अथातः शतरुद्रियं जुहोति॥
अत्रैष सर्वो ऽग्निः संस्कृतः स एषो ऽत्र रुद्रो देवता तस्मिन्देवा एतदमृतं रूपमुत्तममदधुः स एषो ऽत्र दीप्यमानो ऽतिष्ठदन्नमिच्छमानस्तस्माद्देवा अबिभयुर्यद्वै नो ऽयं न हिंस्यादिति॥
ते ऽब्रुवन्॥
अन्नमस्मै सम्भराम तेनैनं शमयामेति तस्मा एतदन्नं समभरञ्छान्तदेवत्यं तेनैनमशमयंस्तद्यदेतम् देवमेतेनाशमयंस्तस्माछान्तदेवत्यं शान्तदेवत्यं ह वै तछतरुद्रियमित्याचक्षते परो ऽक्षम् परो ऽक्षकामा हि देवास्तथैवास्मिन्नयमेतदमृतं रूपमुत्तमं दधाति स एषो ऽत्र दीप्यमानस्तिष्ठत्यन्नमिच्छमानस्तस्मा एतदन्नं सम्भरति शान्तदेवत्यं तेनैनं शमयति॥
जर्तिलैर्जुहोति॥
जायत एष एतद्यच्चीयते स एष सर्वस्मा अन्नाय जायत उभयम्वेतदन्नं यज्जर्तिला यच्च ग्राम्यं यच्चारण्यं यदह तिलास्तेन ग्राम्यं यदकृष्टे पच्यन्ते तेनारण्यमुभयेनैवैनमेतदन्नेन प्रीणाति ग्राम्येण चारण्येन च॥
अर्कपर्णेन जुहोति॥
अन्नमर्को ऽन्नेनैवैनमेतत्प्रीणाति॥
परिश्रित्सु जुहोति॥
अग्नय एते यत्परिश्रितस्तथो हास्यैता अग्निमत्येवाहुतयो हुता भवन्ति॥
यद्वेवैतछतरुद्रियं जुहोति॥
प्रजापतेर्विस्रस्ताद्देवता उदक्रामंस्तमेक एव देवो नाजहान्मन्युरेव सो ऽतिन्नन्तर्विततो ऽतिष्ठत्सो ऽरोदीत्तस्य यान्यश्रूणि प्रास्कन्दंस्तान्यस्मिन्मन्यौ प्रत्यतिष्ठन्त्स एव शतशीर्षा रुद्रः समभवत्सहस्राक्षः शतेषुधिरथ या अन्या विप्रुषो ऽपतंस्ता असङ्ख्याता सहस्राणीमांलोकाननुप्राविशंस्तद्यद्रुदितात्समद्रुद्राः सो ऽयं शतशीर्षा रुद्रः सहस्राक्षः शतेषुधिरधिज्यधन्वा प्रतिहितायी भीषयमाणो ऽतिष्ठदन्नमिच्छमानस्तस्माद्देवा अबिभयुः॥
ते प्र्जापतिमब्रुवन्॥
अस्माद्वै बिभीमो यद्वै नो ऽयं न हिंस्यादिति सो ऽब्रवीदन्नमस्मै सम्भरत तेनैनं शमयतेति तस्मा एतदन्नं समभरञ्छतरुद्रियं तेनैनमशमयंस्तद्यदेतं शतशीर्षाणां रुद्रमेतेनाशमयंस्तस्माछतद्यदेतं शतशीर्षाणां रुद्रमेतेनाशमयंस्तस्माछतशीर्षरुद्रशमनीयं शतशीर्षरुद्रशमनीयं ह वै तछतरुद्रियमित्याचक्षते परो ऽक्षम् परो ऽक्षकामा हि देवास्तथैवास्मा अयमेतदन्नं सम्भरति शतरुद्रियं तेनैनं शमयति॥
गवेधुकासक्तुभिर्जुहोति॥
यत्र वै सा देवता विस्रस्ताशयत्ततो गवेधुकाः समभवन्त्स्वेनैवैनमेतद्भागेन स्वेन रसेन प्रीणाति॥
अर्कपर्णेन जुहोति॥
एतस्य वै देवस्याशयादर्कः समभवत्स्वेनैवैनमेतद्भागेन स्वेन रसेन प्रीणाति॥
परिश्रित्सु जुहोति॥
लोमानि वै परिश्रितो न वै लोमसु विषं न किं चन हिनस्त्युत्तरार्धे ऽग्नेरुदङ् तिष्ठन्जुहोत्येतस्यां ह दिश्येतस्य देवस्य गृहाः स्वायामेवैनमेतद्दिशि प्रीणाति स्वायां दिश्यवयजते॥
स वै जानुदघ्ने प्रथमं स्वाहाकरोति॥
अध-इव वै तद्यज्जानुदघ्नमध इव तद्यदयं लोकस्तद्य इमं लोकं रुद्राः प्राविशंस्तांस्तत्प्रीणाति॥
