०३

अथातो वैश्वानरं जुहोति॥
अत्रैष सर्वो ऽग्निः संस्कृतः स एषो ऽत्र वैश्वानरो देवता तस्मा एतद्धविर्जुहोति तदेनं हविषा देवतां करोति यस्यै वै देवतायै हविर्गृह्यते सा देवता न सा यस्यै न गृह्यते द्वादशकपालो द्वादश मासाः संवत्सरः संवत्सरो वैश्वानरः॥
यद्वेवैतं वैश्वानरं जुहोति॥
वैश्वानरं वा एतमग्निं जनयिष्यन्भवति तमदः पुरस्ताद्दीक्षणीयायां रेतो भूतं सिञ्चति यादृग्वै योनौ रेतः सिच्यते तादृग्जायते तद्यत्तत्र वैश्वानरं रेतो भूतं सिञ्चति तस्मादयमिह वैश्वानरो जायत उपांशु तत्र भवति रेतो वै तत्र यज्ञ उपांशु वै रेतः सिच्यते निरुक्त इह निरुक्तं हि रेतो जातम् भवति॥
स यः स वैश्वानरः॥
इमे स लोका इयमेव पृथिवी विश्वमग्निर्नरो ऽन्तरिक्षमेव विश्वं वायुर्नरो द्यौरेव विश्वमादित्यो नरः॥
ते ये त इमे लोकाः॥
इदं तछिर इदमेव पृथिव्योषधयः श्मश्रूणि तदेतद्विश्वं वागेवाग्निः स नरः सोपरिष्टादस्य भवत्युपरिष्टाद्ध्यस्या अग्निः॥
इदमेवान्तरिक्षम्॥
तस्मादेतदलोमकमलोमकमिव ह्यन्तरिक्षं तदेतद्विश्वम् प्राण एव वायुः स नरः स मध्येनास्य भवति मध्येन ह्यन्तरिक्षस्य वायुः॥
शिर एव द्यौः॥
नक्षत्राणि केशास्तदेतद्विश्वं चक्षुरेवादित्यः स नरस्तदवस्ताछोर्ष्णो भवत्यवस्ताद्धि दिव आदित्यस्तदस्यैतछिरो वैश्वानर आत्मायमग्निश्चित आत्मायमग्निश्चित आत्मानमेवास्यैतत्संस्कृत्य शिरः प्रतिदधाति॥
अथ मारुतान्जुहोति॥
प्राणा वै मारुताः प्राणानेवास्मिन्नेतद्दधाति वैश्वानरं हुत्वा शिरो वै वैश्वानरः शीर्षंस्तत्प्राणान्दधाति॥
एक एष भवति॥
एकमिव हि शिरः सप्तेतरे सप्तकपाला यदु वा अपि बहु कृत्वः सप्त-सप्त सप्तैव तछीर्षण्येव तत्सप्त प्राणान्दधाति॥
निरुक्त एष भवति॥
निरुक्तमिव हि शिरो ऽनिरुक्ता इतरे ऽनिरुक्ता इव हि प्राणास्तिष्ठन्नेतं जुहोति तिष्ठतीव हि शिर आसीन इतरानासत इव हि प्राणाः॥
तद्यौ प्रथमौ मारुतौ जुहोति॥
इमौ तौ प्राणौ तौ मध्ये वैश्वानरस्य जुहोति मध्ये हीमौ शीर्ष्णः प्राणौ॥
अथ यौ द्वितीयौ॥
इमौ तौ तौ समन्तिकतरं जुहोति समन्तिकतरमिव हीमौ प्राणौ॥
अथ यौ तृतीयौ॥
इमौ तौ तौ समन्तिकतरं जुहोति समन्तिकतरमिव हीमौ प्राणौ वागेवारण्ये ऽनूच्यः सो ऽरण्ये ऽनूच्यो भवति बहु हि वाचा घोरं निगछति॥
यद्वेव वैश्वानरमारुतान्जुहोति॥
क्षत्रं वै वैश्वानरो विण्मारुताः क्षत्रं च तद्विशं च करोति वैश्वानरम् पूर्वं जुहोति क्षत्रं तत्कृत्वा विशं करोति॥
एक एष भवति॥
एकस्थं तत्क्षत्रमेकस्थां श्रियं करोति बहव इतरे विशि तद्भूमानं दधाति॥
