजुषी त्रीन्परिधीननुविभवतो दिवो मूर्धासि पृथिव्या नाभिरिति दक्षिणे विश्वस्य मूर्धन्नधि तिष्ठसि श्रित इत्युत्तरे मूर्धवतीभ्याम् मूर्धा ह्यस्यैषो ऽप्सुमतीभ्यामग्नेरेतद्वैश्वानरस्य स्तोत्रं यद्यज्ञायज्ञियं शान्तिर्वा आपस्तस्मादप्सुमतीभ्याम्॥
द्वाभ्यां विमुञ्चति॥
द्विपाद्यजमानो यजमानो ऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनमेतद्विमुञ्चति त्रिभिर्युनक्ति तत्पञ्च पञ्चचितिको ऽग्निः पञ्च ऽर्तवः संवत्सरः संवत्सरो ऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावत्तद्भवति॥
तं हैके॥
प्रायणीय एवातिरात्रे युञ्जन्त्युदयनीये विमुञ्चन्ति संस्थारूपं वा एतद्यद्विमोचनं किम् पुरा संस्थायै संस्थारूपं कुर्यामेति न तथा कुर्यादहरहरहर्वा एष यज्ञस्तायते ऽहरहः सन्तिष्ठते ऽहरहरेनं स्वर्गस्य लोकस्य गत्यै युङ्क्ते ऽहरहरेनेन स्वर्गं लोकं गछति तस्मादहरहरेव युञ्ज्यादहरहर्विमुञ्चेत्॥
अथो यथा प्रायणीये ऽतिरात्रे॥
सामिधेनीरनूच्य ब्रूयादुदयनीय एवातो ऽनुवक्तास्मीति तादृक्तत्तस्मादहरहरेव युञ्ज्यदहरहर्विमुञ्चेत्॥
तद्धैतछाण्डिल्यः॥
कङ्कतीयेभ्यो ऽहरहःकर्म प्रदिश्य प्रवव्राजाहरहरेव वो युनजानहरहर्विमुञ्चानिति तस्मादहरहरेव युञ्ज्यादहरहर्विमुञ्चेत्॥