अथ नाभिदघ्ने॥
मध्यमिव वै तद्यन्नाभिदघ्नम् मध्यमिवान्तरिक्षलोकस्तद्ये ऽन्तरिक्षलोकं रुद्राः प्राविशंस्तांस्तत्प्रीणाति॥
अथ मुखदघ्न॥
उपरीव वै तद्यन्मुखदघ्नमुपरीव तद्यदसौ लोकस्तद्ये ऽमुं लोकं रुद्राः प्राविशंस्तांस्तत्प्रीणाति स्वाहाकारेणान्नं वै स्वाहाकारो ऽन्नेनैवैनानेतत्प्रीणाति॥
नमस्ते रुद्र मन्यव इति॥
य एवास्मिन्त्सो ऽन्तर्मन्युर्विततो ऽतिष्ठत्तस्मा एतन्नमस्करोत्युतो त इषवे नमो बाहुभ्यामुत ते नम इतीष्वा च हि बाहुभ्यां च भीषयमाणो ऽतिष्ठत्॥
स एष क्षत्रं देवः॥
यः स शतशीर्षा समभवद्विश इम इतरे ये विप्रुङ्भ्यः समभवंस्तस्मा एतस्मै क्षत्रायैता विश एतम् पुरस्तादुद्धारमुदहरन्य एष प्रथमो ऽनुवाकस्तेनैनमप्रीणंस्तथैवास्मा अयमेतम् पुरस्तादुद्धारमुद्धरति तेनैनम् प्रीणाति तस्मादेष एकदेवत्यो भवति रौद्र एतं ह्येतेन प्रीणाति॥
चतुर्दशैतानि यजूंषि भवन्ति॥
त्रयोदश मासाः संवत्सरः प्रजापतिश्चतुर्दशः प्रजापतिरग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनमेतदन्नेन प्रीणाति नमो नम इति यज्ञो वै नमो यज्ञेनैवैनमेतन्नमस्कारेण नमस्यति तस्मादु ह नायज्ञियम् ब्रूयान्नमस्त इति यथा हैनम् ब्रूयाद्यज्ञस्त इति तादृक्तत्॥
अथ द्वन्द्विभ्यो जुहोति॥
नमो ऽमुष्मै चामुष्मै चेति तद्यथा वै ब्रूयादसौ त्वं च न एष च मा हिंसिष्टमित्येवमेतदाह नतरां हि विदित आमन्त्रितो हिनस्ति॥
नमो हिरण्यबाहवे॥
सेनान्ये दिशां च पतये नम इत्येष एव हिरण्यबाहुः सेनानीरेष दिशाम् पतिस्तद्यत्किं चात्रैकदेवत्यमेतमेव तेन प्रीणाति क्षत्रमेव तद्विश्यपिभागं करोति तस्माद्यद्विशस्तस्मिन्क्षत्रियो ऽपिभागो ऽथ या असङ्ख्याता सहस्राणीमांलोकाननुप्राविशन्नेतास्ता देवता याभ्य एतज्जुहोति॥
अथ जातेभ्यो जुहोति॥
एतानि ह जातान्येते रुद्रा अनुप्रविविशुर्यत्र यत्रैते तदेवैनानेतत्प्रीणात्यथो एवं हैतानि रुद्राणां जातानि देवानां वै विधामनु मनुष्यास्तस्मादु हेमानि मनुष्याणां जातानि यथाजातमेवैनानेतत्प्रीणाति॥
तेषां वा उभयतोनमस्कारा अन्ये॥
ऽन्यतरतोनमस्कारा अन्ये ते ह ते घोरतरा अशान्ततरा य उभयतोनमस्कारा उभयत एवैनानेतद्यज्ञेन नमस्कारेण शमयति॥
स वा अशीत्यां च स्वाहाकरोति॥
प्रथमे चानुवाके ऽथाशीत्यामथाशीत्यां च यानि चोर्ध्वानि यजूंष्यावतानेभ्यो ऽन्नमशीतयो ऽन्नेनैवैनानेतत्प्रीणाति॥
अथैतानि यजूंषि जपति॥
नमो वः किरिकेभ्य इत्येतद्धास्य प्रतिज्ञाततमं धाम यथा प्रियो वा पुत्रो हृदयं वा तस्माद्यत्रैतस्माद्देवाछङ्केत तदेताभिर्व्याहृतिभिर्जुहुयादुप हैवैतस्य देवस्य प्रियं धाम गछति तथो हैनमेष देवो न हिनस्ति॥
नमो वः किरिकेभ्य इति॥