निरुक्त एष भवति॥
निरुक्तमिव हि क्षत्रमनिरुक्ता इतरे ऽनिरुक्तेव हि विट् तिष्ठन्नेतं जुहोति तिष्ठतीव हि क्षत्रमासीन इतरानास्त इव हि विट्॥
तं वा एतम्॥
पुरो ऽनुवाक्यवन्तं याज्यवन्तं वषट्कृते स्रुचा जुहोति हस्तेनैवेतरानासीनः स्वाहाकारेण क्षत्रायैव तद्विशं कृतानुकरामनुवर्त्मानं करोति॥
तदाहुः॥
कथमस्यैते पुरो ऽनुवाक्यवन्तो याज्यवन्तो वषट्कृते स्रुचा हुता भवन्तीत्येतेषां वै सप्तपदानाम् मारुतानां यानि त्रीणि प्रथमानि पदानि सा त्रिपदा गायत्री पुरो ऽनुवाक्याथ यानि चत्वार्युत्तमानि सा चतुष्पदा त्रिष्टुब्याज्येदमेव कपुछलमयं दण्डः स्वाहाकारो वषट्कार एवमु हास्यैते पुरो ऽनुवाक्यवन्तो याज्यवन्तो वषट्कृते स्रुचा हुता भवन्ति॥
तद्यम् प्रथमं दक्षिणतो मारुतं जुहोति॥
याः सप्त प्राच्यः स्रवन्ति ताः स स सप्तकपालो भवति सप्त हि ता याः प्राच्यः स्रवन्ति॥
अथ यम् प्रथममुत्तरतो जुहोति॥
ऋतवः स स सप्तकपालो भवति सप्त ह्यृतवः॥
अथ यं द्वितीयं दक्षिणतो जुहोति॥
पशवः स स सप्तकपालो भवति सप्त हि ग्राम्याः पशवस्तमनन्तर्हितम् पूर्वस्माज्जुहोत्यप्सु तत्पशून्प्रतिष्ठापयति॥
अथ यं द्वितीयमुत्तररो जुहोति॥
सप्त ऋषयः स स सप्तकपालो भवति सप्त हि सप्त ऽर्षयस्तमनन्तर्हितम् पूर्वस्माज्जुहोत्यृतुषु तदृषीन्प्रतिष्ठापयति॥
अथ यं तृतीय दक्षिणतो जुहोति॥
प्राणाः स स सप्तकपालो भवति सप्त हि शीर्षन्प्राणास्तमनन्तर्हितम् पूर्वस्माज्जुहोत्यनन्तर्हितांस्तछीर्ष्णः प्राणान्दधाति॥
अथ यं तृतीयमुत्तरतो जुहोति॥
छन्दांसि स स सप्तकपालो भवति सप्त हि चतुरुत्तराणि छन्दांसि तमनन्तर्हितम् पूर्वस्माज्जुहोत्यनन्तर्हितानि तदृषिभ्यश्छन्दांसि दधाति॥
अथ याः सप्त प्रतीच्यः स्रवन्ति॥
सो ऽरण्ये ऽनूच्यः स सप्तकपालो भवति सप्त हि ता याः प्रतीच्यः स्रवन्ति सो ऽस्यैषो ऽवाङ् प्राण एतस्य प्रजापतेः सो ऽरण्ये ऽनूच्यो भवन्ति तिर इव तद्यदरण्यं तिर इवं तद्यदवाङ् प्राणस्तस्माद्य एतासां नदीनाम् पिबन्ति रिप्रतराः शपनतरा आहनस्यवादितरा भवन्ति तद्यद्यदेतदाहेदम् मारुता इति तदस्मा अन्नं कृत्वापिदधाति तेनैनम् प्रीणाति॥
स यः स वैश्वानरो॥
ऽसौ स आदित्यो ऽथ ये ते मारुता रश्मयस्ते ते सप्त सप्तकपाला भवन्ति सप्त-सप्त हि मारुता गणाः॥
स जुहोति॥
शुक्रज्योतिश्च चित्रज्योतिश्च सत्यज्योतिश्च ज्योतिष्मांश्चेति नामान्येषामेतानि मण्डलमेवैतत्संस्कृत्याथास्मिन्नेतान्रश्मीन्नामग्राहम् प्रतिदधाति॥
अथातो वसोर्धारां जुहोति॥
अत्रैष सर्वो ऽग्निः संस्कृतः स एषो ऽत्र वसुस्तस्मै देवा एतां धाराम् प्रागृह्णंस्तयैनमप्रीणंस्तद्यदेतस्मै वसव एतां धाराम् प्रागृह्णंस्तस्मादेनां वसोर्धारेत्याचक्षते तथैवास्मा अयमेतां धाराम् प्रगृह्णाति तयैनम् प्रीणाति॥
यद्वेवैतां वसोर्धारां जुहोति॥
अभिषेक एवास्यैष एतद्वा एनं देवाः सर्वं कृत्स्नं संस्कृत्याथैनमेतैः कामैरभ्यषिञ्चन्नेतया वसोर्धारया तथैवैनमयमेतत्सर्वं कृत्स्नं संस्कृत्याथैनमेतैः कामैरभिषिञ्चत्येतया वसोर्धारयाज्येन पञ्चगृहीतेनौदुम्बर्या स्रुचा तस्योक्तो बन्धुः॥
वैश्वानरं हुत्वा॥
शिरो वै वैश्वानरः शीर्ष्णो वा अन्नमद्यते ऽथो शीर्षतो वा अभिषिच्यमानो ऽभिषिच्यते मारुतान्हुत्वा प्राणा वै मारुताः प्राणैरु वा अन्नमद्यते ऽथो प्राणेषु वा अभिषिच्यमानो ऽभिषिच्यते॥
तद्वा अरण्ये ऽनूच्ये॥
वाग्वा अरण्ये ऽनूच्यो वाचो वा अन्नमद्यते ऽथो वाचा वा अभिषिच्यमानो ऽभिषिच्यते तदेतत्सर्वं वसु सर्वे ह्येते कामाः सैषा वसुमयो धारा यथा क्षोरस्य वा सर्पिषो वैवमारभ्यायैवेयमाज्याहुतिर्हूयते तद्यदेषा वसुमयी धारा तस्मादेनां वसोधारेत्याचक्षते॥
स आह॥
इदं च म इदं च म इत्यनेन च त्वा प्रीणाम्यनेन चानेन च त्वाभिषिञ्चाम्यनेन चेत्येतदथो इदं च मे देहीदं च म इति सा यदैवैषा धाराग्निम् प्राप्नुयादथैतद्यजुः प्रतिपद्येत॥
एतद्वा एनं देवाः॥
एतेनान्नेन प्रीत्वैतैः कामैरभिषिच्यैतया वसोर्धारयाथैनमेतान्कामानयाचन्त तेभ्य इष्टः प्रीतो ऽभिषिक्त एतान्कामान्प्रायछत्तथैवैनमयदेतेनान्नेन प्रीत्वैतैः कामैरभिषिच्यैतया वसोर्धारयाथैनमेतान्कामान्याचते तस्मा इष्टः प्रीतो ऽभिषिक्त एतान्कामान्प्रयछति द्वौ-द्वौ कामौ संयुनक्त्यव्यवछेदाय यथा व्योकसौ संयुञ्ज्यादेवं यज्ञेन कल्पन्तामिति॥
एतद्वै देवा अब्रुवन्॥
केनेमान्कामान्प्रतिग्रहीष्याम इत्यात्मनैवेत्यब्रुवन्यज्ञो वै देवानामात्मा यज्ञ उ एव यजमानस्य स यदाह यज्ञेन कल्पन्तमित्यात्मना मे कल्पन्तामित्येवैतदाह॥
द्वादशसु कल्पयति॥
द्वादश मासाः संवत्सरः संवत्सरो ऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनमेतदन्नेन प्रीणात्यथो तावतैवैनमेतदन्नेनाभिषिञ्चति चतुर्दशसु कल्पयत्यष्टासु कल्पयति दशसु कल्पयति त्रयोदशसु कल्पयति॥
अथार्धेन्द्राणि जुहोति॥
सर्वमेतद्यदर्धेन्द्राणि सर्वेणैवैनमेतत्प्रीणात्यथो सर्वेणैवैनमेतदभिषिञ्चति॥
अथ ग्रहान्जुहोति॥