एते हीदं सर्वं कुर्वन्ति देवानां हृदयेभ्य इत्यग्निर्वायुरादित्य एतानि ह तानि देवानां हृदयानि नमो विचिन्वत्केभ्य इत्येते हीदं सर्वं विचिन्वन्ति नमो विक्षिणत्केभ्य इत्येते वै तं विक्षिणन्ति यं विचिक्षीषन्ति नम आनिर्हतेभ्य इत्येते ह्येभ्यो लोकेभ्यो ऽनिर्हताः॥
अथोत्ताराणि जपति॥
द्रापे अन्धसस्पत इत्येष वै द्रापिरेष वै तं द्रा पयति यं दिद्रापयिषत्यन्धसस्पत इति सोमस्य पत इत्येतद्दरिद्र नीललोहितेति नामानि चास्यैतानि रूपाणि च नामग्राहमेवैनमेतत्प्रीणात्यासाम् प्रजानामेषाम् पशूनाम् मा भेर्मा रोङ्नो च नः किं चनाममदिति यथैव यजुस्तथा बन्धुः॥
स एष क्षत्रं देवः॥
तस्मा एतस्मै क्षत्रायैता विशो ऽमुम् पुरस्तादुद्धारमुदहरन्यो ऽसौ प्रथमो ऽनुवाको ऽथास्मा एतमुपरिष्टादुद्धारमुदहरंस्तेनैनमप्रीणंस्तथैवास्मा अयमेतमुपरिष्टादुद्धारमुद्धरति तेनैनम् प्रीणाति तस्मादप्येष एकदेवत्यो भवति रौद्र एवैतं ह्येवैतेनप्रीणाति॥
सप्तैतानि यजूंषि भवन्ति॥
सप्तचितिको ऽग्निः सप्त ऽर्तवः संवत्सरः संवत्सरो ऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनमेतदन्नेन प्रीणाति तान्युभयान्येकविंशतिः सम्पद्यन्ते द्वादश मासाः पञ्च ऽर्तवस्त्रय इमे लोका असावादित्य एकविंश एतामभिसम्पदम्॥
अथावतानान्जुहोति॥
एतद्वा एनान्देवा एतेनान्नेन प्रीत्वाथैषामेतैरवतानैर्धनूंष्यवातन्वंस्तथैवैनानयमेतदेतेनान्नेन प्रीत्वाथैषामेतैरवतानैर्धनूंष्यवतनोति न ह्यवततेन धनुषा कं चन हिनस्ति॥
तद्वै सहस्रयोजन इति॥
एतद्ध परमं दूरं यत्सहस्रयोजनं तद्यदेव परमं दूरं तदेवैषामेतद्धनूंष्यवतनोति॥
यद्वेवाह सहस्रयोजन इति॥
अयमग्निः सहस्रयोजनं न ह्येतस्मादिति नेत्यन्यत्परमस्ति तद्यदग्नौ जुहोति तदेवैषां सहस्रयोजने धनूंष्यवतनोति॥
असङ्ख्याता सहस्राणि॥
अस्मिन्न्महत्यर्णव इति यत्र-यत्र ते तदेवैषामेतद्धनूंष्यवतनोति॥
दशैतानवतानान्जुहोति॥
दशाक्षरा विराड्विराडग्निर्दश दिशो दिशो ऽग्निर्दश प्राणाः प्राणा अग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैषामेतद्धनूंष्यवतनोति॥
अथ प्रत्यवरोहान्जुहोति॥
एतद्वा एतदिमांलोकानित ऊर्ध्वो रोहति स स पराङिव रोह इयमु वै प्रतिष्ठा ते देवा इमाम् प्रतिष्ठामभिप्रत्यायंस्तथैवैतद्यजमाव इमाम् प्रतिष्ठामभिप्रत्यैति॥
यद्वेव प्रत्यवरोहति॥
एतद्वा एनानेतत्प्रीणन्नन्ववैति तत एवैतदात्मानमपोद्धरते जावात्वै तथा हानेनात्मना सर्वमायुरेति॥
यद्वेव प्रत्यवरोहति॥
एतद्वा एतदेतान्रुद्रानित ऊर्ध्वान्प्रीणाति तान्पुनरमुतो ऽर्वाचः॥
ननो ऽस्तु रुद्रेभ्यो ये दिवीति॥
तद्ये ऽमुष्मिंलोके रुद्रास्तेभ्य एतन्नमस्करोति येषां वर्षमिषव इति वर्षं ह तेषामिषवा वर्षेण ह ते हिंसन्ति यं जिहिंसिषन्ति॥
नमो ऽस्तु रुद्रेभ्यो ये ऽन्तरिक्ष इति॥