यज्ञो वै ग्रहा यज्ञेनैवैनमेतदन्नेन प्रीणात्यथो यज्ञेनैवैनमेतदन्नेनाभिषिञ्चति॥
अथैतान्यज्ञक्रतून्जुहोति॥
अग्निश्च मे घर्मश्च म इत्येतैरेवैनमेतद्यज्ञक्रतुभिः प्रीणात्यथो एतैरेवैनमेतद्यज्ञक्रतुभिरभिषिञ्चति॥
अथायुज स्तोमान्जुहोति॥
एतद्वै देवाः सर्वान्कामानाप्त्वायुग्भि स्तोमैः स्वर्गं लोकमायंस्तथैवैतद्यजमानः सर्वान्कामानाप्त्वायुग्भि स्तोमैः स्वर्गं लोकमेति॥
तद्वै त्रयस्त्रिंशादिति॥
अन्तो वै त्रयस्त्रिंशो ऽयुजां स्तोमानामन्तत एव तद्देवाः स्वर्गं लोकमायंस्तथैवैतद्यजमानो ऽन्तत एव स्वर्गं लोकमेति॥
अथ युग्मतो जुहोति॥
एतद्वै छन्दांस्यब्रुवन्यातयामा वा अयुज स्तोमा युग्मभिर्वयं स्तोमैः स्वर्गं लोकययामेति तानि युग्मभि स्तोमैः स्वर्गं लोकमायंस्तथैवैतद्यजमानो युग्मभि स्तोमैः स्वर्गं लोकमेति॥
तद्वा अष्टाचत्वरिंशादिति॥
अन्तो वा अष्टाचत्वारिंशो युग्मतां स्तोमानामन्तत एव तच्छन्दांसि स्वर्गं लोकमायंस्तथैवैतद्यजमानो ऽन्तत एव स्वर्गं लोकमेति॥
स आह॥
एका च मे तिस्रश्च मे चतस्रश्च मे ऽष्टौ च म इति यथा वृक्षं रोहन्नुत्तरामुत्तरां शाखां समालम्भं रोहेत्तादृक्तद्यद्वेव स्तोमान्जुहोत्यन्नं वै स्तोमा अन्नेनैवैनमेतदभिषिञ्चति॥
अथ वयांसि जुहोति॥
पशवो वै वयांसि पशुभिरेवैनमेतदन्नेन प्रीणात्यथो पशुभिरेवैनमेतदन्नेनाभिषिञ्चति॥
अथ नामग्राहं जुहोति॥
एतद्वै देवाः सर्वान्कामानाप्त्वाथैतमेव प्रत्यक्षमप्रीणंस्तथैवैतद्यजमानः सर्वान्कामानाप्त्वाथैतमेव प्रत्यक्षम् प्रीणाति वाजाय स्वाहा प्रसवाय स्वाहेति नामान्यस्यैतानि नामग्राहमेवैनमेतत्प्रीणाति॥
त्रयोदशैतानि नामानि भवन्ति॥
त्रयोदश मासाः संवत्सरस्त्रयोदशाग्नेश्चितिपुरीषाणि यावानग्निर्यावत्यस्य मात्रा तावतैवैनमेतत्प्रीणाति यद्वेव नामग्राहं जुहोति नामग्राहमेवैनमेतदभिषिञ्चति॥
अथाह॥
इयं ते राण्मित्राय यन्तासि यमन ऊर्जे त्वा वृष्ट्यै त्वा प्रजानां त्वाधिपत्यायेत्यन्नं वा ऊर्गन्नं वृष्ठिरन्नेनैवैनमेतत्प्रीणाति॥
यद्वेवाह॥
इयं ते राण्मित्राय यन्तासि यमन ऊर्जे त्वा वृष्ट्यै त्वा प्रजानां त्वाधिपत्यायेतीदं ते राज्यमभिषिक्तो ऽसीत्येतन्मित्रस्य त्वं यन्तासि यमन ऊर्जे च नो ऽसि वृष्ट्यै च नो ऽसि प्रजानां च न आधिपत्यायासीत्युपब्रुवत एवैनमेतदेतस्मै नः सर्वस्मा अस्येतस्मै त्वा सर्वस्मा अभ्यषिचामहीति तस्मादु हेदम् मानुषं राजानमभिषिक्तमुपब्रुवते॥
अथ कल्पान्जुहोति॥
प्राणा वै कल्पाः प्राणानेवास्मिन्नेतद्दधात्यायुर्यज्ञेन कल्पताम् प्राणो यज्ञेन कल्पतामित्येतानेवास्मिन्नेतत्कॢप्तान्प्राणान्दधाति॥
द्वादश कल्पान्जुहोति॥
द्वादश मासाः संवत्सरः संवत्सरो ऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवास्मिन्नेतत्कॢप्तान्प्राणान्दधाति यद्वेव कल्पान्जुहोति प्राणा वै कल्पा अमृतमु वै प्राणा अमृतेनैवैनमेतदभिषिञ्चति॥
अथाह स्तोमश्च यजुश्च ऋक्च साम स बृहच्च रथन्तरं चेति त्रयी हैषा विद्यान्नं वै त्रयी विद्यान्नेनैवैनमेतत्प्रीणात्यथो अन्नेनैवैनमेतदभिषिञ्चति स्वर्देवा अग्नमामृता अभूमेति स्वर्हि गछत्यमृतो हि भवति प्रजापतेः प्रजा अभूमेति प्रजापतेर्हि प्रजा भवति वेट् स्वाहेति वषट्कारो हैष परो ऽक्षं यद्वेट्कारो वषट्कारेण वा वै स्वाहाकारेण वा देवेभ्यो ऽन्नम् प्रदीयते तदेनमेताभ्यामुभाभ्याम् प्रीणाति वषट्कारेण च स्वाहाकारेण चाथो एताभ्यामेवैनमेतदुभाभ्यामभिषञ्चत्यत्र तां स्रुचमनुप्प्रास्यति यदत्राज्यलिप्तं तन्नेद्बहिर्धाग्नेरसदिति॥
तस्यै वा एतस्यै वसोर्धारायै॥
द्यौरेवात्माभ्रमूधो विद्युत्स्तनो धारैव धारा दिवो ऽधि गामागछति॥
तस्यै गौरेवात्मा॥
ऊध एवोध स्तन स्तनो धारैव धारा गोरधि यजमानम्॥
तस्यै यजामान एवात्माम्॥
बाहुरूधः स्रुक्स्तनो धारैव धारा यजमानादधि देवान्देवेभ्यो ऽधि गां गोरधि यजमानं तदेतदनन्तमक्षय्यं देवानामन्नम् परिप्लवते स यो हैतदेवं वेदैवं हैवास्यैतदनन्तमक्षय्यमन्नम् भवत्यथातः सम्पदेवः॥
तदाहुः॥
कथममस्यैषा वमोर्धारा संवत्सरमग्निमाप्नोति कथं संवत्सरेणाग्निना सम्पद्यत इति षष्टिश्च ह वै त्राणि च शतान्येषा वसोर्धाराथ षडथ पञ्चत्रिंशत्ततो यानि षष्टिश्च त्रीणि च शतानि तावन्ति संवत्सरस्याहानि तत्संवत्सरस्याहान्याप्नोत्यथ यानि ष्ट् षड्वा ऋतवस्तदृतूनां रात्रीराप्नोति तदुभयानि संवत्सरस्याहोरात्राण्याप्नोत्यथ यानि पञ्चत्रिंशत्स त्रयोदशो मासः स आत्मा त्रिंशदात्मा प्रतिष्ठा द्वे प्राणा द्वे शिर एव पञ्चत्रिंशमेतावान्वै संवत्सर एवमु हास्यैषा वसोर्धारा संवत्सरमग्निमाप्नोत्येवं संवत्सरेणाग्निना सम्पद्यत एतावत्य उ वै शाण्डिले ऽग्नौ मध्यतो यजुष्मत्य इष्टका उपधीयन्ते ऽग्नयो हैते पृथग्यदेता इष्टका एवमु हास्यैते ऽग्नयः पृथग्वसोर्धारयाभिहुता भवन्ति॥
तदाहुः॥