तद्ये ऽन्तरिक्षलोके रुद्रास्तेभ्य एतन्नमस्करोति येषां वात इषव इति वातो ह तेषामिषवो वातेन ह ते हिंसन्ति यं जिहिंसिषन्ति॥
नमो ऽस्तु रुद्रेभ्यो ये पृथिव्यामिति॥
तद्ये ऽस्मिंलोके रुद्रास्तेभ्य एतन्नमस्करोति येषामन्नमिषव इत्यन्नं ह तेषामिषवो ऽन्नेन ह ते हिंसन्ति यं जिहिंसिषन्ति॥
तेभ्यो दश प्राचीः॥
दश दक्षिणा दश प्रतीचीर्दशोदीचीर्दशोर्ध्वा इति दशाक्षरा विराड्विराडग्निर्दश दिशो दिशो ऽग्निर्दश प्राणाः प्राणा अग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनानेतदन्नेन प्रीणाति॥
यद्वेवाह दश-दशेति॥
दश वा अञ्जलेरङ्गुलयो दिशि-दिश्येवैभ्य एतदञ्जलिं करोति तस्मादु हैतद्भीतो ऽञ्जलिं करोति तेभ्यो नमो अस्त्विति तेभ्य एव नमस्करोति ते नो मृडयन्त्विति त एवास्मै मृडयन्ति ते यं द्विष्मो यश्च नो द्वेष्टि तमेषां जम्भे दध्म इति यमेव द्वेष्टि यश्चैनं द्वेष्टि तमेषां जम्भे दधात्यमुमेषां जम्भे दधामीति ह ब्रूयाद्यं द्विष्यात्ततो ऽह तस्मिन्न पुनरस्त्यपि तन्नाद्रियेत स्वयन्निर्दिष्टो ह्येव स यमेवंविद्द्वेष्टि॥
त्रिष्कृत्वः प्रत्यवरोहति॥
त्रिवृदग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनानेतदन्नेन प्रीणाति स्वाहाकारेणान्नं वै स्वाहाकारो ऽन्नेनैवैनानेतत्प्रीणाति त्रिरिति ऊर्ध्वो रोहति तत्षट् तस्योक्तो बन्धुः॥
यद्वेव त्रिष्कृत्वः प्रत्यवरोहति॥
त्रिर्हि कृत्व ऊर्ध्वो रोहति तद्यावत्कृत्व ऊर्ध्वो रोहति तावत्कृत्वः प्रत्यवरोहति॥
अथ तदर्कपर्णं चात्वाले प्रास्यति॥
एतद्वा एनेनैतद्रौद्रं कर्म करोति तदेतदशान्तं तदेतत्तिरः करोति नेदिदमशान्तं कश्चिदभितिष्ठात्तन्नेन्द्धिनसदिति तस्माच्चात्वाले यद्वेव चात्वाले ऽग्निरेष यच्चात्वालस्तथो हैनदेषो ऽग्निः सन्दहत्यथातः सम्पदेव॥
तदाहुः॥
कथमस्यैतछतरुद्रियं संवत्सरमग्निमाप्नोति कथं संवत्सरेणाग्निना सम्पद्यत इति षष्टिश्च ह वै त्रीणि च शतान्येतछतरुद्रियमथ त्रिंशदथ पञ्चत्रिंशत्ततो यानि षष्टिश्च त्रीणि च शतानि तावन्ति संवत्सरस्याहानि तत्संवत्सरस्याहान्याप्नोत्यथ यानि त्रिंशत्त्रंशन्मासस्य रात्रयस्तन्मासस्य रात्रीराप्नोति तदुभयानि संवत्सरस्याहोरात्राण्याप्नोत्यथ यानि पञ्चत्रिंशत्स त्रयोदशो मासः स आत्मा त्रिंशदात्मा प्रतिष्ठा द्वे प्राणा द्वे शिर एव पञ्चत्रिंशमेतावान्वै संवत्सर एवमु हास्यैतछतरुद्रियं संवत्सरमग्निमाप्नोत्येवं संवत्सरेणाग्निना सम्पद्यत एतावत्स उ वै शाण्डिले ऽग्नौ मध्यतो यजुष्मत्य इष्टका उपधीयन्ते ऽग्नयो हैते पृथग्यदेता इष्टका एवमु हास्यैते ऽग्नयः पृथक्शतरुद्रियेणाभिहुता भवन्ति॥
तदाहुः॥
कथमस्यैतछतरुद्रियम् महदुक्थमाप्नोति कथम् महतोक्थेन सम्पद्यत इति यान्यमूनि पञ्चविंशतिर्यजूंष्यभितो ऽशीतीः स पञ्चविंश आत्मा यत्र वा आत्मा तदेव शिरस्तत्पक्षपुछान्यथ या अशीतयः सैवाशीतीनामाप्तिरशीतिभिर्हि महदुक्थमाख्यायते ऽथ यदूर्ध्वमशीतिभ्यो यदेवादो महत उक्थस्योर्ध्वमशीतिभ्य एतदस्य तदेवमु हास्यैतछतरुद्रियम् महदुक्थमाप्नोत्येवम् महतोक्थेन सम्पद्यते॥
अथैनमतः परिषिश्चति॥
एतद्वा एनं देवाः शतरुद्रियेण शमयित्वाथैनमेतद्भूय एवाशमयंस्तथैवैनमेवमेतछतरुद्रियेण शमयित्वाथैनमेतद्भूय एव शमयति॥
अद्भिः परिषिञ्चति॥
शान्तिर्वा आपः शमयत्येवैनमेतत्सर्वतः परिषिञ्चति सर्वत एवैनमेतछमयति त्रिष्कृत्वः परिषिञ्चति त्रिवृदग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनमेतछमयति॥
यद्वेवैनम् परिषिञ्चति॥
इमे वै लोका एषो ऽग्निरिमांस्तल्लोकानद्भिः परितनोति समुद्रेण हैनांस्तत्परितनोति सर्वतस्तस्मादिमांलोकान्त्सर्वतः समुद्रः पर्येति दक्षिणावृत्तस्मादिमांलोकान्दक्षिणावृत्समुद्रः पर्येति॥
अग्नीत्परिषिञ्चति॥
अग्निरेष यदाग्नीध्रो नो वा आत्मात्मानं हिनस्त्यहिंसाया अश्मनो ऽध्यश्मनो ह्यापः प्रभवन्ति निकक्षान्निकक्षाद्ध्यापः प्रभवन्ति दक्षिणान्निकक्षाद्दक्षिणाद्धि निकक्षादापः प्रभवन्ति॥
अश्मन्नूर्जम् पर्वते शिश्रियाणामिति॥
अश्मनि वा एषोर्क्पर्वतेषु श्रिता यदापो ऽद्भ्य ओषधीभ्यो वनस्पतिभ्यो अधि सम्भृतम् पय इत्येतस्माद्ध्येतत्सर्वस्मादधि सम्भृतम् पयस्तां न इषमूर्जं धत्त मरुतः संरराणा इति मरुतो वै वर्षस्येशते ऽश्मंस्ते क्षुदिति निदधाति तदश्मनि क्षुधं दधाति तस्मादश्मानाद्यो ऽथो स्थिरो वा अश्मा स्थिरा क्षुत्स्थिर एव तत्स्थिरं दधाति मयि त ऊर्गित्यपादत्ते तदात्मन्नूर्जं धत्ते तथा द्वितीयं तथा तृतीयम्॥
निधायोदहरणं त्रिर्विपल्ययते॥
एतद्वा एनमेतल्लघूयतीव यदेनं समन्तम् पर्येति तस्मा एवैतन्निह्नुते ऽहिंसायै॥
यद्वेव विपल्ययते॥
एतद्वा एनमेतदन्ववैति तत एवैतदात्मानमपोद्धरते जीवात्वै तथो हानेनात्मना सर्वमायुरेति॥
त्रिर्विपल्ययते॥
त्रिर्हि कृत्वः पर्येति तद्यावत्कृत्वः पर्येति तावत्कृत्वो विपल्ययते॥
अथ तमश्मानमुदहरणे ऽवधाय॥
एतां दिशं हरन्त्येषा वै नैरृती दिङ्नैरृत्यामेव तद्दिशि शुचं दधाति॥
एतद्वा एनं देवाः॥
शतरुद्रियेण चाद्भिश्च शमयित्वाथास्यैतेन शुचम् पाप्मानमपाघ्नंस्तथैवैनमयमेतछतरुद्रियेण चाद्भिश्च शमयित्वाथास्यैतेन शुचम् पाप्मानमपहन्ति॥
बाह्येनाग्निं हरति॥
इमे वै लोका एषो ऽग्निरेभ्यस्तल्लोकेभ्यो बहिर्धा शुचं दधाति बहिर्वेदीयं वै वेदिरस्यै तद्बहिर्धा शुचं दधाति॥
स वेदेर्दक्षिणायां श्रोणौ॥