कथमस्यैषा वसोर्धारा महदुक्थमाप्नोति कथम् महतोक्थेन सम्पद्यत इत्येतस्या एव वसोर्धारायै यानि नव प्रथमानि यजूंषि तत्त्रिवृछिरो ऽथ यान्यष्टाचत्वारिंशत्तौ चतुर्विंशौ पक्षावथ यानि पञ्चविंशतिः स पञ्चविंश आत्माथ यान्येकविंशतिस्तदेकविंशम् पुछमथ यानि त्रयस्त्रिंशत्स वशो ऽथ या अशीतयः सैवाशीतीनामाप्तिरशीतिभिर्हि महदुक्थमाख्यायते ऽथ यदूर्ध्वमशीतिभ्यो यदेवादो महत उक्थस्योर्ध्वमशीतिभ्य एतदस्य तदेवमु हास्यैषा वसोर्धारा महदुक्थमाप्नोत्येवम् महतोक्थेन सम्पद्यते॥
अथातो वाजप्रसवीयं जुहोति॥
अन्नं वै वाजो ऽन्नप्रसवीयं हास्यैतदन्नमेवास्मा एतेन प्रसौति॥
एतद्वा एनं देवाः॥
एतेनान्नेन प्रीत्वैतैः कामैरभिषिच्यैतया वसोर्धारयाथैनमेतद्भूय एवाप्रीणंस्तथैवैनमयमेतदेतेनान्नेन प्रीत्वैतैः कामैरभिषिच्यैतया वसोर्धारयाथैनमेतद्भूय एव प्रीणाति॥
यद्वेवैतद्वाजप्रसवीयं जुहोति॥
अभिषेक एवास्यैष एतद्वा एतं देवा एतेनान्नेन प्रीत्वैतैः कामैरभिषिच्यैतया वसोर्धारयाथैनमेतद्भूय एवाभ्यषिञ्चंस्तथैवैनमयमेतदेतेनान्नेन प्रीत्वैतैः कामैरभिषिच्यैतया वसोर्धारयाथैनमेतद्भूय एवाभिषिञ्चति॥
सर्वौषधम् भवति॥
सर्वमेतदन्नं यत्सर्वौषधं सर्वेणैवैनमेतदन्नेन प्रीणात्यथो सर्वेणैवैनमेतदन्नेनाभिषिञ्चति तेषामेकमन्नमुद्धरेत्तस्य नाश्नीयाद्यावज्जीवमौदुम्बरेण चमसेनौदुम्बरेण स्रुवेण तयोरुक्तो बन्धुश्चतुःस्रक्तो भवतश्चतस्रो वै दिशः सर्वाभ्य एवैनमेतद्दिग्भ्यो ऽन्नेन प्रीणात्यथो सर्वाभ्य एवैनमेतद्दिग्भ्यो ऽन्नेनाभिषिञ्चति॥
यद्वेवैतद्वाजप्रसवीयं जुहोति॥
एता ह देवताः सुता एतेन सवेन येनैतत्सोष्यमाणो भवति ता एवैतत्प्रीणाति ता अस्मा इष्टाः प्रीता एतं सवमनुमन्यन्ते ताभिरनुमतः सूयते यस्मै वै राजानो राज्यमनुमन्यन्ते स राजा भवति न स यस्मै न तद्यदग्नौ जुहोति तदग्निमभिषिञ्चत्यथ यदेताभ्यो देवताभ्यो जुहोति तदु तान्देवान्प्रीणाति य एतस्य सवस्येशते॥
अथ वा एतत्पार्थान्यपि जुहोति॥
एतद्वै देवा अकामयन्तात्रैव सर्वैः सवैः सूयेमहीति ते ऽत्रैव सर्वैः सवैरसूयन्त तथैवैतद्यजमानो ऽत्रैव सर्वैः सवैः सूयते॥
तद्यानि पार्थानि॥
तानि राजसूयस्य वाजप्रसवीयं तद्यत्तानि जुहोति तद्राजुसूयेन सूयते ऽथ यानि चतुर्दशोत्तराणि ततो यानि सप्त पूर्वाणि तानि वाजपेयस्य वाजप्रसवीयं तद्यत्तानि जुहोति तद्वाजपेयेन सूयते ऽथ यानि सप्तोत्तराणि तान्यग्नेस्तद्यत्तानि जुहोति तदग्निसवेन सूयते॥
स वै राजसूयस्य पूर्वाणि जुहोति॥
अथ वाजपेयस्य राजा वै राजुसूयेनेष्ट्वा भवति सम्राड्वाजपेयेन राज्यमु वा अग्रे ऽथ साम्राज्यं तस्माद्वाजपेयेनेष्ट्वा न राजसूयेन यजेत प्रत्यवरोहः स यथा सम्राट् सन्राजा स्यात्तादृक्तत्॥
अग्नेरुत्तमानि जुहोति॥
सर्वे हैते सवा यदग्निसवः सर्वं हैतदग्निसवेन सुतो भवति राजा च सम्राट्च तस्मादग्नेरुत्तमानि जुहोति॥
अथैनं कृष्णाजिने ऽभिषिञ्चति॥
यज्ञो वै कृष्णाजिनं यज्ञ एवैनमेतदभिषिञ्चति लोमतश्छन्दांसि वै लोमानि छन्दःस्वेवैनमेतदभिषिञ्चत्युत्तरतस्तस्योपरि बन्धुः प्राचीनग्रीवे तद्धि देवत्रा॥
तं हैके दक्षिणतो ऽग्नेरभिषिञ्चन्ति॥
दक्षिणतो वा अन्नस्योपचारस्तदेनमन्नस्यार्धादभिषिञ्चाम इति न तथा कुर्यादेषा वै दिक्पितॄणां क्षिप्रे हैतां दिशम् प्रैति यं तथाभिषिञ्चन्ति॥
आहवनीय उ हैके ऽभिषिञ्चति॥
स्वर्गो वै लोक आहवनीयस्तदेनं स्वर्गे लोके ऽभिषिञ्चाम इति न तथा कुर्याद्दैवो वा अस्यैष आत्मा मानुषो ऽयमनेन हास्य ते मर्त्येनात्मनैतं दैवमात्मनैतं दैवमानमनुप्रसजन्ति यं तथाभिषिञ्चन्ति॥
उत्तरत एवैनभिषिञ्चेत्॥
एषा होभयेषां देवमनुष्याणां दिग्यदुदीची प्राची स्वायामेवैनमेतद्दिश्यायत्तम् प्रतिष्ठितमभिषिञ्चति न वै स्व आयतने प्रतिष्ठितो रिष्यति॥
आसीनम् भूतमभिषिञ्चेत्॥
आस्त इव वै भूतस्तिष्ठ्न्तम् बुभूषन्तं तिष्ठतीव वै बुभूषन्बस्ताजिने पुष्टिकाममभिषिञ्चेत्कृष्णाजिने ब्रह्मवर्चसकाममुभयोरुभयकामं तदुत्तरतः पुछस्योत्तरलोम प्राचीनग्रीवमुपस्तृणाति॥
आस्पृष्टम् परिश्रितः॥
तद्यत्कृष्णाजिनमास्पृष्टम् परिश्रितो भवति तथो हास्यैष दैव आत्मा कृष्णाजिने ऽभिषिक्तो भवत्यथ यदेनमन्वारब्धमग्निं तिष्ठन्तमभिषिञ्चति तथा हैतस्माद्दैवादभिषेकान्न व्यवछिद्यते॥
अग्नौ हुत्वाथैनमभिषिञ्चति॥
दैवो वा अस्यैष आत्मा मानुषो ऽयं देवा उ वा अग्रे ऽथ मनुष्यास्तस्मादग्नौ हुत्वाथैनं तस्यैव परिषिष्टेनाभिषिञ्चत्यत्र तं स्रुवमनुप्रास्यति॥
अथैनं दक्षिणम् बाहुमनुपर्यावृत्याभिषिञ्चति॥
देवस्य त्वा सवितुः प्रसवे ऽश्विनोर्बाहुभ्याम् पूष्णो हस्ताभ्यां सरस्वत्यै वाचो यन्तुर्यन्त्रेणाग्नेः साम्राज्येनाभिषिञ्चामीति वाग्वै सरस्वती तस्या इदं सर्वं यन्त्रं सवितृप्रसूत एवैनमेतदनेन सर्वेण सरस्वत्यै वाचो यन्तुर्यन्त्रेणाग्नेः साम्राज्येनाभिषिञ्चत्यत्र तं चमसमनुप्रास्यति यदत्र विलिप्तं तन्नेद्बहिर्धाग्नेरसदिति॥
तं वै मध्ये पार्थानामभिषिञ्चति॥
संवत्सरो वै पार्थानि संवत्सरस्यैवैनमेतन्मध्यत आदधाति षट् पुरस्ताज्जुहोति षडुपरिष्टात्षड्वा ऋतव ऋतुभिरेवैनमेततत्सुषुवाणमुभयतः परिगृह्णाति बृहस्पतिः पूर्वेषामुत्तमो भवतीन्द्र उत्तरेषाम् प्रथमो ब्रह्म वै बृहस्पतिः क्षत्रमिन्द्रो ब्रह्मणा चैवैनमेतत्क्षत्रेण च सुषुवाणमुभयतः परिगृह्णाति॥