प्राङ् तिष्ठन्दक्षिणा निरस्यति यं द्विष्मस्तं ते शुगृछत्विति यमेव द्वेष्टि तमस्य शुगृछत्यमुं ते शुगृछत्विति ह ब्रूयाद्यं द्विष्यात्ततो ह तस्मिन्न पुनरस्त्यपि तन्नाद्रियेत स्वयन्निर्दिष्टो ह्येव स यमेवंविद्द्वेष्टि यदि न भिद्येत भित्तवै ब्रूयाद्यदा ह्येव स भिद्यते ऽथ तं शुगृछति यं द्वेष्ट्यप्रतीक्षमायन्त्यप्रतीक्षमेव तछुचम् पाप्मानं जहति॥
प्रत्येत्येष्टका धेनूः कुरुते॥
एतद्वा एनं देवाः शतरुद्रियेण चाद्भिश्च शमयित्वा शुचमस्य पाप्मानमपहत्य प्रत्येत्येष्टका धेनूरकुर्वत तथैवैनमयमेतछतरुद्रियेण चाद्भिश्च शमयित्वा शुचमस्य पाप्मानमपहत्य प्रत्येत्येष्टका धेनूः कुरुते॥
आसीनः कुर्वीतेत्यु हैक आहुः॥
आसीनो वै धेनुं दोग्धीति तिष्ठंस्त्वेव कुर्वीतेमे वै लोका एषो ऽग्निस्तिष्ठन्तीव वा इमे लोका अथो तिष्ठन्वै वीर्यवत्तरः॥
उदङ् प्राङ् तिष्ठन्॥
पुरस्ताद्वा एषा प्रतीची यजमानं धेनुरुपतिष्ठते दक्षिणतो वै प्रतीचीं धेनुं तिष्ठन्तीसुपसीदन्ति॥
स यत्राभ्याप्नोति॥
तदभिमृश्यैतद्यजुर्जपतीमा मे अग्न इष्टका धेनवः सन्त्वित्यग्निर्हैतासां धेनुकरणस्येष्टे तस्मादेतावतीनां देवतानामग्निमेवामन्त्रयत एका च दश चान्तश्च परार्धश्चेत्येष हावरार्ध्यो भूमा यदेका च दश चाथ हैष परार्ध्यो भूमा यदन्तश्च परार्धश्चावरार्धतश्चैवैना एतत्परार्धतश्च परिगृह्य देवा धेनूरुकुर्वत तथैवैना अयमेतदवरार्धतश्चैव परार्धतश्च परिगृह्य धेनूः कुरुते तस्मादपि नाद्रियेत बह्वीः कर्तुममुत्र वा एष एता ब्रह्मणा यजुषा बह्वीः कुरुते ऽथ यत्सन्तनोति कामानेव तत्सन्तनोति॥
यद्वेवेष्टका धेनूः कुरुते॥
वाग्वा अयमग्निर्वाचा हि चितः स यदाहैका च दश चान्तश्च परार्धश्चेति वाग्वा एका वाग्दश वागन्तो वाक्परार्धो वाचमेव तद्देवा धेनुमकुर्वत तथैवैतद्यजमानो वाचमेव धेनुं कुरुते ऽथ यत्सन्तनोति वाचमेव तत्सन्तनोत्येता मे अग्न इष्टका धेनवः सन्त्वमुत्रामुष्मिंलोक इत्येतद्वा एना अस्मिंलोके धेनूः कुरुते ऽथैना एतदमुष्मिंलोके धेनूः कुरुते तथो हैनमेता उभयोर्लोकयोर्भुञ्जन्त्यस्मिंश्चामुष्मिंश्च॥
ऋतव स्थेति॥
ऋतवो ह्येता ऋतावृध इति सत्यवृध इत्येतदृतुष्वा स्थ ऋतावृध इत्यहोरात्राणि वा इष्टका ऋतुषु वा अहोरात्राणि तिष्ठन्ति घृतश्चुतो मधुश्चुत इति तदेना घृतश्चुतश्च मधुश्चुतश्च कुरुते॥
विराजो नामेति॥
एतद्वै देवा एता इष्टका नामभिरुपाह्वयन्ति यथा-यथैना एतदाचक्षते ता एनानभ्युपावर्तन्ताथ लोकम्पृणा एव पराच्यस्तस्थुरहितनाम्न्यो निमेमिहत्यस्ता विराजो नामाकुर्वत ता एनानभ्युपावर्तन्त तस्माद्दश-दशेष्टका उपधाय लोकम्पृणयाभिमन्त्रयते तदेना विरावः कुरुते दशाक्षरा हि विराट् कामदुधा अक्षीयमाणा इति तदेनाः कामदुधा अक्षीयमाणाः कुरुते॥
अथैनं विकर्षति॥
मण्डूकेनावकया वेतसशाखयैतद्वा एनं देवाः शतरुद्रियेण चाद्भिश्च शमयित्वा शुचमस्य पाप्मानमपहत्याथैनमेतद्भूय एवाशमयंस्तथैवैनमयमेतछतरुद्रियेण चाद्भिश्च शमयित्वा शुचमस्य पाप्मानमहत्याथैनमेतद्भूय एव शमयति सर्वतो विकर्षति सर्वत एवैनमेतछमयति॥
यद्वेवैनं विकर्षति॥
एतद्वै यत्रैतम् प्राणा ऋषयो ऽग्रे ऽग्निं समस्कुर्वंस्तमद्भिरवोक्षंस्ता आपः समस्कन्दंस्ते मण्डूका अभवन्॥
ताः प्रजापतिमब्रुवन्॥
यद्वै नः कमभूदवाक्तदगादिति सो ऽब्रवीदेष व एतस्य वनस्पतिर्वेत्त्विति वेत्तु संवेत्तु सो ऽह वै तं वेतस इत्याचक्षते परो ऽक्षम् परो ऽक्षकामा हि देवा अथ यदब्रुवन्नवाङ्तः कमगादिति ता अवाक्का अभवन्नवाक्का ह वै ता अवका इत्याचक्षते परो ऽक्षम् परो ऽक्षकामा हि देवास्ता हैतास्त्रय्य आपो यन्मण्डूको ऽवका वेतसशाखैताभिरेवैनमेतत्त्रयीभिरद्भिः शमयति॥
यद्वेवैनं विकर्षति॥
जायत एष एतद्यच्चीयते स एष सर्वस्मा अन्नाय जायते सर्वम्वेतदन्नं यन्मण्डूको ऽवका वेतसशाखा पशवश्च ह्येता आपश्च वनस्पतयश्च सर्वेणै वैनमेतदन्नेन प्रीणाति॥
मण्डूकेन पशूनाम्॥
तस्मान्मण्डूकः पशूनामनुपजीवनीयतमो यातयामा हि सो ऽवकाभिरपां तस्मादवका अपामनुपजीवनीयतमा यातयाम्न्यो हि ता वेतसेन वनस्पतीनां तस्माद्वेतसो वनस्पतीनामनुपजीवनीयतमो यातयामा हि सः॥
तानि वंशे प्रबध्य॥
दक्षिणार्धेनाग्नेरन्तरेण परिश्रितः प्रागग्रे विकर्षति समुद्रस्य त्वावकयाग्ने परिव्ययामसि पावको अस्मभ्यं शिवो भवेति समुद्रियाभिस्त्वाद्भिः शमयाम इत्येतत्॥
अथ जघनार्धेनोदक्॥
हिमस्य त्वा जरायुणाग्ने परिव्ययामसि पावको अस्मभ्यं शिवो भवेति यद्वै शीतस्य प्रशीतं तद्धिमस्य जरायु शीतस्य त्वा प्रशीतेन शमयाम इत्येतत्॥
अथोत्तरार्धेन प्राक्॥
उप ज्मन्नुप वेतसे ऽवतर नदीष्वा अग्ने पित्तमपामसि मण्डूकि ताभिरागहि सेमं नो यज्ञम् पावकवर्णं शिवं कृधीति यथैव यजुस्तथा बन्धुः॥
अथ पूर्वार्धेन दक्षिणा॥
अपामिदं न्ययनं समुद्रस्य निवेशनम् अन्यांस्ते अस्मत्तपन्तु हेतयः पावको अस्मभ्यं शिवो भवेति यथैव यजुस्तथा बन्धुरित्यग्रे विकर्षत्यथेति अथेत्यथेति तद्दक्षिणावृत्तद्धि देवत्रा॥
आत्मानमग्रे विकर्षति॥
आत्मा ह्येवाग्रे सम्भवतः सम्भवत्यथ दक्षिणम् पक्षमथ पुछमथोत्तरं तद्दक्षिणावृत्तद्धि देवत्रा॥
अभ्यात्मम् पक्षपुछानि विकर्षति॥
अभ्यात्ममेव तछान्तिं धत्ते पुरस्तादर्वाक्परस्तादेव तदर्वाचीं शान्तिं धत्ते ऽग्ने पावक रोचिषेति दक्षिणम् पक्षं स नः पावक दीदिव इति पुछम् पावकया यश्चितयन्त्या कृपेत्युत्तरम् पावकम् पावकमिति यद्वै शिवं शान्तं तत्पावकं शमयत्येवैनमेतत्॥
सप्तभिर्विकर्षति॥
सप्तचितिको ऽग्निः सप्त ऽर्तवः संवत्सरः संवत्सरो ऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनमेतद्विकर्षति तं वंशमुत्करेन्यस्य॥
अथैनं सामभिः परिगायति॥
अत्रैष सर्वो ऽग्निः संस्कृतस्तस्मिन्देवा एतदमृतं रूपमुत्तममदधुस्तथैवास्मिन्नयमेतदमृतं रूपमुत्तमं दधाति सामानि भवन्ति प्राणा वै सामान्यमृतमु वै प्राणा अमृतमेवास्मिन्नेतद्रूपमुत्तमं दधाति सर्वतः परिगायति सर्वत एवास्मिन्नेतदमृतं रूपमुत्तमं दधाति॥
यद्वेवैनं सामभिः परिगायति॥
एतद्वै देवा अकामयन्तानस्थिकमिमममृतमात्मानं कुर्वीमहीति ते ऽब्रुवन्नुप तज्जानीत यथेममात्मानमनस्थिकममृतं करवामहा इति ते ऽब्रुवंश्चेतयध्वमिति चितिमिच्छतेति वाव तदब्रुवंस्तदिच्छत यथेममात्मानमनस्थिकममृतं करवामहा इति॥
ते चेतयमानाः॥
एतानि सामान्यपश्यंस्तैरेनम् पर्यगायंस्तैरेतमात्मानमनस्थिकममृतमकुर्वत तथैवैतद्यजमानो यदेनं सामभिः परिगायत्येतमेवैतदात्मानमनस्थिकममृतं कुरुते सर्वतः परिगायति सर्वत एवैतदेतमात्मानमनस्थिकममृतं कुरुते तिष्ठन्गायति तिष्ठन्तीव वा इमे लोका अथो तिष्ठन्वै वीर्यवत्तरो हिङ्कृत्य गायति तत्र हि सर्वं कृत्स्नं साम भवति॥
गायत्रम् पुरस्ताद्गायति॥
अग्निर्वै गायत्रमग्निमेवास्यैतछिरः करोत्यथो शिर एवास्यैतदनस्थिकममृतं करोति॥
रथन्तरं दक्षिणे पक्षे॥
इयं वै रथन्तरमियमु वा एषां लोकानां रसतमो ऽस्यां हीमे सर्वे रसा रसन्तमं ह वै तद्रथन्तरमित्याचक्षते परो ऽक्षम् परो ऽक्षकामा हि देवा इमामेवास्यैतद्दक्षिणम् पक्षं करोत्यथो दक्षिणमेवास्यैतत्पक्षमनस्थिकममृतं करोति॥
बृहदुत्तरे पक्षे॥
द्यौर्वै बृहद्द्यौर्हि बर्हिष्ठा दिवमेवास्यैतदुत्तरम् पक्षं करोत्यथो उत्तरमेवास्यैतत्पक्षमनस्थिकममृतं करोति॥
वामदेव्यमात्मन्॥
प्राणो वै वामदेव्यं वायुरु प्राणः सर्वेषामु हैष देवानामात्मा यद्वायुर्वायुमेवास्यैतदात्मानं करोत्यथो आत्मानमेवास्यैतदनस्थिकममृतं करोति॥
यज्ञायज्ञियम् पुछम्॥
चन्द्रमा वै यज्ञायज्ञियं यो हि कश्च यज्ञः सन्तिष्ठत एतमेव तस्याहुतीनां रसो ऽप्येति तद्यदेतं यज्ञो-यज्ञो ऽप्येति तस्माच्चन्द्रमा यज्ञायज्ञियं चन्द्रमसमेवास्यैतत्पुछं करोत्यथो पुछमेवास्यैतदनस्थिकममृतं करोति॥
अथ प्रजापतेर्हृदयं गायति॥
असौ वा आदित्यो हृदयं श्लक्ष्ण एष श्लक्ष्णं हृदयम् परिमण्डल एष परिमण्डलं हृदयमात्मन्गायत्यात्मन्हि हृदयं निकक्षे निकक्षे हि हृदयं दक्षिणे निकक्षे ऽतो हि हृदयं नेदीय आदित्यमेवास्यैतद्धृदयं करोत्यथो हृदयमेवास्यैतदनस्थिकममृतं करोति॥
प्रजासु च प्रजापतौ च गायति॥
तद्यत्प्रजासु गायति तत्प्रजासु हृदयं दधात्यथ यत्प्रजापतौ गायति तदग्नौ हृदयं दधाति॥
यद्वेव प्रजासु च प्रजापतौ च गायति॥
अयं वा अग्निः प्रजाश्च प्रजापतिश्च तद्यदग्नौ गायति तदेव प्रजासु च प्रजापतौ च हृदयं दधाति॥
ता हैता अमृतेष्टकाः॥
ताउत्तमा उपदधात्यमृतं तदस्य सर्वस्योत्तमं दधाति तस्मादस्य सर्वस्यामृतमुत्तमं नान्यो ऽध्वर्योर्गायेदिष्टका वा एता विचितो ह स्याद्यदन्यो ऽध्वर्योर्गायेत्॥